Sūkta 60
- Devatā देवता
- 1: Aryaman, Mitra, Varuṇa, Sūrya, Aditi; 2-12: Mitra, Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2-4, 6, 7, 12); triṣṭup (5, 8, 11); paṅktiḥ (1); virāṭpaṅkti (9); svarāṭpaṅkti (10)
2nd set of styles triṣṭubh
-
Ṛk 1
यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यं ।
व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णंतः॑ ॥यद् अद्य सूर्य ब्रवो ऽनागा उद्यन् मित्राय वरुणाय सत्यम् |
वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ||yádadyá sūrya brávó’nāgā udyánmitrā́ya váruṇāya satyám ǀ
vayám devatrā́dite syāma táva priyā́so aryamangṛṇántaḥ ǁyad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam |
vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ ||यत् । अ॒द्य । सू॒र्य॒ । ब्रवः॑ । अना॑गाः । उ॒त्ऽयन् । मि॒त्राय॑ । वरु॑णाय । स॒त्यम् ।
व॒यम् । दे॒व॒ऽत्रा । अ॒दि॒ते॒ । स्या॒म॒ । तव॑ । प्रि॒यासः॑ । अ॒र्य॒म॒न् । गृ॒णन्तः॑ ॥यत् । अद्य । सूर्य । ब्रवः । अनागाः । उत्ऽयन् । मित्राय । वरुणाय । सत्यम् ।
वयम् । देवऽत्रा । अदिते । स्याम । तव । प्रियासः । अर्यमन् । गृणन्तः ॥yát ǀ adyá ǀ sūrya ǀ brávaḥ ǀ ánāgāḥ ǀ ut-yán ǀ mitrā́ya ǀ váruṇāya ǀ satyám ǀ
vayám ǀ deva-trā́ ǀ adite ǀ syāma ǀ táva ǀ priyā́saḥ ǀ aryaman ǀ gṛṇántaḥ ǁyat ǀ adya ǀ sūrya ǀ bravaḥ ǀ anāgāḥ ǀ ut-yan ǀ mitrāya ǀ varuṇāya ǀ satyam ǀ
vayam ǀ deva-trā ǀ adite ǀ syāma ǀ tava ǀ priyāsaḥ ǀ aryaman ǀ gṛṇantaḥ ǁ7.60.1 Aṣṭaka 5.5.1.1Anuvāka 7.4.51
-
Ṛk 2
ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् ।
विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥एष स्य मित्रावरुणा नृचक्षा उभे उद् एति सूर्यो अभि ज्मन् |
विश्वस्य स्थातुर् जगतश् च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ||eṣá syá mitrāvaruṇā nṛcákṣā ubhé údeti sū́ryo abhí jmán ǀ
víśvasya sthātúrjágataśca gopā́ ṛjú márteṣu vṛjinā́ ca páśyan ǁeṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman |
viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan ||ए॒षः । स्यः । मि॒त्रा॒व॒रु॒णा॒ । नृ॒ऽचक्षाः॑ । उ॒भे इति॑ । उत् । ए॒ति॒ । सूर्यः॑ । अ॒भि । ज्मन् ।
विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । गो॒पाः । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥एषः । स्यः । मित्रावरुणा । नृऽचक्षाः । उभे इति । उत् । एति । सूर्यः । अभि । ज्मन् ।
विश्वस्य । स्थातुः । जगतः । च । गोपाः । ऋजु । मर्तेषु । वृजिना । च । पश्यन् ॥eṣáḥ ǀ syáḥ ǀ mitrāvaruṇā ǀ nṛ-cákṣāḥ ǀ ubhé íti ǀ út ǀ eti ǀ sū́ryaḥ ǀ abhí ǀ jmán ǀ
víśvasya ǀ sthātúḥ ǀ jágataḥ ǀ ca ǀ gopā́ḥ ǀ ṛjú ǀ márteṣu ǀ vṛjinā́ ǀ ca ǀ páśyan ǁeṣaḥ ǀ syaḥ ǀ mitrāvaruṇā ǀ nṛ-cakṣāḥ ǀ ubhe iti ǀ ut ǀ eti ǀ sūryaḥ ǀ abhi ǀ jman ǀ
viśvasya ǀ sthātuḥ ǀ jagataḥ ǀ ca ǀ gopāḥ ǀ ṛju ǀ marteṣu ǀ vṛjinā ǀ ca ǀ paśyan ǁ7.60.2 Aṣṭaka 5.5.1.2Anuvāka 7.4.52
-
Ṛk 3
अयु॑क्त स॒प्त ह॒रितः॑ स॒धस्था॒द्या ईं॒ वहं॑ति॒ सूर्यं॑ घृ॒ताचीः॑ ।
धामा॑नि मित्रावरुणा यु॒वाकुः॒ सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥अयुक्त सप्त हरितः सधस्थाद् या ईं वहन्ति सूर्यं घृताचीः |
धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ||áyukta saptá harítaḥ sadhásthādyā́ īm váhanti sū́ryam ghṛtā́cīḥ ǀ
dhā́māni mitrāvaruṇā yuvā́kuḥ sám yó yūthéva jánimāni cáṣṭe ǁayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ |
dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe ||अयु॑क्त । स॒प्त । ह॒रितः॑ । स॒धऽस्था॑त् । याः । ई॒म् । वह॑न्ति । सूर्य॑म् । घृ॒ताचीः॑ ।
धामा॑नि । मि॒त्रा॒व॒रु॒णा॒ । यु॒वाकुः॑ । सम् । यः । यू॒थाऽइ॑व । जनि॑मानि । चष्टे॑ ॥अयुक्त । सप्त । हरितः । सधऽस्थात् । याः । ईम् । वहन्ति । सूर्यम् । घृताचीः ।
धामानि । मित्रावरुणा । युवाकुः । सम् । यः । यूथाऽइव । जनिमानि । चष्टे ॥áyukta ǀ saptá ǀ harítaḥ ǀ sadhá-sthāt ǀ yā́ḥ ǀ īm ǀ váhanti ǀ sū́ryam ǀ ghṛtā́cīḥ ǀ
dhā́māni ǀ mitrāvaruṇā ǀ yuvā́kuḥ ǀ sám ǀ yáḥ ǀ yūthā́-iva ǀ jánimāni ǀ cáṣṭe ǁayukta ǀ sapta ǀ haritaḥ ǀ sadha-sthāt ǀ yāḥ ǀ īm ǀ vahanti ǀ sūryam ǀ ghṛtācīḥ ǀ
dhāmāni ǀ mitrāvaruṇā ǀ yuvākuḥ ǀ sam ǀ yaḥ ǀ yūthā-iva ǀ janimāni ǀ caṣṭe ǁ7.60.3 Aṣṭaka 5.5.1.3Anuvāka 7.4.53
-
Ṛk 4
उद्वां॑ पृ॒क्षासो॒ मधु॑मंतो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्णः॑ ।
यस्मा॑ आदि॒त्या अध्व॑नो॒ रदं॑ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ ॥उद् वाम् पृक्षासो मधुमन्तो अस्थुर् आ सूर्यो अरुहच् छुक्रम् अर्णः |
यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ||údvām pṛkṣā́so mádhumanto asthurā́ sū́ryo aruhacchukrámárṇaḥ ǀ
yásmā ādityā́ ádhvano rádanti mitró aryamā́ váruṇaḥ sajóṣāḥ ǁud vām pṛkṣāso madhumanto asthur ā sūryo aruhac chukram arṇaḥ |
yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ ||उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । अ॒स्थुः॒ । आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ ।
यस्मै॑ । आ॒दि॒त्याः । अध्व॑नः । रद॑न्ति । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ ॥उत् । वाम् । पृक्षासः । मधुऽमन्तः । अस्थुः । आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः ।
यस्मै । आदित्याः । अध्वनः । रदन्ति । मित्रः । अर्यमा । वरुणः । सऽजोषाः ॥út ǀ vām ǀ pṛkṣā́saḥ ǀ mádhu-mantaḥ ǀ asthuḥ ǀ ā́ ǀ sū́ryaḥ ǀ aruhat ǀ śukrám ǀ árṇaḥ ǀ
yásmai ǀ ādityā́ḥ ǀ ádhvanaḥ ǀ rádanti ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ sa-jóṣāḥ ǁut ǀ vām ǀ pṛkṣāsaḥ ǀ madhu-mantaḥ ǀ asthuḥ ǀ ā ǀ sūryaḥ ǀ aruhat ǀ śukram ǀ arṇaḥ ǀ
yasmai ǀ ādityāḥ ǀ adhvanaḥ ǀ radanti ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ sa-joṣāḥ ǁ7.60.4 Aṣṭaka 5.5.1.4Anuvāka 7.4.54
-
Ṛk 5
इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि संति॑ ।
इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मासः॑ पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥इमे चेतारो अनृतस्य भूरेर् मित्रो अर्यमा वरुणो हि सन्ति |
इम ऋतस्य वावृधुर् दुरोणे शग्मासः पुत्रा अदितेर् अदब्धाः ||imé cetā́ro ánṛtasya bhū́rermitró aryamā́ váruṇo hí sánti ǀ
imá ṛtásya vāvṛdhurduroṇé śagmā́saḥ putrā́ áditerádabdhāḥ ǁime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi |
ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ ||इ॒मे । चे॒तारः॑ । अनृ॑तस्य । भूरेः॑ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । हि । सन्ति॑ ।
इ॒मे । ऋ॒तस्य॑ । व॒वृ॒धुः॒ । दु॒रो॒णे । श॒ग्मासः॑ । पु॒त्राः । अदि॑तेः । अद॑ब्धाः ॥इमे । चेतारः । अनृतस्य । भूरेः । मित्रः । अर्यमा । वरुणः । हि । सन्ति ।
इमे । ऋतस्य । ववृधुः । दुरोणे । शग्मासः । पुत्राः । अदितेः । अदब्धाः ॥imé ǀ cetā́raḥ ǀ ánṛtasya ǀ bhū́reḥ ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ hí ǀ sánti ǀ
imé ǀ ṛtásya ǀ vavṛdhuḥ ǀ duroṇé ǀ śagmā́saḥ ǀ putrā́ḥ ǀ áditeḥ ǀ ádabdhāḥ ǁime ǀ cetāraḥ ǀ anṛtasya ǀ bhūreḥ ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ hi ǀ santi ǀ
ime ǀ ṛtasya ǀ vavṛdhuḥ ǀ duroṇe ǀ śagmāsaḥ ǀ putrāḥ ǀ aditeḥ ǀ adabdhāḥ ǁ7.60.5 Aṣṭaka 5.5.1.5Anuvāka 7.4.55
-
Ṛk 6
इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयंति॒ दक्षैः॑ ।
अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वतं॑तस्ति॒रश्चि॒दंहः॑ सु॒पथा॑ नयंति ॥इमे मित्रो वरुणो दूऌअभासो ऽचेतसं चिच् चितयन्ति दक्षैः |
अपि क्रतुं सुचेतसं वतन्तस् तिरश् चिद् अंहः सुपथा नयन्ति ||imé mitró váruṇo dūḷábhāso’cetásam ciccitayanti dákṣaiḥ ǀ
ápi krátum sucétasam vátantastiráścidáṃhaḥ supáthā nayanti ǁime mitro varuṇo dūḷabhāso 'cetasaṃ cic citayanti dakṣaiḥ |
api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti ||इ॒मे । मि॒त्रः । वरु॑णः । दुः॒ऽदभा॑सः । अ॒चे॒तस॑म् । चि॒त् । चि॒त॒य॒न्ति॒ । दक्षैः॑ ।
अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । वत॑न्तः । ति॒रः । चि॒त् । अंहः॑ । सु॒ऽपथा॑ । न॒य॒न्ति॒ ॥इमे । मित्रः । वरुणः । दुःऽदभासः । अचेतसम् । चित् । चितयन्ति । दक्षैः ।
अपि । क्रतुम् । सुऽचेतसम् । वतन्तः । तिरः । चित् । अंहः । सुऽपथा । नयन्ति ॥imé ǀ mitráḥ ǀ váruṇaḥ ǀ duḥ-dábhāsaḥ ǀ acetásam ǀ cit ǀ citayanti ǀ dákṣaiḥ ǀ
ápi ǀ krátum ǀ su-cétasam ǀ vátantaḥ ǀ tiráḥ ǀ cit ǀ áṃhaḥ ǀ su-páthā ǀ nayanti ǁime ǀ mitraḥ ǀ varuṇaḥ ǀ duḥ-dabhāsaḥ ǀ acetasam ǀ cit ǀ citayanti ǀ dakṣaiḥ ǀ
api ǀ kratum ǀ su-cetasam ǀ vatantaḥ ǀ tiraḥ ǀ cit ǀ aṃhaḥ ǀ su-pathā ǀ nayanti ǁ7.60.6 Aṣṭaka 5.5.1.6Anuvāka 7.4.56
-
Ṛk 7
इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयंति ।
प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥इमे दिवो अनिमिषा पृथिव्याश् चिकित्वांसो अचेतसं नयन्ति |
प्रव्राजे चिन् नद्यो गाधम् अस्ति पारं नो अस्य विष्पितस्य पर्षन् ||imé divó ánimiṣā pṛthivyā́ścikitvā́ṃso acetásam nayanti ǀ
pravrājé cinnadyo gādhámasti pārám no asyá viṣpitásya parṣan ǁime divo animiṣā pṛthivyāś cikitvāṃso acetasaṃ nayanti |
pravrāje cin nadyo gādham asti pāraṃ no asya viṣpitasya parṣan ||इ॒मे । दि॒वः । अनि॑ऽमिषा । पृ॒थि॒व्याः । चि॒कि॒त्वांसः॑ । अ॒चे॒तस॑म् । न॒य॒न्ति॒ ।
प्र॒ऽव्रा॒जे । चि॒त् । न॒द्यः॑ । गा॒धम् । अ॒स्ति॒ । पा॒रम् । नः॒ । अ॒स्य । वि॒ष्पि॒तस्य॑ । प॒र्ष॒न् ॥इमे । दिवः । अनिऽमिषा । पृथिव्याः । चिकित्वांसः । अचेतसम् । नयन्ति ।
प्रऽव्राजे । चित् । नद्यः । गाधम् । अस्ति । पारम् । नः । अस्य । विष्पितस्य । पर्षन् ॥imé ǀ diváḥ ǀ áni-miṣā ǀ pṛthivyā́ḥ ǀ cikitvā́ṃsaḥ ǀ acetásam ǀ nayanti ǀ
pra-vrājé ǀ cit ǀ nadyáḥ ǀ gādhám ǀ asti ǀ pārám ǀ naḥ ǀ asyá ǀ viṣpitásya ǀ parṣan ǁime ǀ divaḥ ǀ ani-miṣā ǀ pṛthivyāḥ ǀ cikitvāṃsaḥ ǀ acetasam ǀ nayanti ǀ
pra-vrāje ǀ cit ǀ nadyaḥ ǀ gādham ǀ asti ǀ pāram ǀ naḥ ǀ asya ǀ viṣpitasya ǀ parṣan ǁ7.60.7 Aṣṭaka 5.5.2.1Anuvāka 7.4.57
-
Ṛk 8
यद्गो॒पाव॒ददि॑तिः॒ शर्म॑ भ॒द्रं मि॒त्रो यच्छं॑ति॒ वरु॑णः सु॒दासे॑ ।
तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥यद् गोपावद् अदितिः शर्म भद्रम् मित्रो यच्छन्ति वरुणः सुदासे |
तस्मिन्न् आ तोकं तनयं दधाना मा कर्म देवहेऌअनं तुरासः ||yádgopā́vadáditiḥ śárma bhadrám mitró yácchanti váruṇaḥ sudā́se ǀ
tásminnā́ tokám tánayam dádhānā mā́ karma devahéḷanam turāsaḥ ǁyad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse |
tasminn ā tokaṃ tanayaṃ dadhānā mā karma devaheḷanaṃ turāsaḥ ||यत् । गो॒पाव॑त् । अदि॑तिः । शर्म॑ । भ॒द्रम् । मि॒त्रः । यच्छ॑न्ति । वरु॑णः । सु॒ऽदासे॑ ।
तस्मि॑न् । आ । तो॒कम् । तन॑यम् । दधा॑नाः । मा । क॒र्म॒ । दे॒व॒ऽहेळ॑नम् । तु॒रा॒सः॒ ॥यत् । गोपावत् । अदितिः । शर्म । भद्रम् । मित्रः । यच्छन्ति । वरुणः । सुऽदासे ।
तस्मिन् । आ । तोकम् । तनयम् । दधानाः । मा । कर्म । देवऽहेळनम् । तुरासः ॥yát ǀ gopā́vat ǀ áditiḥ ǀ śárma ǀ bhadrám ǀ mitráḥ ǀ yácchanti ǀ váruṇaḥ ǀ su-dā́se ǀ
tásmin ǀ ā́ ǀ tokám ǀ tánayam ǀ dádhānāḥ ǀ mā́ ǀ karma ǀ deva-héḷanam ǀ turāsaḥ ǁyat ǀ gopāvat ǀ aditiḥ ǀ śarma ǀ bhadram ǀ mitraḥ ǀ yacchanti ǀ varuṇaḥ ǀ su-dāse ǀ
tasmin ǀ ā ǀ tokam ǀ tanayam ǀ dadhānāḥ ǀ mā ǀ karma ǀ deva-heḷanam ǀ turāsaḥ ǁ7.60.8 Aṣṭaka 5.5.2.2Anuvāka 7.4.58
-
Ṛk 9
अव॒ वेदिं॒ होत्रा॑भिर्यजेत॒ रिपः॒ काश्चि॑द्वरुण॒ध्रुतः॒ सः ।
परि॒ द्वेषो॑भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे॑ वृषणा उ लो॒कं ॥अव वेदिं होत्राभिर् यजेत रिपः काश् चिद् वरुणध्रुतः सः |
परि द्वेषोभिर् अर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ||áva védim hótrābhiryajeta rípaḥ kā́ścidvaruṇadhrútaḥ sáḥ ǀ
pári dvéṣobhiraryamā́ vṛṇaktūrúm sudā́se vṛṣaṇā u lokám ǁava vediṃ hotrābhir yajeta ripaḥ kāś cid varuṇadhrutaḥ saḥ |
pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam ||अव॑ । वेदि॑म् । होत्रा॑भिः । य॒जे॒त॒ । रिपः॑ । काः । चि॒त् । व॒रु॒ण॒ऽध्रुतः॑ । सः ।
परि॑ । द्वेषः॑ऽभिः । अ॒र्य॒मा । वृ॒ण॒क्तु॒ । उ॒रुम् । सु॒ऽदासे॑ । वृ॒ष॒णौ॒ । ऊं॒ इति॑ । लो॒कम् ॥अव । वेदिम् । होत्राभिः । यजेत । रिपः । काः । चित् । वरुणऽध्रुतः । सः ।
परि । द्वेषःऽभिः । अर्यमा । वृणक्तु । उरुम् । सुऽदासे । वृषणौ । ऊं इति । लोकम् ॥áva ǀ védim ǀ hótrābhiḥ ǀ yajeta ǀ rípaḥ ǀ kā́ḥ ǀ cit ǀ varuṇa-dhrútaḥ ǀ sáḥ ǀ
pári ǀ dvéṣaḥ-bhiḥ ǀ aryamā́ ǀ vṛṇaktu ǀ urúm ǀ su-dā́se ǀ vṛṣaṇau ǀ ūṃ íti ǀ lokám ǁava ǀ vedim ǀ hotrābhiḥ ǀ yajeta ǀ ripaḥ ǀ kāḥ ǀ cit ǀ varuṇa-dhrutaḥ ǀ saḥ ǀ
pari ǀ dveṣaḥ-bhiḥ ǀ aryamā ǀ vṛṇaktu ǀ urum ǀ su-dāse ǀ vṛṣaṇau ǀ ūṃ iti ǀ lokam ǁ7.60.9 Aṣṭaka 5.5.2.3Anuvāka 7.4.59
-
Ṛk 10
स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सहं॑ते ।
यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥सस्वश् चिद् धि समृतिस् त्वेष्य् एषाम् अपीच्येन सहसा सहन्ते |
युष्मद् भिया वृषणो रेजमाना दक्षस्य चिन् महिना मृऌअता नः ||sasváściddhí sámṛtistveṣyéṣāmapīcyéna sáhasā sáhante ǀ
yuṣmádbhiyā́ vṛṣaṇo réjamānā dákṣasya cinmahinā́ mṛḷátā naḥ ǁsasvaś cid dhi samṛtis tveṣy eṣām apīcyena sahasā sahante |
yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛḷatā naḥ ||स॒स्वरिति॑ । चि॒त् । हि । सम्ऽऋ॑तिः । त्वे॒षी । ए॒षा॒म् । अ॒पी॒च्ये॑न । सह॑सा । सह॑न्ते ।
यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज॑मानाः । दक्ष॑स्य । चि॒त् । म॒हि॒ना । मृ॒ळत॑ । नः॒ ॥सस्वरिति । चित् । हि । सम्ऽऋतिः । त्वेषी । एषाम् । अपीच्येन । सहसा । सहन्ते ।
युष्मत् । भिया । वृषणः । रेजमानाः । दक्षस्य । चित् । महिना । मृळत । नः ॥sasváríti ǀ cit ǀ hí ǀ sám-ṛtiḥ ǀ tveṣī́ ǀ eṣām ǀ apīcyéna ǀ sáhasā ǀ sáhante ǀ
yuṣmát ǀ bhiyā́ ǀ vṛṣaṇaḥ ǀ réjamānāḥ ǀ dákṣasya ǀ cit ǀ mahinā́ ǀ mṛḷáta ǀ naḥ ǁsasvariti ǀ cit ǀ hi ǀ sam-ṛtiḥ ǀ tveṣī ǀ eṣām ǀ apīcyena ǀ sahasā ǀ sahante ǀ
yuṣmat ǀ bhiyā ǀ vṛṣaṇaḥ ǀ rejamānāḥ ǀ dakṣasya ǀ cit ǀ mahinā ǀ mṛḷata ǀ naḥ ǁ7.60.10 Aṣṭaka 5.5.2.4Anuvāka 7.4.60
-
Ṛk 11
यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः ।
सीक्षं॑त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥यो ब्रह्मणे सुमतिम् आयजाते वाजस्य सातौ परमस्य रायः |
सीक्षन्त मन्युम् मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ||yó bráhmaṇe sumatímāyájāte vā́jasya sātáu paramásya rāyáḥ ǀ
sī́kṣanta manyúm maghávāno aryá urú kṣáyāya cakrire sudhā́tu ǁyo brahmaṇe sumatim āyajāte vājasya sātau paramasya rāyaḥ |
sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu ||यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः ।
सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥यः । ब्रह्मणे । सुऽमतिम् । आऽयजाते । वाजस्य । सातौ । परमस्य । रायः ।
सीक्षन्त । मन्युम् । मघऽवानः । अर्यः । उरु । क्षयाय । चक्रिरे । सुऽधातु ॥yáḥ ǀ bráhmaṇe ǀ su-matím ǀ ā-yájāte ǀ vā́jasya ǀ sātáu ǀ paramásya ǀ rāyáḥ ǀ
sī́kṣanta ǀ manyúm ǀ maghá-vānaḥ ǀ aryáḥ ǀ urú ǀ kṣáyāya ǀ cakrire ǀ su-dhā́tu ǁyaḥ ǀ brahmaṇe ǀ su-matim ǀ ā-yajāte ǀ vājasya ǀ sātau ǀ paramasya ǀ rāyaḥ ǀ
sīkṣanta ǀ manyum ǀ magha-vānaḥ ǀ aryaḥ ǀ uru ǀ kṣayāya ǀ cakrire ǀ su-dhātu ǁ7.60.11 Aṣṭaka 5.5.2.5Anuvāka 7.4.61
-
Ṛk 12
इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि ।
विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥इयं देव पुरोहितिर् युवभ्यां यज्ञेषु मित्रावरुणाव् अकारि |
विश्वानि दुर्गा पिपृतं तिरो नो यूयम् पात स्वस्तिभिः सदा नः ||iyám deva puróhitiryuvábhyām yajñéṣu mitrāvaruṇāvakāri ǀ
víśvāni durgā́ pipṛtam tiró no yūyám pāta svastíbhiḥ sádā naḥ ǁiyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri |
viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ ||इ॒यम् । दे॒वा॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ ।
विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥इयम् । देवा । पुरःऽहितिः । युवऽभ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि ।
विश्वानि । दुःऽगा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥iyám ǀ devā ǀ puráḥ-hitiḥ ǀ yuvá-bhyām ǀ yajñéṣu ǀ mitrāvaruṇau ǀ akāri ǀ
víśvāni ǀ duḥ-gā́ ǀ pipṛtam ǀ tiráḥ ǀ naḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁiyam ǀ devā ǀ puraḥ-hitiḥ ǀ yuva-bhyām ǀ yajñeṣu ǀ mitrāvaruṇau ǀ akāri ǀ
viśvāni ǀ duḥ-gā ǀ pipṛtam ǀ tiraḥ ǀ naḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.60.12 Aṣṭaka 5.5.2.6Anuvāka 7.4.62
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.