Ṛgveda · Maṇḍala 7

Sūkta 1

Agni · Vasiṣṭha Maitrāvaruṇi · 25 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Virāj, Triṣṭubh
Metres by ṛk

1st set of styles ekādaśākṣarapādaistripadāvirāḍgāyatrī (1-18); triṣṭup (19-25)

2nd set of styles virāj (1-18); triṣṭubh (19-25)

  1. Ṛk 1

    अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयंत प्रश॒स्तं ।
    दू॒रे॒दृशं॑ गृ॒हप॑तिमथ॒र्युं ॥

    अग्निं नरो दीधितिभिर् अरण्योर् हस्तच्युती जनयन्त प्रशस्तम् |
    दूरेदृशं गृहपतिम् अथर्युम् ||

    agním náro dī́dhitibhiraráṇyorhástacyutī janayanta praśastám ǀ
    dūredṛ́śam gṛhápatimatharyúm ǁ

    agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam |
    dūredṛśaṃ gṛhapatim atharyum ||

    अ॒ग्निम् । नरः॑ । दीधि॑तिऽभिः । अ॒रण्योः॑ । हस्त॑ऽच्युती । ज॒न॒य॒न्त॒ । प्र॒ऽश॒स्तम् ।
    दू॒रे॒ऽदृश॑म् । गृ॒हऽप॑तिम् । अ॒थ॒र्युम् ॥

    अग्निम् । नरः । दीधितिऽभिः । अरण्योः । हस्तऽच्युती । जनयन्त । प्रऽशस्तम् ।
    दूरेऽदृशम् । गृहऽपतिम् । अथर्युम् ॥

    agním ǀ náraḥ ǀ dī́dhiti-bhiḥ ǀ aráṇyoḥ ǀ hásta-cyutī ǀ janayanta ǀ pra-śastám ǀ
    dūre-dṛ́śam ǀ gṛhá-patim ǀ atharyúm ǁ

    agnim ǀ naraḥ ǀ dīdhiti-bhiḥ ǀ araṇyoḥ ǀ hasta-cyutī ǀ janayanta ǀ pra-śastam ǀ
    dūre-dṛśam ǀ gṛha-patim ǀ atharyum ǁ

    7.1.1 Aṣṭaka 5.1.23.1Anuvāka 7.1.1

  2. Ṛk 2

    तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ॑ण्वन्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् ।
    द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ॥

    तम् अग्निम् अस्ते वसवो न्य् ऋण्वन् सुप्रतिचक्षम् अवसे कुतश् चित् |
    दक्षाय्यो यो दम आस नित्यः ||

    támagnímáste vásavo nyṛ́ṇvansupraticákṣamávase kútaścit ǀ
    dakṣā́yyo yó dáma ā́sa nítyaḥ ǁ

    tam agnim aste vasavo ny ṛṇvan supraticakṣam avase kutaś cit |
    dakṣāyyo yo dama āsa nityaḥ ||

    तम् । अ॒ग्निम् । अस्ते॑ । वस॑वः । नि । ऋ॒ण्व॒न् । सु॒ऽप्र॒ति॒चक्ष॑म् । अव॑से । कुतः॑ । चि॒त् ।
    द॒क्षाय्यः॑ । यः । दमे॑ । आस॑ । नित्यः॑ ॥

    तम् । अग्निम् । अस्ते । वसवः । नि । ऋण्वन् । सुऽप्रतिचक्षम् । अवसे । कुतः । चित् ।
    दक्षाय्यः । यः । दमे । आस । नित्यः ॥

    tám ǀ agním ǀ áste ǀ vásavaḥ ǀ ní ǀ ṛṇvan ǀ su-praticákṣam ǀ ávase ǀ kútaḥ ǀ cit ǀ
    dakṣā́yyaḥ ǀ yáḥ ǀ dáme ǀ ā́sa ǀ nítyaḥ ǁ

    tam ǀ agnim ǀ aste ǀ vasavaḥ ǀ ni ǀ ṛṇvan ǀ su-praticakṣam ǀ avase ǀ kutaḥ ǀ cit ǀ
    dakṣāyyaḥ ǀ yaḥ ǀ dame ǀ āsa ǀ nityaḥ ǁ

    7.1.2 Aṣṭaka 5.1.23.2Anuvāka 7.1.2

  3. Ṛk 3

    प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ ।
    त्वां शश्वं॑त॒ उप॑ यंति॒ वाजाः॑ ॥

    प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ |
    त्वां शश्वन्त उप यन्ति वाजाः ||

    préddho agne dīdihi puró nó’jasrayā sūrmyā́ yaviṣṭha ǀ
    tvā́m śáśvanta úpa yanti vā́jāḥ ǁ

    preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha |
    tvāṃ śaśvanta upa yanti vājāḥ ||

    प्रऽइ॑द्धः । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । अज॑स्रया । सू॒र्म्या॑ । य॒वि॒ष्ठ॒ ।
    त्वाम् । शश्व॑न्तः । उप॑ । य॒न्ति॒ । वाजाः॑ ॥

    प्रऽइद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । सूर्म्या । यविष्ठ ।
    त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः ॥

    prá-iddhaḥ ǀ agne ǀ dīdihi ǀ puráḥ ǀ naḥ ǀ ájasrayā ǀ sūrmyā́ ǀ yaviṣṭha ǀ
    tvā́m ǀ śáśvantaḥ ǀ úpa ǀ yanti ǀ vā́jāḥ ǁ

    pra-iddhaḥ ǀ agne ǀ dīdihi ǀ puraḥ ǀ naḥ ǀ ajasrayā ǀ sūrmyā ǀ yaviṣṭha ǀ
    tvām ǀ śaśvantaḥ ǀ upa ǀ yanti ǀ vājāḥ ǁ

    7.1.3 Aṣṭaka 5.1.23.3Anuvāka 7.1.3

  4. Ṛk 4

    प्र ते अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा॑सः शोशुचंत द्यु॒मंतः॑ ।
    यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ॥

    प्र ते अग्नयो ऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः |
    यत्रा नरः समासते सुजाताः ||

    prá té agnáyo’gníbhyo váram níḥ suvī́rāsaḥ śośucanta dyumántaḥ ǀ
    yátrā náraḥ samā́sate sujātā́ḥ ǁ

    pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ |
    yatrā naraḥ samāsate sujātāḥ ||

    प्र । ते । अ॒ग्नयः॑ । अ॒ग्निऽभ्यः॑ । वर॑म् । निः । सु॒ऽवीरा॑सः । शो॒शु॒च॒न्त॒ । द्यु॒ऽमन्तः॑ ।
    यत्र॑ । नरः॑ । स॒म्ऽआस॑ते । सु॒ऽजा॒ताः ॥

    प्र । ते । अग्नयः । अग्निऽभ्यः । वरम् । निः । सुऽवीरासः । शोशुचन्त । द्युऽमन्तः ।
    यत्र । नरः । सम्ऽआसते । सुऽजाताः ॥

    prá ǀ té ǀ agnáyaḥ ǀ agní-bhyaḥ ǀ váram ǀ níḥ ǀ su-vī́rāsaḥ ǀ śośucanta ǀ dyu-mántaḥ ǀ
    yátra ǀ náraḥ ǀ sam-ā́sate ǀ su-jātā́ḥ ǁ

    pra ǀ te ǀ agnayaḥ ǀ agni-bhyaḥ ǀ varam ǀ niḥ ǀ su-vīrāsaḥ ǀ śośucanta ǀ dyu-mantaḥ ǀ
    yatra ǀ naraḥ ǀ sam-āsate ǀ su-jātāḥ ǁ

    7.1.4 Aṣṭaka 5.1.23.4Anuvāka 7.1.4

  5. Ṛk 5

    दा नो॑ अग्ने धि॒या र॒यिं सु॒वीरं॑ स्वप॒त्यं स॑हस्य प्रश॒स्तं ।
    न यं यावा॒ तर॑ति यातु॒मावा॑न् ॥

    दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् |
    न यं यावा तरति यातुमावान् ||

    dā́ no agne dhiyā́ rayím suvī́ram svapatyám sahasya praśastám ǀ
    ná yám yā́vā tárati yātumā́vān ǁ

    dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam |
    na yaṃ yāvā tarati yātumāvān ||

    दाः । नः॒ । अ॒ग्ने॒ । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । सु॒ऽअ॒प॒त्यम् । स॒ह॒स्य॒ । प्र॒ऽश॒स्तम् ।
    न । यम् । यावा॑ । तर॑ति । या॒तु॒ऽमावा॑न् ॥

    दाः । नः । अग्ने । धिया । रयिम् । सुऽवीरम् । सुऽअपत्यम् । सहस्य । प्रऽशस्तम् ।
    न । यम् । यावा । तरति । यातुऽमावान् ॥

    dā́ḥ ǀ naḥ ǀ agne ǀ dhiyā́ ǀ rayím ǀ su-vī́ram ǀ su-apatyám ǀ sahasya ǀ pra-śastám ǀ
    ná ǀ yám ǀ yā́vā ǀ tárati ǀ yātu-mā́vān ǁ

    dāḥ ǀ naḥ ǀ agne ǀ dhiyā ǀ rayim ǀ su-vīram ǀ su-apatyam ǀ sahasya ǀ pra-śastam ǀ
    na ǀ yam ǀ yāvā ǀ tarati ǀ yātu-māvān ǁ

    7.1.5 Aṣṭaka 5.1.23.5Anuvāka 7.1.5

  6. Ṛk 6

    उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ ।
    उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥

    उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती घृताची |
    उप स्वैनम् अरमतिर् वसूयुः ||

    úpa yáméti yuvatíḥ sudákṣam doṣā́ vástorhavíṣmatī ghṛtā́cī ǀ
    úpa sváinamarámatirvasūyúḥ ǁ

    upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī |
    upa svainam aramatir vasūyuḥ ||

    उप॑ । यम् । एति॑ । यु॒व॒तिः । सु॒ऽदक्ष॑म् । दो॒षा । वस्तोः॑ । ह॒विष्म॑ती । घृ॒ताची॑ ।
    उप॑ । स्वा । ए॒न॒म् । अ॒रम॑तिः । व॒सु॒ऽयुः ॥

    उप । यम् । एति । युवतिः । सुऽदक्षम् । दोषा । वस्तोः । हविष्मती । घृताची ।
    उप । स्वा । एनम् । अरमतिः । वसुऽयुः ॥

    úpa ǀ yám ǀ éti ǀ yuvatíḥ ǀ su-dákṣam ǀ doṣā́ ǀ vástoḥ ǀ havíṣmatī ǀ ghṛtā́cī ǀ
    úpa ǀ svā́ ǀ enam ǀ arámatiḥ ǀ vasu-yúḥ ǁ

    upa ǀ yam ǀ eti ǀ yuvatiḥ ǀ su-dakṣam ǀ doṣā ǀ vastoḥ ǀ haviṣmatī ǀ ghṛtācī ǀ
    upa ǀ svā ǀ enam ǀ aramatiḥ ǀ vasu-yuḥ ǁ

    7.1.6 Aṣṭaka 5.1.24.1Anuvāka 7.1.6

  7. Ṛk 7

    विश्वा॑ अ॒ग्नेऽप॑ द॒हारा॑ती॒र्येभि॒स्तपो॑भि॒रद॑हो॒ जरू॑थं ।
    प्र नि॑स्व॒रं चा॑तय॒स्वामी॑वां ॥

    विश्वा अग्ने ऽप दहारातीर् येभिस् तपोभिर् अदहो जरूथम् |
    प्र निस्वरं चातयस्वामीवाम् ||

    víśvā agné’pa dahā́rātīryébhistápobhirádaho járūtham ǀ
    prá nisvarám cātayasvā́mīvām ǁ

    viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham |
    pra nisvaraṃ cātayasvāmīvām ||

    विश्वाः॑ । अ॒ग्ने॒ । अप॑ । द॒ह॒ । अरा॑तीः । येभिः॑ । तपः॑ऽभिः । अद॑हः । जरू॑थम् ।
    प्र । नि॒ऽस्व॒रम् । चा॒त॒य॒स्व॒ । अमी॑वाम् ॥

    विश्वाः । अग्ने । अप । दह । अरातीः । येभिः । तपःऽभिः । अदहः । जरूथम् ।
    प्र । निऽस्वरम् । चातयस्व । अमीवाम् ॥

    víśvāḥ ǀ agne ǀ ápa ǀ daha ǀ árātīḥ ǀ yébhiḥ ǀ tápaḥ-bhiḥ ǀ ádahaḥ ǀ járūtham ǀ
    prá ǀ ni-svarám ǀ cātayasva ǀ ámīvām ǁ

    viśvāḥ ǀ agne ǀ apa ǀ daha ǀ arātīḥ ǀ yebhiḥ ǀ tapaḥ-bhiḥ ǀ adahaḥ ǀ jarūtham ǀ
    pra ǀ ni-svaram ǀ cātayasva ǀ amīvām ǁ

    7.1.7 Aṣṭaka 5.1.24.2Anuvāka 7.1.7

  8. Ṛk 8

    आ यस्ते॑ अग्न इध॒ते अनी॑कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑वः॒ पाव॑क ।
    उ॒तो न॑ ए॒भिः स्त॒वथै॑रि॒ह स्याः॑ ॥

    आ यस् ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक |
    उतो न एभि स्तवथैर् इह स्याः ||

    ā́ yáste agna idhaté ánīkam vásiṣṭha śúkra dī́divaḥ pā́vaka ǀ
    utó na ebhíḥ staváthairihá syāḥ ǁ

    ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka |
    uto na ebhi stavathair iha syāḥ ||

    आ । यः । ते॒ । अ॒ग्ने॒ । इ॒ध॒ते । अनी॑कम् । वसि॑ष्ठ । शुक्र॑ । दीदि॑ऽवः । पाव॑क ।
    उ॒तो इति॑ । नः॒ । ए॒भिः । स्त॒वथैः॑ । इ॒ह । स्याः॒ ॥

    आ । यः । ते । अग्ने । इधते । अनीकम् । वसिष्ठ । शुक्र । दीदिऽवः । पावक ।
    उतो इति । नः । एभिः । स्तवथैः । इह । स्याः ॥

    ā́ ǀ yáḥ ǀ te ǀ agne ǀ idhaté ǀ ánīkam ǀ vásiṣṭha ǀ śúkra ǀ dī́di-vaḥ ǀ pā́vaka ǀ
    utó íti ǀ naḥ ǀ ebhíḥ ǀ staváthaiḥ ǀ ihá ǀ syāḥ ǁ

    ā ǀ yaḥ ǀ te ǀ agne ǀ idhate ǀ anīkam ǀ vasiṣṭha ǀ śukra ǀ dīdi-vaḥ ǀ pāvaka ǀ
    uto iti ǀ naḥ ǀ ebhiḥ ǀ stavathaiḥ ǀ iha ǀ syāḥ ǁ

    7.1.8 Aṣṭaka 5.1.24.3Anuvāka 7.1.8

  9. Ṛk 9

    वि ये ते॑ अग्ने भेजि॒रे अनी॑कं॒ मर्ता॒ नरः॒ पित्र्या॑सः पुरु॒त्रा ।
    उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्याः॑ ॥

    वि ये ते अग्ने भेजिरे अनीकम् मर्ता नरः पित्र्यासः पुरुत्रा |
    उतो न एभिः सुमना इह स्याः ||

    ví yé te agne bhejiré ánīkam mártā náraḥ pítryāsaḥ purutrā́ ǀ
    utó na ebhíḥ sumánā ihá syāḥ ǁ

    vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā |
    uto na ebhiḥ sumanā iha syāḥ ||

    वि । ये । ते॒ । अ॒ग्ने॒ । भे॒जि॒रे । अनी॑कम् । मर्ताः॑ । नरः॑ । पित्र्या॑सः । पु॒रु॒ऽत्रा ।
    उ॒तो इति॑ । नः॒ । ए॒भिः । सु॒ऽमनाः॑ । इ॒ह । स्याः॒ ॥

    वि । ये । ते । अग्ने । भेजिरे । अनीकम् । मर्ताः । नरः । पित्र्यासः । पुरुऽत्रा ।
    उतो इति । नः । एभिः । सुऽमनाः । इह । स्याः ॥

    ví ǀ yé ǀ te ǀ agne ǀ bhejiré ǀ ánīkam ǀ mártāḥ ǀ náraḥ ǀ pítryāsaḥ ǀ puru-trā́ ǀ
    utó íti ǀ naḥ ǀ ebhíḥ ǀ su-mánāḥ ǀ ihá ǀ syāḥ ǁ

    vi ǀ ye ǀ te ǀ agne ǀ bhejire ǀ anīkam ǀ martāḥ ǀ naraḥ ǀ pitryāsaḥ ǀ puru-trā ǀ
    uto iti ǀ naḥ ǀ ebhiḥ ǀ su-manāḥ ǀ iha ǀ syāḥ ǁ

    7.1.9 Aṣṭaka 5.1.24.4Anuvāka 7.1.9

  10. Ṛk 10

    इ॒मे नरो॑ वृत्र॒हत्ये॑षु॒ शूरा॒ विश्वा॒ अदे॑वीर॒भि सं॑तु मा॒याः ।
    ये मे॒ धियं॑ प॒नयं॑त प्रश॒स्तां ॥

    इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीर् अभि सन्तु मायाः |
    ये मे धियम् पनयन्त प्रशस्ताम् ||

    imé náro vṛtrahátyeṣu śū́rā víśvā ádevīrabhí santu māyā́ḥ ǀ
    yé me dhíyam panáyanta praśastā́m ǁ

    ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ |
    ye me dhiyam panayanta praśastām ||

    इ॒मे । नरः॑ । वृ॒त्र॒ऽहत्ये॑षु । शूराः॑ । विश्वाः॑ । अदे॑वीः । अ॒भि । स॒न्तु॒ । मा॒याः ।
    ये । मे॒ । धिय॑म् । प॒नय॑न्त । प्र॒ऽश॒स्ताम् ॥

    इमे । नरः । वृत्रऽहत्येषु । शूराः । विश्वाः । अदेवीः । अभि । सन्तु । मायाः ।
    ये । मे । धियम् । पनयन्त । प्रऽशस्ताम् ॥

    imé ǀ náraḥ ǀ vṛtra-hátyeṣu ǀ śū́rāḥ ǀ víśvāḥ ǀ ádevīḥ ǀ abhí ǀ santu ǀ māyā́ḥ ǀ
    yé ǀ me ǀ dhíyam ǀ panáyanta ǀ pra-śastā́m ǁ

    ime ǀ naraḥ ǀ vṛtra-hatyeṣu ǀ śūrāḥ ǀ viśvāḥ ǀ adevīḥ ǀ abhi ǀ santu ǀ māyāḥ ǀ
    ye ǀ me ǀ dhiyam ǀ panayanta ǀ pra-śastām ǁ

    7.1.10 Aṣṭaka 5.1.24.5Anuvāka 7.1.10

  11. Ṛk 11

    मा शूने॑ अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा ।
    प्र॒जाव॑तीषु॒ दुर्या॑सु दुर्य ॥

    मा शूने अग्ने नि षदाम नृणाम् माशेषसो ऽवीरता परि त्वा |
    प्रजावतीषु दुर्यासु दुर्य ||

    mā́ śū́ne agne ní ṣadāma nṛṇā́m mā́śéṣaso’vī́ratā pári tvā ǀ
    prajā́vatīṣu dúryāsu durya ǁ

    mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā |
    prajāvatīṣu duryāsu durya ||

    मा । शूने॑ । अ॒ग्ने॒ । नि । स॒दा॒म॒ । नृ॒णाम् । मा । अ॒शेष॑सः । अ॒वीर॑ता । परि॑ । त्वा॒ ।
    प्र॒जाऽव॑तीषु । दुर्या॑सु । दु॒र्य॒ ॥

    मा । शूने । अग्ने । नि । सदाम । नृणाम् । मा । अशेषसः । अवीरता । परि । त्वा ।
    प्रजाऽवतीषु । दुर्यासु । दुर्य ॥

    mā́ ǀ śū́ne ǀ agne ǀ ní ǀ sadāma ǀ nṛṇā́m ǀ mā́ ǀ aśéṣasaḥ ǀ avī́ratā ǀ pári ǀ tvā ǀ
    prajā́-vatīṣu ǀ dúryāsu ǀ durya ǁ

    mā ǀ śūne ǀ agne ǀ ni ǀ sadāma ǀ nṛṇām ǀ mā ǀ aśeṣasaḥ ǀ avīratā ǀ pari ǀ tvā ǀ
    prajā-vatīṣu ǀ duryāsu ǀ durya ǁ

    7.1.11 Aṣṭaka 5.1.25.1Anuvāka 7.1.11

  12. Ṛk 12

    यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जावं॑तं स्वप॒त्यं क्षयं॑ नः ।
    स्वज॑न्मना॒ शेष॑सा वावृधा॒नं ॥

    यम् अश्वी नित्यम् उपयाति यज्ञम् प्रजावन्तं स्वपत्यं क्षयं नः |
    स्वजन्मना शेषसा वावृधानम् ||

    yámaśvī́ nítyamupayā́ti yajñám prajā́vantam svapatyám kṣáyam naḥ ǀ
    svájanmanā śéṣasā vāvṛdhānám ǁ

    yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ |
    svajanmanā śeṣasā vāvṛdhānam ||

    यम् । अ॒श्वी । नित्य॑म् । उ॒प॒ऽयाति॑ । य॒ज्ञम् । प्र॒जाऽव॑न्तम् । सु॒ऽअ॒प॒त्यम् । क्षय॑म् । नः॒ ।
    स्वऽज॑न्मना । शेष॑सा । व॒वृ॒धा॒नम् ॥

    यम् । अश्वी । नित्यम् । उपऽयाति । यज्ञम् । प्रजाऽवन्तम् । सुऽअपत्यम् । क्षयम् । नः ।
    स्वऽजन्मना । शेषसा । ववृधानम् ॥

    yám ǀ aśvī́ ǀ nítyam ǀ upa-yā́ti ǀ yajñám ǀ prajā́-vantam ǀ su-apatyám ǀ kṣáyam ǀ naḥ ǀ
    svá-janmanā ǀ śéṣasā ǀ vavṛdhānám ǁ

    yam ǀ aśvī ǀ nityam ǀ upa-yāti ǀ yajñam ǀ prajā-vantam ǀ su-apatyam ǀ kṣayam ǀ naḥ ǀ
    sva-janmanā ǀ śeṣasā ǀ vavṛdhānam ǁ

    7.1.12 Aṣṭaka 5.1.25.2Anuvāka 7.1.12

  13. Ṛk 13

    पा॒हि नो॑ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः ।
    त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्यां॑ ॥

    पाहि नो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेर् अररुषो अघायोः |
    त्वा युजा पृतनायूंर् अभि ष्याम् ||

    pāhí no agne rakṣáso ájuṣṭātpāhí dhūrtéráraruṣo aghāyóḥ ǀ
    tvā́ yujā́ pṛtanāyū́m̐rabhí ṣyām ǁ

    pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ |
    tvā yujā pṛtanāyūṃr abhi ṣyām ||

    पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । अजु॑ष्टात् । पा॒हि । धू॒र्तेः । अर॑रुषः । अ॒घ॒ऽयोः ।
    त्वा । यु॒जा । पृ॒त॒ना॒ऽयून् । अ॒भि । स्या॒म् ॥

    पाहि । नः । अग्ने । रक्षसः । अजुष्टात् । पाहि । धूर्तेः । अररुषः । अघऽयोः ।
    त्वा । युजा । पृतनाऽयून् । अभि । स्याम् ॥

    pāhí ǀ naḥ ǀ agne ǀ rakṣásaḥ ǀ ájuṣṭāt ǀ pāhí ǀ dhūrtéḥ ǀ áraruṣaḥ ǀ agha-yóḥ ǀ
    tvā́ ǀ yujā́ ǀ pṛtanā-yū́n ǀ abhí ǀ syām ǁ

    pāhi ǀ naḥ ǀ agne ǀ rakṣasaḥ ǀ ajuṣṭāt ǀ pāhi ǀ dhūrteḥ ǀ araruṣaḥ ǀ agha-yoḥ ǀ
    tvā ǀ yujā ǀ pṛtanā-yūn ǀ abhi ǀ syām ǁ

    7.1.13 Aṣṭaka 5.1.25.3Anuvāka 7.1.13

  14. Ṛk 14

    सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा॑णिः ।
    स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥

    सेद् अग्निर् अग्नींर् अत्य् अस्त्व् अन्यान् यत्र वाजी तनयो वीऌउपाणिः |
    सहस्रपाथा अक्षरा समेति ||

    sédagníragnī́m̐rátyastvanyā́nyátra vājī́ tánayo vīḷúpāṇiḥ ǀ
    sahásrapāthā akṣárā saméti ǁ

    sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīḷupāṇiḥ |
    sahasrapāthā akṣarā sameti ||

    सः । इत् । अ॒ग्निः । अ॒ग्नीन् । अति॑ । अ॒स्तु॒ । अ॒न्यान् । यत्र॑ । वा॒जी । तन॑यः । वी॒ळुऽपा॑णिः ।
    स॒हस्र॑ऽपाथाः । अ॒क्षरा॑ । स॒म्ऽएति॑ ॥

    सः । इत् । अग्निः । अग्नीन् । अति । अस्तु । अन्यान् । यत्र । वाजी । तनयः । वीळुऽपाणिः ।
    सहस्रऽपाथाः । अक्षरा । सम्ऽएति ॥

    sáḥ ǀ ít ǀ agníḥ ǀ agnī́n ǀ áti ǀ astu ǀ anyā́n ǀ yátra ǀ vājī́ ǀ tánayaḥ ǀ vīḷú-pāṇiḥ ǀ
    sahásra-pāthāḥ ǀ akṣárā ǀ sam-éti ǁ

    saḥ ǀ it ǀ agniḥ ǀ agnīn ǀ ati ǀ astu ǀ anyān ǀ yatra ǀ vājī ǀ tanayaḥ ǀ vīḷu-pāṇiḥ ǀ
    sahasra-pāthāḥ ǀ akṣarā ǀ sam-eti ǁ

    7.1.14 Aṣṭaka 5.1.25.4Anuvāka 7.1.14

  15. Ṛk 15

    सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् ।
    सु॒जा॒तासः॒ परि॑ चरंति वी॒राः ॥

    सेद् अग्निर् यो वनुष्यतो निपाति समेद्धारम् अंहस उरुष्यात् |
    सुजातासः परि चरन्ति वीराः ||

    sédagníryó vanuṣyató nipā́ti sameddhā́ramáṃhasa uruṣyā́t ǀ
    sujātā́saḥ pári caranti vīrā́ḥ ǁ

    sed agnir yo vanuṣyato nipāti sameddhāram aṃhasa uruṣyāt |
    sujātāsaḥ pari caranti vīrāḥ ||

    सः । इत् । अ॒ग्निः । यः । व॒नु॒ष्य॒तः । नि॒ऽपाति॑ । स॒म्ऽए॒द्धार॑म् । अंह॑सः । उ॒रु॒ष्यात् ।
    सु॒ऽजा॒तासः॑ । परि॑ । च॒र॒न्ति॒ । वी॒राः ॥

    सः । इत् । अग्निः । यः । वनुष्यतः । निऽपाति । सम्ऽएद्धारम् । अंहसः । उरुष्यात् ।
    सुऽजातासः । परि । चरन्ति । वीराः ॥

    sáḥ ǀ ít ǀ agníḥ ǀ yáḥ ǀ vanuṣyatáḥ ǀ ni-pā́ti ǀ sam-eddhā́ram ǀ áṃhasaḥ ǀ uruṣyā́t ǀ
    su-jātā́saḥ ǀ pári ǀ caranti ǀ vīrā́ḥ ǁ

    saḥ ǀ it ǀ agniḥ ǀ yaḥ ǀ vanuṣyataḥ ǀ ni-pāti ǀ sam-eddhāram ǀ aṃhasaḥ ǀ uruṣyāt ǀ
    su-jātāsaḥ ǀ pari ǀ caranti ǀ vīrāḥ ǁ

    7.1.15 Aṣṭaka 5.1.25.5Anuvāka 7.1.15

  16. Ṛk 16

    अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा॑नः॒ समिदिं॒धे ह॒विष्मा॑न् ।
    परि॒ यमेत्य॑ध्व॒रेषु॒ होता॑ ॥

    अयं सो अग्निर् आहुतः पुरुत्रा यम् ईशानः सम् इद् इन्धे हविष्मान् |
    परि यम् एत्य् अध्वरेषु होता ||

    ayám só agnírā́hutaḥ purutrā́ yámī́śānaḥ sámídindhé havíṣmān ǀ
    pári yámétyadhvaréṣu hótā ǁ

    ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān |
    pari yam ety adhvareṣu hotā ||

    अ॒यम् । सः । अ॒ग्निः । आऽहु॑तः । पु॒रु॒ऽत्रा । यम् । ईशा॑नः । सम् । इत् । इ॒न्धे । ह॒विष्मा॑न् ।
    परि॑ । यम् । एति॑ । अ॒ध्व॒रेषु॑ । होता॑ ॥

    अयम् । सः । अग्निः । आऽहुतः । पुरुऽत्रा । यम् । ईशानः । सम् । इत् । इन्धे । हविष्मान् ।
    परि । यम् । एति । अध्वरेषु । होता ॥

    ayám ǀ sáḥ ǀ agníḥ ǀ ā́-hutaḥ ǀ puru-trā́ ǀ yám ǀ ī́śānaḥ ǀ sám ǀ ít ǀ indhé ǀ havíṣmān ǀ
    pári ǀ yám ǀ éti ǀ adhvaréṣu ǀ hótā ǁ

    ayam ǀ saḥ ǀ agniḥ ǀ ā-hutaḥ ǀ puru-trā ǀ yam ǀ īśānaḥ ǀ sam ǀ it ǀ indhe ǀ haviṣmān ǀ
    pari ǀ yam ǀ eti ǀ adhvareṣu ǀ hotā ǁ

    7.1.16 Aṣṭaka 5.1.26.1Anuvāka 7.1.16

  17. Ṛk 17

    त्वे अ॑ग्न आ॒हव॑नानि॒ भूरी॑शा॒नास॒ आ जु॑हुयाम॒ नित्या॑ ।
    उ॒भा कृ॒ण्वंतो॑ वह॒तू मि॒येधे॑ ॥

    त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या |
    उभा कृण्वन्तो वहतू मियेधे ||

    tvé agna āhávanāni bhū́rīśānā́sa ā́ juhuyāma nítyā ǀ
    ubhā́ kṛṇvánto vahatū́ miyédhe ǁ

    tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā |
    ubhā kṛṇvanto vahatū miyedhe ||

    त्वे इति॑ । अ॒ग्ने॒ । आ॒ऽहव॑नानि । भूरि॑ । ई॒शा॒नासः॑ । आ । जु॒हु॒या॒म॒ । नित्या॑ ।
    उ॒भा । कृ॒ण्वन्तः॑ । व॒ह॒तू इति॑ । मि॒येधे॑ ॥

    त्वे इति । अग्ने । आऽहवनानि । भूरि । ईशानासः । आ । जुहुयाम । नित्या ।
    उभा । कृण्वन्तः । वहतू इति । मियेधे ॥

    tvé íti ǀ agne ǀ ā-hávanāni ǀ bhū́ri ǀ īśānā́saḥ ǀ ā́ ǀ juhuyāma ǀ nítyā ǀ
    ubhā́ ǀ kṛṇvántaḥ ǀ vahatū́ íti ǀ miyédhe ǁ

    tve iti ǀ agne ǀ ā-havanāni ǀ bhūri ǀ īśānāsaḥ ǀ ā ǀ juhuyāma ǀ nityā ǀ
    ubhā ǀ kṛṇvantaḥ ǀ vahatū iti ǀ miyedhe ǁ

    7.1.17 Aṣṭaka 5.1.26.2Anuvāka 7.1.17

  18. Ṛk 18

    इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ ।
    प्रति॑ न ईं सुर॒भीणि॑ व्यंतु ॥

    इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अच्छ |
    प्रति न ईं सुरभीणि व्यन्तु ||

    imó agne vītátamāni havyā́jasro vakṣi devátātimáccha ǀ
    práti na īm surabhī́ṇi vyantu ǁ

    imo agne vītatamāni havyājasro vakṣi devatātim accha |
    prati na īṃ surabhīṇi vyantu ||

    इ॒मो इति॑ । अ॒ग्ने॒ । वी॒तऽत॑मानि । ह॒व्या । अज॑स्रः । व॒क्षि॒ । दे॒वऽता॑तिम् । अच्छ॑ ।
    प्रति॑ । नः॒ । ई॒म् । सु॒र॒भीणि॑ । व्य॒न्तु॒ ॥

    इमो इति । अग्ने । वीतऽतमानि । हव्या । अजस्रः । वक्षि । देवऽतातिम् । अच्छ ।
    प्रति । नः । ईम् । सुरभीणि । व्यन्तु ॥

    imó íti ǀ agne ǀ vītá-tamāni ǀ havyā́ ǀ ájasraḥ ǀ vakṣi ǀ devá-tātim ǀ áccha ǀ
    práti ǀ naḥ ǀ īm ǀ surabhī́ṇi ǀ vyantu ǁ

    imo iti ǀ agne ǀ vīta-tamāni ǀ havyā ǀ ajasraḥ ǀ vakṣi ǀ deva-tātim ǀ accha ǀ
    prati ǀ naḥ ǀ īm ǀ surabhīṇi ǀ vyantu ǁ

    7.1.18 Aṣṭaka 5.1.26.3Anuvāka 7.1.18

  19. Ṛk 19

    मा नो॑ अग्ने॒ऽवीर॑ते॒ परा॑ दा दु॒र्वास॒सेऽम॑तये॒ मा नो॑ अ॒स्यै ।
    मा नः॑ क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ॥

    मा नो अग्ने ऽवीरते परा दा दुर्वाससे ऽमतये मा नो अस्यै |
    मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ||

    mā́ no agne’vī́rate párā dā durvā́sasé’mataye mā́ no asyái ǀ
    mā́ naḥ kṣudhé mā́ rakṣása ṛtāvo mā́ no dáme mā́ vána ā́ juhūrthāḥ ǁ

    mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai |
    mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ ||

    मा । नः॒ । अ॒ग्ने॒ । अ॒वीर॑ते । परा॑ । दाः॒ । दुः॒ऽवास॑से । अम॑तये । मा । नः॒ । अ॒स्यै ।
    मा । नः॒ । क्षु॒धे । मा । र॒क्षसे॑ । ऋ॒त॒ऽवः॒ । मा । नः॒ । दमे॑ । मा । वने॑ । आ । जु॒हू॒र्थाः॒ ॥

    मा । नः । अग्ने । अवीरते । परा । दाः । दुःऽवाससे । अमतये । मा । नः । अस्यै ।
    मा । नः । क्षुधे । मा । रक्षसे । ऋतऽवः । मा । नः । दमे । मा । वने । आ । जुहूर्थाः ॥

    mā́ ǀ naḥ ǀ agne ǀ avī́rate ǀ párā ǀ dāḥ ǀ duḥ-vā́sase ǀ ámataye ǀ mā́ ǀ naḥ ǀ asyái ǀ
    mā́ ǀ naḥ ǀ kṣudhé ǀ mā́ ǀ rakṣáse ǀ ṛta-vaḥ ǀ mā́ ǀ naḥ ǀ dáme ǀ mā́ ǀ váne ǀ ā́ ǀ juhūrthāḥ ǁ

    mā ǀ naḥ ǀ agne ǀ avīrate ǀ parā ǀ dāḥ ǀ duḥ-vāsase ǀ amataye ǀ mā ǀ naḥ ǀ asyai ǀ
    mā ǀ naḥ ǀ kṣudhe ǀ mā ǀ rakṣase ǀ ṛta-vaḥ ǀ mā ǀ naḥ ǀ dame ǀ mā ǀ vane ǀ ā ǀ juhūrthāḥ ǁ

    7.1.19 Aṣṭaka 5.1.26.4Anuvāka 7.1.19

  20. Ṛk 20

    नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः ।
    रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः |
    रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ||

    nū́ me bráhmāṇyagna úcchaśādhi tvám deva maghávadbhyaḥ suṣūdaḥ ǀ
    rātáu syāmobháyāsa ā́ te yūyám pāta svastíbhiḥ sádā naḥ ǁ

    nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ |
    rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ ||

    नु । मे॒ । ब्रह्मा॑णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव॑त्ऽभ्यः । सु॒सू॒दः॒ ।
    रा॒तौ । स्या॒म॒ । उ॒भया॑सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

    नु । मे । ब्रह्माणि । अग्ने । उत् । शशाधि । त्वम् । देव । मघवत्ऽभ्यः । सुसूदः ।
    रातौ । स्याम । उभयासः । आ । ते । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

    nú ǀ me ǀ bráhmāṇi ǀ agne ǀ út ǀ śaśādhi ǀ tvám ǀ deva ǀ maghávat-bhyaḥ ǀ susūdaḥ ǀ
    rātáu ǀ syāma ǀ ubháyāsaḥ ǀ ā́ ǀ te ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

    nu ǀ me ǀ brahmāṇi ǀ agne ǀ ut ǀ śaśādhi ǀ tvam ǀ deva ǀ maghavat-bhyaḥ ǀ susūdaḥ ǀ
    rātau ǀ syāma ǀ ubhayāsaḥ ǀ ā ǀ te ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

    7.1.20 Aṣṭaka 5.1.26.5Anuvāka 7.1.20

  21. Ṛk 21

    त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि ।
    मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥

    त्वम् अग्ने सुहवो रण्वसंदृक् सुदीती सूनो सहसो दिदीहि |
    मा त्वे सचा तनये नित्य आ धङ् मा वीरो अस्मन् नर्यो वि दासीत् ||

    tvámagne suhávo raṇvásaṃdṛksudītī́ sūno sahaso didīhi ǀ
    mā́ tvé sácā tánaye nítya ā́ dhaṅmā́ vīró asmánnáryo ví dāsīt ǁ

    tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi |
    mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt ||

    त्वम् । अ॒ग्ने॒ । सु॒ऽहवः॑ । र॒ण्वऽस॑न्दृक् । सु॒ऽदी॒ती । सू॒नो॒ इति॑ । स॒ह॒सः॒ । दि॒दी॒हि॒ ।
    मा । त्वे इति॑ । सचा॑ । तन॑ये । नित्ये॑ । आ । ध॒क् । मा । वी॒रः । अ॒स्मत् । नर्यः॑ । वि । दा॒सी॒त् ॥

    त्वम् । अग्ने । सुऽहवः । रण्वऽसन्दृक् । सुऽदीती । सूनो इति । सहसः । दिदीहि ।
    मा । त्वे इति । सचा । तनये । नित्ये । आ । धक् । मा । वीरः । अस्मत् । नर्यः । वि । दासीत् ॥

    tvám ǀ agne ǀ su-hávaḥ ǀ raṇvá-sandṛk ǀ su-dītī́ ǀ sūno íti ǀ sahasaḥ ǀ didīhi ǀ
    mā́ ǀ tvé íti ǀ sácā ǀ tánaye ǀ nítye ǀ ā́ ǀ dhak ǀ mā́ ǀ vīráḥ ǀ asmát ǀ náryaḥ ǀ ví ǀ dāsīt ǁ

    tvam ǀ agne ǀ su-havaḥ ǀ raṇva-sandṛk ǀ su-dītī ǀ sūno iti ǀ sahasaḥ ǀ didīhi ǀ
    mā ǀ tve iti ǀ sacā ǀ tanaye ǀ nitye ǀ ā ǀ dhak ǀ mā ǀ vīraḥ ǀ asmat ǀ naryaḥ ǀ vi ǀ dāsīt ǁ

    7.1.21 Aṣṭaka 5.1.27.1Anuvāka 7.1.21

  22. Ṛk 22

    मा नो॑ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे॑ष्व॒ग्निषु॒ प्र वो॑चः ।
    मा ते॑ अ॒स्मांदु॑र्म॒तयो॑ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशंत ॥

    मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्व् अग्निषु प्र वोचः |
    मा ते अस्मान् दुर्मतयो भृमाच् चिद् देवस्य सूनो सहसो नशन्त ||

    mā́ no agne durbhṛtáye sácaiṣú devéddheṣvagníṣu prá vocaḥ ǀ
    mā́ te asmā́ndurmatáyo bhṛmā́cciddevásya sūno sahaso naśanta ǁ

    mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ |
    mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta ||

    मा । नः॒ । अ॒ग्ने॒ । दुः॒ऽभृ॒तये॑ । सचा॑ । ए॒षु । दे॒वऽइ॑द्धेषु । अ॒ग्निषु॑ । प्र । वो॒चः॒ ।
    मा । ते॒ । अ॒स्मान् । दुः॒ऽम॒तयः॑ । भृ॒मात् । चि॒त् । दे॒वस्य॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । न॒श॒न्त॒ ॥

    मा । नः । अग्ने । दुःऽभृतये । सचा । एषु । देवऽइद्धेषु । अग्निषु । प्र । वोचः ।
    मा । ते । अस्मान् । दुःऽमतयः । भृमात् । चित् । देवस्य । सूनो इति । सहसः । नशन्त ॥

    mā́ ǀ naḥ ǀ agne ǀ duḥ-bhṛtáye ǀ sácā ǀ eṣú ǀ devá-iddheṣu ǀ agníṣu ǀ prá ǀ vocaḥ ǀ
    mā́ ǀ te ǀ asmā́n ǀ duḥ-matáyaḥ ǀ bhṛmā́t ǀ cit ǀ devásya ǀ sūno íti ǀ sahasaḥ ǀ naśanta ǁ

    mā ǀ naḥ ǀ agne ǀ duḥ-bhṛtaye ǀ sacā ǀ eṣu ǀ deva-iddheṣu ǀ agniṣu ǀ pra ǀ vocaḥ ǀ
    mā ǀ te ǀ asmān ǀ duḥ-matayaḥ ǀ bhṛmāt ǀ cit ǀ devasya ǀ sūno iti ǀ sahasaḥ ǀ naśanta ǁ

    7.1.22 Aṣṭaka 5.1.27.2Anuvāka 7.1.22

  23. Ṛk 23

    स मर्तो॑ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ॑जु॒होति॑ ह॒व्यं ।
    स दे॒वता॑ वसु॒वनिं॑ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा॑न॒ एति॑ ॥

    स मर्तो अग्ने स्वनीक रेवान् अमर्त्ये य आजुहोति हव्यम् |
    स देवता वसुवनिं दधाति यं सूरिर् अर्थी पृच्छमान एति ||

    sá márto agne svanīka revā́námartye yá ājuhóti havyám ǀ
    sá devátā vasuvánim dadhāti yám sūrírarthī́ pṛcchámāna éti ǁ

    sa marto agne svanīka revān amartye ya ājuhoti havyam |
    sa devatā vasuvaniṃ dadhāti yaṃ sūrir arthī pṛcchamāna eti ||

    सः । मर्तः॑ । अ॒ग्ने॒ । सु॒ऽअ॒नी॒क॒ । रे॒वान् । अम॑र्त्ये । यः । आ॒ऽजु॒होति॑ । ह॒व्यम् ।
    सः । दे॒वता॑ । व॒सु॒ऽवनि॑म् । द॒धा॒ति॒ । यम् । सू॒रिः । अ॒र्थी । पृ॒च्छमा॑नः । एति॑ ॥

    सः । मर्तः । अग्ने । सुऽअनीक । रेवान् । अमर्त्ये । यः । आऽजुहोति । हव्यम् ।
    सः । देवता । वसुऽवनिम् । दधाति । यम् । सूरिः । अर्थी । पृच्छमानः । एति ॥

    sáḥ ǀ mártaḥ ǀ agne ǀ su-anīka ǀ revā́n ǀ ámartye ǀ yáḥ ǀ ā-juhóti ǀ havyám ǀ
    sáḥ ǀ devátā ǀ vasu-vánim ǀ dadhāti ǀ yám ǀ sūríḥ ǀ arthī́ ǀ pṛcchámānaḥ ǀ éti ǁ

    saḥ ǀ martaḥ ǀ agne ǀ su-anīka ǀ revān ǀ amartye ǀ yaḥ ǀ ā-juhoti ǀ havyam ǀ
    saḥ ǀ devatā ǀ vasu-vanim ǀ dadhāti ǀ yam ǀ sūriḥ ǀ arthī ǀ pṛcchamānaḥ ǀ eti ǁ

    7.1.23 Aṣṭaka 5.1.27.3Anuvāka 7.1.23

  24. Ṛk 24

    म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हंतं॑ ।
    येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः॑ ॥

    महो नो अग्ने सुवितस्य विद्वान् रयिं सूरिभ्य आ वहा बृहन्तम् |
    येन वयं सहसावन् मदेमाविक्षितास आयुषा सुवीराः ||

    mahó no agne suvitásya vidvā́nrayím sūríbhya ā́ vahā bṛhántam ǀ
    yéna vayám sahasāvanmádemā́vikṣitāsa ā́yuṣā suvī́rāḥ ǁ

    maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam |
    yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ ||

    म॒हः । नः॒ । अ॒ग्ने॒ । सु॒वि॒तस्य॑ । वि॒द्वान् । र॒यिम् । सू॒रिऽभ्यः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् ।
    येन॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । मदे॑म । अवि॑ऽक्षितासः । आयु॑षा । सु॒ऽवीराः॑ ॥

    महः । नः । अग्ने । सुवितस्य । विद्वान् । रयिम् । सूरिऽभ्यः । आ । वह । बृहन्तम् ।
    येन । वयम् । सहसाऽवन् । मदेम । अविऽक्षितासः । आयुषा । सुऽवीराः ॥

    maháḥ ǀ naḥ ǀ agne ǀ suvitásya ǀ vidvā́n ǀ rayím ǀ sūrí-bhyaḥ ǀ ā́ ǀ vaha ǀ bṛhántam ǀ
    yéna ǀ vayám ǀ sahasā-van ǀ mádema ǀ ávi-kṣitāsaḥ ǀ ā́yuṣā ǀ su-vī́rāḥ ǁ

    mahaḥ ǀ naḥ ǀ agne ǀ suvitasya ǀ vidvān ǀ rayim ǀ sūri-bhyaḥ ǀ ā ǀ vaha ǀ bṛhantam ǀ
    yena ǀ vayam ǀ sahasā-van ǀ madema ǀ avi-kṣitāsaḥ ǀ āyuṣā ǀ su-vīrāḥ ǁ

    7.1.24 Aṣṭaka 5.1.27.4Anuvāka 7.1.24

  25. Ṛk 25

    नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः ।
    रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    नू मे ब्रह्माण्य् अग्न उच् छशाधि त्वं देव मघवद्भ्यः सुषूदः |
    रातौ स्यामोभयास आ ते यूयम् पात स्वस्तिभिः सदा नः ||

    nū́ me bráhmāṇyagna úcchaśādhi tvám deva maghávadbhyaḥ suṣūdaḥ ǀ
    rātáu syāmobháyāsa ā́ te yūyám pāta svastíbhiḥ sádā naḥ ǁ

    nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ |
    rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ ||

    नु । मे॒ । ब्रह्मा॑णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव॑त्ऽभ्यः । सु॒सू॒दः॒ ।
    रा॒तौ । स्या॒म॒ । उ॒भया॑सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

    नु । मे । ब्रह्माणि । अग्ने । उत् । शशाधि । त्वम् । देव । मघवत्ऽभ्यः । सुसूदः ।
    रातौ । स्याम । उभयासः । आ । ते । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

    nú ǀ me ǀ bráhmāṇi ǀ agne ǀ út ǀ śaśādhi ǀ tvám ǀ deva ǀ maghávat-bhyaḥ ǀ susūdaḥ ǀ
    rātáu ǀ syāma ǀ ubháyāsaḥ ǀ ā́ ǀ te ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

    nu ǀ me ǀ brahmāṇi ǀ agne ǀ ut ǀ śaśādhi ǀ tvam ǀ deva ǀ maghavat-bhyaḥ ǀ susūdaḥ ǀ
    rātau ǀ syāma ǀ ubhayāsaḥ ǀ ā ǀ te ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

    7.1.25 Aṣṭaka 5.1.27.5Anuvāka 7.1.25

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.1 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

Men have brought to birth from the two tinders by the hands’ fall the Fire voiced by the light of their meditations,1 Fire that sees afar, the flaming master of the house. (297)

Ṛk 2

The Shining Ones have set within in our dwelling-house- closely regarding all to guard us from whatever side-that Fire which in his home sits eternal and all-discerning.

Ṛk 3

Verily shine out in front of us, O Fire, with thy perpetual radiance; to thee continuous come plenitudes. (297)

Ṛk 4

Fires come blazing out supremely from thy Fires, luminous, full of hero-might, there where are assembled men born to the perfect birth. (297)

Ṛk 5

Give us, O Fire, O Forceful One, by the thought the wealth full of hero-power, full of progeny high-proclaimed which the Assailant with his demon magic cannot pierce. (297)

Ṛk 6

He to whom there comes in the light and in the dusk the young Damsel, luminous bearing the offering—it is his own dynamic thought that comes to him desiring the Riches. (298)

Ṛk 7

O Fire, burn away from us all hostile powers with the consuming flames with which thou didst burn the afflicting demon, destroy Pain so that no voice of her is left. (298)

Ṛk 8

O bright and most opulent, O Fire, who shinest and purifiest, as with whosoever kindles thy flame-forces, so with us too, by those lauds abide. (298)

Ṛk 9

As with those who have turned to thy flame-force, mortal men, our forefathers in many lands, with us too by these lauds in thy right-mindedness abide. (298)

Ṛk 10

May these men, heroes in the slayings of the Coverer, who work out the thought I have voiced, overcome all undivine mage-knowledge. (298)

Ṛk 11

O Fire, may we not dwell in the emptiness, nor in houses of men where there is no son3 and the hero is not, but around thee may we dwell in homes where there is good progeny, O dweller in the home. (299)

Ṛk 12

This is the eternal sacrifice to which there comes the Rider of the Horse, to our house full of progeny and good offspring, our house increasing with the self-born Son. (299)

Ṛk 13

Protect us, O Fire, from the abhorred Rakshasa, protect from the harm of one who would war against us and do us evil; with thee as ally may we overcome those who would battle against us. (299)

Ṛk 14

May that Fire go beyond all other fires where is the Horse and the Son with the strong hand; traveller of the thousand paths reaches the imperishable things. (299)

Ṛk 15

This is that Fire who guards those who would conquer, he protects from evil the man who sets him ablaze; the heroes of the perfect birth move around him. (299)

Ṛk 16

This is that Fire who is called4 in many lands, whom the giver of the offering sets ablaze and has lordship, round whom moves the priest of the call in the rites of the path. (300)

Ṛk 17

In thee, O Fire, we cast many offerings gaining lordship, creating in the sacrifice both the eternal Travellers. (300)

Ṛk 18

O Fire, these offerings most desired, incessantly bring to our formation of the godhead; to us may there come all delightful Powers. (300)

Ṛk 19

Deliver us not, O Fire, to strengthlessness, nor to the ill-clad mindlessness, nor to hunger, nor to the Rakshasa, O thou with whom is the Truth, lead us not astray in the house or in the forest. (300)

Ṛk 20

Now, O Fire, teach to us the Words, do thou, O God, speed them to the lords of plenty, may both we and they abide in thy grace, do you protect us ever with all kinds of weal . (300)

Ṛk 21

Thou, O Fire, art swift to our call and rapturous is thy vision; O son of force, shine with a bright light. Burn us not since in thee and with thee is the eternal Son, let not the strength of the hero in us break us to pieces. (301)

Ṛk 22

Mayst thou not, who art with us in these god-kindled fires, denounce us for difficulty to bear thee; may not wrong thinkings from thee, O son of force, even by error come to us. (301)

Ṛk 23

O Fire, O thou with thy flame-force, rich with Treasure, become the mortal who casts his offerings in the immortal; that godhead founds in him the conquest of the riches to whom comes questioning the illumined seer, the seeker. (301)

Ṛk 24

O Fire, thou art the knower of the great and happy path, bring to the illumined seers the vast Treasure by which, O forceful one, with a life unwasting, heroic in strength we may take rapture. (301)

Ṛk 25

Now, O Fire, teach to us the Words, do thou, O God, speed them to the lords of plenty, may both we and they abide in thy grace, do you protect us ever with all kinds of weal. (301)