Sūkta 12
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1); triṣṭup (2); paṅktiḥ (3)
2nd set of styles triṣṭubh
-
Ṛk 1
अग॑न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे ।
चि॒त्रभा॑नुं॒ रोद॑सी अं॒तरु॒र्वी स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यंचं॑ ॥अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे |
चित्रभानुं रोदसी अन्तर् उर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ||áganma mahā́ námasā yáviṣṭham yó dīdā́ya sámiddhaḥ své duroṇé ǀ
citrábhānum ródasī antárurvī́ svā́hutam viśvátaḥ pratyáñcam ǁaganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe |
citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam ||अग॑न्म । म॒हा । नम॑सा । यवि॑ष्ठम् । यः । दी॒दाय॑ । सम्ऽइ॑द्धः । स्वे । दु॒रो॒णे ।
चि॒त्रऽभा॑नुम् । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । सुऽआ॑हुतम् । वि॒श्वतः॑ । प्र॒त्यञ्च॑म् ॥अगन्म । महा । नमसा । यविष्ठम् । यः । दीदाय । सम्ऽइद्धः । स्वे । दुरोणे ।
चित्रऽभानुम् । रोदसी इति । अन्तः । उर्वी इति । सुऽआहुतम् । विश्वतः । प्रत्यञ्चम् ॥áganma ǀ mahā́ ǀ námasā ǀ yáviṣṭham ǀ yáḥ ǀ dīdā́ya ǀ sám-iddhaḥ ǀ své ǀ duroṇé ǀ
citrá-bhānum ǀ ródasī íti ǀ antáḥ ǀ urvī́ íti ǀ sú-āhutam ǀ viśvátaḥ ǀ pratyáñcam ǁaganma ǀ mahā ǀ namasā ǀ yaviṣṭham ǀ yaḥ ǀ dīdāya ǀ sam-iddhaḥ ǀ sve ǀ duroṇe ǀ
citra-bhānum ǀ rodasī iti ǀ antaḥ ǀ urvī iti ǀ su-āhutam ǀ viśvataḥ ǀ pratyañcam ǁ7.12.1 Aṣṭaka 5.2.15.1Anuvāka 7.1.103
-
Ṛk 2
स म॒ह्ना विश्वा॑ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः ।
स नो॑ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो॑ म॒घोनः॑ ॥स मह्ना विश्वा दुरितानि साह्वान् अग्नि ष्टवे दम आ जातवेदाः |
स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः ||sá mahnā́ víśvā duritā́ni sāhvā́nagníḥ ṣṭave dáma ā́ jātávedāḥ ǀ
sá no rakṣiṣadduritā́davadyā́dasmā́ngṛṇatá utá no maghónaḥ ǁsa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ |
sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ ||सः । म॒ह्ना । विश्वा॑ । दुः॒ऽइ॒तानि॑ । स॒ह्वान् । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः ।
सः । नः॒ । र॒क्षि॒ष॒त् । दुः॒ऽइ॒तात् । अ॒व॒द्यात् । अ॒स्मान् । गृ॒ण॒तः । उ॒त । नः॒ । म॒घोनः॑ ॥सः । मह्ना । विश्वा । दुःऽइतानि । सह्वान् । अग्निः । स्तवे । दमे । आ । जातऽवेदाः ।
सः । नः । रक्षिषत् । दुःऽइतात् । अवद्यात् । अस्मान् । गृणतः । उत । नः । मघोनः ॥sáḥ ǀ mahnā́ ǀ víśvā ǀ duḥ-itā́ni ǀ sahvā́n ǀ agníḥ ǀ stave ǀ dáme ǀ ā́ ǀ jātá-vedāḥ ǀ
sáḥ ǀ naḥ ǀ rakṣiṣat ǀ duḥ-itā́t ǀ avadyā́t ǀ asmā́n ǀ gṛṇatáḥ ǀ utá ǀ naḥ ǀ maghónaḥ ǁsaḥ ǀ mahnā ǀ viśvā ǀ duḥ-itāni ǀ sahvān ǀ agniḥ ǀ stave ǀ dame ǀ ā ǀ jāta-vedāḥ ǀ
saḥ ǀ naḥ ǀ rakṣiṣat ǀ duḥ-itāt ǀ avadyāt ǀ asmān ǀ gṛṇataḥ ǀ uta ǀ naḥ ǀ maghonaḥ ǁ7.12.2 Aṣṭaka 5.2.15.2Anuvāka 7.1.104
-
Ṛk 3
त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने॒ त्वां व॑र्धंति म॒तिभि॒र्वसि॑ष्ठाः ।
त्वे वसु॑ सुषण॒नानि॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर् वसिष्ठाः |
त्वे वसु सुषणनानि सन्तु यूयम् पात स्वस्तिभिः सदा नः ||tvám váruṇa utá mitró agne tvā́m vardhanti matíbhirvásiṣṭhāḥ ǀ
tvé vásu suṣaṇanā́ni santu yūyám pāta svastíbhiḥ sádā naḥ ǁtvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ |
tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ ||त्वम् । वरु॑णः । उ॒त । मि॒त्रः । अ॒ग्ने॒ । त्वाम् । व॒र्ध॒न्ति॒ । म॒तिऽभिः॑ । वसि॑ष्ठाः ।
त्वे इति॑ । वसु॑ । सु॒ऽस॒न॒नानि॑ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥त्वम् । वरुणः । उत । मित्रः । अग्ने । त्वाम् । वर्धन्ति । मतिऽभिः । वसिष्ठाः ।
त्वे इति । वसु । सुऽसननानि । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥tvám ǀ váruṇaḥ ǀ utá ǀ mitráḥ ǀ agne ǀ tvā́m ǀ vardhanti ǀ matí-bhiḥ ǀ vásiṣṭhāḥ ǀ
tvé íti ǀ vásu ǀ su-sananā́ni ǀ santu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁtvam ǀ varuṇaḥ ǀ uta ǀ mitraḥ ǀ agne ǀ tvām ǀ vardhanti ǀ mati-bhiḥ ǀ vasiṣṭhāḥ ǀ
tve iti ǀ vasu ǀ su-sananāni ǀ santu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ7.12.3 Aṣṭaka 5.2.15.3Anuvāka 7.1.105
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.