Sūkta 14
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Anuṣṭubh, Śakvarī
Metres by ṛk
1st set of styles bhuriguṣṇik (1, 3); nicṛttriṣṭup (2); anuṣṭup (4); virāḍanuṣṭup (5); bhurigatijagatī (6)
2nd set of styles anuṣṭubh (1-5); śakvarī (6)
-
Ṛk 1
अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं॑ जु॒जोष॑ धी॒तिभिः॑ ।
भस॒न्नु ष प्र पू॒र्व्य इषं॑ वुरी॒ताव॑से ॥अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः |
भसन् नु ष प्र पूर्व्य इषं वुरीतावसे ||agnā́ yó mártyo dúvo dhíyam jujóṣa dhītíbhiḥ ǀ
bhásannú ṣá prá pūrvyá íṣam vurītā́vase ǁagnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ |
bhasan nu ṣa pra pūrvya iṣaṃ vurītāvase ||अ॒ग्ना । यः । मर्त्यः॑ । दुवः॑ । धिय॑म् । जु॒जोष॑ । धी॒तिऽभिः॑ ।
भस॑त् । नु । सः । प्र । पू॒र्व्यः । इष॑म् । वु॒री॒त॒ । अव॑से ॥अग्ना । यः । मर्त्यः । दुवः । धियम् । जुजोष । धीतिऽभिः ।
भसत् । नु । सः । प्र । पूर्व्यः । इषम् । वुरीत । अवसे ॥agnā́ ǀ yáḥ ǀ mártyaḥ ǀ dúvaḥ ǀ dhíyam ǀ jujóṣa ǀ dhītí-bhiḥ ǀ
bhásat ǀ nú ǀ sáḥ ǀ prá ǀ pūrvyáḥ ǀ íṣam ǀ vurīta ǀ ávase ǁagnā ǀ yaḥ ǀ martyaḥ ǀ duvaḥ ǀ dhiyam ǀ jujoṣa ǀ dhīti-bhiḥ ǀ
bhasat ǀ nu ǀ saḥ ǀ pra ǀ pūrvyaḥ ǀ iṣam ǀ vurīta ǀ avase ǁ6.14.1 Aṣṭaka 4.5.16.1Anuvāka 6.1.101
-
Ṛk 2
अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑ ।
अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ॥अग्निर् इद् धि प्रचेता अग्निर् वेधस्तम ऋषिः |
अग्निं होतारम् ईऌअते यज्ञेषु मनुषो विशः ||agníríddhí prácetā agnírvedhástama ṛ́ṣiḥ ǀ
agním hótāramīḷate yajñéṣu mánuṣo víśaḥ ǁagnir id dhi pracetā agnir vedhastama ṛṣiḥ |
agniṃ hotāram īḷate yajñeṣu manuṣo viśaḥ ||अ॒ग्निः । इत् । हि । प्रऽचे॑ताः । अ॒ग्निः । वे॒धःऽत॑मः । ऋषिः॑ ।
अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । य॒ज्ञेषु॑ । मनु॑षः । विशः॑ ॥अग्निः । इत् । हि । प्रऽचेताः । अग्निः । वेधःऽतमः । ऋषिः ।
अग्निम् । होतारम् । ईळते । यज्ञेषु । मनुषः । विशः ॥agníḥ ǀ ít ǀ hí ǀ prá-cetāḥ ǀ agníḥ ǀ vedháḥ-tamaḥ ǀ ṛ́ṣiḥ ǀ
agním ǀ hótāram ǀ īḷate ǀ yajñéṣu ǀ mánuṣaḥ ǀ víśaḥ ǁagniḥ ǀ it ǀ hi ǀ pra-cetāḥ ǀ agniḥ ǀ vedhaḥ-tamaḥ ǀ ṛṣiḥ ǀ
agnim ǀ hotāram ǀ īḷate ǀ yajñeṣu ǀ manuṣaḥ ǀ viśaḥ ǁ6.14.2 Aṣṭaka 4.5.16.2Anuvāka 6.1.102
-
Ṛk 3
नाना॒ ह्य१॒॑ग्नेऽव॑से॒ स्पर्धं॑ते॒ रायो॑ अ॒र्यः ।
तूर्वं॑तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्षं॑तो अव्र॒तं ॥नाना ह्य् अग्ने ऽवसे स्पर्धन्ते रायो अर्यः |
तूर्वन्तो दस्युम् आयवो व्रतैः सीक्षन्तो अव्रतम् ||nā́nā hyágné’vase spárdhante rā́yo aryáḥ ǀ
tū́rvanto dásyumāyávo vratáiḥ sī́kṣanto avratám ǁnānā hy agne 'vase spardhante rāyo aryaḥ |
tūrvanto dasyum āyavo vrataiḥ sīkṣanto avratam ||नाना॑ । हि । अ॒ग्ने॒ । अव॑से । स्पर्ध॑न्ते । रायः॑ । अ॒र्यः ।
तूर्व॑न्तः । दस्यु॑म् । आ॒यवः॑ । व्र॒तैः । सीक्ष॑न्तः । अ॒व्र॒तम् ॥नाना । हि । अग्ने । अवसे । स्पर्धन्ते । रायः । अर्यः ।
तूर्वन्तः । दस्युम् । आयवः । व्रतैः । सीक्षन्तः । अव्रतम् ॥nā́nā ǀ hí ǀ agne ǀ ávase ǀ spárdhante ǀ rā́yaḥ ǀ aryáḥ ǀ
tū́rvantaḥ ǀ dásyum ǀ āyávaḥ ǀ vratáiḥ ǀ sī́kṣantaḥ ǀ avratám ǁnānā ǀ hi ǀ agne ǀ avase ǀ spardhante ǀ rāyaḥ ǀ aryaḥ ǀ
tūrvantaḥ ǀ dasyum ǀ āyavaḥ ǀ vrataiḥ ǀ sīkṣantaḥ ǀ avratam ǁ6.14.3 Aṣṭaka 4.5.16.3Anuvāka 6.1.103
-
Ṛk 4
अ॒ग्निर॒प्सामृ॑ती॒षहं॑ वी॒रं द॑दाति॒ सत्प॑तिं ।
यस्य॒ त्रसं॑ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ॥अग्निर् अप्साम् ऋतीषहं वीरं ददाति सत्पतिम् |
यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ||agnírapsā́mṛtīṣáham vīrám dadāti sátpatim ǀ
yásya trásanti śávasaḥ saṃcákṣi śátravo bhiyā́ ǁagnir apsām ṛtīṣahaṃ vīraṃ dadāti satpatim |
yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā ||अ॒ग्निः । अ॒प्साम् । ऋ॒ति॒ऽसह॑म् । वी॒रम् । द॒दा॒ति॒ । सत्ऽप॑तिम् ।
यस्य॑ । त्रस॑न्ति । शव॑सः । स॒म्ऽचक्षि॑ । शत्र॑वः । भि॒या ॥अग्निः । अप्साम् । ऋतिऽसहम् । वीरम् । ददाति । सत्ऽपतिम् ।
यस्य । त्रसन्ति । शवसः । सम्ऽचक्षि । शत्रवः । भिया ॥agníḥ ǀ apsā́m ǀ ṛti-sáham ǀ vīrám ǀ dadāti ǀ sát-patim ǀ
yásya ǀ trásanti ǀ śávasaḥ ǀ sam-cákṣi ǀ śátravaḥ ǀ bhiyā́ ǁagniḥ ǀ apsām ǀ ṛti-saham ǀ vīram ǀ dadāti ǀ sat-patim ǀ
yasya ǀ trasanti ǀ śavasaḥ ǀ sam-cakṣi ǀ śatravaḥ ǀ bhiyā ǁ6.14.4 Aṣṭaka 4.5.16.4Anuvāka 6.1.104
-
Ṛk 5
अ॒ग्निर्हि वि॒द्मना॑ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ ।
स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ॥अग्निर् हि विद्मना निदो देवो मर्तम् उरुष्यति |
सहावा यस्यावृतो रयिर् वाजेष्व् अवृतः ||agnírhí vidmánā nidó devó mártamuruṣyáti ǀ
sahā́vā yásyā́vṛto rayírvā́jeṣvávṛtaḥ ǁagnir hi vidmanā nido devo martam uruṣyati |
sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ ||अ॒ग्निः । हि । वि॒द्मना॑ । नि॒दः । दे॒वः । मर्त॑म् । उ॒रु॒ष्यति॑ ।
स॒हऽवा॑ । यस्य॑ । अवृ॑तः । र॒यिः । वाजे॑षु । अवृ॑तः ॥अग्निः । हि । विद्मना । निदः । देवः । मर्तम् । उरुष्यति ।
सहऽवा । यस्य । अवृतः । रयिः । वाजेषु । अवृतः ॥agníḥ ǀ hí ǀ vidmánā ǀ nidáḥ ǀ deváḥ ǀ mártam ǀ uruṣyáti ǀ
sahá-vā ǀ yásya ǀ ávṛtaḥ ǀ rayíḥ ǀ vā́jeṣu ǀ ávṛtaḥ ǁagniḥ ǀ hi ǀ vidmanā ǀ nidaḥ ǀ devaḥ ǀ martam ǀ uruṣyati ǀ
saha-vā ǀ yasya ǀ avṛtaḥ ǀ rayiḥ ǀ vājeṣu ǀ avṛtaḥ ǁ6.14.5 Aṣṭaka 4.5.16.5Anuvāka 6.1.105
-
Ṛk 6
अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः ।
वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄंद्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः |
वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ||ácchā no mitramaho deva devā́nágne vócaḥ sumatím ródasyoḥ ǀ
vīhí svastím sukṣitím divó nṝ́ndviṣó áṃhāṃsi duritā́ tarema tā́ tarema távā́vasā tarema ǁacchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ |
vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema ||अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः ।
वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥अच्छ । नः । मित्रऽमहः । देव । देवान् । अग्ने । वोचः । सुऽमतिम् । रोदस्योः ।
वीहि । स्वस्तिम् । सुऽक्षितिम् । दिवः । नॄन् । द्विषः । अंहांसि । दुःऽइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥áccha ǀ naḥ ǀ mitra-mahaḥ ǀ deva ǀ devā́n ǀ ágne ǀ vócaḥ ǀ su-matím ǀ ródasyoḥ ǀ
vīhí ǀ svastím ǀ su-kṣitím ǀ diváḥ ǀ nṝ́n ǀ dviṣáḥ ǀ áṃhāṃsi ǀ duḥ-itā́ ǀ tarema ǀ tā́ ǀ tarema ǀ táva ǀ ávasā ǀ tarema ǁaccha ǀ naḥ ǀ mitra-mahaḥ ǀ deva ǀ devān ǀ agne ǀ vocaḥ ǀ su-matim ǀ rodasyoḥ ǀ
vīhi ǀ svastim ǀ su-kṣitim ǀ divaḥ ǀ nṝn ǀ dviṣaḥ ǀ aṃhāṃsi ǀ duḥ-itā ǀ tarema ǀ tā ǀ tarema ǀ tava ǀ avasā ǀ tarema ǁ6.14.6 Aṣṭaka 4.5.16.6Anuvāka 6.1.106
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.