Sūkta 1
- Devatā देवता
- 1-29: Indra; 30-33: Āsaṅga’s Dānastuti; 34: Āsaṅga
- Ṛṣi ऋषि
- 1, 2: Pragātha Kāṇva (Formerly Pragātha Ghaura, Brother And Adoptive Son Of Kaṇva); 3-29: Medhātithi Kāṇva; Medhyātithi Kāṇva; 30-33: Āsaṅga Plāyogi; 34: Śaśvatī Āṅgirasī
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛdbṛhatī (5, 8, 15, 17, 19, 22, 25, 31); ārṣībṛhatī (6, 9, 11, 12, 20, 24, 26, 27); virāḍbṛhatī (3, 7, 10, 14, 18, 21); ārcībhurigbṛhatī (16, 23, 30, 32); upariṣṭād bṛhatī (1); bhurigārṣībṛhatī (2); ārṣīsvarāḍbṛhatī (4); śaṅkummatībṛhatī (13); pādnicṛtpathyābṛhatī (28); bṛhatī (29); triṣṭup (33); virāṭtrisṭup (34)
2nd set of styles bṛhatī (1, 3, 5-32); satobṛhatī (2, 4); triṣṭubh (33, 34)
-
Ṛk 1
मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत ।
इंद्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥मा चिद् अन्यद् वि शंसत सखायो मा रिषण्यत |
इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत ||mā́ cidanyádví śaṃsata sákhāyo mā́ riṣaṇyata ǀ
índramítstotā vṛ́ṣaṇam sácā suté múhurukthā́ ca śaṃsata ǁmā cid anyad vi śaṃsata sakhāyo mā riṣaṇyata |
indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata ||मा । चि॒त् । अ॒न्यत् । वि । शं॒स॒त॒ । सखा॑यः । मा । रि॒ष॒ण्य॒त॒ ।
इन्द्र॑म् । इत् । स्तो॒त॒ । वृष॑णम् । सचा॑ । सु॒ते । मुहुः॑ । उ॒क्था । च॒ । शं॒स॒त॒ ॥मा । चित् । अन्यत् । वि । शंसत । सखायः । मा । रिषण्यत ।
इन्द्रम् । इत् । स्तोत । वृषणम् । सचा । सुते । मुहुः । उक्था । च । शंसत ॥mā́ ǀ cit ǀ anyát ǀ ví ǀ śaṃsata ǀ sákhāyaḥ ǀ mā́ ǀ riṣaṇyata ǀ
índram ǀ ít ǀ stota ǀ vṛ́ṣaṇam ǀ sácā ǀ suté ǀ múhuḥ ǀ ukthā́ ǀ ca ǀ śaṃsata ǁmā ǀ cit ǀ anyat ǀ vi ǀ śaṃsata ǀ sakhāyaḥ ǀ mā ǀ riṣaṇyata ǀ
indram ǀ it ǀ stota ǀ vṛṣaṇam ǀ sacā ǀ sute ǀ muhuḥ ǀ ukthā ǀ ca ǀ śaṃsata ǁ8.1.1 Aṣṭaka 5.7.10.1Anuvāka 8.1.1
-
Ṛk 2
अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सहं॑ ।
वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विनं॑ ॥अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् |
विद्वेषणं संवननोभयङ्करम् मंहिष्ठम् उभयाविनम् ||avakrakṣíṇam vṛṣabhám yathājúram gā́m ná carṣaṇīsáham ǀ
vidvéṣaṇam saṃvánanobhayaṃkarám máṃhiṣṭhamubhayāvínam ǁavakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham |
vidveṣaṇaṃ saṃvananobhayaṅkaram maṃhiṣṭham ubhayāvinam ||अ॒व॒ऽक्र॒क्षिण॑म् । वृ॒ष॒भम् । य॒था॒ । अ॒जुर॑म् । गाम् । न । च॒र्ष॒णि॒ऽसह॑म् ।
वि॒ऽद्वेष॑णम् । स॒म्ऽवन॑ना । उ॒भ॒य॒म्ऽक॒रम् । मंहि॑ष्ठम् । उ॒भ॒या॒विन॑म् ॥अवऽक्रक्षिणम् । वृषभम् । यथा । अजुरम् । गाम् । न । चर्षणिऽसहम् ।
विऽद्वेषणम् । सम्ऽवनना । उभयम्ऽकरम् । मंहिष्ठम् । उभयाविनम् ॥ava-krakṣíṇam ǀ vṛṣabhám ǀ yathā ǀ ajúram ǀ gā́m ǀ ná ǀ carṣaṇi-sáham ǀ
vi-dvéṣaṇam ǀ sam-vánanā ǀ ubhayam-karám ǀ máṃhiṣṭham ǀ ubhayāvínam ǁava-krakṣiṇam ǀ vṛṣabham ǀ yathā ǀ ajuram ǀ gām ǀ na ǀ carṣaṇi-saham ǀ
vi-dveṣaṇam ǀ sam-vananā ǀ ubhayam-karam ǀ maṃhiṣṭham ǀ ubhayāvinam ǁ8.1.2 Aṣṭaka 5.7.10.2Anuvāka 8.1.2
-
Ṛk 3
यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हवं॑त ऊ॒तये॑ ।
अ॒स्माकं॒ ब्रह्मे॒दमिं॑द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नं ॥यच् चिद् धि त्वा जना इमे नाना हवन्त ऊतये |
अस्माकम् ब्रह्मेदम् इन्द्र भूतु ते ऽहा विश्वा च वर्धनम् ||yácciddhí tvā jánā imé nā́nā hávanta ūtáye ǀ
asmā́kam bráhmedámindra bhūtu té’hā víśvā ca várdhanam ǁyac cid dhi tvā janā ime nānā havanta ūtaye |
asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam ||यत् । चि॒त् । हि । त्वा॒ । जनाः॑ । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ ।
अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥यत् । चित् । हि । त्वा । जनाः । इमे । नाना । हवन्ते । ऊतये ।
अस्माकम् । ब्रह्म । इदम् । इन्द्र । भूतु । ते । अहा । विश्वा । च । वर्धनम् ॥yát ǀ cit ǀ hí ǀ tvā ǀ jánāḥ ǀ imé ǀ nā́nā ǀ hávante ǀ ūtáye ǀ
asmā́kam ǀ bráhma ǀ idám ǀ indra ǀ bhūtu ǀ te ǀ áhā ǀ víśvā ǀ ca ǀ várdhanam ǁyat ǀ cit ǀ hi ǀ tvā ǀ janāḥ ǀ ime ǀ nānā ǀ havante ǀ ūtaye ǀ
asmākam ǀ brahma ǀ idam ǀ indra ǀ bhūtu ǀ te ǀ ahā ǀ viśvā ǀ ca ǀ vardhanam ǁ8.1.3 Aṣṭaka 5.7.10.3Anuvāka 8.1.3
-
Ṛk 4
वि त॑र्तूर्यंते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नां ।
उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥वि तर्तूर्यन्ते मघवन् विपश्चितो ऽर्यो विपो जनानाम् |
उप क्रमस्व पुरुरूपम् आ भर वाजं नेदिष्ठम् ऊतये ||ví tartūryante maghavanvipaścíto’ryó vípo jánānām ǀ
úpa kramasva pururū́pamā́ bhara vā́jam nédiṣṭhamūtáye ǁvi tartūryante maghavan vipaścito 'ryo vipo janānām |
upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye ||वि । त॒र्तू॒र्य॒न्ते॒ । म॒घ॒ऽव॒न् । वि॒पः॒ऽचितः॑ । अ॒र्यः । विपः॑ । जना॑नाम् ।
उप॑ । क्र॒म॒स्व॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑म् । नेदि॑ष्ठम् । ऊ॒तये॑ ॥वि । तर्तूर्यन्ते । मघऽवन् । विपःऽचितः । अर्यः । विपः । जनानाम् ।
उप । क्रमस्व । पुरुऽरूपम् । आ । भर । वाजम् । नेदिष्ठम् । ऊतये ॥ví ǀ tartūryante ǀ magha-van ǀ vipaḥ-cítaḥ ǀ aryáḥ ǀ vípaḥ ǀ jánānām ǀ
úpa ǀ kramasva ǀ puru-rū́pam ǀ ā́ ǀ bhara ǀ vā́jam ǀ nédiṣṭham ǀ ūtáye ǁvi ǀ tartūryante ǀ magha-van ǀ vipaḥ-citaḥ ǀ aryaḥ ǀ vipaḥ ǀ janānām ǀ
upa ǀ kramasva ǀ puru-rūpam ǀ ā ǀ bhara ǀ vājam ǀ nediṣṭham ǀ ūtaye ǁ8.1.4 Aṣṭaka 5.7.10.4Anuvāka 8.1.4
-
Ṛk 5
म॒हे च॒न त्वाम॑द्रिवः॒ परा॑ शु॒ल्काय॑ देयां ।
न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ ॥महे चन त्वाम् अद्रिवः परा शुल्काय देयाम् |
न सहस्राय नायुताय वज्रिवो न शताय शतामघ ||mahé caná tvā́madrivaḥ párā śulkā́ya deyām ǀ
ná sahásrāya nā́yútāya vajrivo ná śatā́ya śatāmagha ǁmahe cana tvām adrivaḥ parā śulkāya deyām |
na sahasrāya nāyutāya vajrivo na śatāya śatāmagha ||म॒हे । च॒न । त्वाम् । अ॒द्रि॒ऽवः॒ । परा॑ । शु॒ल्काय॑ । दे॒या॒म् ।
न । स॒हस्रा॑य । न । अ॒युता॑य । व॒ज्रि॒ऽवः॒ । न । श॒ताय॑ । श॒त॒ऽम॒घ॒ ॥महे । चन । त्वाम् । अद्रिऽवः । परा । शुल्काय । देयाम् ।
न । सहस्राय । न । अयुताय । वज्रिऽवः । न । शताय । शतऽमघ ॥mahé ǀ caná ǀ tvā́m ǀ adri-vaḥ ǀ párā ǀ śulkā́ya ǀ deyām ǀ
ná ǀ sahásrāya ǀ ná ǀ ayútāya ǀ vajri-vaḥ ǀ ná ǀ śatā́ya ǀ śata-magha ǁmahe ǀ cana ǀ tvām ǀ adri-vaḥ ǀ parā ǀ śulkāya ǀ deyām ǀ
na ǀ sahasrāya ǀ na ǀ ayutāya ǀ vajri-vaḥ ǀ na ǀ śatāya ǀ śata-magha ǁ8.1.5 Aṣṭaka 5.7.10.5Anuvāka 8.1.5
-
Ṛk 6
वस्याँ॑ इंद्रासि मे पि॒तुरु॒त भ्रातु॒रभुं॑जतः ।
मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥वस्यां इन्द्रासि मे पितुर् उत भ्रातुर् अभुञ्जतः |
माता च मे छदयथः समा वसो वसुत्वनाय राधसे ||vásyām̐ indrāsi me pitúrutá bhrā́turábhuñjataḥ ǀ
mātā́ ca me chadayathaḥ samā́ vaso vasutvanā́ya rā́dhase ǁvasyāṃ indrāsi me pitur uta bhrātur abhuñjataḥ |
mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase ||वस्या॑न् । इ॒न्द्र॒ । अ॒सि॒ । मे॒ । पि॒तुः । उ॒त । भ्रातुः॑ । अभु॑ञ्जतः ।
मा॒ता । च॒ । मे॒ । छ॒द॒य॒थः॒ । स॒मा । व॒सो॒ इति॑ । व॒सु॒ऽत्व॒नाय॑ । राध॑से ॥वस्यान् । इन्द्र । असि । मे । पितुः । उत । भ्रातुः । अभुञ्जतः ।
माता । च । मे । छदयथः । समा । वसो इति । वसुऽत्वनाय । राधसे ॥vásyān ǀ indra ǀ asi ǀ me ǀ pitúḥ ǀ utá ǀ bhrā́tuḥ ǀ ábhuñjataḥ ǀ
mātā́ ǀ ca ǀ me ǀ chadayathaḥ ǀ samā́ ǀ vaso íti ǀ vasu-tvanā́ya ǀ rā́dhase ǁvasyān ǀ indra ǀ asi ǀ me ǀ pituḥ ǀ uta ǀ bhrātuḥ ǀ abhuñjataḥ ǀ
mātā ǀ ca ǀ me ǀ chadayathaḥ ǀ samā ǀ vaso iti ǀ vasu-tvanāya ǀ rādhase ǁ8.1.6 Aṣṭaka 5.7.11.1Anuvāka 8.1.6
-
Ṛk 7
क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ ।
अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः ॥क्वेयथ क्वेद् असि पुरुत्रा चिद् धि ते मनः |
अलर्षि युध्म खजकृत् पुरन्दर प्र गायत्रा अगासिषुः ||kvéyatha kvédasi purutrā́ ciddhí te mánaḥ ǀ
álarṣi yudhma khajakṛtpuraṃdara prá gāyatrā́ agāsiṣuḥ ǁkveyatha kved asi purutrā cid dhi te manaḥ |
alarṣi yudhma khajakṛt purandara pra gāyatrā agāsiṣuḥ ||क्व॑ । इ॒य॒थ॒ । क्व॑ । इत् । अ॒सि॒ । पु॒रु॒ऽत्रा । चि॒त् । हि । ते॒ । मनः॑ ।
अल॑र्षि । यु॒ध्म॒ । ख॒ज॒ऽकृ॒त् । पु॒र॒म्ऽद॒र॒ । प्र । गा॒य॒त्राः । अ॒गा॒सि॒षुः॒ ॥क्व । इयथ । क्व । इत् । असि । पुरुऽत्रा । चित् । हि । ते । मनः ।
अलर्षि । युध्म । खजऽकृत् । पुरम्ऽदर । प्र । गायत्राः । अगासिषुः ॥kvá ǀ iyatha ǀ kvá ǀ ít ǀ asi ǀ puru-trā́ ǀ cit ǀ hí ǀ te ǀ mánaḥ ǀ
álarṣi ǀ yudhma ǀ khaja-kṛt ǀ puram-dara ǀ prá ǀ gāyatrā́ḥ ǀ agāsiṣuḥ ǁkva ǀ iyatha ǀ kva ǀ it ǀ asi ǀ puru-trā ǀ cit ǀ hi ǀ te ǀ manaḥ ǀ
alarṣi ǀ yudhma ǀ khaja-kṛt ǀ puram-dara ǀ pra ǀ gāyatrāḥ ǀ agāsiṣuḥ ǁ8.1.7 Aṣṭaka 5.7.11.2Anuvāka 8.1.7
-
Ṛk 8
प्रास्मै॑ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः ।
याभिः॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ॥प्रास्मै गायत्रम् अर्चत वावातुर् यः पुरन्दरः |
याभिः काण्वस्योप बर्हिर् आसदं यासद् वज्री भिनत् पुरः ||prā́smai gāyatrámarcata vāvā́turyáḥ puraṃdaráḥ ǀ
yā́bhiḥ kāṇvásyópa barhírāsádam yā́sadvajrī́ bhinátpúraḥ ǁprāsmai gāyatram arcata vāvātur yaḥ purandaraḥ |
yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ ||प्र । अ॒स्मै॒ । गा॒य॒त्रम् । अ॒र्च॒त॒ । व॒वातुः॑ । यः । पु॒र॒म्ऽद॒रः ।
याभिः॑ । का॒ण्वस्य॑ । उप॑ । ब॒र्हिः । आ॒ऽसद॑म् । यास॑त् । व॒ज्री । भि॒नत् । पुरः॑ ॥प्र । अस्मै । गायत्रम् । अर्चत । ववातुः । यः । पुरम्ऽदरः ।
याभिः । काण्वस्य । उप । बर्हिः । आऽसदम् । यासत् । वज्री । भिनत् । पुरः ॥prá ǀ asmai ǀ gāyatrám ǀ arcata ǀ vavā́tuḥ ǀ yáḥ ǀ puram-daráḥ ǀ
yā́bhiḥ ǀ kāṇvásya ǀ úpa ǀ barhíḥ ǀ ā-sádam ǀ yā́sat ǀ vajrī́ ǀ bhinát ǀ púraḥ ǁpra ǀ asmai ǀ gāyatram ǀ arcata ǀ vavātuḥ ǀ yaḥ ǀ puram-daraḥ ǀ
yābhiḥ ǀ kāṇvasya ǀ upa ǀ barhiḥ ǀ ā-sadam ǀ yāsat ǀ vajrī ǀ bhinat ǀ puraḥ ǁ8.1.8 Aṣṭaka 5.7.11.3Anuvāka 8.1.8
-
Ṛk 9
ये ते॒ संति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ ।
अश्वा॑सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि॑र्न॒स्तूय॒मा ग॑हि ॥ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः |
अश्वासो ये ते वृषणो रघुद्रुवस् तेभिर् नस् तूयम् आ गहि ||yé te sánti daśagvínaḥ śatíno yé sahasríṇaḥ ǀ
áśvāso yé te vṛ́ṣaṇo raghudrúvastébhirnastū́yamā́ gahi ǁye te santi daśagvinaḥ śatino ye sahasriṇaḥ |
aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi ||ये । ते॒ । सन्ति॑ । द॒श॒ऽग्विनः॑ । श॒तिनः॑ । ये । स॒ह॒स्रिणः॑ ।
अश्वा॑सः । ये । ते॒ । वृष॑णः । र॒घु॒ऽद्रुवः॑ । तेभिः॑ । नः॒ । तूय॑म् । आ । ग॒हि॒ ॥ये । ते । सन्ति । दशऽग्विनः । शतिनः । ये । सहस्रिणः ।
अश्वासः । ये । ते । वृषणः । रघुऽद्रुवः । तेभिः । नः । तूयम् । आ । गहि ॥yé ǀ te ǀ sánti ǀ daśa-gvínaḥ ǀ śatínaḥ ǀ yé ǀ sahasríṇaḥ ǀ
áśvāsaḥ ǀ yé ǀ te ǀ vṛ́ṣaṇaḥ ǀ raghu-drúvaḥ ǀ tébhiḥ ǀ naḥ ǀ tū́yam ǀ ā́ ǀ gahi ǁye ǀ te ǀ santi ǀ daśa-gvinaḥ ǀ śatinaḥ ǀ ye ǀ sahasriṇaḥ ǀ
aśvāsaḥ ǀ ye ǀ te ǀ vṛṣaṇaḥ ǀ raghu-druvaḥ ǀ tebhiḥ ǀ naḥ ǀ tūyam ǀ ā ǀ gahi ǁ8.1.9 Aṣṭaka 5.7.11.4Anuvāka 8.1.9
-
Ṛk 10
आ त्व१॒॑द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसं ।
इंद्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृतं॑ ॥आ त्व् अद्य सबर्दुघां हुवे गायत्रवेपसम् |
इन्द्रं धेनुं सुदुघाम् अन्याम् इषम् उरुधाराम् अरङ्कृतम् ||ā́ tvádyá sabardúghām huvé gāyatrávepasam ǀ
índram dhenúm sudúghāmányāmíṣamurúdhārāmaraṃkṛ́tam ǁā tv adya sabardughāṃ huve gāyatravepasam |
indraṃ dhenuṃ sudughām anyām iṣam urudhārām araṅkṛtam ||आ । तु । अ॒द्य । स॒बः॒ऽदुघा॑म् । हु॒वे । गा॒य॒त्रऽवे॑पसम् ।
इन्द्र॑म् । धे॒नुम् । सु॒ऽदुघा॑म् । अन्या॑म् । इष॑म् । उ॒रुऽधा॑राम् । अ॒र॒म्ऽकृत॑म् ॥आ । तु । अद्य । सबःऽदुघाम् । हुवे । गायत्रऽवेपसम् ।
इन्द्रम् । धेनुम् । सुऽदुघाम् । अन्याम् । इषम् । उरुऽधाराम् । अरम्ऽकृतम् ॥ā́ ǀ tú ǀ adyá ǀ sabaḥ-dúghām ǀ huvé ǀ gāyatrá-vepasam ǀ
índram ǀ dhenúm ǀ su-dúghām ǀ ányām ǀ íṣam ǀ urú-dhārām ǀ aram-kṛ́tam ǁā ǀ tu ǀ adya ǀ sabaḥ-dughām ǀ huve ǀ gāyatra-vepasam ǀ
indram ǀ dhenum ǀ su-dughām ǀ anyām ǀ iṣam ǀ uru-dhārām ǀ aram-kṛtam ǁ8.1.10 Aṣṭaka 5.7.11.5Anuvāka 8.1.10
-
Ṛk 11
यत्तु॒दत्सूर॒ एत॑शं वं॒कू वात॑स्य प॒र्णिना॑ ।
वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तुः॒ त्सर॑द्गंध॒र्वमस्तृ॑तं ॥यत् तुदत् सूर एतशं वङ्कू वातस्य पर्णिना |
वहत् कुत्सम् आर्जुनेयं शतक्रतुः त्सरद् गन्धर्वम् अस्तृतम् ||yáttudátsū́ra étaśam vaṅkū́ vā́tasya parṇínā ǀ
váhatkútsamārjuneyám śatákratuḥ tsáradgandharvámástṛtam ǁyat tudat sūra etaśaṃ vaṅkū vātasya parṇinā |
vahat kutsam ārjuneyaṃ śatakratuḥ tsarad gandharvam astṛtam ||यत् । तु॒दत् । सूरः॑ । एत॑शम् । व॒ङ्कू इति॑ । वात॑स्य । प॒र्णिना॑ ।
वह॑त् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒तऽक्र॑तुः । त्सर॑त् । ग॒न्ध॒र्वम् । अस्तृ॑तम् ॥यत् । तुदत् । सूरः । एतशम् । वङ्कू इति । वातस्य । पर्णिना ।
वहत् । कुत्सम् । आर्जुनेयम् । शतऽक्रतुः । त्सरत् । गन्धर्वम् । अस्तृतम् ॥yát ǀ tudát ǀ sū́raḥ ǀ étaśam ǀ vaṅkū́ íti ǀ vā́tasya ǀ parṇínā ǀ
váhat ǀ kútsam ǀ ārjuneyám ǀ śatá-kratuḥ ǀ tsárat ǀ gandharvám ǀ ástṛtam ǁyat ǀ tudat ǀ sūraḥ ǀ etaśam ǀ vaṅkū iti ǀ vātasya ǀ parṇinā ǀ
vahat ǀ kutsam ǀ ārjuneyam ǀ śata-kratuḥ ǀ tsarat ǀ gandharvam ǀ astṛtam ǁ8.1.11 Aṣṭaka 5.7.12.1Anuvāka 8.1.11
-
Ṛk 12
य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ ।
संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः |
संधाता संधिम् मघवा पुरूवसुर् इष्कर्ता विह्रुतम् पुनः ||yá ṛté cidabhiśríṣaḥ purā́ jatrúbhya ātṛ́daḥ ǀ
sáṃdhātā saṃdhím maghávā purūvásuríṣkartā víhrutam púnaḥ ǁya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ |
saṃdhātā saṃdhim maghavā purūvasur iṣkartā vihrutam punaḥ ||यः । ऋ॒ते । चि॒त् । अ॒भि॒ऽश्रिषः॑ । पु॒रा । ज॒त्रुऽभ्यः॑ । आ॒ऽतृदः॑ ।
सम्ऽधा॑ता । स॒म्ऽधिम् । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । इष्क॑र्ता । विऽह्रु॑तम् । पुन॒रिति॑ ॥यः । ऋते । चित् । अभिऽश्रिषः । पुरा । जत्रुऽभ्यः । आऽतृदः ।
सम्ऽधाता । सम्ऽधिम् । मघऽवा । पुरुऽवसुः । इष्कर्ता । विऽह्रुतम् । पुनरिति ॥yáḥ ǀ ṛté ǀ cit ǀ abhi-śríṣaḥ ǀ purā́ ǀ jatrú-bhyaḥ ǀ ā-tṛ́daḥ ǀ
sám-dhātā ǀ sam-dhím ǀ maghá-vā ǀ puru-vásuḥ ǀ íṣkartā ǀ ví-hrutam ǀ púnaríti ǁyaḥ ǀ ṛte ǀ cit ǀ abhi-śriṣaḥ ǀ purā ǀ jatru-bhyaḥ ǀ ā-tṛdaḥ ǀ
sam-dhātā ǀ sam-dhim ǀ magha-vā ǀ puru-vasuḥ ǀ iṣkartā ǀ vi-hrutam ǀ punariti ǁ8.1.12 Aṣṭaka 5.7.12.2Anuvāka 8.1.12
-
Ṛk 13
मा भू॑म॒ निष्ट्या॑ इ॒वेंद्र॒ त्वदर॑णा इव ।
वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ॥मा भूम निष्ट्या इवेन्द्र त्वद् अरणा इव |
वनानि न प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि ||mā́ bhūma níṣṭyā ivéndra tvádáraṇā iva ǀ
vánāni ná prajahitā́nyadrivo duróṣāso amanmahi ǁmā bhūma niṣṭyā ivendra tvad araṇā iva |
vanāni na prajahitāny adrivo duroṣāso amanmahi ||मा । भू॒म॒ । निष्ट्याः॑ऽइव । इन्द्र॑ । त्वत् । अर॑णाःऽइव ।
वना॑नि । न । प्र॒ऽज॒हि॒तानि॑ । अ॒द्रि॒ऽवः॒ । दु॒रोषा॑सः । अ॒म॒न्म॒हि॒ ॥मा । भूम । निष्ट्याःऽइव । इन्द्र । त्वत् । अरणाःऽइव ।
वनानि । न । प्रऽजहितानि । अद्रिऽवः । दुरोषासः । अमन्महि ॥mā́ ǀ bhūma ǀ níṣṭyāḥ-iva ǀ índra ǀ tvát ǀ áraṇāḥ-iva ǀ
vánāni ǀ ná ǀ pra-jahitā́ni ǀ adri-vaḥ ǀ duróṣāsaḥ ǀ amanmahi ǁmā ǀ bhūma ǀ niṣṭyāḥ-iva ǀ indra ǀ tvat ǀ araṇāḥ-iva ǀ
vanāni ǀ na ǀ pra-jahitāni ǀ adri-vaḥ ǀ duroṣāsaḥ ǀ amanmahi ǁ8.1.13 Aṣṭaka 5.7.12.3Anuvāka 8.1.13
-
Ṛk 14
अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वृत्रहन् ।
स॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॑सा॒ अनु॒ स्तोमं॑ मुदीमहि ॥अमन्महीद् अनाशवो ऽनुग्रासश् च वृत्रहन् |
सकृत् सु ते महता शूर राधसा अनु स्तोमम् मुदीमहि ||ámanmahī́danāśávo’nugrā́saśca vṛtrahan ǀ
sakṛ́tsú te mahatā́ śūra rā́dhasā ánu stómam mudīmahi ǁamanmahīd anāśavo 'nugrāsaś ca vṛtrahan |
sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi ||अम॑न्महि । इत् । अ॒ना॒शवः॑ । अ॒नु॒ग्रासः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।
स॒कृत् । सु । ते॒ । म॒ह॒ता । शू॒र॒ । राध॑सा । अनु॑ । स्तोम॑म् । मु॒दी॒म॒हि॒ ॥अमन्महि । इत् । अनाशवः । अनुग्रासः । च । वृत्रऽहन् ।
सकृत् । सु । ते । महता । शूर । राधसा । अनु । स्तोमम् । मुदीमहि ॥ámanmahi ǀ ít ǀ anāśávaḥ ǀ anugrā́saḥ ǀ ca ǀ vṛtra-han ǀ
sakṛ́t ǀ sú ǀ te ǀ mahatā́ ǀ śūra ǀ rā́dhasā ǀ ánu ǀ stómam ǀ mudīmahi ǁamanmahi ǀ it ǀ anāśavaḥ ǀ anugrāsaḥ ǀ ca ǀ vṛtra-han ǀ
sakṛt ǀ su ǀ te ǀ mahatā ǀ śūra ǀ rādhasā ǀ anu ǀ stomam ǀ mudīmahi ǁ8.1.14 Aṣṭaka 5.7.12.4Anuvāka 8.1.14
-
Ṛk 15
यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिंद्र॒मिंद॑वः ।
ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मंदं॑तु तुग्र्या॒वृधः॑ ॥यदि स्तोमम् मम श्रवद् अस्माकम् इन्द्रम् इन्दवः |
तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ||yádi stómam máma śrávadasmā́kamíndramíndavaḥ ǀ
tiráḥ pavítram sasṛvā́ṃsa āśávo mándantu tugryāvṛ́dhaḥ ǁyadi stomam mama śravad asmākam indram indavaḥ |
tiraḥ pavitraṃ sasṛvāṃsa āśavo mandantu tugryāvṛdhaḥ ||यदि॑ । स्तोम॑म् । मम॑ । श्रव॑त् । अ॒स्माक॑म् । इन्द्र॑म् । इन्द॑वः ।
ति॒रः । प॒वित्र॑म् । स॒सृ॒ऽवांसः॑ । आ॒शवः॑ । मन्द॑न्तु । तु॒ग्र्य॒ऽवृधः॑ ॥यदि । स्तोमम् । मम । श्रवत् । अस्माकम् । इन्द्रम् । इन्दवः ।
तिरः । पवित्रम् । ससृऽवांसः । आशवः । मन्दन्तु । तुग्र्यऽवृधः ॥yádi ǀ stómam ǀ máma ǀ śrávat ǀ asmā́kam ǀ índram ǀ índavaḥ ǀ
tiráḥ ǀ pavítram ǀ sasṛ-vā́ṃsaḥ ǀ āśávaḥ ǀ mándantu ǀ tugrya-vṛ́dhaḥ ǁyadi ǀ stomam ǀ mama ǀ śravat ǀ asmākam ǀ indram ǀ indavaḥ ǀ
tiraḥ ǀ pavitram ǀ sasṛ-vāṃsaḥ ǀ āśavaḥ ǀ mandantu ǀ tugrya-vṛdhaḥ ǁ8.1.15 Aṣṭaka 5.7.12.5Anuvāka 8.1.15
-
Ṛk 16
आ त्व१॒॑द्य स॒धस्तु॑तिं वा॒वातुः॒ सख्यु॒रा ग॑हि ।
उप॑स्तुतिर्म॒घोनां॒ प्र त्वा॑व॒त्वधा॑ ते वश्मि सुष्टु॒तिं ॥आ त्व् अद्य सधस्तुतिं वावातुः सख्युर् आ गहि |
उपस्तुतिर् मघोनाम् प्र त्वावत्व् अधा ते वश्मि सुष्टुतिम् ||ā́ tvádyá sadhástutim vāvā́tuḥ sákhyurā́ gahi ǀ
úpastutirmaghónām prá tvāvatvádhā te vaśmi suṣṭutím ǁā tv adya sadhastutiṃ vāvātuḥ sakhyur ā gahi |
upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim ||आ । तु । अ॒द्य । स॒धऽस्तु॑तिम् । व॒वातुः॑ । सख्युः॑ । आ । ग॒हि॒ ।
उप॑ऽस्तुतिः । म॒घोना॑म् । प्र । त्वा॒ । अ॒व॒तु॒ । अध॑ । ते॒ । व॒श्मि॒ । सु॒ऽस्तु॒तिम् ॥आ । तु । अद्य । सधऽस्तुतिम् । ववातुः । सख्युः । आ । गहि ।
उपऽस्तुतिः । मघोनाम् । प्र । त्वा । अवतु । अध । ते । वश्मि । सुऽस्तुतिम् ॥ā́ ǀ tú ǀ adyá ǀ sadhá-stutim ǀ vavā́tuḥ ǀ sákhyuḥ ǀ ā́ ǀ gahi ǀ
úpa-stutiḥ ǀ maghónām ǀ prá ǀ tvā ǀ avatu ǀ ádha ǀ te ǀ vaśmi ǀ su-stutím ǁā ǀ tu ǀ adya ǀ sadha-stutim ǀ vavātuḥ ǀ sakhyuḥ ǀ ā ǀ gahi ǀ
upa-stutiḥ ǀ maghonām ǀ pra ǀ tvā ǀ avatu ǀ adha ǀ te ǀ vaśmi ǀ su-stutim ǁ8.1.16 Aṣṭaka 5.7.13.1Anuvāka 8.1.16
-
Ṛk 17
सोता॒ हि सोम॒मद्रि॑भि॒रेमे॑नम॒प्सु धा॑वत ।
ग॒व्या वस्त्रे॑व वा॒सयं॑त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा॑भ्यः ॥सोता हि सोमम् अद्रिभिर् एम् एनम् अप्सु धावत |
गव्या वस्त्रेव वासयन्त इन् नरो निर् धुक्षन् वक्षणाभ्यः ||sótā hí sómamádribhirémenamapsú dhāvata ǀ
gavyā́ vástreva vāsáyanta ínnáro nírdhukṣanvakṣáṇābhyaḥ ǁsotā hi somam adribhir em enam apsu dhāvata |
gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ ||सोत॑ । हि । सोम॑म् । अद्रि॑ऽभिः । आ । ई॒म् । ए॒न॒म् । अ॒प्ऽसु । धा॒व॒त॒ ।
ग॒व्या । वस्त्रा॑ऽइव । वा॒सय॑न्तः । इत् । नरः॑ । निः । धु॒क्ष॒न् । व॒क्षणा॑भ्यः ॥सोत । हि । सोमम् । अद्रिऽभिः । आ । ईम् । एनम् । अप्ऽसु । धावत ।
गव्या । वस्त्राऽइव । वासयन्तः । इत् । नरः । निः । धुक्षन् । वक्षणाभ्यः ॥sóta ǀ hí ǀ sómam ǀ ádri-bhiḥ ǀ ā́ ǀ īm ǀ enam ǀ ap-sú ǀ dhāvata ǀ
gavyā́ ǀ vástrā-iva ǀ vāsáyantaḥ ǀ ít ǀ náraḥ ǀ níḥ ǀ dhukṣan ǀ vakṣáṇābhyaḥ ǁsota ǀ hi ǀ somam ǀ adri-bhiḥ ǀ ā ǀ īm ǀ enam ǀ ap-su ǀ dhāvata ǀ
gavyā ǀ vastrā-iva ǀ vāsayantaḥ ǀ it ǀ naraḥ ǀ niḥ ǀ dhukṣan ǀ vakṣaṇābhyaḥ ǁ8.1.17 Aṣṭaka 5.7.13.2Anuvāka 8.1.17
-
Ṛk 18
अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ ।
अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण ॥अध ज्मो अध वा दिवो बृहतो रोचनाद् अधि |
अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ||ádha jmó ádha vā divó bṛható rocanā́dádhi ǀ
ayā́ vardhasva tanvā́ girā́ mámā́ jātā́ sukrato pṛṇa ǁadha jmo adha vā divo bṛhato rocanād adhi |
ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa ||अध॑ । ज्मः । अध॑ । वा॒ । दि॒वः । बृ॒ह॒तः । रो॒च॒नात् । अधि॑ ।
अ॒या । व॒र्ध॒स्व॒ । त॒न्वा॑ । गि॒रा । मम॑ । आ । जा॒ता । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । पृ॒ण॒ ॥अध । ज्मः । अध । वा । दिवः । बृहतः । रोचनात् । अधि ।
अया । वर्धस्व । तन्वा । गिरा । मम । आ । जाता । सुक्रतो इति सुऽक्रतो । पृण ॥ádha ǀ jmáḥ ǀ ádha ǀ vā ǀ diváḥ ǀ bṛhatáḥ ǀ rocanā́t ǀ ádhi ǀ
ayā́ ǀ vardhasva ǀ tanvā́ ǀ girā́ ǀ máma ǀ ā́ ǀ jātā́ ǀ sukrato íti su-krato ǀ pṛṇa ǁadha ǀ jmaḥ ǀ adha ǀ vā ǀ divaḥ ǀ bṛhataḥ ǀ rocanāt ǀ adhi ǀ
ayā ǀ vardhasva ǀ tanvā ǀ girā ǀ mama ǀ ā ǀ jātā ǀ sukrato iti su-krato ǀ pṛṇa ǁ8.1.18 Aṣṭaka 5.7.13.3Anuvāka 8.1.18
-
Ṛk 19
इंद्रा॑य॒ सु म॒दिंत॑मं॒ सोमं॑ सोता॒ वरे॑ण्यं ।
श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युं ॥इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् |
शक्र एणम् पीपयद् विश्वया धिया हिन्वानं न वाजयुम् ||índrāya sú madíntamam sómam sotā váreṇyam ǀ
śakrá eṇam pīpayadvíśvayā dhiyā́ hinvānám ná vājayúm ǁindrāya su madintamaṃ somaṃ sotā vareṇyam |
śakra eṇam pīpayad viśvayā dhiyā hinvānaṃ na vājayum ||इन्द्रा॑य । सु । म॒दिन्ऽत॑मम् । सोम॑म् । सो॒त॒ । वरे॑ण्यम् ।
श॒क्रः । ए॒न॒म् । पी॒प॒य॒त् । विश्व॑या । धि॒या । हि॒न्वा॒नम् । न । वा॒ज॒ऽयुम् ॥इन्द्राय । सु । मदिन्ऽतमम् । सोमम् । सोत । वरेण्यम् ।
शक्रः । एनम् । पीपयत् । विश्वया । धिया । हिन्वानम् । न । वाजऽयुम् ॥índrāya ǀ sú ǀ madín-tamam ǀ sómam ǀ sota ǀ váreṇyam ǀ
śakráḥ ǀ enam ǀ pīpayat ǀ víśvayā ǀ dhiyā́ ǀ hinvānám ǀ ná ǀ vāja-yúm ǁindrāya ǀ su ǀ madin-tamam ǀ somam ǀ sota ǀ vareṇyam ǀ
śakraḥ ǀ enam ǀ pīpayat ǀ viśvayā ǀ dhiyā ǀ hinvānam ǀ na ǀ vāja-yum ǁ8.1.19 Aṣṭaka 5.7.13.4Anuvāka 8.1.19
-
Ṛk 20
मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा ।
भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥मा त्वा सोमस्य गल्दया सदा याचन्न् अहं गिरा |
भूर्णिम् मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ||mā́ tvā sómasya gáldayā sádā yā́cannahám girā́ ǀ
bhū́rṇim mṛgám ná sávaneṣu cukrudham ká ī́śānam ná yāciṣat ǁmā tvā somasya galdayā sadā yācann ahaṃ girā |
bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat ||मा । त्वा॒ । सोम॑स्य । गल्द॑या । सदा॑ । याच॑न् । अ॒हम् । गि॒रा ।
भूर्णि॑म् । मृ॒गम् । न । सव॑नेषु । चु॒क्रु॒ध॒म् । कः । ईशा॑नम् । न । या॒चि॒ष॒त् ॥मा । त्वा । सोमस्य । गल्दया । सदा । याचन् । अहम् । गिरा ।
भूर्णिम् । मृगम् । न । सवनेषु । चुक्रुधम् । कः । ईशानम् । न । याचिषत् ॥mā́ ǀ tvā ǀ sómasya ǀ gáldayā ǀ sádā ǀ yā́can ǀ ahám ǀ girā́ ǀ
bhū́rṇim ǀ mṛgám ǀ ná ǀ sávaneṣu ǀ cukrudham ǀ káḥ ǀ ī́śānam ǀ ná ǀ yāciṣat ǁmā ǀ tvā ǀ somasya ǀ galdayā ǀ sadā ǀ yācan ǀ aham ǀ girā ǀ
bhūrṇim ǀ mṛgam ǀ na ǀ savaneṣu ǀ cukrudham ǀ kaḥ ǀ īśānam ǀ na ǀ yāciṣat ǁ8.1.20 Aṣṭaka 5.7.13.5Anuvāka 8.1.20
-
Ṛk 21
मदे॑नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा ।
विश्वे॑षां तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा॑ति नः ॥मदेनेषितम् मदम् उग्रम् उग्रेण शवसा |
विश्वेषां तरुतारम् मदच्युतम् मदे हि ष्मा ददाति नः ||mádeneṣitám mádamugrámugréṇa śávasā ǀ
víśveṣām tarutā́ram madacyútam máde hí ṣmā dádāti naḥ ǁmadeneṣitam madam ugram ugreṇa śavasā |
viśveṣāṃ tarutāram madacyutam made hi ṣmā dadāti naḥ ||मदे॑न । इ॒षि॒तम् । मद॑म् । उ॒ग्रम् । उ॒ग्रेण॑ । शव॑सा ।
विश्वे॑षाम् । त॒रु॒तार॑म् । म॒द॒ऽच्युत॑म् । मदे॑ । हि । स्म॒ । ददा॑ति । नः॒ ॥मदेन । इषितम् । मदम् । उग्रम् । उग्रेण । शवसा ।
विश्वेषाम् । तरुतारम् । मदऽच्युतम् । मदे । हि । स्म । ददाति । नः ॥mádena ǀ iṣitám ǀ mádam ǀ ugrám ǀ ugréṇa ǀ śávasā ǀ
víśveṣām ǀ tarutā́ram ǀ mada-cyútam ǀ máde ǀ hí ǀ sma ǀ dádāti ǀ naḥ ǁmadena ǀ iṣitam ǀ madam ǀ ugram ǀ ugreṇa ǀ śavasā ǀ
viśveṣām ǀ tarutāram ǀ mada-cyutam ǀ made ǀ hi ǀ sma ǀ dadāti ǀ naḥ ǁ8.1.21 Aṣṭaka 5.7.14.1Anuvāka 8.1.21
-
Ṛk 22
शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ ।
स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥शेवारे वार्या पुरु देवो मर्ताय दाशुषे |
स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ||śévāre vā́ryā purú devó mártāya dāśúṣe ǀ
sá sunvaté ca stuvaté ca rāsate viśvágūrto ariṣṭutáḥ ǁśevāre vāryā puru devo martāya dāśuṣe |
sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ ||शेवा॑रे । वार्या॑ । पु॒रु । दे॒वः । मर्ता॑य । दा॒शुषे॑ ।
सः । सु॒न्व॒ते । च॒ । स्तु॒व॒ते । च॒ । रा॒स॒ते॒ । वि॒श्वऽगू॑र्तः । अ॒रि॒ऽस्तु॒तः ॥शेवारे । वार्या । पुरु । देवः । मर्ताय । दाशुषे ।
सः । सुन्वते । च । स्तुवते । च । रासते । विश्वऽगूर्तः । अरिऽस्तुतः ॥śévāre ǀ vā́ryā ǀ purú ǀ deváḥ ǀ mártāya ǀ dāśúṣe ǀ
sáḥ ǀ sunvaté ǀ ca ǀ stuvaté ǀ ca ǀ rāsate ǀ viśvá-gūrtaḥ ǀ ari-stutáḥ ǁśevāre ǀ vāryā ǀ puru ǀ devaḥ ǀ martāya ǀ dāśuṣe ǀ
saḥ ǀ sunvate ǀ ca ǀ stuvate ǀ ca ǀ rāsate ǀ viśva-gūrtaḥ ǀ ari-stutaḥ ǁ8.1.22 Aṣṭaka 5.7.14.2Anuvāka 8.1.22
-
Ṛk 23
एंद्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा ।
सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रं ॥एन्द्र याहि मत्स्व चित्रेण देव राधसा |
सरो न प्रास्य् उदरं सपीतिभिर् आ सोमेभिर् उरु स्फिरम् ||éndra yāhi mátsva citréṇa deva rā́dhasā ǀ
sáro ná prāsyudáram sápītibhirā́ sómebhirurú sphirám ǁendra yāhi matsva citreṇa deva rādhasā |
saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram ||आ । इ॒न्द्र॒ । या॒हि॒ । मत्स्व॑ । चि॒त्रेण॑ । दे॒व॒ । राध॑सा ।
सरः॑ । न । प्रा॒सि॒ । उ॒दर॑म् । सपी॑तिऽभिः । आ । सोमे॑भिः । उ॒रु । स्फि॒रम् ॥आ । इन्द्र । याहि । मत्स्व । चित्रेण । देव । राधसा ।
सरः । न । प्रासि । उदरम् । सपीतिऽभिः । आ । सोमेभिः । उरु । स्फिरम् ॥ā́ ǀ indra ǀ yāhi ǀ mátsva ǀ citréṇa ǀ deva ǀ rā́dhasā ǀ
sáraḥ ǀ ná ǀ prāsi ǀ udáram ǀ sápīti-bhiḥ ǀ ā́ ǀ sómebhiḥ ǀ urú ǀ sphirám ǁā ǀ indra ǀ yāhi ǀ matsva ǀ citreṇa ǀ deva ǀ rādhasā ǀ
saraḥ ǀ na ǀ prāsi ǀ udaram ǀ sapīti-bhiḥ ǀ ā ǀ somebhiḥ ǀ uru ǀ sphiram ǁ8.1.23 Aṣṭaka 5.7.14.3Anuvāka 8.1.23
-
Ṛk 24
आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑ ।
ब्र॒ह्म॒युजो॒ हर॑य इंद्र के॒शिनो॒ वहं॑तु॒ सोम॑पीतये ॥आ त्वा सहस्रम् आ शतं युक्ता रथे हिरण्यये |
ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ||ā́ tvā sahásramā́ śatám yuktā́ ráthe hiraṇyáye ǀ
brahmayújo háraya indra keśíno váhantu sómapītaye ǁā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye |
brahmayujo haraya indra keśino vahantu somapītaye ||आ । त्वा॒ । स॒हस्र॑म् । आ । श॒तम् । यु॒क्ताः । रथे॑ । हि॒र॒ण्यये॑ ।
ब्र॒ह्म॒ऽयुजः॑ । हर॑यः । इ॒न्द्र॒ । के॒शिनः॑ । वह॑न्तु । सोम॑ऽपीतये ॥आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये ।
ब्रह्मऽयुजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोमऽपीतये ॥ā́ ǀ tvā ǀ sahásram ǀ ā́ ǀ śatám ǀ yuktā́ḥ ǀ ráthe ǀ hiraṇyáye ǀ
brahma-yújaḥ ǀ hárayaḥ ǀ indra ǀ keśínaḥ ǀ váhantu ǀ sóma-pītaye ǁā ǀ tvā ǀ sahasram ǀ ā ǀ śatam ǀ yuktāḥ ǀ rathe ǀ hiraṇyaye ǀ
brahma-yujaḥ ǀ harayaḥ ǀ indra ǀ keśinaḥ ǀ vahantu ǀ soma-pītaye ǁ8.1.24 Aṣṭaka 5.7.14.4Anuvāka 8.1.24
-
Ṛk 25
आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या ।
शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अंध॑सो वि॒वक्ष॑णस्य पी॒तये॑ ॥आ त्वा रथे हिरण्यये हरी मयूरशेप्या |
शितिपृष्ठा वहताम् मध्वो अन्धसो विवक्षणस्य पीतये ||ā́ tvā ráthe hiraṇyáye hárī mayū́raśepyā ǀ
śitipṛṣṭhā́ vahatām mádhvo ándhaso vivákṣaṇasya pītáye ǁā tvā rathe hiraṇyaye harī mayūraśepyā |
śitipṛṣṭhā vahatām madhvo andhaso vivakṣaṇasya pītaye ||आ । त्वा॒ । रथे॑ । हि॒र॒ण्यये॑ । हरी॒ इति॑ । म॒यूर॑ऽशेप्या ।
शि॒ति॒ऽपृ॒ष्ठा । व॒ह॒ता॒म् । मध्वः॑ । अन्ध॑सः । वि॒वक्ष॑णस्य । पी॒तये॑ ॥आ । त्वा । रथे । हिरण्यये । हरी इति । मयूरऽशेप्या ।
शितिऽपृष्ठा । वहताम् । मध्वः । अन्धसः । विवक्षणस्य । पीतये ॥ā́ ǀ tvā ǀ ráthe ǀ hiraṇyáye ǀ hárī íti ǀ mayū́ra-śepyā ǀ
śiti-pṛṣṭhā́ ǀ vahatām ǀ mádhvaḥ ǀ ándhasaḥ ǀ vivákṣaṇasya ǀ pītáye ǁā ǀ tvā ǀ rathe ǀ hiraṇyaye ǀ harī iti ǀ mayūra-śepyā ǀ
śiti-pṛṣṭhā ǀ vahatām ǀ madhvaḥ ǀ andhasaḥ ǀ vivakṣaṇasya ǀ pītaye ǁ8.1.25 Aṣṭaka 5.7.14.5Anuvāka 8.1.25
-
Ṛk 26
पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व ।
परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥पिबा त्व् अस्य गिर्वणः सुतस्य पूर्वपा इव |
परिष्कृतस्य रसिन इयम् आसुतिश् चारुर् मदाय पत्यते ||píbā tvásyá girvaṇaḥ sutásya pūrvapā́ iva ǀ
páriṣkṛtasya rasína iyámāsutíścā́rurmádāya patyate ǁpibā tv asya girvaṇaḥ sutasya pūrvapā iva |
pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate ||पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ । सु॒तस्य॑ । पू॒र्व॒पाःऽइ॑व ।
परि॑ऽकृतस्य । र॒सिनः॑ । इ॒यम् । आ॒ऽसु॒तिः । चारुः॑ । मदा॑य । प॒त्य॒ते॒ ॥पिब । तु । अस्य । गिर्वणः । सुतस्य । पूर्वपाःऽइव ।
परिऽकृतस्य । रसिनः । इयम् । आऽसुतिः । चारुः । मदाय । पत्यते ॥píba ǀ tú ǀ asyá ǀ girvaṇaḥ ǀ sutásya ǀ pūrvapā́ḥ-iva ǀ
pári-kṛtasya ǀ rasínaḥ ǀ iyám ǀ ā-sutíḥ ǀ cā́ruḥ ǀ mádāya ǀ patyate ǁpiba ǀ tu ǀ asya ǀ girvaṇaḥ ǀ sutasya ǀ pūrvapāḥ-iva ǀ
pari-kṛtasya ǀ rasinaḥ ǀ iyam ǀ ā-sutiḥ ǀ cāruḥ ǀ madāya ǀ patyate ǁ8.1.26 Aṣṭaka 5.7.15.1Anuvāka 8.1.26
-
Ṛk 27
य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः ।
गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥य एको अस्ति दंसना महां उग्रो अभि व्रतैः |
गमत् स शिप्री न स योषद् आ गमद् धवं न परि वर्जति ||yá éko ásti daṃsánā mahā́m̐ ugró abhí vratáiḥ ǀ
gámatsá śiprī́ ná sá yoṣadā́ gamaddhávam ná pári varjati ǁya eko asti daṃsanā mahāṃ ugro abhi vrataiḥ |
gamat sa śiprī na sa yoṣad ā gamad dhavaṃ na pari varjati ||यः । एकः॑ । अस्ति॑ । दं॒सना॑ । म॒हाम् । उ॒ग्रः । अ॒भि । व्र॒तैः ।
गम॑त् । सः । शि॒प्री । न । सः । यो॒ष॒त् । आ । ग॒म॒त् । हव॑म् । न । परि॑ । व॒र्ज॒ति॒ ॥यः । एकः । अस्ति । दंसना । महाम् । उग्रः । अभि । व्रतैः ।
गमत् । सः । शिप्री । न । सः । योषत् । आ । गमत् । हवम् । न । परि । वर्जति ॥yáḥ ǀ ékaḥ ǀ ásti ǀ daṃsánā ǀ mahā́m ǀ ugráḥ ǀ abhí ǀ vratáiḥ ǀ
gámat ǀ sáḥ ǀ śiprī́ ǀ ná ǀ sáḥ ǀ yoṣat ǀ ā́ ǀ gamat ǀ hávam ǀ ná ǀ pári ǀ varjati ǁyaḥ ǀ ekaḥ ǀ asti ǀ daṃsanā ǀ mahām ǀ ugraḥ ǀ abhi ǀ vrataiḥ ǀ
gamat ǀ saḥ ǀ śiprī ǀ na ǀ saḥ ǀ yoṣat ǀ ā ǀ gamat ǀ havam ǀ na ǀ pari ǀ varjati ǁ8.1.27 Aṣṭaka 5.7.15.2Anuvāka 8.1.27
-
Ṛk 28
त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् ।
त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदिं॑द्र॒ हव्यो॒ भुवः॑ ॥त्वम् पुरं चरिष्ण्वं वधैः शुष्णस्य सम् पिणक् |
त्वम् भा अनु चरो अध द्विता यद् इन्द्र हव्यो भुवः ||tvám púram cariṣṇvám vadháiḥ śúṣṇasya sám piṇak ǀ
tvám bhā́ ánu caro ádha dvitā́ yádindra hávyo bhúvaḥ ǁtvam puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya sam piṇak |
tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ ||त्वम् । पुर॑म् । च॒रि॒ष्ण्व॑म् । व॒धैः । शुष्ण॑स्य । सम् । पि॒ण॒क् ।
त्वम् । भाः । अनु॑ । च॒रः॒ । अध॑ । द्वि॒ता । यत् । इ॒न्द्र॒ । हव्यः॑ । भुवः॑ ॥त्वम् । पुरम् । चरिष्ण्वम् । वधैः । शुष्णस्य । सम् । पिणक् ।
त्वम् । भाः । अनु । चरः । अध । द्विता । यत् । इन्द्र । हव्यः । भुवः ॥tvám ǀ púram ǀ cariṣṇvám ǀ vadháiḥ ǀ śúṣṇasya ǀ sám ǀ piṇak ǀ
tvám ǀ bhā́ḥ ǀ ánu ǀ caraḥ ǀ ádha ǀ dvitā́ ǀ yát ǀ indra ǀ hávyaḥ ǀ bhúvaḥ ǁtvam ǀ puram ǀ cariṣṇvam ǀ vadhaiḥ ǀ śuṣṇasya ǀ sam ǀ piṇak ǀ
tvam ǀ bhāḥ ǀ anu ǀ caraḥ ǀ adha ǀ dvitā ǀ yat ǀ indra ǀ havyaḥ ǀ bhuvaḥ ǁ8.1.28 Aṣṭaka 5.7.15.3Anuvāka 8.1.28
-
Ṛk 29
मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः ।
मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥मम त्वा सूर उदिते मम मध्यन्दिने दिवः |
मम प्रपित्वे अपिशर्वरे वसव् आ स्तोमासो अवृत्सत ||máma tvā sū́ra údite máma madhyáṃdine diváḥ ǀ
máma prapitvé apiśarvaré vasavā́ stómāso avṛtsata ǁmama tvā sūra udite mama madhyandine divaḥ |
mama prapitve apiśarvare vasav ā stomāso avṛtsata ||मम॑ । त्वा॒ । सूरे॑ । उत्ऽइ॑ते । मम॑ । म॒ध्यन्दि॑ने । दि॒वः ।
मम॑ । प्र॒ऽपि॒त्वे । अ॒पि॒ऽश॒र्व॒रे । व॒सो॒ इति॑ । आ । स्तोमा॑सः । अ॒वृ॒त्स॒त॒ ॥मम । त्वा । सूरे । उत्ऽइते । मम । मध्यन्दिने । दिवः ।
मम । प्रऽपित्वे । अपिऽशर्वरे । वसो इति । आ । स्तोमासः । अवृत्सत ॥máma ǀ tvā ǀ sū́re ǀ út-ite ǀ máma ǀ madhyándine ǀ diváḥ ǀ
máma ǀ pra-pitvé ǀ api-śarvaré ǀ vaso íti ǀ ā́ ǀ stómāsaḥ ǀ avṛtsata ǁmama ǀ tvā ǀ sūre ǀ ut-ite ǀ mama ǀ madhyandine ǀ divaḥ ǀ
mama ǀ pra-pitve ǀ api-śarvare ǀ vaso iti ǀ ā ǀ stomāsaḥ ǀ avṛtsata ǁ8.1.29 Aṣṭaka 5.7.15.4Anuvāka 8.1.29
-
Ṛk 30
स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोनां॑ ।
निं॒दि॒ताश्वः॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥स्तुहि स्तुहीद् एते घा ते मंहिष्ठासो मघोनाम् |
निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ||stuhí stuhī́deté ghā te máṃhiṣṭhāso maghónām ǀ
ninditā́śvaḥ prapathī́ paramajyā́ maghásya medhyātithe ǁstuhi stuhīd ete ghā te maṃhiṣṭhāso maghonām |
ninditāśvaḥ prapathī paramajyā maghasya medhyātithe ||स्तु॒हि । स्तु॒हि । इत् । ए॒ते । घ॒ । ते॒ । मंहि॑ष्ठासः । म॒घोना॑म् ।
नि॒न्दि॒तऽअ॑श्वः । प्र॒ऽप॒थी । प॒र॒म॒ऽज्याः । म॒घस्य॑ । मे॒ध्य॒ऽअ॒ति॒थे॒ ॥स्तुहि । स्तुहि । इत् । एते । घ । ते । मंहिष्ठासः । मघोनाम् ।
निन्दितऽअश्वः । प्रऽपथी । परमऽज्याः । मघस्य । मेध्यऽअतिथे ॥stuhí ǀ stuhí ǀ ít ǀ eté ǀ gha ǀ te ǀ máṃhiṣṭhāsaḥ ǀ maghónām ǀ
ninditá-aśvaḥ ǀ pra-pathī́ ǀ parama-jyā́ḥ ǀ maghásya ǀ medhya-atithe ǁstuhi ǀ stuhi ǀ it ǀ ete ǀ gha ǀ te ǀ maṃhiṣṭhāsaḥ ǀ maghonām ǀ
nindita-aśvaḥ ǀ pra-pathī ǀ parama-jyāḥ ǀ maghasya ǀ medhya-atithe ǁ8.1.30 Aṣṭaka 5.7.15.5Anuvāka 8.1.30
-
Ṛk 31
आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हं ।
उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्वः॑ प॒शुः ॥आ यद् अश्वान् वनन्वतः श्रद्धयाहं रथे रुहम् |
उत वामस्य वसुनश् चिकेतति यो अस्ति याद्वः पशुः ||ā́ yádáśvānvánanvataḥ śraddháyāhám ráthe ruhám ǀ
utá vāmásya vásunaściketati yó ásti yā́dvaḥ paśúḥ ǁā yad aśvān vananvataḥ śraddhayāhaṃ rathe ruham |
uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ ||आ । यत् । अश्वा॑न् । वन॑न्ऽवतः । श्र॒द्धया॑ । अ॒हम् । रथे॑ । रु॒हम् ।
उ॒त । वा॒मस्य॑ । वसु॑नः । चि॒के॒त॒ति॒ । यः । अस्ति॑ । याद्वः॑ । प॒शुः ॥आ । यत् । अश्वान् । वनन्ऽवतः । श्रद्धया । अहम् । रथे । रुहम् ।
उत । वामस्य । वसुनः । चिकेतति । यः । अस्ति । याद्वः । पशुः ॥ā́ ǀ yát ǀ áśvān ǀ vánan-vataḥ ǀ śraddháyā ǀ ahám ǀ ráthe ǀ ruhám ǀ
utá ǀ vāmásya ǀ vásunaḥ ǀ ciketati ǀ yáḥ ǀ ásti ǀ yā́dvaḥ ǀ paśúḥ ǁā ǀ yat ǀ aśvān ǀ vanan-vataḥ ǀ śraddhayā ǀ aham ǀ rathe ǀ ruham ǀ
uta ǀ vāmasya ǀ vasunaḥ ǀ ciketati ǀ yaḥ ǀ asti ǀ yādvaḥ ǀ paśuḥ ǁ8.1.31 Aṣṭaka 5.7.16.1Anuvāka 8.1.31
-
Ṛk 32
य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ ।
ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गासं॒गस्य॑ स्व॒नद्र॑थः ॥य ऋज्रा मह्यम् मामहे सह त्वचा हिरण्यया |
एष विश्वान्य् अभ्य् अस्तु सौभगासङ्गस्य स्वनद्रथः ||yá ṛjrā́ máhyam māmahé sahá tvacā́ hiraṇyáyā ǀ
eṣá víśvānyabhyástu sáubhagāsaṅgásya svanádrathaḥ ǁya ṛjrā mahyam māmahe saha tvacā hiraṇyayā |
eṣa viśvāny abhy astu saubhagāsaṅgasya svanadrathaḥ ||यः । ऋ॒ज्रा । मह्य॑म् । म॒म॒हे । स॒ह । त्व॒चा । हि॒र॒ण्यया॑ ।
ए॒षः । विश्वा॑नि । अ॒भि । अ॒स्तु॒ । सौभ॑गा । आ॒स॒ङ्गस्य॑ । स्व॒नत्ऽर॑थः ॥यः । ऋज्रा । मह्यम् । ममहे । सह । त्वचा । हिरण्यया ।
एषः । विश्वानि । अभि । अस्तु । सौभगा । आसङ्गस्य । स्वनत्ऽरथः ॥yáḥ ǀ ṛjrā́ ǀ máhyam ǀ mamahé ǀ sahá ǀ tvacā́ ǀ hiraṇyáyā ǀ
eṣáḥ ǀ víśvāni ǀ abhí ǀ astu ǀ sáubhagā ǀ āsaṅgásya ǀ svanát-rathaḥ ǁyaḥ ǀ ṛjrā ǀ mahyam ǀ mamahe ǀ saha ǀ tvacā ǀ hiraṇyayā ǀ
eṣaḥ ǀ viśvāni ǀ abhi ǀ astu ǀ saubhagā ǀ āsaṅgasya ǀ svanat-rathaḥ ǁ8.1.32 Aṣṭaka 5.7.16.2Anuvāka 8.1.32
-
Ṛk 33
अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑सं॒गो अ॑ग्ने द॒शभिः॑ स॒हस्रैः॑ ।
अधो॒क्षणो॒ दश॒ मह्यं॒ रुशं॑तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥अध प्लायोगिर् अति दासद् अन्यान् आसङ्गो अग्ने दशभिः सहस्रैः |
अधोक्षणो दश मह्यं रुशन्तो नऌआ इव सरसो निर् अतिष्ठन् ||ádha plā́yogiráti dāsadanyā́nāsaṅgó agne daśábhiḥ sahásraiḥ ǀ
ádhokṣáṇo dáśa máhyam rúśanto naḷā́ iva sáraso níratiṣṭhan ǁadha plāyogir ati dāsad anyān āsaṅgo agne daśabhiḥ sahasraiḥ |
adhokṣaṇo daśa mahyaṃ ruśanto naḷā iva saraso nir atiṣṭhan ||अध॑ । प्लायो॑गिः । अति॑ । दा॒स॒त् । अ॒न्यान् । आ॒ऽस॒ङ्गः । अ॒ग्ने॒ । द॒शऽभिः॑ । स॒हस्रैः॑ ।
अध॑ । उ॒क्षणः॑ । दश॑ । मह्य॑म् । रुश॑न्तः । न॒ळाःऽइ॑व । सर॑सः । निः । अ॒ति॒ष्ठ॒न् ॥अध । प्लायोगिः । अति । दासत् । अन्यान् । आऽसङ्गः । अग्ने । दशऽभिः । सहस्रैः ।
अध । उक्षणः । दश । मह्यम् । रुशन्तः । नळाःऽइव । सरसः । निः । अतिष्ठन् ॥ádha ǀ plā́yogiḥ ǀ áti ǀ dāsat ǀ anyā́n ǀ ā-saṅgáḥ ǀ agne ǀ daśá-bhiḥ ǀ sahásraiḥ ǀ
ádha ǀ ukṣáṇaḥ ǀ dáśa ǀ máhyam ǀ rúśantaḥ ǀ naḷā́ḥ-iva ǀ sárasaḥ ǀ níḥ ǀ atiṣṭhan ǁadha ǀ plāyogiḥ ǀ ati ǀ dāsat ǀ anyān ǀ ā-saṅgaḥ ǀ agne ǀ daśa-bhiḥ ǀ sahasraiḥ ǀ
adha ǀ ukṣaṇaḥ ǀ daśa ǀ mahyam ǀ ruśantaḥ ǀ naḷāḥ-iva ǀ sarasaḥ ǀ niḥ ǀ atiṣṭhan ǁ8.1.33 Aṣṭaka 5.7.16.3Anuvāka 8.1.33
-
Ṛk 34
अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रंब॑माणः ।
शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥अन्व् अस्य स्थूरं ददृशे पुरस्ताद् अनस्थ ऊरुर् अवरम्बमाणः |
शश्वती नार्य् अभिचक्ष्याह सुभद्रम् अर्य भोजनम् बिभर्षि ||ánvasya sthūrám dadṛśe purástādanasthá ūrúravarámbamāṇaḥ ǀ
śáśvatī nā́ryabhicákṣyāha súbhadramarya bhójanam bibharṣi ǁanv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ |
śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi ||अनु॑ । अ॒स्य॒ । स्थू॒रम् । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒न॒स्थः । ऊ॒रुः । अ॒व॒ऽरम्ब॑माणः ।
शश्व॑ती । नारी॑ । अ॒भि॒ऽचक्ष्य॑ । आ॒ह॒ । सुऽभ॑द्रम् । अ॒र्य॒ । भोज॑नम् । बि॒भ॒र्षि॒ ॥अनु । अस्य । स्थूरम् । ददृशे । पुरस्तात् । अनस्थः । ऊरुः । अवऽरम्बमाणः ।
शश्वती । नारी । अभिऽचक्ष्य । आह । सुऽभद्रम् । अर्य । भोजनम् । बिभर्षि ॥ánu ǀ asya ǀ sthūrám ǀ dadṛśe ǀ purástāt ǀ anastháḥ ǀ ūrúḥ ǀ ava-rámbamāṇaḥ ǀ
śáśvatī ǀ nā́rī ǀ abhi-cákṣya ǀ āha ǀ sú-bhadram ǀ arya ǀ bhójanam ǀ bibharṣi ǁanu ǀ asya ǀ sthūram ǀ dadṛśe ǀ purastāt ǀ anasthaḥ ǀ ūruḥ ǀ ava-rambamāṇaḥ ǀ
śaśvatī ǀ nārī ǀ abhi-cakṣya ǀ āha ǀ su-bhadram ǀ arya ǀ bhojanam ǀ bibharṣi ǁ8.1.34 Aṣṭaka 5.7.16.4Anuvāka 8.1.34
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.