Sūkta 16
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Vardhamānā, Triṣṭubh
Metres by ṛk
1st set of styles nicṛdgāyatrī (2-5, 8, 9, 11, 13-15, 17, 18, 21, 24, 25, 28, 32, 40); gāyatrī (10, 19, 20, 22, 23, 29, 31, 34-39, 41); sāmnītriṣṭup (12, 16, 33, 42, 44); ārcyuṣṇik (1, 6, 7); virāḍgāyatrī (26, 30); nicṛttriṣṭup (43, 45); nicṛdanuṣṭup (47, 48); ārcīpaṅkti (27); bhurikpaṅkti (46)
2nd set of styles gāyatrī (2-5, 7-26, 28-45); anuṣṭubh (27, 47, 48); vardhamānā (1, 6); triṣṭubh (46)
-
Ṛk 1
त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः ।
दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥त्वम् अग्ने यज्ञानां होता विश्वेषां हितः |
देवेभिर् मानुषे जने ||tvámagne yajñā́nām hótā víśveṣām hitáḥ ǀ
devébhirmā́nuṣe jáne ǁtvam agne yajñānāṃ hotā viśveṣāṃ hitaḥ |
devebhir mānuṣe jane ||त्वम् । अ॒ग्ने॒ । य॒ज्ञाना॑म् । होता॑ । विश्वे॑षाम् । हि॒तः ।
दे॒वेभिः॑ । मानु॑षे । जने॑ ॥त्वम् । अग्ने । यज्ञानाम् । होता । विश्वेषाम् । हितः ।
देवेभिः । मानुषे । जने ॥tvám ǀ agne ǀ yajñā́nām ǀ hótā ǀ víśveṣām ǀ hitáḥ ǀ
devébhiḥ ǀ mā́nuṣe ǀ jáne ǁtvam ǀ agne ǀ yajñānām ǀ hotā ǀ viśveṣām ǀ hitaḥ ǀ
devebhiḥ ǀ mānuṣe ǀ jane ǁ6.16.1 Aṣṭaka 4.5.21.1Anuvāka 6.2.1
-
Ṛk 2
स नो॑ मं॒द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः ।
आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥स नो मन्द्राभिर् अध्वरे जिह्वाभिर् यजा महः |
आ देवान् वक्षि यक्षि च ||sá no mandrā́bhiradhvaré jihvā́bhiryajā maháḥ ǀ
ā́ devā́nvakṣi yákṣi ca ǁsa no mandrābhir adhvare jihvābhir yajā mahaḥ |
ā devān vakṣi yakṣi ca ||सः । नः॒ । म॒न्द्राभिः॑ । अ॒ध्व॒रे । जि॒ह्वाभिः॑ । य॒ज॒ । म॒हः ।
आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥सः । नः । मन्द्राभिः । अध्वरे । जिह्वाभिः । यज । महः ।
आ । देवान् । वक्षि । यक्षि । च ॥sáḥ ǀ naḥ ǀ mandrā́bhiḥ ǀ adhvaré ǀ jihvā́bhiḥ ǀ yaja ǀ maháḥ ǀ
ā́ ǀ devā́n ǀ vakṣi ǀ yákṣi ǀ ca ǁsaḥ ǀ naḥ ǀ mandrābhiḥ ǀ adhvare ǀ jihvābhiḥ ǀ yaja ǀ mahaḥ ǀ
ā ǀ devān ǀ vakṣi ǀ yakṣi ǀ ca ǁ6.16.2 Aṣṭaka 4.5.21.2Anuvāka 6.2.2
-
Ṛk 3
वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वांज॑सा ।
अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥वेत्था हि वेधो अध्वनः पथश् च देवाञ्जसा |
अग्ने यज्ञेषु सुक्रतो ||vétthā hí vedho ádhvanaḥ patháśca devā́ñjasā ǀ
ágne yajñéṣu sukrato ǁvetthā hi vedho adhvanaḥ pathaś ca devāñjasā |
agne yajñeṣu sukrato ||वेत्थ॑ । हि । वे॒धः॒ । अध्व॑नः । प॒थः । च॒ । दे॒व॒ । अञ्ज॑सा ।
अग्ने॑ । य॒ज्ञेषु॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥वेत्थ । हि । वेधः । अध्वनः । पथः । च । देव । अञ्जसा ।
अग्ने । यज्ञेषु । सुक्रतो इति सुऽक्रतो ॥véttha ǀ hí ǀ vedhaḥ ǀ ádhvanaḥ ǀ patháḥ ǀ ca ǀ deva ǀ áñjasā ǀ
ágne ǀ yajñéṣu ǀ sukrato íti su-krato ǁvettha ǀ hi ǀ vedhaḥ ǀ adhvanaḥ ǀ pathaḥ ǀ ca ǀ deva ǀ añjasā ǀ
agne ǀ yajñeṣu ǀ sukrato iti su-krato ǁ6.16.3 Aṣṭaka 4.5.21.3Anuvāka 6.2.3
-
Ṛk 4
त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नं ।
ई॒जे य॒ज्ञेषु॑ य॒ज्ञियं॑ ॥त्वाम् ईळे अध द्विता भरतो वाजिभिः शुनम् |
ईजे यज्ञेषु यज्ञियम् ||tvā́mīḷe ádha dvitā́ bharató vājíbhiḥ śunám ǀ
ījé yajñéṣu yajñíyam ǁtvām īḷe adha dvitā bharato vājibhiḥ śunam |
īje yajñeṣu yajñiyam ||त्वाम् । ई॒ळे॒ । अध॑ । द्वि॒ता । भ॒र॒तः । वा॒जिऽभिः॑ । शु॒नम् ।
ई॒जे । य॒ज्ञेषु॑ । य॒ज्ञिय॑म् ॥त्वाम् । ईळे । अध । द्विता । भरतः । वाजिऽभिः । शुनम् ।
ईजे । यज्ञेषु । यज्ञियम् ॥tvā́m ǀ īḷe ǀ ádha ǀ dvitā́ ǀ bharatáḥ ǀ vājí-bhiḥ ǀ śunám ǀ
ījé ǀ yajñéṣu ǀ yajñíyam ǁtvām ǀ īḷe ǀ adha ǀ dvitā ǀ bharataḥ ǀ vāji-bhiḥ ǀ śunam ǀ
īje ǀ yajñeṣu ǀ yajñiyam ǁ6.16.4 Aṣṭaka 4.5.21.4Anuvāka 6.2.4
-
Ṛk 5
त्वमि॒मा वार्या॑ पु॒रु दिवो॑दासाय सुन्व॒ते ।
भ॒रद्वा॑जाय दा॒शुषे॑ ॥त्वम् इमा वार्या पुरु दिवोदासाय सुन्वते |
भरद्वाजाय दाशुषे ||tvámimā́ vā́ryā purú dívodāsāya sunvaté ǀ
bharádvājāya dāśúṣe ǁtvam imā vāryā puru divodāsāya sunvate |
bharadvājāya dāśuṣe ||त्वम् । इ॒मा । वार्या॑ । पु॒रु । दिवः॑ऽदासाय । सु॒न्व॒ते ।
भ॒रत्ऽवा॑जाय । दा॒शुषे॑ ॥त्वम् । इमा । वार्या । पुरु । दिवःऽदासाय । सुन्वते ।
भरत्ऽवाजाय । दाशुषे ॥tvám ǀ imā́ ǀ vā́ryā ǀ purú ǀ dívaḥ-dāsāya ǀ sunvaté ǀ
bharát-vājāya ǀ dāśúṣe ǁtvam ǀ imā ǀ vāryā ǀ puru ǀ divaḥ-dāsāya ǀ sunvate ǀ
bharat-vājāya ǀ dāśuṣe ǁ6.16.5 Aṣṭaka 4.5.21.5Anuvāka 6.2.5
-
Ṛk 6
त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जनं॑ ।
शृ॒ण्वन्विप्र॑स्य सुष्टु॒तिं ॥त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् |
शृण्वन् विप्रस्य सुष्टुतिम् ||tvám dūtó ámartya ā́ vahā dáivyam jánam ǀ
śṛṇvánvíprasya suṣṭutím ǁtvaṃ dūto amartya ā vahā daivyaṃ janam |
śṛṇvan viprasya suṣṭutim ||त्वम् । दू॒तः । अम॑र्त्यः । आ । व॒ह॒ । दैव्य॑म् । जन॑म् ।
शृ॒ण्वन् । विप्र॑स्य । सु॒ऽस्तु॒तिम् ॥त्वम् । दूतः । अमर्त्यः । आ । वह । दैव्यम् । जनम् ।
शृण्वन् । विप्रस्य । सुऽस्तुतिम् ॥tvám ǀ dūtáḥ ǀ ámartyaḥ ǀ ā́ ǀ vaha ǀ dáivyam ǀ jánam ǀ
śṛṇván ǀ víprasya ǀ su-stutím ǁtvam ǀ dūtaḥ ǀ amartyaḥ ǀ ā ǀ vaha ǀ daivyam ǀ janam ǀ
śṛṇvan ǀ viprasya ǀ su-stutim ǁ6.16.6 Aṣṭaka 4.5.22.1Anuvāka 6.2.6
-
Ṛk 7
त्वाम॑ग्ने स्वा॒ध्यो॒३॒॑ मर्ता॑सो दे॒ववी॑तये ।
य॒ज्ञेषु॑ दे॒वमी॑ळते ॥त्वाम् अग्ने स्वाध्यो मर्तासो देववीतये |
यज्ञेषु देवम् ईऌअते ||tvā́magne svādhyó mártāso devávītaye ǀ
yajñéṣu devámīḷate ǁtvām agne svādhyo martāso devavītaye |
yajñeṣu devam īḷate ||त्वाम् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः॑ । मर्ता॑सः । दे॒वऽवी॑तये ।
य॒ज्ञेषु॑ । दे॒वम् । ई॒ळ॒ते॒ ॥त्वाम् । अग्ने । सुऽआध्यः । मर्तासः । देवऽवीतये ।
यज्ञेषु । देवम् । ईळते ॥tvā́m ǀ agne ǀ su-ādhyáḥ ǀ mártāsaḥ ǀ devá-vītaye ǀ
yajñéṣu ǀ devám ǀ īḷate ǁtvām ǀ agne ǀ su-ādhyaḥ ǀ martāsaḥ ǀ deva-vītaye ǀ
yajñeṣu ǀ devam ǀ īḷate ǁ6.16.7 Aṣṭaka 4.5.22.2Anuvāka 6.2.7
-
Ṛk 8
तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं॑ सु॒दान॑वः ।
विश्वे॑ जुषंत का॒मिनः॑ ॥तव प्र यक्षि संदृशम् उत क्रतुं सुदानवः |
विश्वे जुषन्त कामिनः ||táva prá yakṣi saṃdṛ́śamutá krátum sudā́navaḥ ǀ
víśve juṣanta kāmínaḥ ǁtava pra yakṣi saṃdṛśam uta kratuṃ sudānavaḥ |
viśve juṣanta kāminaḥ ||तव॑ । प्र । य॒क्षि॒ । स॒म्ऽदृश॑म् । उ॒त । क्रतु॑म् । सु॒ऽदान॑वः ।
विश्वे॑ । जु॒ष॒न्त॒ । का॒मिनः॑ ॥तव । प्र । यक्षि । सम्ऽदृशम् । उत । क्रतुम् । सुऽदानवः ।
विश्वे । जुषन्त । कामिनः ॥táva ǀ prá ǀ yakṣi ǀ sam-dṛ́śam ǀ utá ǀ krátum ǀ su-dā́navaḥ ǀ
víśve ǀ juṣanta ǀ kāmínaḥ ǁtava ǀ pra ǀ yakṣi ǀ sam-dṛśam ǀ uta ǀ kratum ǀ su-dānavaḥ ǀ
viśve ǀ juṣanta ǀ kāminaḥ ǁ6.16.8 Aṣṭaka 4.5.22.3Anuvāka 6.2.8
-
Ṛk 9
त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।
अग्ने॒ यक्षि॑ दि॒वो विशः॑ ॥त्वं होता मनुर्हितो वह्निर् आसा विदुष्टरः |
अग्ने यक्षि दिवो विशः ||tvám hótā mánurhito váhnirāsā́ vidúṣṭaraḥ ǀ
ágne yákṣi divó víśaḥ ǁtvaṃ hotā manurhito vahnir āsā viduṣṭaraḥ |
agne yakṣi divo viśaḥ ||त्वम् । होता॑ । मनुः॑ऽहितः । वह्निः॑ । आ॒सा । वि॒दुःऽत॑रः ।
अग्ने॑ । यक्षि॑ । दि॒वः । विशः॑ ॥त्वम् । होता । मनुःऽहितः । वह्निः । आसा । विदुःऽतरः ।
अग्ने । यक्षि । दिवः । विशः ॥tvám ǀ hótā ǀ mánuḥ-hitaḥ ǀ váhniḥ ǀ āsā́ ǀ vidúḥ-taraḥ ǀ
ágne ǀ yákṣi ǀ diváḥ ǀ víśaḥ ǁtvam ǀ hotā ǀ manuḥ-hitaḥ ǀ vahniḥ ǀ āsā ǀ viduḥ-taraḥ ǀ
agne ǀ yakṣi ǀ divaḥ ǀ viśaḥ ǁ6.16.9 Aṣṭaka 4.5.22.4Anuvāka 6.2.9
-
Ṛk 10
अग्न॒ आ या॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये ।
नि होता॑ सत्सि ब॒र्हिषि॑ ॥अग्न आ याहि वीतये गृणानो हव्यदातये |
नि होता सत्सि बर्हिषि ||ágna ā́ yāhi vītáye gṛṇānó havyádātaye ǀ
ní hótā satsi barhíṣi ǁagna ā yāhi vītaye gṛṇāno havyadātaye |
ni hotā satsi barhiṣi ||अग्ने॑ । आ । या॒हि॒ । वी॒तये॑ । गृ॒णा॒नः । ह॒व्यऽदा॑तये ।
नि । होता॑ । स॒त्सि॒ । ब॒र्हिषि॑ ॥अग्ने । आ । याहि । वीतये । गृणानः । हव्यऽदातये ।
नि । होता । सत्सि । बर्हिषि ॥ágne ǀ ā́ ǀ yāhi ǀ vītáye ǀ gṛṇānáḥ ǀ havyá-dātaye ǀ
ní ǀ hótā ǀ satsi ǀ barhíṣi ǁagne ǀ ā ǀ yāhi ǀ vītaye ǀ gṛṇānaḥ ǀ havya-dātaye ǀ
ni ǀ hotā ǀ satsi ǀ barhiṣi ǁ6.16.10 Aṣṭaka 4.5.22.5Anuvāka 6.2.10
-
Ṛk 11
तं त्वा॑ स॒मिद्भि॑रंगिरो घृ॒तेन॑ वर्धयामसि ।
बृ॒हच्छो॑चा यविष्ठ्य ॥तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि |
बृहच् छोचा यविष्ठ्य ||tám tvā samídbhiraṅgiro ghṛténa vardhayāmasi ǀ
bṛhácchocā yaviṣṭhya ǁtaṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi |
bṛhac chocā yaviṣṭhya ||तम् । त्वा॒ । स॒मित्ऽभिः॑ । अ॒ङ्गि॒रः॒ । घृ॒तेन॑ । व॒र्ध॒या॒म॒सि॒ ।
बृ॒हत् । शो॒च॒ । य॒वि॒ष्ठ्य॒ ॥तम् । त्वा । समित्ऽभिः । अङ्गिरः । घृतेन । वर्धयामसि ।
बृहत् । शोच । यविष्ठ्य ॥tám ǀ tvā ǀ samít-bhiḥ ǀ aṅgiraḥ ǀ ghṛténa ǀ vardhayāmasi ǀ
bṛhát ǀ śoca ǀ yaviṣṭhya ǁtam ǀ tvā ǀ samit-bhiḥ ǀ aṅgiraḥ ǀ ghṛtena ǀ vardhayāmasi ǀ
bṛhat ǀ śoca ǀ yaviṣṭhya ǁ6.16.11 Aṣṭaka 4.5.23.1Anuvāka 6.2.11
-
Ṛk 12
स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा॑ देव विवाससि ।
बृ॒हद॑ग्ने सु॒वीर्यं॑ ॥स नः पृथु श्रवाय्यम् अच्छा देव विवाससि |
बृहद् अग्ने सुवीर्यम् ||sá naḥ pṛthú śravā́yyamácchā deva vivāsasi ǀ
bṛhádagne suvī́ryam ǁsa naḥ pṛthu śravāyyam acchā deva vivāsasi |
bṛhad agne suvīryam ||सः । नः॒ । पृ॒थु । श्र॒वाय्य॑म् । अच्छ॑ । दे॒व॒ । वि॒वा॒स॒सि॒ ।
बृ॒हत् । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् ॥सः । नः । पृथु । श्रवाय्यम् । अच्छ । देव । विवाससि ।
बृहत् । अग्ने । सुऽवीर्यम् ॥sáḥ ǀ naḥ ǀ pṛthú ǀ śravā́yyam ǀ áccha ǀ deva ǀ vivāsasi ǀ
bṛhát ǀ agne ǀ su-vī́ryam ǁsaḥ ǀ naḥ ǀ pṛthu ǀ śravāyyam ǀ accha ǀ deva ǀ vivāsasi ǀ
bṛhat ǀ agne ǀ su-vīryam ǁ6.16.12 Aṣṭaka 4.5.23.2Anuvāka 6.2.12
-
Ṛk 13
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मंथत ।
मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत |
मूर्ध्नो विश्वस्य वाघतः ||tvā́magne púṣkarādádhyátharvā níramanthata ǀ
mūrdhnó víśvasya vāghátaḥ ǁtvām agne puṣkarād adhy atharvā nir amanthata |
mūrdhno viśvasya vāghataḥ ||त्वाम् । अ॒ग्ने॒ । पुष्क॑रात् । अधि॑ । अथ॑र्वा । निः । अ॒म॒न्थ॒त॒ ।
मू॒र्ध्नः । विश्व॑स्य । वा॒घतः॑ ॥त्वाम् । अग्ने । पुष्करात् । अधि । अथर्वा । निः । अमन्थत ।
मूर्ध्नः । विश्वस्य । वाघतः ॥tvā́m ǀ agne ǀ púṣkarāt ǀ ádhi ǀ átharvā ǀ níḥ ǀ amanthata ǀ
mūrdhnáḥ ǀ víśvasya ǀ vāghátaḥ ǁtvām ǀ agne ǀ puṣkarāt ǀ adhi ǀ atharvā ǀ niḥ ǀ amanthata ǀ
mūrdhnaḥ ǀ viśvasya ǀ vāghataḥ ǁ6.16.13 Aṣṭaka 4.5.23.3Anuvāka 6.2.13
-
Ṛk 14
तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः ।
वृ॒त्र॒हणं॑ पुरंद॒रं ॥तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः |
वृत्रहणम् पुरन्दरम् ||támu tvā dadhyáṅṅṛ́ṣiḥ putrá īdhe átharvaṇaḥ ǀ
vṛtraháṇam puraṃdarám ǁtam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ |
vṛtrahaṇam purandaram ||तम् । ऊं॒ इति॑ । त्वा॒ । द॒ध्यङ् । ऋषिः॑ । पु॒त्रः । ई॒धे॒ । अथ॑र्वणः ।
वृ॒त्र॒ऽहन॑म् । पु॒र॒म्ऽद॒रम् ॥तम् । ऊं इति । त्वा । दध्यङ् । ऋषिः । पुत्रः । ईधे । अथर्वणः ।
वृत्रऽहनम् । पुरम्ऽदरम् ॥tám ǀ ūṃ íti ǀ tvā ǀ dadhyáṅ ǀ ṛ́ṣiḥ ǀ putráḥ ǀ īdhe ǀ átharvaṇaḥ ǀ
vṛtra-hánam ǀ puram-darám ǁtam ǀ ūṃ iti ǀ tvā ǀ dadhyaṅ ǀ ṛṣiḥ ǀ putraḥ ǀ īdhe ǀ atharvaṇaḥ ǀ
vṛtra-hanam ǀ puram-daram ǁ6.16.14 Aṣṭaka 4.5.23.4Anuvāka 6.2.14
-
Ṛk 15
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हंत॑मं ।
ध॒नं॒ज॒यं रणे॑रणे ॥तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् |
धनञ्जयं रणे-रणे ||támu tvā pāthyó vṛ́ṣā sámīdhe dasyuhántamam ǀ
dhanaṃjayám ráṇeraṇe ǁtam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam |
dhanañjayaṃ raṇe-raṇe ||तम् । ऊं॒ इति॑ । त्वा॒ । पा॒थ्यः । वृषा॑ । सम् । ई॒धे॒ । द॒स्यु॒हन्ऽत॑मम् ।
ध॒न॒म्ऽज॒यम् । रणे॑ऽरणे ॥तम् । ऊं इति । त्वा । पाथ्यः । वृषा । सम् । ईधे । दस्युहन्ऽतमम् ।
धनम्ऽजयम् । रणेऽरणे ॥tám ǀ ūṃ íti ǀ tvā ǀ pāthyáḥ ǀ vṛ́ṣā ǀ sám ǀ īdhe ǀ dasyuhán-tamam ǀ
dhanam-jayám ǀ ráṇe-raṇe ǁtam ǀ ūṃ iti ǀ tvā ǀ pāthyaḥ ǀ vṛṣā ǀ sam ǀ īdhe ǀ dasyuhan-tamam ǀ
dhanam-jayam ǀ raṇe-raṇe ǁ6.16.15 Aṣṭaka 4.5.23.5Anuvāka 6.2.15
-
Ṛk 16
एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ ।
ए॒भिर्व॑र्धास॒ इंदु॑भिः ॥एह्य् ऊ षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः |
एभिर् वर्धास इन्दुभिः ||éhyū ṣú brávāṇi té’gna itthétarā gíraḥ ǀ
ebhírvardhāsa índubhiḥ ǁehy ū ṣu bravāṇi te 'gna itthetarā giraḥ |
ebhir vardhāsa indubhiḥ ||आ । इ॒हि॒ । ऊं॒ इति॑ । सु । ब्रवा॑णि । ते॒ । अग्ने॑ । इ॒त्था । इत॑राः । गिरः॑ ।
ए॒भिः । व॒र्धा॒से॒ । इन्दु॑ऽभिः ॥आ । इहि । ऊं इति । सु । ब्रवाणि । ते । अग्ने । इत्था । इतराः । गिरः ।
एभिः । वर्धासे । इन्दुऽभिः ॥ā́ ǀ ihi ǀ ūṃ íti ǀ sú ǀ brávāṇi ǀ te ǀ ágne ǀ itthā́ ǀ ítarāḥ ǀ gíraḥ ǀ
ebhíḥ ǀ vardhāse ǀ índu-bhiḥ ǁā ǀ ihi ǀ ūṃ iti ǀ su ǀ bravāṇi ǀ te ǀ agne ǀ itthā ǀ itarāḥ ǀ giraḥ ǀ
ebhiḥ ǀ vardhāse ǀ indu-bhiḥ ǁ6.16.16 Aṣṭaka 4.5.24.1Anuvāka 6.2.16
-
Ṛk 17
यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रं ।
तत्रा॒ सदः॑ कृणवसे ॥यत्र क्व च ते मनो दक्षं दधस उत्तरम् |
तत्रा सदः कृणवसे ||yátra kvá ca te máno dákṣam dadhasa úttaram ǀ
tátrā sádaḥ kṛṇavase ǁyatra kva ca te mano dakṣaṃ dadhasa uttaram |
tatrā sadaḥ kṛṇavase ||यत्र॑ । क्व॑ । च॒ । ते॒ । मनः॑ । दक्ष॑म् । द॒ध॒से॒ । उत्ऽत॑रम् ।
तत्र॑ । सदः॑ । कृ॒ण॒व॒से॒ ॥यत्र । क्व । च । ते । मनः । दक्षम् । दधसे । उत्ऽतरम् ।
तत्र । सदः । कृणवसे ॥yátra ǀ kvá ǀ ca ǀ te ǀ mánaḥ ǀ dákṣam ǀ dadhase ǀ út-taram ǀ
tátra ǀ sádaḥ ǀ kṛṇavase ǁyatra ǀ kva ǀ ca ǀ te ǀ manaḥ ǀ dakṣam ǀ dadhase ǀ ut-taram ǀ
tatra ǀ sadaḥ ǀ kṛṇavase ǁ6.16.17 Aṣṭaka 4.5.24.2Anuvāka 6.2.17
-
Ṛk 18
न॒हि ते॑ पू॒र्तम॑क्षि॒पद्भुव॑न्नेमानां वसो ।
अथा॒ दुवो॑ वनवसे ॥नहि ते पूर्तम् अक्षिपद् भुवन् नेमानां वसो |
अथा दुवो वनवसे ||nahí te pūrtámakṣipádbhúvannemānām vaso ǀ
áthā dúvo vanavase ǁnahi te pūrtam akṣipad bhuvan nemānāṃ vaso |
athā duvo vanavase ||न॒हि । ते॒ । पू॒र्तम् । अ॒क्षि॒ऽपत् । भुव॑त् । ने॒मा॒ना॒म् । व॒सो॒ इति॑ ।
अथ॑ । दुवः॑ । व॒न॒व॒से॒ ॥नहि । ते । पूर्तम् । अक्षिऽपत् । भुवत् । नेमानाम् । वसो इति ।
अथ । दुवः । वनवसे ॥nahí ǀ te ǀ pūrtám ǀ akṣi-pát ǀ bhúvat ǀ nemānām ǀ vaso íti ǀ
átha ǀ dúvaḥ ǀ vanavase ǁnahi ǀ te ǀ pūrtam ǀ akṣi-pat ǀ bhuvat ǀ nemānām ǀ vaso iti ǀ
atha ǀ duvaḥ ǀ vanavase ǁ6.16.18 Aṣṭaka 4.5.24.3Anuvāka 6.2.18
-
Ṛk 19
आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः ।
दिवो॑दासस्य॒ सत्प॑तिः ॥आग्निर् अगामि भारतो वृत्रहा पुरुचेतनः |
दिवोदासस्य सत्पतिः ||ā́gníragāmi bhā́rato vṛtrahā́ purucétanaḥ ǀ
dívodāsasya sátpatiḥ ǁāgnir agāmi bhārato vṛtrahā purucetanaḥ |
divodāsasya satpatiḥ ||आ । अ॒ग्निः । अ॒गा॒मि॒ । भार॑तः । वृ॒त्र॒ऽहा । पु॒रु॒ऽचेत॑नः ।
दिवः॑ऽदासस्य । सत्ऽप॑तिः ॥आ । अग्निः । अगामि । भारतः । वृत्रऽहा । पुरुऽचेतनः ।
दिवःऽदासस्य । सत्ऽपतिः ॥ā́ ǀ agníḥ ǀ agāmi ǀ bhā́rataḥ ǀ vṛtra-hā́ ǀ puru-cétanaḥ ǀ
dívaḥ-dāsasya ǀ sát-patiḥ ǁā ǀ agniḥ ǀ agāmi ǀ bhārataḥ ǀ vṛtra-hā ǀ puru-cetanaḥ ǀ
divaḥ-dāsasya ǀ sat-patiḥ ǁ6.16.19 Aṣṭaka 4.5.24.4Anuvāka 6.2.19
-
Ṛk 20
स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना ।
व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥स हि विश्वाति पार्थिवा रयिं दाशन् महित्वना |
वन्वन्न् अवातो अस्तृतः ||sá hí víśvā́ti pā́rthivā rayím dā́śanmahitvanā́ ǀ
vanvánnávāto ástṛtaḥ ǁsa hi viśvāti pārthivā rayiṃ dāśan mahitvanā |
vanvann avāto astṛtaḥ ||सः । हि । विश्वा॑ । अति॑ । पार्थि॑वा । र॒यिम् । दाश॑त् । म॒हि॒ऽत्व॒ना ।
व॒न्वन् । अवा॑तः । अस्तृ॑तः ॥सः । हि । विश्वा । अति । पार्थिवा । रयिम् । दाशत् । महिऽत्वना ।
वन्वन् । अवातः । अस्तृतः ॥sáḥ ǀ hí ǀ víśvā ǀ áti ǀ pā́rthivā ǀ rayím ǀ dā́śat ǀ mahi-tvanā́ ǀ
vanván ǀ ávātaḥ ǀ ástṛtaḥ ǁsaḥ ǀ hi ǀ viśvā ǀ ati ǀ pārthivā ǀ rayim ǀ dāśat ǀ mahi-tvanā ǀ
vanvan ǀ avātaḥ ǀ astṛtaḥ ǁ6.16.20 Aṣṭaka 4.5.24.5Anuvāka 6.2.20
-
Ṛk 21
स प्र॑त्न॒वन्नवी॑य॒साग्ने॑ द्यु॒म्नेन॑ सं॒यता॑ ।
बृ॒हत्त॑तंथ भा॒नुना॑ ॥स प्रत्नवन् नवीयसाग्ने द्युम्नेन संयता |
बृहत् ततन्थ भानुना ||sá pratnavánnávīyasā́gne dyumnéna saṃyátā ǀ
bṛháttatantha bhānúnā ǁsa pratnavan navīyasāgne dyumnena saṃyatā |
bṛhat tatantha bhānunā ||सः । प्र॒त्न॒ऽवत् । नवी॑यसा । अग्ने॑ । द्यु॒म्नेन॑ । स॒म्ऽयता॑ ।
बृ॒हत् । त॒त॒न्थ॒ । भा॒नुना॑ ॥सः । प्रत्नऽवत् । नवीयसा । अग्ने । द्युम्नेन । सम्ऽयता ।
बृहत् । ततन्थ । भानुना ॥sáḥ ǀ pratna-vát ǀ návīyasā ǀ ágne ǀ dyumnéna ǀ sam-yátā ǀ
bṛhát ǀ tatantha ǀ bhānúnā ǁsaḥ ǀ pratna-vat ǀ navīyasā ǀ agne ǀ dyumnena ǀ sam-yatā ǀ
bṛhat ǀ tatantha ǀ bhānunā ǁ6.16.21 Aṣṭaka 4.5.25.1Anuvāka 6.2.21
-
Ṛk 22
प्र वः॑ सखायो अ॒ग्नये॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।
अर्च॒ गाय॑ च वे॒धसे॑ ॥प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया |
अर्च गाय च वेधसे ||prá vaḥ sakhāyo agnáye stómam yajñám ca dhṛṣṇuyā́ ǀ
árca gā́ya ca vedháse ǁpra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā |
arca gāya ca vedhase ||प्र । वः॒ । स॒खा॒यः॒ । अ॒ग्नये॑ । स्तोम॑म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒ऽया ।
अर्च॑ । गाय॑ । च॒ । वे॒धसे॑ ॥प्र । वः । सखायः । अग्नये । स्तोमम् । यज्ञम् । च । धृष्णुऽया ।
अर्च । गाय । च । वेधसे ॥prá ǀ vaḥ ǀ sakhāyaḥ ǀ agnáye ǀ stómam ǀ yajñám ǀ ca ǀ dhṛṣṇu-yā́ ǀ
árca ǀ gā́ya ǀ ca ǀ vedháse ǁpra ǀ vaḥ ǀ sakhāyaḥ ǀ agnaye ǀ stomam ǀ yajñam ǀ ca ǀ dhṛṣṇu-yā ǀ
arca ǀ gāya ǀ ca ǀ vedhase ǁ6.16.22 Aṣṭaka 4.5.25.2Anuvāka 6.2.22
-
Ṛk 23
स हि यो मानु॑षा यु॒गा सीद॒द्धोता॑ क॒विक्र॑तुः ।
दू॒तश्च॑ हव्य॒वाह॑नः ॥स हि यो मानुषा युगा सीदद् धोता कविक्रतुः |
दूतश् च हव्यवाहनः ||sá hí yó mā́nuṣā yugā́ sī́daddhótā kavíkratuḥ ǀ
dūtáśca havyavā́hanaḥ ǁsa hi yo mānuṣā yugā sīdad dhotā kavikratuḥ |
dūtaś ca havyavāhanaḥ ||सः । हि । यः । मानु॑षा । यु॒गा । सीद॑त् । होता॑ । क॒विऽक्र॑तुः ।
दू॒तः । च॒ । ह॒व्य॒ऽवाह॑नः ॥सः । हि । यः । मानुषा । युगा । सीदत् । होता । कविऽक्रतुः ।
दूतः । च । हव्यऽवाहनः ॥sáḥ ǀ hí ǀ yáḥ ǀ mā́nuṣā ǀ yugā́ ǀ sī́dat ǀ hótā ǀ kaví-kratuḥ ǀ
dūtáḥ ǀ ca ǀ havya-vā́hanaḥ ǁsaḥ ǀ hi ǀ yaḥ ǀ mānuṣā ǀ yugā ǀ sīdat ǀ hotā ǀ kavi-kratuḥ ǀ
dūtaḥ ǀ ca ǀ havya-vāhanaḥ ǁ6.16.23 Aṣṭaka 4.5.25.3Anuvāka 6.2.23
-
Ṛk 24
ता राजा॑ना॒ शुचि॑व्रतादि॒त्यान्मारु॑तं ग॒णं ।
वसो॒ यक्षी॒ह रोद॑सी ॥ता राजाना शुचिव्रतादित्यान् मारुतं गणम् |
वसो यक्षीह रोदसी ||tā́ rā́jānā śúcivratādityā́nmā́rutam gaṇám ǀ
váso yákṣīhá ródasī ǁtā rājānā śucivratādityān mārutaṃ gaṇam |
vaso yakṣīha rodasī ||ता । राजा॑ना । शुचि॑ऽव्रता । आ॒दि॒त्यान् । मारु॑तम् । ग॒णम् ।
वसो॒ इति॑ । यक्षि॑ । इ॒ह । रोद॑सी॒ इति॑ ॥ता । राजाना । शुचिऽव्रता । आदित्यान् । मारुतम् । गणम् ।
वसो इति । यक्षि । इह । रोदसी इति ॥tā́ ǀ rā́jānā ǀ śúci-vratā ǀ ādityā́n ǀ mā́rutam ǀ gaṇám ǀ
váso íti ǀ yákṣi ǀ ihá ǀ ródasī íti ǁtā ǀ rājānā ǀ śuci-vratā ǀ ādityān ǀ mārutam ǀ gaṇam ǀ
vaso iti ǀ yakṣi ǀ iha ǀ rodasī iti ǁ6.16.24 Aṣṭaka 4.5.25.4Anuvāka 6.2.24
-
Ṛk 25
वस्वी॑ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या॑य ।
ऊर्जो॑ नपाद॒मृत॑स्य ॥वस्वी ते अग्ने संदृष्टिर् इषयते मर्त्याय |
ऊर्जो नपाद् अमृतस्य ||vásvī te agne sáṃdṛṣṭiriṣayaté mártyāya ǀ
ū́rjo napādamṛ́tasya ǁvasvī te agne saṃdṛṣṭir iṣayate martyāya |
ūrjo napād amṛtasya ||वस्वी॑ । ते॒ । अ॒ग्ने॒ । सम्ऽदृ॑ष्टिः । इ॒ष॒ऽय॒ते । मर्त्या॑य ।
ऊर्जः॑ । न॒पा॒त् । अ॒मृत॑स्य ॥वस्वी । ते । अग्ने । सम्ऽदृष्टिः । इषऽयते । मर्त्याय ।
ऊर्जः । नपात् । अमृतस्य ॥vásvī ǀ te ǀ agne ǀ sám-dṛṣṭiḥ ǀ iṣa-yaté ǀ mártyāya ǀ
ū́rjaḥ ǀ napāt ǀ amṛ́tasya ǁvasvī ǀ te ǀ agne ǀ sam-dṛṣṭiḥ ǀ iṣa-yate ǀ martyāya ǀ
ūrjaḥ ǀ napāt ǀ amṛtasya ǁ6.16.25 Aṣṭaka 4.5.25.5Anuvāka 6.2.25
-
Ṛk 26
क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा॑ व॒न्वन्त्सु॒रेक्णाः॑ ।
मर्त॑ आनाश सुवृ॒क्तिं ॥क्रत्वा दा अस्तु श्रेष्ठो ऽद्य त्वा वन्वन् सुरेक्णाः |
मर्त आनाश सुवृक्तिम् ||krátvā dā́ astu śréṣṭho’dyá tvā vanvántsurékṇāḥ ǀ
márta ānāśa suvṛktím ǁkratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ |
marta ānāśa suvṛktim ||क्रत्वा॑ । दाः । अ॒स्तु॒ । श्रेष्ठः॑ । अ॒द्य । त्वा॒ । व॒न्वन् । सु॒ऽरेक्णाः॑ ।
मर्तः॑ । आ॒ना॒श॒ । सु॒ऽवृ॒क्तिम् ॥क्रत्वा । दाः । अस्तु । श्रेष्ठः । अद्य । त्वा । वन्वन् । सुऽरेक्णाः ।
मर्तः । आनाश । सुऽवृक्तिम् ॥krátvā ǀ dā́ḥ ǀ astu ǀ śréṣṭhaḥ ǀ adyá ǀ tvā ǀ vanván ǀ su-rékṇāḥ ǀ
mártaḥ ǀ ānāśa ǀ su-vṛktím ǁkratvā ǀ dāḥ ǀ astu ǀ śreṣṭhaḥ ǀ adya ǀ tvā ǀ vanvan ǀ su-rekṇāḥ ǀ
martaḥ ǀ ānāśa ǀ su-vṛktim ǁ6.16.26 Aṣṭaka 4.5.26.1Anuvāka 6.2.26
-
Ṛk 27
ते ते॑ अग्ने॒ त्वोता॑ इ॒षयं॑तो॒ विश्व॒मायुः॑ ।
तरं॑तो अ॒र्यो अरा॑तीर्व॒न्वंतो॑ अ॒र्यो अरा॑तीः ॥ते ते अग्ने त्वोता इषयन्तो विश्वम् आयुः |
तरन्तो अर्यो अरातीर् वन्वन्तो अर्यो अरातीः ||té te agne tvótā iṣáyanto víśvamā́yuḥ ǀ
táranto aryó árātīrvanvánto aryó árātīḥ ǁte te agne tvotā iṣayanto viśvam āyuḥ |
taranto aryo arātīr vanvanto aryo arātīḥ ||ते । ते॒ । अ॒ग्ने॒ । त्वाऽऊ॑ताः । इ॒षय॑न्तः । विश्व॑म् । आयुः॑ ।
तर॑न्तः । अ॒र्यः । अरा॑तीः । व॒न्वन्तः॑ । अ॒र्यः । अरा॑तीः ॥ते । ते । अग्ने । त्वाऽऊताः । इषयन्तः । विश्वम् । आयुः ।
तरन्तः । अर्यः । अरातीः । वन्वन्तः । अर्यः । अरातीः ॥té ǀ te ǀ agne ǀ tvā́-ūtāḥ ǀ iṣáyantaḥ ǀ víśvam ǀ ā́yuḥ ǀ
tárantaḥ ǀ aryáḥ ǀ árātīḥ ǀ vanvántaḥ ǀ aryáḥ ǀ árātīḥ ǁte ǀ te ǀ agne ǀ tvā-ūtāḥ ǀ iṣayantaḥ ǀ viśvam ǀ āyuḥ ǀ
tarantaḥ ǀ aryaḥ ǀ arātīḥ ǀ vanvantaḥ ǀ aryaḥ ǀ arātīḥ ǁ6.16.27 Aṣṭaka 4.5.26.2Anuvāka 6.2.27
-
Ṛk 28
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॒॑त्रिणं॑ ।
अ॒ग्निर्नो॑ वनते र॒यिं ॥अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् |
अग्निर् नो वनते रयिम् ||agnístigména śocíṣā yā́sadvíśvam nyátríṇam ǀ
agnírno vanate rayím ǁagnis tigmena śociṣā yāsad viśvaṃ ny atriṇam |
agnir no vanate rayim ||अ॒ग्निः । ति॒ग्मेन॑ । शो॒चिषा॑ । यास॑त् । विश्व॑म् । नि । अ॒त्रिण॑म् ।
अ॒ग्निः । नः॒ । व॒न॒ते॒ । र॒यिम् ॥अग्निः । तिग्मेन । शोचिषा । यासत् । विश्वम् । नि । अत्रिणम् ।
अग्निः । नः । वनते । रयिम् ॥agníḥ ǀ tigména ǀ śocíṣā ǀ yā́sat ǀ víśvam ǀ ní ǀ atríṇam ǀ
agníḥ ǀ naḥ ǀ vanate ǀ rayím ǁagniḥ ǀ tigmena ǀ śociṣā ǀ yāsat ǀ viśvam ǀ ni ǀ atriṇam ǀ
agniḥ ǀ naḥ ǀ vanate ǀ rayim ǁ6.16.28 Aṣṭaka 4.5.26.3Anuvāka 6.2.28
-
Ṛk 29
सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।
ज॒हि रक्षां॑सि सुक्रतो ॥सुवीरं रयिम् आ भर जातवेदो विचर्षणे |
जहि रक्षांसि सुक्रतो ||suvī́ram rayímā́ bhara jā́tavedo vícarṣaṇe ǀ
jahí rákṣāṃsi sukrato ǁsuvīraṃ rayim ā bhara jātavedo vicarṣaṇe |
jahi rakṣāṃsi sukrato ||सु॒ऽवीर॑म् । र॒यिम् । आ । भ॒र॒ । जात॑ऽवेदः । विऽच॑र्षणे ।
ज॒हि । रक्षां॑सि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥सुऽवीरम् । रयिम् । आ । भर । जातऽवेदः । विऽचर्षणे ।
जहि । रक्षांसि । सुक्रतो इति सुऽक्रतो ॥su-vī́ram ǀ rayím ǀ ā́ ǀ bhara ǀ jā́ta-vedaḥ ǀ ví-carṣaṇe ǀ
jahí ǀ rákṣāṃsi ǀ sukrato íti su-krato ǁsu-vīram ǀ rayim ǀ ā ǀ bhara ǀ jāta-vedaḥ ǀ vi-carṣaṇe ǀ
jahi ǀ rakṣāṃsi ǀ sukrato iti su-krato ǁ6.16.29 Aṣṭaka 4.5.26.4Anuvāka 6.2.29
-
Ṛk 30
त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः ।
रक्षा॑ णो ब्रह्मणस्कवे ॥त्वं नः पाह्य् अंहसो जातवेदो अघायतः |
रक्षा णो ब्रह्मणस् कवे ||tvám naḥ pāhyáṃhaso jā́tavedo aghāyatáḥ ǀ
rákṣā ṇo brahmaṇaskave ǁtvaṃ naḥ pāhy aṃhaso jātavedo aghāyataḥ |
rakṣā ṇo brahmaṇas kave ||त्वम् । नः॒ । पा॒हि॒ । अंह॑सः । जात॑ऽवेदः । अ॒घ॒ऽय॒तः ।
रक्ष॑ । नः॒ । ब्र॒ह्म॒णः॒ । क॒वे॒ ॥त्वम् । नः । पाहि । अंहसः । जातऽवेदः । अघऽयतः ।
रक्ष । नः । ब्रह्मणः । कवे ॥tvám ǀ naḥ ǀ pāhi ǀ áṃhasaḥ ǀ jā́ta-vedaḥ ǀ agha-yatáḥ ǀ
rákṣa ǀ naḥ ǀ brahmaṇaḥ ǀ kave ǁtvam ǀ naḥ ǀ pāhi ǀ aṃhasaḥ ǀ jāta-vedaḥ ǀ agha-yataḥ ǀ
rakṣa ǀ naḥ ǀ brahmaṇaḥ ǀ kave ǁ6.16.30 Aṣṭaka 4.5.26.5Anuvāka 6.2.30
-
Ṛk 31
यो नो॑ अग्ने दु॒रेव॒ आ मर्तो॑ व॒धाय॒ दाश॑ति ।
तस्मा॑न्नः पा॒ह्यंह॑सः ॥यो नो अग्ने दुरेव आ मर्तो वधाय दाशति |
तस्मान् नः पाह्य् अंहसः ||yó no agne duréva ā́ márto vadhā́ya dā́śati ǀ
tásmānnaḥ pāhyáṃhasaḥ ǁyo no agne dureva ā marto vadhāya dāśati |
tasmān naḥ pāhy aṃhasaḥ ||यः । नः॒ । अ॒ग्ने॒ । दुः॒ऽएवः॑ । आ । मर्तः॑ । व॒धाय॑ । दाश॑ति ।
तस्मा॑त् । नः॒ । पा॒हि॒ । अंह॑सः ॥यः । नः । अग्ने । दुःऽएवः । आ । मर्तः । वधाय । दाशति ।
तस्मात् । नः । पाहि । अंहसः ॥yáḥ ǀ naḥ ǀ agne ǀ duḥ-évaḥ ǀ ā́ ǀ mártaḥ ǀ vadhā́ya ǀ dā́śati ǀ
tásmāt ǀ naḥ ǀ pāhi ǀ áṃhasaḥ ǁyaḥ ǀ naḥ ǀ agne ǀ duḥ-evaḥ ǀ ā ǀ martaḥ ǀ vadhāya ǀ dāśati ǀ
tasmāt ǀ naḥ ǀ pāhi ǀ aṃhasaḥ ǁ6.16.31 Aṣṭaka 4.5.27.1Anuvāka 6.2.31
-
Ṛk 32
त्वं तं दे॑व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृतं॑ ।
मर्तो॒ यो नो॒ जिघां॑सति ॥त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् |
मर्तो यो नो जिघांसति ||tvám tám deva jihváyā pári bādhasva duṣkṛ́tam ǀ
márto yó no jíghāṃsati ǁtvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam |
marto yo no jighāṃsati ||त्वम् । तम् । दे॒व॒ । जि॒ह्वया॑ । परि॑ । बा॒ध॒स्व॒ । दुः॒ऽकृत॑म् ।
मर्तः॑ । यः । नः॒ । जिघां॑सति ॥त्वम् । तम् । देव । जिह्वया । परि । बाधस्व । दुःऽकृतम् ।
मर्तः । यः । नः । जिघांसति ॥tvám ǀ tám ǀ deva ǀ jihváyā ǀ pári ǀ bādhasva ǀ duḥ-kṛ́tam ǀ
mártaḥ ǀ yáḥ ǀ naḥ ǀ jíghāṃsati ǁtvam ǀ tam ǀ deva ǀ jihvayā ǀ pari ǀ bādhasva ǀ duḥ-kṛtam ǀ
martaḥ ǀ yaḥ ǀ naḥ ǀ jighāṃsati ǁ6.16.32 Aṣṭaka 4.5.27.2Anuvāka 6.2.32
-
Ṛk 33
भ॒रद्वा॑जाय स॒प्रथः॒ शर्म॑ यच्छ सहंत्य ।
अग्ने॒ वरे॑ण्यं॒ वसु॑ ॥भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य |
अग्ने वरेण्यं वसु ||bharádvājāya sapráthaḥ śárma yaccha sahantya ǀ
ágne váreṇyam vásu ǁbharadvājāya saprathaḥ śarma yaccha sahantya |
agne vareṇyaṃ vasu ||भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ । शर्म॑ । य॒च्छ॒ । स॒ह॒न्त्य॒ ।
अग्ने॑ । वरे॑ण्यम् । वसु॑ ॥भरत्ऽवाजाय । सऽप्रथः । शर्म । यच्छ । सहन्त्य ।
अग्ने । वरेण्यम् । वसु ॥bharát-vājāya ǀ sa-práthaḥ ǀ śárma ǀ yaccha ǀ sahantya ǀ
ágne ǀ váreṇyam ǀ vásu ǁbharat-vājāya ǀ sa-prathaḥ ǀ śarma ǀ yaccha ǀ sahantya ǀ
agne ǀ vareṇyam ǀ vasu ǁ6.16.33 Aṣṭaka 4.5.27.3Anuvāka 6.2.33
-
Ṛk 34
अ॒ग्निर्वृ॒त्राणि॑ जंघनद्द्रविण॒स्युर्वि॑प॒न्यया॑ ।
समि॑द्धः शु॒क्र आहु॑तः ॥अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया |
समिद्धः शुक्र आहुतः ||agnírvṛtrā́ṇi jaṅghanaddraviṇasyúrvipanyáyā ǀ
sámiddhaḥ śukrá ā́hutaḥ ǁagnir vṛtrāṇi jaṅghanad draviṇasyur vipanyayā |
samiddhaḥ śukra āhutaḥ ||अ॒ग्निः । वृ॒त्राणि॑ । ज॒ङ्घ॒न॒त् । द्र॒वि॒ण॒स्युः । वि॒प॒न्यया॑ ।
सम्ऽइ॑द्धः । शु॒क्रः । आऽहु॑तः ॥अग्निः । वृत्राणि । जङ्घनत् । द्रविणस्युः । विपन्यया ।
सम्ऽइद्धः । शुक्रः । आऽहुतः ॥agníḥ ǀ vṛtrā́ṇi ǀ jaṅghanat ǀ draviṇasyúḥ ǀ vipanyáyā ǀ
sám-iddhaḥ ǀ śukráḥ ǀ ā́-hutaḥ ǁagniḥ ǀ vṛtrāṇi ǀ jaṅghanat ǀ draviṇasyuḥ ǀ vipanyayā ǀ
sam-iddhaḥ ǀ śukraḥ ǀ ā-hutaḥ ǁ6.16.34 Aṣṭaka 4.5.27.4Anuvāka 6.2.34
-
Ṛk 35
गर्भे॑ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे॑ ।
सीद॑न्नृ॒तस्य॒ योनि॒मा ॥गर्भे मातुः पितुष् पिता विदिद्युतानो अक्षरे |
सीदन्न् ऋतस्य योनिम् आ ||gárbhe mātúḥ pitúṣpitā́ vididyutānó akṣáre ǀ
sī́dannṛtásya yónimā́ ǁgarbhe mātuḥ pituṣ pitā vididyutāno akṣare |
sīdann ṛtasya yonim ā ||गर्भे॑ । मा॒तुः । पि॒तुः । पि॒ता । वि॒ऽदि॒द्यु॒ता॒नः । अ॒क्षरे॑ ।
सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥गर्भे । मातुः । पितुः । पिता । विऽदिद्युतानः । अक्षरे ।
सीदन् । ऋतस्य । योनिम् । आ ॥gárbhe ǀ mātúḥ ǀ pitúḥ ǀ pitā́ ǀ vi-didyutānáḥ ǀ akṣáre ǀ
sī́dan ǀ ṛtásya ǀ yónim ǀ ā́ ǁgarbhe ǀ mātuḥ ǀ pituḥ ǀ pitā ǀ vi-didyutānaḥ ǀ akṣare ǀ
sīdan ǀ ṛtasya ǀ yonim ǀ ā ǁ6.16.35 Aṣṭaka 4.5.27.5Anuvāka 6.2.35
-
Ṛk 36
ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।
अग्ने॒ यद्दी॒दय॑द्दि॒वि ॥ब्रह्म प्रजावद् आ भर जातवेदो विचर्षणे |
अग्ने यद् दीदयद् दिवि ||bráhma prajā́vadā́ bhara jā́tavedo vícarṣaṇe ǀ
ágne yáddīdáyaddiví ǁbrahma prajāvad ā bhara jātavedo vicarṣaṇe |
agne yad dīdayad divi ||ब्रह्म॑ । प्र॒जाऽव॑त् । आ । भ॒र॒ । जात॑ऽवेदः । विऽच॑र्षणे ।
अग्ने॑ । यत् । दी॒दय॑त् । दि॒वि ॥ब्रह्म । प्रजाऽवत् । आ । भर । जातऽवेदः । विऽचर्षणे ।
अग्ने । यत् । दीदयत् । दिवि ॥bráhma ǀ prajā́-vat ǀ ā́ ǀ bhara ǀ jā́ta-vedaḥ ǀ ví-carṣaṇe ǀ
ágne ǀ yát ǀ dīdáyat ǀ diví ǁbrahma ǀ prajā-vat ǀ ā ǀ bhara ǀ jāta-vedaḥ ǀ vi-carṣaṇe ǀ
agne ǀ yat ǀ dīdayat ǀ divi ǁ6.16.36 Aṣṭaka 4.5.28.1Anuvāka 6.2.36
-
Ṛk 37
उप॑ त्वा र॒ण्वसं॑दृशं॒ प्रय॑स्वंतः सहस्कृत ।
अग्ने॑ ससृ॒ज्महे॒ गिरः॑ ॥उप त्वा रण्वसंदृशम् प्रयस्वन्तः सहस्कृत |
अग्ने ससृज्महे गिरः ||úpa tvā raṇvásaṃdṛśam práyasvantaḥ sahaskṛta ǀ
ágne sasṛjmáhe gíraḥ ǁupa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta |
agne sasṛjmahe giraḥ ||उप॑ । त्वा॒ । र॒ण्वऽस॑न्दृशम् । प्रय॑स्वन्तः । स॒हः॒ऽकृ॒त॒ ।
अग्ने॑ । स॒सृ॒ज्महे॑ । गिरः॑ ॥उप । त्वा । रण्वऽसन्दृशम् । प्रयस्वन्तः । सहःऽकृत ।
अग्ने । ससृज्महे । गिरः ॥úpa ǀ tvā ǀ raṇvá-sandṛśam ǀ práyasvantaḥ ǀ sahaḥ-kṛta ǀ
ágne ǀ sasṛjmáhe ǀ gíraḥ ǁupa ǀ tvā ǀ raṇva-sandṛśam ǀ prayasvantaḥ ǀ sahaḥ-kṛta ǀ
agne ǀ sasṛjmahe ǀ giraḥ ǁ6.16.37 Aṣṭaka 4.5.28.2Anuvāka 6.2.37
-
Ṛk 38
उप॑ छा॒यामि॑व॒ घृणे॒रग॑न्म॒ शर्म॑ ते व॒यं ।
अग्ने॒ हिर॑ण्यसंदृशः ॥उप च्छायाम् इव घृणेर् अगन्म शर्म ते वयम् |
अग्ने हिरण्यसंदृशः ||úpa chāyā́miva ghṛ́ṇeráganma śárma te vayám ǀ
ágne híraṇyasaṃdṛśaḥ ǁupa cchāyām iva ghṛṇer aganma śarma te vayam |
agne hiraṇyasaṃdṛśaḥ ||उप॑ । छा॒याम्ऽइ॑व । घृणेः॑ । अग॑न्म । शर्म॑ । ते॒ । व॒यम् ।
अग्ने॑ । हिर॑ण्यऽसन्दृशः ॥उप । छायाम्ऽइव । घृणेः । अगन्म । शर्म । ते । वयम् ।
अग्ने । हिरण्यऽसन्दृशः ॥úpa ǀ chāyā́m-iva ǀ ghṛ́ṇeḥ ǀ áganma ǀ śárma ǀ te ǀ vayám ǀ
ágne ǀ híraṇya-sandṛśaḥ ǁupa ǀ chāyām-iva ǀ ghṛṇeḥ ǀ aganma ǀ śarma ǀ te ǀ vayam ǀ
agne ǀ hiraṇya-sandṛśaḥ ǁ6.16.38 Aṣṭaka 4.5.28.3Anuvāka 6.2.38
-
Ṛk 39
य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृं॑गो॒ न वंस॑गः ।
अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः |
अग्ने पुरो रुरोजिथ ||yá ugrá iva śaryahā́ tigmáśṛṅgo ná váṃsagaḥ ǀ
ágne púro rurójitha ǁya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ |
agne puro rurojitha ||यः । उ॒ग्रःऽइ॑व । श॒र्य॒ऽहा । ति॒ग्मऽशृ॑ङ्गः । न । वंस॑गः ।
अग्ने॑ । पुरः॑ । रु॒रोजि॑थ ॥यः । उग्रःऽइव । शर्यऽहा । तिग्मऽशृङ्गः । न । वंसगः ।
अग्ने । पुरः । रुरोजिथ ॥yáḥ ǀ ugráḥ-iva ǀ śarya-hā́ ǀ tigmá-śṛṅgaḥ ǀ ná ǀ váṃsagaḥ ǀ
ágne ǀ púraḥ ǀ rurójitha ǁyaḥ ǀ ugraḥ-iva ǀ śarya-hā ǀ tigma-śṛṅgaḥ ǀ na ǀ vaṃsagaḥ ǀ
agne ǀ puraḥ ǀ rurojitha ǁ6.16.39 Aṣṭaka 4.5.28.4Anuvāka 6.2.39
-
Ṛk 40
आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति ।
वि॒शाम॒ग्निं स्व॑ध्व॒रं ॥आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति |
विशाम् अग्निं स्वध्वरम् ||ā́ yám háste ná khādínam śíśum jātám ná bíbhrati ǀ
viśā́magním svadhvarám ǁā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati |
viśām agniṃ svadhvaram ||आ । यम् । हस्ते॑ । न । खा॒दिन॑म् । शिशु॑म् । जा॒तम् । न । बिभ्र॑ति ।
वि॒शाम् । अ॒ग्निम् । सु॒ऽअ॒ध्व॒रम् ॥आ । यम् । हस्ते । न । खादिनम् । शिशुम् । जातम् । न । बिभ्रति ।
विशाम् । अग्निम् । सुऽअध्वरम् ॥ā́ ǀ yám ǀ háste ǀ ná ǀ khādínam ǀ śíśum ǀ jātám ǀ ná ǀ bíbhrati ǀ
viśā́m ǀ agním ǀ su-adhvarám ǁā ǀ yam ǀ haste ǀ na ǀ khādinam ǀ śiśum ǀ jātam ǀ na ǀ bibhrati ǀ
viśām ǀ agnim ǀ su-adhvaram ǁ6.16.40 Aṣṭaka 4.5.28.5Anuvāka 6.2.40
-
Ṛk 41
प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मं ।
आ स्वे योनौ॒ नि षी॑दतु ॥प्र देवं देववीतये भरता वसुवित्तमम् |
आ स्वे योनौ नि षीदतु ||prá devám devávītaye bháratā vasuvíttamam ǀ
ā́ své yónau ní ṣīdatu ǁpra devaṃ devavītaye bharatā vasuvittamam |
ā sve yonau ni ṣīdatu ||प्र । दे॒वम् । दे॒वऽवी॑तये । भर॑त । व॒सु॒वित्ऽत॑मम् ।
आ । स्वे । योनौ॑ । नि । सी॒द॒तु॒ ॥प्र । देवम् । देवऽवीतये । भरत । वसुवित्ऽतमम् ।
आ । स्वे । योनौ । नि । सीदतु ॥prá ǀ devám ǀ devá-vītaye ǀ bhárata ǀ vasuvít-tamam ǀ
ā́ ǀ své ǀ yónau ǀ ní ǀ sīdatu ǁpra ǀ devam ǀ deva-vītaye ǀ bharata ǀ vasuvit-tamam ǀ
ā ǀ sve ǀ yonau ǀ ni ǀ sīdatu ǁ6.16.41 Aṣṭaka 4.5.29.1Anuvāka 6.2.41
-
Ṛk 42
आ जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिं ।
स्यो॒न आ गृ॒हप॑तिं ॥आ जातं जातवेदसि प्रियं शिशीतातिथिम् |
स्योन आ गृहपतिम् ||ā́ jātám jātávedasi priyám śiśītā́tithim ǀ
syoná ā́ gṛhápatim ǁā jātaṃ jātavedasi priyaṃ śiśītātithim |
syona ā gṛhapatim ||आ । जा॒तम् । जा॒तऽवे॑दसि । प्रि॒यम् । शि॒शी॒त॒ । अति॑थिम् ।
स्यो॒ने । आ । गृ॒हऽप॑तिम् ॥आ । जातम् । जातऽवेदसि । प्रियम् । शिशीत । अतिथिम् ।
स्योने । आ । गृहऽपतिम् ॥ā́ ǀ jātám ǀ jātá-vedasi ǀ priyám ǀ śiśīta ǀ átithim ǀ
syoné ǀ ā́ ǀ gṛhá-patim ǁā ǀ jātam ǀ jāta-vedasi ǀ priyam ǀ śiśīta ǀ atithim ǀ
syone ǀ ā ǀ gṛha-patim ǁ6.16.42 Aṣṭaka 4.5.29.2Anuvāka 6.2.42
-
Ṛk 43
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ ।
अरं॒ वहं॑ति म॒न्यवे॑ ॥अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः |
अरं वहन्ति मन्यवे ||ágne yukṣvā́ hí yé távā́śvāso deva sādhávaḥ ǀ
áram váhanti manyáve ǁagne yukṣvā hi ye tavāśvāso deva sādhavaḥ |
araṃ vahanti manyave ||अग्ने॑ । यु॒क्ष्व । हि । ये । तव॑ । अश्वा॑सः । दे॒व॒ । सा॒धवः॑ ।
अर॑म् । वह॑न्ति । म॒न्यवे॑ ॥अग्ने । युक्ष्व । हि । ये । तव । अश्वासः । देव । साधवः ।
अरम् । वहन्ति । मन्यवे ॥ágne ǀ yukṣvá ǀ hí ǀ yé ǀ táva ǀ áśvāsaḥ ǀ deva ǀ sādhávaḥ ǀ
áram ǀ váhanti ǀ manyáve ǁagne ǀ yukṣva ǀ hi ǀ ye ǀ tava ǀ aśvāsaḥ ǀ deva ǀ sādhavaḥ ǀ
aram ǀ vahanti ǀ manyave ǁ6.16.43 Aṣṭaka 4.5.29.3Anuvāka 6.2.43
-
Ṛk 44
अच्छा॑ नो या॒ह्या व॑हा॒भि प्रयां॑सि वी॒तये॑ ।
आ दे॒वान्त्सोम॑पीतये ॥अच्छा नो याह्य् आ वहाभि प्रयांसि वीतये |
आ देवान् सोमपीतये ||ácchā no yāhyā́ vahābhí práyāṃsi vītáye ǀ
ā́ devā́ntsómapītaye ǁacchā no yāhy ā vahābhi prayāṃsi vītaye |
ā devān somapītaye ||अच्छ॑ । नः॒ । या॒हि॒ । आ । व॒ह॒ । अ॒भि । प्रयां॑सि । वी॒तये॑ ।
आ । दे॒वान् । सोम॑ऽपीतये ॥अच्छ । नः । याहि । आ । वह । अभि । प्रयांसि । वीतये ।
आ । देवान् । सोमऽपीतये ॥áccha ǀ naḥ ǀ yāhi ǀ ā́ ǀ vaha ǀ abhí ǀ práyāṃsi ǀ vītáye ǀ
ā́ ǀ devā́n ǀ sóma-pītaye ǁaccha ǀ naḥ ǀ yāhi ǀ ā ǀ vaha ǀ abhi ǀ prayāṃsi ǀ vītaye ǀ
ā ǀ devān ǀ soma-pītaye ǁ6.16.44 Aṣṭaka 4.5.29.4Anuvāka 6.2.44
-
Ṛk 45
उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् ।
शोचा॒ वि भा॑ह्यजर ॥उद् अग्ने भारत द्युमद् अजस्रेण दविद्युतत् |
शोचा वि भाह्य् अजर ||údagne bhārata dyumádájasreṇa dávidyutat ǀ
śócā ví bhāhyajara ǁud agne bhārata dyumad ajasreṇa davidyutat |
śocā vi bhāhy ajara ||उत् । अ॒ग्ने॒ । भा॒र॒त॒ । द्यु॒ऽमत् । अज॑स्रेण । दवि॑द्युतत् ।
शोच॑ । वि । भा॒हि॒ । अ॒ज॒र॒ ॥उत् । अग्ने । भारत । द्युऽमत् । अजस्रेण । दविद्युतत् ।
शोच । वि । भाहि । अजर ॥út ǀ agne ǀ bhārata ǀ dyu-mát ǀ ájasreṇa ǀ dávidyutat ǀ
śóca ǀ ví ǀ bhāhi ǀ ajara ǁut ǀ agne ǀ bhārata ǀ dyu-mat ǀ ajasreṇa ǀ davidyutat ǀ
śoca ǀ vi ǀ bhāhi ǀ ajara ǁ6.16.45 Aṣṭaka 4.5.29.5Anuvāka 6.2.45
-
Ṛk 46
वी॒ती यो दे॒वं मर्तो॑ दुव॒स्येद॒ग्निमी॑ळीताध्व॒रे ह॒विष्मा॑न् ।
होता॑रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ॥वीती यो देवम् मर्तो दुवस्येद् अग्निम् ईऌईताध्वरे हविष्मान् |
होतारं सत्ययजं रोदस्योर् उत्तानहस्तो नमसा विवासेत् ||vītī́ yó devám márto duvasyédagnímīḷītādhvaré havíṣmān ǀ
hótāram satyayájam ródasyoruttānáhasto námasā́ vivāset ǁvītī yo devam marto duvasyed agnim īḷītādhvare haviṣmān |
hotāraṃ satyayajaṃ rodasyor uttānahasto namasā vivāset ||वी॒ती । यः । दे॒वम् । मर्तः॑ । दु॒व॒स्येत् । अ॒ग्निम् । ई॒ळी॒त॒ । अ॒ध्व॒रे । ह॒विष्मा॑न् ।
होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः । उ॒त्ता॒नऽह॑स्तः । नम॑सा । आ । वि॒वा॒से॒त् ॥वीती । यः । देवम् । मर्तः । दुवस्येत् । अग्निम् । ईळीत । अध्वरे । हविष्मान् ।
होतारम् । सत्यऽयजम् । रोदस्योः । उत्तानऽहस्तः । नमसा । आ । विवासेत् ॥vītī́ ǀ yáḥ ǀ devám ǀ mártaḥ ǀ duvasyét ǀ agním ǀ īḷīta ǀ adhvaré ǀ havíṣmān ǀ
hótāram ǀ satya-yájam ǀ ródasyoḥ ǀ uttāná-hastaḥ ǀ námasā ǀ ā́ ǀ vivāset ǁvītī ǀ yaḥ ǀ devam ǀ martaḥ ǀ duvasyet ǀ agnim ǀ īḷīta ǀ adhvare ǀ haviṣmān ǀ
hotāram ǀ satya-yajam ǀ rodasyoḥ ǀ uttāna-hastaḥ ǀ namasā ǀ ā ǀ vivāset ǁ6.16.46 Aṣṭaka 4.5.30.1Anuvāka 6.2.46
-
Ṛk 47
आ ते॑ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि ।
ते ते॑ भवंतू॒क्षण॑ ऋष॒भासो॑ व॒शा उ॒त ॥आ ते अग्न ऋचा हविर् हृदा तष्टम् भरामसि |
ते ते भवन्तूक्षण ऋषभासो वशा उत ||ā́ te agna ṛcā́ havírhṛdā́ taṣṭám bharāmasi ǀ
té te bhavantūkṣáṇa ṛṣabhā́so vaśā́ utá ǁā te agna ṛcā havir hṛdā taṣṭam bharāmasi |
te te bhavantūkṣaṇa ṛṣabhāso vaśā uta ||आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । हृ॒दा । त॒ष्टम् । भ॒रा॒म॒सि॒ ।
ते । ते॒ । भ॒व॒न्तु॒ । उ॒क्षणः॑ । ऋ॒ष॒भासः॑ । व॒शाः । उ॒त ॥आ । ते । अग्ने । ऋचा । हविः । हृदा । तष्टम् । भरामसि ।
ते । ते । भवन्तु । उक्षणः । ऋषभासः । वशाः । उत ॥ā́ ǀ te ǀ agne ǀ ṛcā́ ǀ havíḥ ǀ hṛdā́ ǀ taṣṭám ǀ bharāmasi ǀ
té ǀ te ǀ bhavantu ǀ ukṣáṇaḥ ǀ ṛṣabhā́saḥ ǀ vaśā́ḥ ǀ utá ǁā ǀ te ǀ agne ǀ ṛcā ǀ haviḥ ǀ hṛdā ǀ taṣṭam ǀ bharāmasi ǀ
te ǀ te ǀ bhavantu ǀ ukṣaṇaḥ ǀ ṛṣabhāsaḥ ǀ vaśāḥ ǀ uta ǁ6.16.47 Aṣṭaka 4.5.30.2Anuvāka 6.2.47
-
Ṛk 48
अ॒ग्निं दे॒वासो॑ अग्रि॒यमिं॒धते॑ वृत्र॒हंत॑मं ।
येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां॑सि वा॒जिना॑ ॥अग्निं देवासो अग्रियम् इन्धते वृत्रहन्तमम् |
येना वसून्य् आभृता तृऌहा रक्षांसि वाजिना ||agním devā́so agriyámindháte vṛtrahántamam ǀ
yénā vásūnyā́bhṛtā tṛḷhā́ rákṣāṃsi vājínā ǁagniṃ devāso agriyam indhate vṛtrahantamam |
yenā vasūny ābhṛtā tṛḷhā rakṣāṃsi vājinā ||अ॒ग्निम् । दे॒वासः॑ । अ॒ग्रि॒यम् । इ॒न्धते॑ । वृ॒त्र॒हन्ऽत॑मम् ।
येन॑ । वसू॑नि । आऽभृ॑ता । तृ॒ळ्हा । रक्षां॑सि । वा॒जिना॑ ॥अग्निम् । देवासः । अग्रियम् । इन्धते । वृत्रहन्ऽतमम् ।
येन । वसूनि । आऽभृता । तृळ्हा । रक्षांसि । वाजिना ॥agním ǀ devā́saḥ ǀ agriyám ǀ indháte ǀ vṛtrahán-tamam ǀ
yéna ǀ vásūni ǀ ā́-bhṛtā ǀ tṛḷhā́ ǀ rákṣāṃsi ǀ vājínā ǁagnim ǀ devāsaḥ ǀ agriyam ǀ indhate ǀ vṛtrahan-tamam ǀ
yena ǀ vasūni ǀ ā-bhṛtā ǀ tṛḷhā ǀ rakṣāṃsi ǀ vājinā ǁ6.16.48 Aṣṭaka 4.5.30.3Anuvāka 6.2.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.