Sūkta 67
- Devatā देवता
- Ādityās
- Ṛṣi ऋषि
- Matsya Sāmmada Or Mānya Maitrāvaruṇi
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1-3, 5, 7, 9, 13-15, 21); gāyatrī (6, 8, 11, 12, 16-20); virāḍgāyatrī (4, 10)
2nd set of styles gāyatrī
-
Ṛk 1
त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान्या॑चिषामहे ।
सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥त्यान् नु क्षत्रियां अव आदित्यान् याचिषामहे |
सुमृऌईकां अभिष्टये ||tyā́nnú kṣatríyām̐ áva ādityā́nyāciṣāmahe ǀ
sumṛḷīkā́m̐ abhíṣṭaye ǁtyān nu kṣatriyāṃ ava ādityān yāciṣāmahe |
sumṛḷīkāṃ abhiṣṭaye ||त्यान् । नु । क्ष॒त्रिया॑न् । अवः॑ । आ॒दि॒त्यान् । या॒चि॒षा॒म॒हे॒ ।
सु॒ऽमृ॒ळी॒कान् । अ॒भिष्ट॑ये ॥त्यान् । नु । क्षत्रियान् । अवः । आदित्यान् । याचिषामहे ।
सुऽमृळीकान् । अभिष्टये ॥tyā́n ǀ nú ǀ kṣatríyān ǀ ávaḥ ǀ ādityā́n ǀ yāciṣāmahe ǀ
su-mṛḷīkā́n ǀ abhíṣṭaye ǁtyān ǀ nu ǀ kṣatriyān ǀ avaḥ ǀ ādityān ǀ yāciṣāmahe ǀ
su-mṛḷīkān ǀ abhiṣṭaye ǁ8.67.1 Aṣṭaka 6.4.51.1Anuvāka 8.7.102
-
Ṛk 2
मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा ।
आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥मित्रो नो अत्य् अंहतिं वरुणः पर्षद् अर्यमा |
आदित्यासो यथा विदुः ||mitró no átyaṃhatím váruṇaḥ parṣadaryamā́ ǀ
ādityā́so yáthā vidúḥ ǁmitro no aty aṃhatiṃ varuṇaḥ parṣad aryamā |
ādityāso yathā viduḥ ||मि॒त्रः । नः॒ । अति॑ । अं॒ह॒तिम् । वरु॑णः । प॒र्ष॒त् । अ॒र्य॒मा ।
आ॒दि॒त्यासः॑ । यथा॑ । वि॒दुः ॥मित्रः । नः । अति । अंहतिम् । वरुणः । पर्षत् । अर्यमा ।
आदित्यासः । यथा । विदुः ॥mitráḥ ǀ naḥ ǀ áti ǀ aṃhatím ǀ váruṇaḥ ǀ parṣat ǀ aryamā́ ǀ
ādityā́saḥ ǀ yáthā ǀ vidúḥ ǁmitraḥ ǀ naḥ ǀ ati ǀ aṃhatim ǀ varuṇaḥ ǀ parṣat ǀ aryamā ǀ
ādityāsaḥ ǀ yathā ǀ viduḥ ǁ8.67.2 Aṣṭaka 6.4.51.2Anuvāka 8.7.103
-
Ṛk 3
तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ ।
आ॒दि॒त्याना॑मरं॒कृते॑ ॥तेषां हि चित्रम् उक्थ्यं वरूथम् अस्ति दाशुषे |
आदित्यानाम् अरङ्कृते ||téṣām hí citrámukthyám várūthamásti dāśúṣe ǀ
ādityā́nāmaraṃkṛ́te ǁteṣāṃ hi citram ukthyaṃ varūtham asti dāśuṣe |
ādityānām araṅkṛte ||तेषा॑म् । हि । चि॒त्रम् । उ॒क्थ्य॑म् । वरू॑थम् । अस्ति॑ । दा॒शुषे॑ ।
आ॒दि॒त्याना॑म् । अ॒र॒म्ऽकृते॑ ॥तेषाम् । हि । चित्रम् । उक्थ्यम् । वरूथम् । अस्ति । दाशुषे ।
आदित्यानाम् । अरम्ऽकृते ॥téṣām ǀ hí ǀ citrám ǀ ukthyám ǀ várūtham ǀ ásti ǀ dāśúṣe ǀ
ādityā́nām ǀ aram-kṛ́te ǁteṣām ǀ hi ǀ citram ǀ ukthyam ǀ varūtham ǀ asti ǀ dāśuṣe ǀ
ādityānām ǀ aram-kṛte ǁ8.67.3 Aṣṭaka 6.4.51.3Anuvāka 8.7.104
-
Ṛk 4
महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् ।
अवां॒स्या वृ॑णीमहे ॥महि वो महताम् अवो वरुण मित्रार्यमन् |
अवांस्य् आ वृणीमहे ||máhi vo mahatā́mávo váruṇa mítrā́ryaman ǀ
ávāṃsyā́ vṛṇīmahe ǁmahi vo mahatām avo varuṇa mitrāryaman |
avāṃsy ā vṛṇīmahe ||महि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । अर्य॑मन् ।
अवां॑सि । आ । वृ॒णी॒म॒हे॒ ॥महि । वः । महताम् । अवः । वरुण । मित्र । अर्यमन् ।
अवांसि । आ । वृणीमहे ॥máhi ǀ vaḥ ǀ mahatā́m ǀ ávaḥ ǀ váruṇa ǀ mítra ǀ áryaman ǀ
ávāṃsi ǀ ā́ ǀ vṛṇīmahe ǁmahi ǀ vaḥ ǀ mahatām ǀ avaḥ ǀ varuṇa ǀ mitra ǀ aryaman ǀ
avāṃsi ǀ ā ǀ vṛṇīmahe ǁ8.67.4 Aṣṭaka 6.4.51.4Anuvāka 8.7.105
-
Ṛk 5
जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् ।
कद्ध॑ स्थ हवनश्रुतः ॥जीवान् नो अभि धेतनादित्यासः पुरा हथात् |
कद् ध स्थ हवनश्रुतः ||jīvā́nno abhí dhetanā́dityāsaḥ purā́ háthāt ǀ
káddha stha havanaśrutaḥ ǁjīvān no abhi dhetanādityāsaḥ purā hathāt |
kad dha stha havanaśrutaḥ ||जी॒वान् । नः॒ । अ॒भि । धे॒त॒न॒ । आदि॑त्यासः । पु॒रा । हथा॑त् ।
कत् । ह॒ । स्थ॒ । ह॒व॒न॒ऽश्रु॒तः॒ ॥जीवान् । नः । अभि । धेतन । आदित्यासः । पुरा । हथात् ।
कत् । ह । स्थ । हवनऽश्रुतः ॥jīvā́n ǀ naḥ ǀ abhí ǀ dhetana ǀ ā́dityāsaḥ ǀ purā́ ǀ háthāt ǀ
kát ǀ ha ǀ stha ǀ havana-śrutaḥ ǁjīvān ǀ naḥ ǀ abhi ǀ dhetana ǀ ādityāsaḥ ǀ purā ǀ hathāt ǀ
kat ǀ ha ǀ stha ǀ havana-śrutaḥ ǁ8.67.5 Aṣṭaka 6.4.51.5Anuvāka 8.7.106
-
Ṛk 6
यद्वः॑ श्रां॒ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः ।
तेना॑ नो॒ अधि॑ वोचत ॥यद् वः श्रान्ताय सुन्वते वरूथम् अस्ति यच् छर्दिः |
तेना नो अधि वोचत ||yádvaḥ śrāntā́ya sunvaté várūthamásti yácchardíḥ ǀ
ténā no ádhi vocata ǁyad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ |
tenā no adhi vocata ||यत् । वः॒ । श्रा॒न्ताय॑ । सु॒न्व॒ते । वरू॑थम् । अस्ति॑ । यत् । छ॒र्दिः ।
तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ॥यत् । वः । श्रान्ताय । सुन्वते । वरूथम् । अस्ति । यत् । छर्दिः ।
तेन । नः । अधि । वोचत ॥yát ǀ vaḥ ǀ śrāntā́ya ǀ sunvaté ǀ várūtham ǀ ásti ǀ yát ǀ chardíḥ ǀ
téna ǀ naḥ ǀ ádhi ǀ vocata ǁyat ǀ vaḥ ǀ śrāntāya ǀ sunvate ǀ varūtham ǀ asti ǀ yat ǀ chardiḥ ǀ
tena ǀ naḥ ǀ adhi ǀ vocata ǁ8.67.6 Aṣṭaka 6.4.52.1Anuvāka 8.7.107
-
Ṛk 7
अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः ।
आदि॑त्या॒ अद्भु॑तैनसः ॥अस्ति देवा अंहोर् उर्व् अस्ति रत्नम् अनागसः |
आदित्या अद्भुतैनसः ||ásti devā aṃhórurvásti rátnamánāgasaḥ ǀ
ā́dityā ádbhutainasaḥ ǁasti devā aṃhor urv asti ratnam anāgasaḥ |
ādityā adbhutainasaḥ ||अस्ति॑ । दे॒वाः॒ । अं॒होः । उ॒रु । अस्ति॑ । रत्न॑म् । अना॑गसः ।
आदि॑त्याः । अद्भु॑तऽएनसः ॥अस्ति । देवाः । अंहोः । उरु । अस्ति । रत्नम् । अनागसः ।
आदित्याः । अद्भुतऽएनसः ॥ásti ǀ devāḥ ǀ aṃhóḥ ǀ urú ǀ ásti ǀ rátnam ǀ ánāgasaḥ ǀ
ā́dityāḥ ǀ ádbhuta-enasaḥ ǁasti ǀ devāḥ ǀ aṃhoḥ ǀ uru ǀ asti ǀ ratnam ǀ anāgasaḥ ǀ
ādityāḥ ǀ adbhuta-enasaḥ ǁ8.67.7 Aṣṭaka 6.4.52.2Anuvāka 8.7.108
-
Ṛk 8
मा नः॒ सेतुः॑ सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ ।
इंद्र॒ इद्धि श्रु॒तो व॒शी ॥मा नः सेतुः सिषेद् अयम् महे वृणक्तु नस् परि |
इन्द्र इद् धि श्रुतो वशी ||mā́ naḥ sétuḥ siṣedayám mahé vṛṇaktu naspári ǀ
índra íddhí śrutó vaśī́ ǁmā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari |
indra id dhi śruto vaśī ||मा । नः॒ । सेतुः॑ । सि॒से॒त् । अ॒यम् । म॒हे । वृ॒ण॒क्तु॒ । नः॒ । परि॑ ।
इन्द्रः॑ । इत् । हि । श्रु॒तः । व॒शी ॥मा । नः । सेतुः । सिसेत् । अयम् । महे । वृणक्तु । नः । परि ।
इन्द्रः । इत् । हि । श्रुतः । वशी ॥mā́ ǀ naḥ ǀ sétuḥ ǀ siset ǀ ayám ǀ mahé ǀ vṛṇaktu ǀ naḥ ǀ pári ǀ
índraḥ ǀ ít ǀ hí ǀ śrutáḥ ǀ vaśī́ ǁmā ǀ naḥ ǀ setuḥ ǀ siset ǀ ayam ǀ mahe ǀ vṛṇaktu ǀ naḥ ǀ pari ǀ
indraḥ ǀ it ǀ hi ǀ śrutaḥ ǀ vaśī ǁ8.67.8 Aṣṭaka 6.4.52.3Anuvāka 8.7.109
-
Ṛk 9
मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः ।
देवा॑ अ॒भि प्र मृ॑क्षत ॥मा नो मृचा रिपूणां वृजिनानाम् अविष्यवः |
देवा अभि प्र मृक्षत ||mā́ no mṛcā́ ripūṇā́m vṛjinā́nāmaviṣyavaḥ ǀ
dévā abhí prá mṛkṣata ǁmā no mṛcā ripūṇāṃ vṛjinānām aviṣyavaḥ |
devā abhi pra mṛkṣata ||मा । नः॒ । मृ॒चा । रि॒पू॒णाम् । वृ॒जि॒नाना॑म् । अ॒वि॒ष्य॒वः॒ ।
देवाः॑ । अ॒भि । प्र । मृ॒क्ष॒त॒ ॥मा । नः । मृचा । रिपूणाम् । वृजिनानाम् । अविष्यवः ।
देवाः । अभि । प्र । मृक्षत ॥mā́ ǀ naḥ ǀ mṛcā́ ǀ ripūṇā́m ǀ vṛjinā́nām ǀ aviṣyavaḥ ǀ
dévāḥ ǀ abhí ǀ prá ǀ mṛkṣata ǁmā ǀ naḥ ǀ mṛcā ǀ ripūṇām ǀ vṛjinānām ǀ aviṣyavaḥ ǀ
devāḥ ǀ abhi ǀ pra ǀ mṛkṣata ǁ8.67.9 Aṣṭaka 6.4.52.4Anuvāka 8.7.110
-
Ṛk 10
उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे ।
सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥उत त्वाम् अदिते मह्य् अहं देव्य् उप ब्रुवे |
सुमृऌईकाम् अभिष्टये ||utá tvā́madite mahyahám devyúpa bruve ǀ
sumṛḷīkā́mabhíṣṭaye ǁuta tvām adite mahy ahaṃ devy upa bruve |
sumṛḷīkām abhiṣṭaye ||उ॒त । त्वाम् । अ॒दि॒ते॒ । म॒हि॒ । अ॒हम् । दे॒वि॒ । उप॑ । ब्रु॒वे॒ ।
सु॒ऽमृ॒ळी॒काम् । अ॒भिष्ट॑ये ॥उत । त्वाम् । अदिते । महि । अहम् । देवि । उप । ब्रुवे ।
सुऽमृळीकाम् । अभिष्टये ॥utá ǀ tvā́m ǀ adite ǀ mahi ǀ ahám ǀ devi ǀ úpa ǀ bruve ǀ
su-mṛḷīkā́m ǀ abhíṣṭaye ǁuta ǀ tvām ǀ adite ǀ mahi ǀ aham ǀ devi ǀ upa ǀ bruve ǀ
su-mṛḷīkām ǀ abhiṣṭaye ǁ8.67.10 Aṣṭaka 6.4.52.5Anuvāka 8.7.111
-
Ṛk 11
पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां॑सतः ।
माकि॑स्तो॒कस्य॑ नो रिषत् ॥पर्षि दीने गभीर आं उग्रपुत्रे जिघांसतः |
माकिस् तोकस्य नो रिषत् ||párṣi dīné gabhīrá ā́m̐ úgraputre jíghāṃsataḥ ǀ
mā́kistokásya no riṣat ǁparṣi dīne gabhīra āṃ ugraputre jighāṃsataḥ |
mākis tokasya no riṣat ||पर्षि॑ । दी॒ने । ग॒भी॒रे । आ । उग्र॑ऽपुत्रे । जिघां॑सतः ।
माकिः॑ । तो॒कस्य॑ । नः॒ । रि॒ष॒त् ॥पर्षि । दीने । गभीरे । आ । उग्रऽपुत्रे । जिघांसतः ।
माकिः । तोकस्य । नः । रिषत् ॥párṣi ǀ dīné ǀ gabhīré ǀ ā́ ǀ úgra-putre ǀ jíghāṃsataḥ ǀ
mā́kiḥ ǀ tokásya ǀ naḥ ǀ riṣat ǁparṣi ǀ dīne ǀ gabhīre ǀ ā ǀ ugra-putre ǀ jighāṃsataḥ ǀ
mākiḥ ǀ tokasya ǀ naḥ ǀ riṣat ǁ8.67.11 Aṣṭaka 6.4.53.1Anuvāka 8.7.112
-
Ṛk 12
अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे ।
कृ॒धि तो॒काय॑ जी॒वसे॑ ॥अनेहो न उरुव्रज उरूचि वि प्रसर्तवे |
कृधि तोकाय जीवसे ||anehó na uruvraja úrūci ví prásartave ǀ
kṛdhí tokā́ya jīváse ǁaneho na uruvraja urūci vi prasartave |
kṛdhi tokāya jīvase ||अ॒ने॒हः । नः॒ । उ॒रु॒ऽव्र॒जे॒ । उरू॑चि । वि । प्रऽस॑र्तवे ।
कृ॒धि । तो॒काय॑ । जी॒वसे॑ ॥अनेहः । नः । उरुऽव्रजे । उरूचि । वि । प्रऽसर्तवे ।
कृधि । तोकाय । जीवसे ॥aneháḥ ǀ naḥ ǀ uru-vraje ǀ úrūci ǀ ví ǀ prá-sartave ǀ
kṛdhí ǀ tokā́ya ǀ jīváse ǁanehaḥ ǀ naḥ ǀ uru-vraje ǀ urūci ǀ vi ǀ pra-sartave ǀ
kṛdhi ǀ tokāya ǀ jīvase ǁ8.67.12 Aṣṭaka 6.4.53.2Anuvāka 8.7.113
-
Ṛk 13
ये मू॒र्धानः॑ क्षिती॒नामद॑ब्धासः॒ स्वय॑शसः ।
व्र॒ता रक्षं॑ते अ॒द्रुहः॑ ॥ये मूर्धानः क्षितीनाम् अदब्धासः स्वयशसः |
व्रता रक्षन्ते अद्रुहः ||yé mūrdhā́naḥ kṣitīnā́mádabdhāsaḥ sváyaśasaḥ ǀ
vratā́ rákṣante adrúhaḥ ǁye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ |
vratā rakṣante adruhaḥ ||ये । मू॒र्धानः॑ । क्षि॒ती॒नाम् । अद॑ब्धासः । स्वऽय॑शसः ।
व्र॒ता । रक्ष॑न्ते । अ॒द्रुहः॑ ॥ये । मूर्धानः । क्षितीनाम् । अदब्धासः । स्वऽयशसः ।
व्रता । रक्षन्ते । अद्रुहः ॥yé ǀ mūrdhā́naḥ ǀ kṣitīnā́m ǀ ádabdhāsaḥ ǀ svá-yaśasaḥ ǀ
vratā́ ǀ rákṣante ǀ adrúhaḥ ǁye ǀ mūrdhānaḥ ǀ kṣitīnām ǀ adabdhāsaḥ ǀ sva-yaśasaḥ ǀ
vratā ǀ rakṣante ǀ adruhaḥ ǁ8.67.13 Aṣṭaka 6.4.53.3Anuvāka 8.7.114
-
Ṛk 14
ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त ।
स्ते॒नं ब॒द्धमि॑वादिते ॥ते न आस्नो वृकाणाम् आदित्यासो मुमोचत |
स्तेनम् बद्धम् इवादिते ||té na āsnó vṛ́kāṇāmā́dityāso mumócata ǀ
stenám baddhámivādite ǁte na āsno vṛkāṇām ādityāso mumocata |
stenam baddham ivādite ||ते । नः॒ । आ॒स्नः । वृका॑णाम् । आदि॑त्यासः । मु॒मोच॑त ।
स्ते॒नम् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥ते । नः । आस्नः । वृकाणाम् । आदित्यासः । मुमोचत ।
स्तेनम् । बद्धम्ऽइव । अदिते ॥té ǀ naḥ ǀ āsnáḥ ǀ vṛ́kāṇām ǀ ā́dityāsaḥ ǀ mumócata ǀ
stenám ǀ baddhám-iva ǀ adite ǁte ǀ naḥ ǀ āsnaḥ ǀ vṛkāṇām ǀ ādityāsaḥ ǀ mumocata ǀ
stenam ǀ baddham-iva ǀ adite ǁ8.67.14 Aṣṭaka 6.4.53.4Anuvāka 8.7.115
-
Ṛk 15
अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः ।
अ॒स्मदे॒त्वज॑घ्नुषी ॥अपो षु ण इयं शरुर् आदित्या अप दुर्मतिः |
अस्मद् एत्व् अजघ्नुषी ||ápo ṣú ṇa iyám śárurā́dityā ápa durmatíḥ ǀ
asmádetvájaghnuṣī ǁapo ṣu ṇa iyaṃ śarur ādityā apa durmatiḥ |
asmad etv ajaghnuṣī ||अपो॒ इति॑ । सु । नः॒ । इ॒यम् । शरुः॑ । आदि॑त्याः । अप॑ । दुः॒ऽम॒तिः ।
अ॒स्मत् । ए॒तु॒ । अज॑घ्नुषी ॥अपो इति । सु । नः । इयम् । शरुः । आदित्याः । अप । दुःऽमतिः ।
अस्मत् । एतु । अजघ्नुषी ॥ápo íti ǀ sú ǀ naḥ ǀ iyám ǀ śáruḥ ǀ ā́dityāḥ ǀ ápa ǀ duḥ-matíḥ ǀ
asmát ǀ etu ǀ ájaghnuṣī ǁapo iti ǀ su ǀ naḥ ǀ iyam ǀ śaruḥ ǀ ādityāḥ ǀ apa ǀ duḥ-matiḥ ǀ
asmat ǀ etu ǀ ajaghnuṣī ǁ8.67.15 Aṣṭaka 6.4.53.5Anuvāka 8.7.116
-
Ṛk 16
शश्व॒द्धि वः॑ सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यं ।
पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥शश्वद् धि वः सुदानव आदित्या ऊतिभिर् वयम् |
पुरा नूनम् बुभुज्महे ||śáśvaddhí vaḥ sudānava ā́dityā ūtíbhirvayám ǀ
purā́ nūnám bubhujmáhe ǁśaśvad dhi vaḥ sudānava ādityā ūtibhir vayam |
purā nūnam bubhujmahe ||शश्व॑त् । हि । वः॒ । सु॒ऽदा॒न॒वः॒ । आदि॑त्याः । ऊ॒तिऽभिः॑ । व॒यम् ।
पु॒रा । नू॒नम् । बु॒भु॒ज्महे॑ ॥शश्वत् । हि । वः । सुऽदानवः । आदित्याः । ऊतिऽभिः । वयम् ।
पुरा । नूनम् । बुभुज्महे ॥śáśvat ǀ hí ǀ vaḥ ǀ su-dānavaḥ ǀ ā́dityāḥ ǀ ūtí-bhiḥ ǀ vayám ǀ
purā́ ǀ nūnám ǀ bubhujmáhe ǁśaśvat ǀ hi ǀ vaḥ ǀ su-dānavaḥ ǀ ādityāḥ ǀ ūti-bhiḥ ǀ vayam ǀ
purā ǀ nūnam ǀ bubhujmahe ǁ8.67.16 Aṣṭaka 6.4.54.1Anuvāka 8.7.117
-
Ṛk 17
शश्वं॑तं॒ हि प्र॑चेतसः प्रति॒यंतं॑ चि॒देन॑सः ।
देवाः॑ कृणु॒थ जी॒वसे॑ ॥शश्वन्तं हि प्रचेतसः प्रतियन्तं चिद् एनसः |
देवाः कृणुथ जीवसे ||śáśvantam hí pracetasaḥ pratiyántam cidénasaḥ ǀ
dévāḥ kṛṇuthá jīváse ǁśaśvantaṃ hi pracetasaḥ pratiyantaṃ cid enasaḥ |
devāḥ kṛṇutha jīvase ||शश्व॑न्तम् । हि । प्र॒ऽचे॒त॒सः॒ । प्र॒ति॒ऽयन्त॑म् । चि॒त् । एन॑सः ।
देवाः॑ । कृ॒णु॒थ । जी॒वसे॑ ॥शश्वन्तम् । हि । प्रऽचेतसः । प्रतिऽयन्तम् । चित् । एनसः ।
देवाः । कृणुथ । जीवसे ॥śáśvantam ǀ hí ǀ pra-cetasaḥ ǀ prati-yántam ǀ cit ǀ énasaḥ ǀ
dévāḥ ǀ kṛṇuthá ǀ jīváse ǁśaśvantam ǀ hi ǀ pra-cetasaḥ ǀ prati-yantam ǀ cit ǀ enasaḥ ǀ
devāḥ ǀ kṛṇutha ǀ jīvase ǁ8.67.17 Aṣṭaka 6.4.54.2Anuvāka 8.7.118
-
Ṛk 18
तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति ।
बं॒धाद्ब॒द्धमि॑वादिते ॥तत् सु नो नव्यं सन्यस आदित्या यन् मुमोचति |
बन्धाद् बद्धम् इवादिते ||tátsú no návyam sányasa ā́dityā yánmúmocati ǀ
bandhā́dbaddhámivādite ǁtat su no navyaṃ sanyasa ādityā yan mumocati |
bandhād baddham ivādite ||तत् । सु । नः॒ । नव्य॑म् । सन्य॑से । आदि॑त्याः । यत् । मुमो॑चति ।
ब॒न्धात् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥तत् । सु । नः । नव्यम् । सन्यसे । आदित्याः । यत् । मुमोचति ।
बन्धात् । बद्धम्ऽइव । अदिते ॥tát ǀ sú ǀ naḥ ǀ návyam ǀ sányase ǀ ā́dityāḥ ǀ yát ǀ múmocati ǀ
bandhā́t ǀ baddhám-iva ǀ adite ǁtat ǀ su ǀ naḥ ǀ navyam ǀ sanyase ǀ ādityāḥ ǀ yat ǀ mumocati ǀ
bandhāt ǀ baddham-iva ǀ adite ǁ8.67.18 Aṣṭaka 6.4.54.3Anuvāka 8.7.119
-
Ṛk 19
नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ ।
यू॒यम॒स्मभ्यं॑ मृळत ॥नास्माकम् अस्ति तत् तर आदित्यासो अतिष्कदे |
यूयम् अस्मभ्यम् मृऌअत ||nā́smā́kamasti táttára ā́dityāso atiṣkáde ǀ
yūyámasmábhyam mṛḷata ǁnāsmākam asti tat tara ādityāso atiṣkade |
yūyam asmabhyam mṛḷata ||न । अ॒स्माक॑म् । अ॒स्ति॒ । तत् । तरः॑ । आदि॑त्यासः । अ॒ति॒ऽस्कदे॑ ।
यू॒यम् । अ॒स्मभ्य॑म् । मृ॒ळ॒त॒ ॥न । अस्माकम् । अस्ति । तत् । तरः । आदित्यासः । अतिऽस्कदे ।
यूयम् । अस्मभ्यम् । मृळत ॥ná ǀ asmā́kam ǀ asti ǀ tát ǀ táraḥ ǀ ā́dityāsaḥ ǀ ati-skáde ǀ
yūyám ǀ asmábhyam ǀ mṛḷata ǁna ǀ asmākam ǀ asti ǀ tat ǀ taraḥ ǀ ādityāsaḥ ǀ ati-skade ǀ
yūyam ǀ asmabhyam ǀ mṛḷata ǁ8.67.19 Aṣṭaka 6.4.54.4Anuvāka 8.7.120
-
Ṛk 20
मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरुः॑ ।
पु॒रा नु ज॒रसो॑ वधीत् ॥मा नो हेतिर् विवस्वत आदित्याः कृत्रिमा शरुः |
पुरा नु जरसो वधीत् ||mā́ no hetírvivásvata ā́dityāḥ kṛtrímā śáruḥ ǀ
purā́ nú jaráso vadhīt ǁmā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ |
purā nu jaraso vadhīt ||मा । नः॒ । हे॒तिः । वि॒वस्व॑तः । आदि॑त्याः । कृ॒त्रिमा॑ । शरुः॑ ।
पु॒रा । नु । ज॒रसः॑ । व॒धी॒त् ॥मा । नः । हेतिः । विवस्वतः । आदित्याः । कृत्रिमा । शरुः ।
पुरा । नु । जरसः । वधीत् ॥mā́ ǀ naḥ ǀ hetíḥ ǀ vivásvataḥ ǀ ā́dityāḥ ǀ kṛtrímā ǀ śáruḥ ǀ
purā́ ǀ nú ǀ jarásaḥ ǀ vadhīt ǁmā ǀ naḥ ǀ hetiḥ ǀ vivasvataḥ ǀ ādityāḥ ǀ kṛtrimā ǀ śaruḥ ǀ
purā ǀ nu ǀ jarasaḥ ǀ vadhīt ǁ8.67.20 Aṣṭaka 6.4.54.5Anuvāka 8.7.121
-
Ṛk 21
वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तं ।
विष्व॒ग्वि वृ॑हता॒ रपः॑ ॥वि षु द्वेषो व्य् अंहतिम् आदित्यासो वि संहितम् |
विष्वग् वि वृहता रपः ||ví ṣú dvéṣo vyáṃhatímā́dityāso ví sáṃhitam ǀ
víṣvagví vṛhatā rápaḥ ǁvi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam |
viṣvag vi vṛhatā rapaḥ ||वि । सु । द्वेषः॑ । वि । अं॒ह॒तिम् । आदि॑त्यासः । वि । सम्ऽहि॑तम् ।
विष्व॑क् । वि । वृ॒ह॒त॒ । रपः॑ ॥वि । सु । द्वेषः । वि । अंहतिम् । आदित्यासः । वि । सम्ऽहितम् ।
विष्वक् । वि । वृहत । रपः ॥ví ǀ sú ǀ dvéṣaḥ ǀ ví ǀ aṃhatím ǀ ā́dityāsaḥ ǀ ví ǀ sám-hitam ǀ
víṣvak ǀ ví ǀ vṛhata ǀ rápaḥ ǁvi ǀ su ǀ dveṣaḥ ǀ vi ǀ aṃhatim ǀ ādityāsaḥ ǀ vi ǀ sam-hitam ǀ
viṣvak ǀ vi ǀ vṛhata ǀ rapaḥ ǁ8.67.21 Aṣṭaka 6.4.54.6Anuvāka 8.7.122
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.