Sūkta 87
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles ārṣītriṣṭup (2, 3, 5); triṣṭup (4, 6, 7); virāṭtrisṭup (1)
2nd set of styles triṣṭubh
-
Ṛk 1
रद॑त्प॒थो वरु॑णः॒ सूर्या॑य॒ प्रार्णां॑सि समु॒द्रिया॑ न॒दीनां॑ ।
सर्गो॒ न सृ॒ष्टो अर्व॑तीर्ऋता॒यंच॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ॥रदत् पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् |
सर्गो न सृष्टो अर्वतीर् ऋतायञ् चकार महीर् अवनीर् अहभ्यः ||rádatpathó váruṇaḥ sū́ryāya prā́rṇāṃsi samudríyā nadī́nām ǀ
sárgo ná sṛṣṭó árvatīrṛtāyáñcakā́ra mahī́ravánīráhabhyaḥ ǁradat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām |
sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ ||रद॑त् । प॒थः । वरु॑णः । सूर्या॑य । प्र । अर्णां॑सि । स॒मु॒द्रिया॑ । न॒दीना॑म् ।
सर्गः॑ । न । सृ॒ष्टः । अर्व॑तीः । ऋ॒त॒ऽयन् । च॒कार॑ । म॒हीः । अ॒वनीः॑ । अह॑ऽभ्यः ॥रदत् । पथः । वरुणः । सूर्याय । प्र । अर्णांसि । समुद्रिया । नदीनाम् ।
सर्गः । न । सृष्टः । अर्वतीः । ऋतऽयन् । चकार । महीः । अवनीः । अहऽभ्यः ॥rádat ǀ patháḥ ǀ váruṇaḥ ǀ sū́ryāya ǀ prá ǀ árṇāṃsi ǀ samudríyā ǀ nadī́nām ǀ
sárgaḥ ǀ ná ǀ sṛṣṭáḥ ǀ árvatīḥ ǀ ṛta-yán ǀ cakā́ra ǀ mahī́ḥ ǀ avánīḥ ǀ áha-bhyaḥ ǁradat ǀ pathaḥ ǀ varuṇaḥ ǀ sūryāya ǀ pra ǀ arṇāṃsi ǀ samudriyā ǀ nadīnām ǀ
sargaḥ ǀ na ǀ sṛṣṭaḥ ǀ arvatīḥ ǀ ṛta-yan ǀ cakāra ǀ mahīḥ ǀ avanīḥ ǀ aha-bhyaḥ ǁ7.87.1 Aṣṭaka 5.6.9.1Anuvāka 7.5.101
-
Ṛk 2
आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् ।
अं॒तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा॑ ते॒ धाम॑ वरुण प्रि॒याणि॑ ॥आत्मा ते वातो रज आ नवीनोत् पशुर् न भूर्णिर् यवसे ससवान् |
अन्तर् मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ||ātmā́ te vā́to rája ā́ navīnotpaśúrná bhū́rṇiryávase sasavā́n ǀ
antármahī́ bṛhatī́ ródasīmé víśvā te dhā́ma varuṇa priyā́ṇi ǁātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān |
antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi ||आ॒त्मा । ते॒ । वातः॑ । रजः॑ । आ । न॒वी॒नो॒त् । प॒शुः । न । भूर्णिः॑ । यव॑से । स॒स॒ऽवान् ।
अ॒न्तः । म॒ही इति॑ । बृ॒ह॒ती इति॑ । रोद॑सी॒ इति॑ । इ॒मे इति॑ । विश्वा॑ । ते॒ । धाम॑ । व॒रु॒ण॒ । प्रि॒याणि॑ ॥आत्मा । ते । वातः । रजः । आ । नवीनोत् । पशुः । न । भूर्णिः । यवसे । ससऽवान् ।
अन्तः । मही इति । बृहती इति । रोदसी इति । इमे इति । विश्वा । ते । धाम । वरुण । प्रियाणि ॥ātmā́ ǀ te ǀ vā́taḥ ǀ rájaḥ ǀ ā́ ǀ navīnot ǀ paśúḥ ǀ ná ǀ bhū́rṇiḥ ǀ yávase ǀ sasa-vā́n ǀ
antáḥ ǀ mahī́ íti ǀ bṛhatī́ íti ǀ ródasī íti ǀ imé íti ǀ víśvā ǀ te ǀ dhā́ma ǀ varuṇa ǀ priyā́ṇi ǁātmā ǀ te ǀ vātaḥ ǀ rajaḥ ǀ ā ǀ navīnot ǀ paśuḥ ǀ na ǀ bhūrṇiḥ ǀ yavase ǀ sasa-vān ǀ
antaḥ ǀ mahī iti ǀ bṛhatī iti ǀ rodasī iti ǀ ime iti ǀ viśvā ǀ te ǀ dhāma ǀ varuṇa ǀ priyāṇi ǁ7.87.2 Aṣṭaka 5.6.9.2Anuvāka 7.5.102
-
Ṛk 3
परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा उ॒भे प॑श्यंति॒ रोद॑सी सु॒मेके॑ ।
ऋ॒तावा॑नः क॒वयो॑ य॒ज्ञधी॑राः॒ प्रचे॑तसो॒ य इ॒षयं॑त॒ मन्म॑ ॥परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके |
ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ||pári spáśo váruṇasya smádiṣṭā ubhé paśyanti ródasī suméke ǀ
ṛtā́vānaḥ kaváyo yajñádhīrāḥ prácetaso yá iṣáyanta mánma ǁpari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke |
ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma ||परि॑ । स्पशः॑ । वरु॑णस्य । स्मत्ऽइ॑ष्टाः । उ॒भे इति॑ । प॒श्य॒न्ति॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।
ऋ॒तऽवा॑नः । क॒वयः॑ । य॒ज्ञऽधी॑राः । प्रऽचे॑तसः । ये । इ॒षय॑न्त । मन्म॑ ॥परि । स्पशः । वरुणस्य । स्मत्ऽइष्टाः । उभे इति । पश्यन्ति । रोदसी इति । सुमेके इति सुऽमेके ।
ऋतऽवानः । कवयः । यज्ञऽधीराः । प्रऽचेतसः । ये । इषयन्त । मन्म ॥pári ǀ spáśaḥ ǀ váruṇasya ǀ smát-iṣṭāḥ ǀ ubhé íti ǀ paśyanti ǀ ródasī íti ǀ suméke íti su-méke ǀ
ṛtá-vānaḥ ǀ kaváyaḥ ǀ yajñá-dhīrāḥ ǀ prá-cetasaḥ ǀ yé ǀ iṣáyanta ǀ mánma ǁpari ǀ spaśaḥ ǀ varuṇasya ǀ smat-iṣṭāḥ ǀ ubhe iti ǀ paśyanti ǀ rodasī iti ǀ sumeke iti su-meke ǀ
ṛta-vānaḥ ǀ kavayaḥ ǀ yajña-dhīrāḥ ǀ pra-cetasaḥ ǀ ye ǀ iṣayanta ǀ manma ǁ7.87.3 Aṣṭaka 5.6.9.3Anuvāka 7.5.103
-
Ṛk 4
उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या॑ बिभर्ति ।
वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो॑चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ॥उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति |
विद्वान् पदस्य गुह्या न वोचद् युगाय विप्र उपराय शिक्षन् ||uvā́ca me váruṇo médhirāya tríḥ saptá nā́mā́ghnyā bibharti ǀ
vidvā́npadásya gúhyā ná vocadyugā́ya vípra úparāya śíkṣan ǁuvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti |
vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan ||उ॒वाच॑ । मे॒ । वरु॑णः । मेधि॑राय । त्रिः । स॒प्त । नाम॑ । अघ्न्या॑ । बि॒भ॒र्ति॒ ।
वि॒द्वान् । प॒दस्य॑ । गुह्या॑ । न । वो॒च॒त् । यु॒गाय॑ । विप्रः॑ । उप॑राय । शिक्ष॑न् ॥उवाच । मे । वरुणः । मेधिराय । त्रिः । सप्त । नाम । अघ्न्या । बिभर्ति ।
विद्वान् । पदस्य । गुह्या । न । वोचत् । युगाय । विप्रः । उपराय । शिक्षन् ॥uvā́ca ǀ me ǀ váruṇaḥ ǀ médhirāya ǀ tríḥ ǀ saptá ǀ nā́ma ǀ ághnyā ǀ bibharti ǀ
vidvā́n ǀ padásya ǀ gúhyā ǀ ná ǀ vocat ǀ yugā́ya ǀ vípraḥ ǀ úparāya ǀ śíkṣan ǁuvāca ǀ me ǀ varuṇaḥ ǀ medhirāya ǀ triḥ ǀ sapta ǀ nāma ǀ aghnyā ǀ bibharti ǀ
vidvān ǀ padasya ǀ guhyā ǀ na ǀ vocat ǀ yugāya ǀ vipraḥ ǀ uparāya ǀ śikṣan ǁ7.87.4 Aṣṭaka 5.6.9.4Anuvāka 7.5.104
-
Ṛk 5
ति॒स्रो द्यावो॒ निहि॑ता अं॒तर॑स्मिंति॒स्रो भूमी॒रुप॑राः॒ षड्वि॑धानाः ।
गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रें॒खं हि॑र॒ण्ययं॑ शु॒भे कं ॥तिस्रो द्यावो निहिता अन्तर् अस्मिन् तिस्रो भूमीर् उपराः षड्विधानाः |
गृत्सो राजा वरुणश् चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ||tisró dyā́vo níhitā antárasmintisró bhū́mīrúparāḥ ṣáḍvidhānāḥ ǀ
gṛ́tso rā́jā váruṇaścakra etám diví preṅkhám hiraṇyáyam śubhé kám ǁtisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ |
gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam ||ति॒स्रः । द्यावः॑ । निऽहि॑ताः । अ॒न्तः । अ॒स्मि॒न् । ति॒स्रः । भूमिः॑ । उप॑राः । षट्ऽवि॑धानाः ।
गृत्सः॑ । राजा॑ । वरु॑णः । च॒क्रे॒ । ए॒तम् । दि॒वि । प्र॒ऽई॒ङ्खम् । हि॒र॒ण्यय॑म् । शु॒भे । कम् ॥तिस्रः । द्यावः । निऽहिताः । अन्तः । अस्मिन् । तिस्रः । भूमिः । उपराः । षट्ऽविधानाः ।
गृत्सः । राजा । वरुणः । चक्रे । एतम् । दिवि । प्रऽईङ्खम् । हिरण्ययम् । शुभे । कम् ॥tisráḥ ǀ dyā́vaḥ ǀ ní-hitāḥ ǀ antáḥ ǀ asmin ǀ tisráḥ ǀ bhū́miḥ ǀ úparāḥ ǀ ṣáṭ-vidhānāḥ ǀ
gṛ́tsaḥ ǀ rā́jā ǀ váruṇaḥ ǀ cakre ǀ etám ǀ diví ǀ pra-īṅkhám ǀ hiraṇyáyam ǀ śubhé ǀ kám ǁtisraḥ ǀ dyāvaḥ ǀ ni-hitāḥ ǀ antaḥ ǀ asmin ǀ tisraḥ ǀ bhūmiḥ ǀ uparāḥ ǀ ṣaṭ-vidhānāḥ ǀ
gṛtsaḥ ǀ rājā ǀ varuṇaḥ ǀ cakre ǀ etam ǀ divi ǀ pra-īṅkham ǀ hiraṇyayam ǀ śubhe ǀ kam ǁ7.87.5 Aṣṭaka 5.6.9.5Anuvāka 7.5.105
-
Ṛk 6
अव॒ सिंधुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् ।
गं॒भी॒रशं॑सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा॑ ॥अव सिन्धुं वरुणो द्यौर् इव स्थाद् द्रप्सो न श्वेतो मृगस् तुविष्मान् |
गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ||áva síndhum váruṇo dyáuriva sthāddrapsó ná śvetó mṛgástúviṣmān ǀ
gambhīráśaṃso rájaso vimā́naḥ supārákṣatraḥ sató asyá rā́jā ǁava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān |
gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā ||अव॑ । सिन्धु॑म् । वरु॑णः । द्यौःऽइ॑व । स्था॒त् । द्र॒प्सः । न । श्वे॒तः । मृ॒गः । तुवि॑ष्मान् ।
ग॒म्भी॒रऽशं॑सः । रज॑सः । वि॒ऽमानः॑ । सु॒पा॒रऽक्ष॑त्रः । स॒तः । अ॒स्य । राजा॑ ॥अव । सिन्धुम् । वरुणः । द्यौःऽइव । स्थात् । द्रप्सः । न । श्वेतः । मृगः । तुविष्मान् ।
गम्भीरऽशंसः । रजसः । विऽमानः । सुपारऽक्षत्रः । सतः । अस्य । राजा ॥áva ǀ síndhum ǀ váruṇaḥ ǀ dyáuḥ-iva ǀ sthāt ǀ drapsáḥ ǀ ná ǀ śvetáḥ ǀ mṛgáḥ ǀ túviṣmān ǀ
gambhīrá-śaṃsaḥ ǀ rájasaḥ ǀ vi-mā́naḥ ǀ supārá-kṣatraḥ ǀ satáḥ ǀ asyá ǀ rā́jā ǁava ǀ sindhum ǀ varuṇaḥ ǀ dyauḥ-iva ǀ sthāt ǀ drapsaḥ ǀ na ǀ śvetaḥ ǀ mṛgaḥ ǀ tuviṣmān ǀ
gambhīra-śaṃsaḥ ǀ rajasaḥ ǀ vi-mānaḥ ǀ supāra-kṣatraḥ ǀ sataḥ ǀ asya ǀ rājā ǁ7.87.6 Aṣṭaka 5.6.9.6Anuvāka 7.5.106
-
Ṛk 7
यो मृ॒ळया॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः ।
अनु॑ व्र॒तान्यदि॑तेर्ऋ॒धंतो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥यो मृऌअयाति चक्रुषे चिद् आगो वयं स्याम वरुणे अनागाः |
अनु व्रतान्य् अदितेर् ऋधन्तो यूयम् पात स्वस्तिभिः सदा नः ||yó mṛḷáyāti cakrúṣe cidā́go vayám syāma váruṇe ánāgāḥ ǀ
ánu vratā́nyáditerṛdhánto yūyám pāta svastíbhiḥ sádā naḥ ǁyo mṛḷayāti cakruṣe cid āgo vayaṃ syāma varuṇe anāgāḥ |
anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ ||यः । मृ॒ळया॑ति । च॒क्रुषे॑ । चि॒त् । आगः॑ । व॒यम् । स्या॒म॒ । वरु॑णे । अना॑गाः ।
अनु॑ । व्र॒तानि॑ । अदि॑तेः । ऋ॒धन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥यः । मृळयाति । चक्रुषे । चित् । आगः । वयम् । स्याम । वरुणे । अनागाः ।
अनु । व्रतानि । अदितेः । ऋधन्तः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥yáḥ ǀ mṛḷáyāti ǀ cakrúṣe ǀ cit ǀ ā́gaḥ ǀ vayám ǀ syāma ǀ váruṇe ǀ ánāgāḥ ǀ
ánu ǀ vratā́ni ǀ áditeḥ ǀ ṛdhántaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁyaḥ ǀ mṛḷayāti ǀ cakruṣe ǀ cit ǀ āgaḥ ǀ vayam ǀ syāma ǀ varuṇe ǀ anāgāḥ ǀ
anu ǀ vratāni ǀ aditeḥ ǀ ṛdhantaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.87.7 Aṣṭaka 5.6.9.7Anuvāka 7.5.107
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.