Sūkta 97
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Rebha Kāśyapa
- Chandas छन्दस्
- Bṛhatī, Atijagatī, Upariṣṭādbṛhatī, Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles nicṛdbṛhatī (2, 6, 9, 12); bṛhatī (4, 5, 8); virāḍbṛhatī (1, 11); bhuriganuṣṭup (3); anuṣṭup (7); bhurigjagatī (10); atijagatī (13); virāṭtrisṭup (14); kakummatījagatī (15)
2nd set of styles bṛhatī (1-9); atijagatī (10, 13); upariṣṭādbṛhatī (11, 12); triṣṭubh (14); jagatī (15)
-
Ṛk 1
या इं॑द्र॒ भुज॒ आभ॑रः॒ स्व॑र्वाँ॒ असु॑रेभ्यः ।
स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः |
स्तोतारम् इन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ||yā́ indra bhúja ā́bharaḥ svárvām̐ ásurebhyaḥ ǀ
stotā́ramínmaghavannasya vardhaya yé ca tvé vṛktábarhiṣaḥ ǁyā indra bhuja ābharaḥ svarvāṃ asurebhyaḥ |
stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ ||याः । इ॒न्द्र॒ । भुजः॑ । आ । अभ॑रः । स्वः॑ऽवान् । असु॑रेभ्यः ।
स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिषः ॥याः । इन्द्र । भुजः । आ । अभरः । स्वःऽवान् । असुरेभ्यः ।
स्तोतारम् । इत् । मघऽवन् । अस्य । वर्धय । ये । च । त्वे इति । वृक्तऽबर्हिषः ॥yā́ḥ ǀ indra ǀ bhújaḥ ǀ ā́ ǀ ábharaḥ ǀ sváḥ-vān ǀ ásurebhyaḥ ǀ
stotā́ram ǀ ít ǀ magha-van ǀ asya ǀ vardhaya ǀ yé ǀ ca ǀ tvé íti ǀ vṛktá-barhiṣaḥ ǁyāḥ ǀ indra ǀ bhujaḥ ǀ ā ǀ abharaḥ ǀ svaḥ-vān ǀ asurebhyaḥ ǀ
stotāram ǀ it ǀ magha-van ǀ asya ǀ vardhaya ǀ ye ǀ ca ǀ tve iti ǀ vṛkta-barhiṣaḥ ǁ8.97.1 Aṣṭaka 6.6.36.1Anuvāka 8.10.43
-
Ṛk 2
यमिं॑द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यं ।
यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मिं॒तं धे॑हि॒ मा प॒णौ ॥यम् इन्द्र दधिषे त्वम् अश्वं गाम् भागम् अव्ययम् |
यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ||yámindra dadhiṣé tvámáśvam gā́m bhāgámávyayam ǀ
yájamāne sunvatí dákṣiṇāvati tásmintám dhehi mā́ paṇáu ǁyam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam |
yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau ||यम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् ।
यज॑माने । सु॒न्व॒ति । दक्षि॑णाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥यम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् ।
यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥yám ǀ indra ǀ dadhiṣé ǀ tvám ǀ áśvam ǀ gā́m ǀ bhāgám ǀ ávyayam ǀ
yájamāne ǀ sunvatí ǀ dákṣiṇā-vati ǀ tásmin ǀ tám ǀ dhehi ǀ mā́ ǀ paṇáu ǁyam ǀ indra ǀ dadhiṣe ǀ tvam ǀ aśvam ǀ gām ǀ bhāgam ǀ avyayam ǀ
yajamāne ǀ sunvati ǀ dakṣiṇā-vati ǀ tasmin ǀ tam ǀ dhehi ǀ mā ǀ paṇau ǁ8.97.2 Aṣṭaka 6.6.36.2Anuvāka 8.10.44
-
Ṛk 3
य इं॑द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः ।
स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥य इन्द्र सस्त्य् अव्रतो ऽनुष्वापम् अदेवयुः |
स्वैः ष एवैर् मुमुरत् पोष्यं रयिं सनुतर् धेहि तं ततः ||yá indra sástyavrató’nuṣvā́pamádevayuḥ ǀ
sváiḥ ṣá évairmumuratpóṣyam rayím sanutárdhehi tám tátaḥ ǁya indra sasty avrato 'nuṣvāpam adevayuḥ |
svaiḥ ṣa evair mumurat poṣyaṃ rayiṃ sanutar dhehi taṃ tataḥ ||यः । इ॒न्द्र॒ । सस्ति॑ । अ॒व्र॒तः । अ॒नु॒ऽस्वाप॑म् । अदे॑वऽयुः ।
स्वैः । सः । एवैः॑ । मु॒मु॒र॒त् । पोष्य॑म् । र॒यिम् । स॒नु॒तः । धे॒हि॒ । तम् । ततः॑ ॥यः । इन्द्र । सस्ति । अव्रतः । अनुऽस्वापम् । अदेवऽयुः ।
स्वैः । सः । एवैः । मुमुरत् । पोष्यम् । रयिम् । सनुतः । धेहि । तम् । ततः ॥yáḥ ǀ indra ǀ sásti ǀ avratáḥ ǀ anu-svā́pam ǀ ádeva-yuḥ ǀ
sváiḥ ǀ sáḥ ǀ évaiḥ ǀ mumurat ǀ póṣyam ǀ rayím ǀ sanutáḥ ǀ dhehi ǀ tám ǀ tátaḥ ǁyaḥ ǀ indra ǀ sasti ǀ avrataḥ ǀ anu-svāpam ǀ adeva-yuḥ ǀ
svaiḥ ǀ saḥ ǀ evaiḥ ǀ mumurat ǀ poṣyam ǀ rayim ǀ sanutaḥ ǀ dhehi ǀ tam ǀ tataḥ ǁ8.97.3 Aṣṭaka 6.6.36.3Anuvāka 8.10.45
-
Ṛk 4
यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।
अत॑स्त्वा गी॒र्भिर्द्यु॒गदिं॑द्र के॒शिभिः॑ सु॒तावाँ॒ आ वि॑वासति ॥यच् छक्रासि परावति यद् अर्वावति वृत्रहन् |
अतस् त्वा गीर्भिर् द्युगद् इन्द्र केशिभिः सुतावां आ विवासति ||yácchakrā́si parāváti yádarvāváti vṛtrahan ǀ
átastvā gīrbhírdyugádindra keśíbhiḥ sutā́vām̐ ā́ vivāsati ǁyac chakrāsi parāvati yad arvāvati vṛtrahan |
atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṃ ā vivāsati ||यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् ।
अतः॑ । त्वा॒ । गीः॒ऽभिः । द्यु॒ऽगत् । इ॒न्द्र॒ । के॒शिऽभिः॑ । सु॒तऽवा॑न् । आ । वि॒वा॒स॒ति॒ ॥यत् । शक्र । असि । पराऽवति । यत् । अर्वाऽवति । वृत्रऽहन् ।
अतः । त्वा । गीःऽभिः । द्युऽगत् । इन्द्र । केशिऽभिः । सुतऽवान् । आ । विवासति ॥yát ǀ śakra ǀ ási ǀ parā-váti ǀ yát ǀ arvā-váti ǀ vṛtra-han ǀ
átaḥ ǀ tvā ǀ gīḥ-bhíḥ ǀ dyu-gát ǀ indra ǀ keśí-bhiḥ ǀ sutá-vān ǀ ā́ ǀ vivāsati ǁyat ǀ śakra ǀ asi ǀ parā-vati ǀ yat ǀ arvā-vati ǀ vṛtra-han ǀ
ataḥ ǀ tvā ǀ gīḥ-bhiḥ ǀ dyu-gat ǀ indra ǀ keśi-bhiḥ ǀ suta-vān ǀ ā ǀ vivāsati ǁ8.97.4 Aṣṭaka 6.6.36.4Anuvāka 8.10.46
-
Ṛk 5
यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ ।
यत्पार्थि॑वे॒ सद॑ने वृत्रहंतम॒ यदं॒तरि॑क्ष॒ आ ग॑हि ॥यद् वासि रोचने दिवः समुद्रस्याधि विष्टपि |
यत् पार्थिवे सदने वृत्रहन्तम यद् अन्तरिक्ष आ गहि ||yádvā́si rocané diváḥ samudrásyā́dhi viṣṭápi ǀ
yátpā́rthive sádane vṛtrahantama yádantárikṣa ā́ gahi ǁyad vāsi rocane divaḥ samudrasyādhi viṣṭapi |
yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi ||यत् । वा॒ । असि॑ । रो॒च॒ने । दि॒वः । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ ।
यत् । पार्थि॑वे । सद॑ने । वृ॒त्र॒ह॒न्ऽत॒म॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒हि॒ ॥यत् । वा । असि । रोचने । दिवः । समुद्रस्य । अधि । विष्टपि ।
यत् । पार्थिवे । सदने । वृत्रहन्ऽतम । यत् । अन्तरिक्षे । आ । गहि ॥yát ǀ vā ǀ ási ǀ rocané ǀ diváḥ ǀ samudrásya ǀ ádhi ǀ viṣṭápi ǀ
yát ǀ pā́rthive ǀ sádane ǀ vṛtrahan-tama ǀ yát ǀ antárikṣe ǀ ā́ ǀ gahi ǁyat ǀ vā ǀ asi ǀ rocane ǀ divaḥ ǀ samudrasya ǀ adhi ǀ viṣṭapi ǀ
yat ǀ pārthive ǀ sadane ǀ vṛtrahan-tama ǀ yat ǀ antarikṣe ǀ ā ǀ gahi ǁ8.97.5 Aṣṭaka 6.6.36.5Anuvāka 8.10.47
-
Ṛk 6
स नः॒ सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते ।
मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेंद्र॑ रा॒या परी॑णसा ॥स नः सोमेषु सोमपाः सुतेषु शवसस् पते |
मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ||sá naḥ sómeṣu somapāḥ sutéṣu śavasaspate ǀ
mādáyasva rā́dhasā sūnṛ́tāvaténdra rāyā́ párīṇasā ǁsa naḥ someṣu somapāḥ suteṣu śavasas pate |
mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā ||सः । नः॒ । सोमे॑षु । सो॒म॒ऽपाः॒ । सु॒तेषु॑ । श॒व॒सः॒ । प॒ते॒ ।
मा॒दय॑स्व । राध॑सा । सू॒नृता॑ऽवता । इन्द्र॑ । रा॒या । परी॑णसा ॥सः । नः । सोमेषु । सोमऽपाः । सुतेषु । शवसः । पते ।
मादयस्व । राधसा । सूनृताऽवता । इन्द्र । राया । परीणसा ॥sáḥ ǀ naḥ ǀ sómeṣu ǀ soma-pāḥ ǀ sutéṣu ǀ śavasaḥ ǀ pate ǀ
mādáyasva ǀ rā́dhasā ǀ sūnṛ́tā-vatā ǀ índra ǀ rāyā́ ǀ párīṇasā ǁsaḥ ǀ naḥ ǀ someṣu ǀ soma-pāḥ ǀ suteṣu ǀ śavasaḥ ǀ pate ǀ
mādayasva ǀ rādhasā ǀ sūnṛtā-vatā ǀ indra ǀ rāyā ǀ parīṇasā ǁ8.97.6 Aṣṭaka 6.6.37.1Anuvāka 8.10.48
-
Ṛk 7
मा न॑ इंद्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ ।
त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इंद्र॒ परा॑ वृणक् ॥मा न इन्द्र परा वृणग् भवा नः सधमाद्यः |
त्वं न ऊती त्वम् इन् न आप्यम् मा न इन्द्र परा वृणक् ||mā́ na indra párā vṛṇagbhávā naḥ sadhamā́dyaḥ ǀ
tvám na ūtī́ tvámínna ā́pyam mā́ na indra párā vṛṇak ǁmā na indra parā vṛṇag bhavā naḥ sadhamādyaḥ |
tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak ||मा । नः॒ । इ॒न्द्र॒ । परा॑ । वृ॒ण॒क् । भव॑ । नः॒ । स॒ध॒ऽमाद्यः॑ ।
त्वम् । नः॒ । ऊ॒ती । त्वम् । इत् । नः॒ । आप्य॑म् । मा । नः॒ । इ॒न्द्र॒ । परा॑ । वृ॒ण॒क् ॥मा । नः । इन्द्र । परा । वृणक् । भव । नः । सधऽमाद्यः ।
त्वम् । नः । ऊती । त्वम् । इत् । नः । आप्यम् । मा । नः । इन्द्र । परा । वृणक् ॥mā́ ǀ naḥ ǀ indra ǀ párā ǀ vṛṇak ǀ bháva ǀ naḥ ǀ sadha-mā́dyaḥ ǀ
tvám ǀ naḥ ǀ ūtī́ ǀ tvám ǀ ít ǀ naḥ ǀ ā́pyam ǀ mā́ ǀ naḥ ǀ indra ǀ párā ǀ vṛṇak ǁmā ǀ naḥ ǀ indra ǀ parā ǀ vṛṇak ǀ bhava ǀ naḥ ǀ sadha-mādyaḥ ǀ
tvam ǀ naḥ ǀ ūtī ǀ tvam ǀ it ǀ naḥ ǀ āpyam ǀ mā ǀ naḥ ǀ indra ǀ parā ǀ vṛṇak ǁ8.97.7 Aṣṭaka 6.6.37.2Anuvāka 8.10.49
-
Ṛk 8
अ॒स्मे इं॑द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ ।
कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इं॑द्र॒ सचा॑ सु॒ते ॥अस्मे इन्द्र सचा सुते नि षदा पीतये मधु |
कृधी जरित्रे मघवन्न् अवो महद् अस्मे इन्द्र सचा सुते ||asmé indra sácā suté ní ṣadā pītáye mádhu ǀ
kṛdhī́ jaritré maghavannávo mahádasmé indra sácā suté ǁasme indra sacā sute ni ṣadā pītaye madhu |
kṛdhī jaritre maghavann avo mahad asme indra sacā sute ||अ॒स्मे इति॑ । इ॒न्द्र॒ । सचा॑ । सु॒ते । नि । स॒द॒ । पी॒तये॑ । मधु॑ ।
कृ॒धि । ज॒रि॒त्रे । म॒घ॒ऽव॒न् । अवः॑ । म॒हत् । अ॒स्मे इति॑ । इ॒न्द्र॒ । सचा॑ । सु॒ते ॥अस्मे इति । इन्द्र । सचा । सुते । नि । सद । पीतये । मधु ।
कृधि । जरित्रे । मघऽवन् । अवः । महत् । अस्मे इति । इन्द्र । सचा । सुते ॥asmé íti ǀ indra ǀ sácā ǀ suté ǀ ní ǀ sada ǀ pītáye ǀ mádhu ǀ
kṛdhí ǀ jaritré ǀ magha-van ǀ ávaḥ ǀ mahát ǀ asmé íti ǀ indra ǀ sácā ǀ suté ǁasme iti ǀ indra ǀ sacā ǀ sute ǀ ni ǀ sada ǀ pītaye ǀ madhu ǀ
kṛdhi ǀ jaritre ǀ magha-van ǀ avaḥ ǀ mahat ǀ asme iti ǀ indra ǀ sacā ǀ sute ǁ8.97.8 Aṣṭaka 6.6.37.3Anuvāka 8.10.50
-
Ṛk 9
न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः ।
विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥न त्वा देवास आशत न मर्त्यासो अद्रिवः |
विश्वा जातानि शवसाभिभूर् असि न त्वा देवास आशत ||ná tvā devā́sa āśata ná mártyāso adrivaḥ ǀ
víśvā jātā́ni śávasābhibhū́rasi ná tvā devā́sa āśata ǁna tvā devāsa āśata na martyāso adrivaḥ |
viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata ||न । त्वा॒ । दे॒वासः॑ । आ॒श॒त॒ । न । मर्त्या॑सः । अ॒द्रि॒ऽवः॒ ।
विश्वा॑ । जा॒तानि॑ । शव॑सा । अ॒भि॒ऽभूः । अ॒सि॒ । न । त्वा॒ । दे॒वासः॑ । आ॒श॒त॒ ॥न । त्वा । देवासः । आशत । न । मर्त्यासः । अद्रिऽवः ।
विश्वा । जातानि । शवसा । अभिऽभूः । असि । न । त्वा । देवासः । आशत ॥ná ǀ tvā ǀ devā́saḥ ǀ āśata ǀ ná ǀ mártyāsaḥ ǀ adri-vaḥ ǀ
víśvā ǀ jātā́ni ǀ śávasā ǀ abhi-bhū́ḥ ǀ asi ǀ ná ǀ tvā ǀ devā́saḥ ǀ āśata ǁna ǀ tvā ǀ devāsaḥ ǀ āśata ǀ na ǀ martyāsaḥ ǀ adri-vaḥ ǀ
viśvā ǀ jātāni ǀ śavasā ǀ abhi-bhūḥ ǀ asi ǀ na ǀ tvā ǀ devāsaḥ ǀ āśata ǁ8.97.9 Aṣṭaka 6.6.37.4Anuvāka 8.10.51
-
Ṛk 10
विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिंद्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।
क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विनं॑ ॥विश्वाः पृतना अभिभूतरं नरं सजूस् ततक्षुर् इन्द्रं जजनुश् च राजसे |
क्रत्वा वरिष्ठं वर आमुरिम् उतोग्रम् ओजिष्ठं तवसं तरस्विनम् ||víśvāḥ pṛ́tanā abhibhū́taram náram sajū́statakṣuríndram jajanúśca rājáse ǀ
krátvā váriṣṭham vára āmúrimutógramojiṣṭham tavásam tarasvínam ǁviśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase |
kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam ||विश्वाः॑ । पृत॑नाः । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजूः । त॒त॒क्षुः॒ । इन्द्र॑म् । ज॒ज॒नुः । च॒ । रा॒जसे॑ ।
क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥विश्वाः । पृतनाः । अभिऽभूतरम् । नरम् । सऽजूः । ततक्षुः । इन्द्रम् । जजनुः । च । राजसे ।
क्रत्वा । वरिष्ठम् । वरे । आऽमुरिम् । उत । उग्रम् । ओजिष्ठम् । तवसम् । तरस्विनम् ॥víśvāḥ ǀ pṛ́tanāḥ ǀ abhi-bhū́taram ǀ náram ǀ sa-jū́ḥ ǀ tatakṣuḥ ǀ índram ǀ jajanúḥ ǀ ca ǀ rājáse ǀ
krátvā ǀ váriṣṭham ǀ váre ǀ ā-múrim ǀ utá ǀ ugrám ǀ ójiṣṭham ǀ tavásam ǀ tarasvínam ǁviśvāḥ ǀ pṛtanāḥ ǀ abhi-bhūtaram ǀ naram ǀ sa-jūḥ ǀ tatakṣuḥ ǀ indram ǀ jajanuḥ ǀ ca ǀ rājase ǀ
kratvā ǀ variṣṭham ǀ vare ǀ ā-murim ǀ uta ǀ ugram ǀ ojiṣṭham ǀ tavasam ǀ tarasvinam ǁ8.97.10 Aṣṭaka 6.6.37.5Anuvāka 8.10.52
-
Ṛk 11
समीं॑ रे॒भासो॑ अस्वर॒न्निंद्रं॒ सोम॑स्य पी॒तये॑ ।
स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥सम् ईं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये |
स्वर्पतिं यद् ईं वृधे धृतव्रतो ह्य् ओजसा सम् ऊतिभिः ||sámīm rebhā́so asvaranníndram sómasya pītáye ǀ
svárpatim yádīm vṛdhé dhṛtávrato hyójasā sámūtíbhiḥ ǁsam īṃ rebhāso asvarann indraṃ somasya pītaye |
svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ ||सम् । ई॒म् । रे॒भासः॑ । अ॒स्व॒र॒न् । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ।
स्वः॑ऽपतिम् । यत् । ई॒म् । वृ॒धे । धृ॒तऽव्र॑तः । हि । ओज॑सा । सम् । ऊ॒तिऽभिः॑ ॥सम् । ईम् । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये ।
स्वःऽपतिम् । यत् । ईम् । वृधे । धृतऽव्रतः । हि । ओजसा । सम् । ऊतिऽभिः ॥sám ǀ īm ǀ rebhā́saḥ ǀ asvaran ǀ índram ǀ sómasya ǀ pītáye ǀ
sváḥ-patim ǀ yát ǀ īm ǀ vṛdhé ǀ dhṛtá-vrataḥ ǀ hí ǀ ójasā ǀ sám ǀ ūtí-bhiḥ ǁsam ǀ īm ǀ rebhāsaḥ ǀ asvaran ǀ indram ǀ somasya ǀ pītaye ǀ
svaḥ-patim ǀ yat ǀ īm ǀ vṛdhe ǀ dhṛta-vrataḥ ǀ hi ǀ ojasā ǀ sam ǀ ūti-bhiḥ ǁ8.97.11 Aṣṭaka 6.6.38.1Anuvāka 8.10.53
-
Ṛk 12
ने॒मिं न॑मंति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।
सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा |
सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः सम् ऋक्वभिः ||nemím namanti cákṣasā meṣám víprā abhisvárā ǀ
sudītáyo vo adrúhó’pi kárṇe tarasvínaḥ sámṛ́kvabhiḥ ǁnemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā |
sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ ||ने॒मिम् । न॒म॒न्ति॒ । चक्ष॑सा । मे॒षम् । विप्राः॑ । अ॒भि॒ऽस्वरा॑ ।
सु॒ऽदी॒तयः॑ । वः॒ । अ॒द्रुहः॑ । अपि॑ । कर्णे॑ । त॒र॒स्विनः॑ । सम् । ऋक्व॑ऽभिः ॥नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । अभिऽस्वरा ।
सुऽदीतयः । वः । अद्रुहः । अपि । कर्णे । तरस्विनः । सम् । ऋक्वऽभिः ॥nemím ǀ namanti ǀ cákṣasā ǀ meṣám ǀ víprāḥ ǀ abhi-svárā ǀ
su-dītáyaḥ ǀ vaḥ ǀ adrúhaḥ ǀ ápi ǀ kárṇe ǀ tarasvínaḥ ǀ sám ǀ ṛ́kva-bhiḥ ǁnemim ǀ namanti ǀ cakṣasā ǀ meṣam ǀ viprāḥ ǀ abhi-svarā ǀ
su-dītayaḥ ǀ vaḥ ǀ adruhaḥ ǀ api ǀ karṇe ǀ tarasvinaḥ ǀ sam ǀ ṛkva-bhiḥ ǁ8.97.12 Aṣṭaka 6.6.38.2Anuvāka 8.10.54
-
Ṛk 13
तमिंद्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।
मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥तम् इन्द्रं जोहवीमि मघवानम् उग्रं सत्रा दधानम् अप्रतिष्कुतं शवांसि |
मंहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तद् राये नो विश्वा सुपथा कृणोतु वज्री ||támíndram johavīmi maghávānamugrám satrā́ dádhānamápratiṣkutam śávāṃsi ǀ
máṃhiṣṭho gīrbhírā́ ca yajñíyo vavártadrāyé no víśvā supáthā kṛṇotu vajrī́ ǁtam indraṃ johavīmi maghavānam ugraṃ satrā dadhānam apratiṣkutaṃ śavāṃsi |
maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī ||तम् । इन्द्र॑म् । जो॒ह॒वी॒मि॒ । म॒घऽवा॑नम् । उ॒ग्रम् । स॒त्रा । दधा॑नम् । अप्र॑तिऽस्कुतम् । शवां॑सि ।
मंहि॑ष्ठः । गीः॒ऽभिः । आ । च॒ । य॒ज्ञियः॑ । व॒वर्त॑त् । रा॒ये । नः॒ । विश्वा॑ । सु॒ऽपथा॑ । कृ॒णो॒तु॒ । व॒ज्री ॥तम् । इन्द्रम् । जोहवीमि । मघऽवानम् । उग्रम् । सत्रा । दधानम् । अप्रतिऽस्कुतम् । शवांसि ।
मंहिष्ठः । गीःऽभिः । आ । च । यज्ञियः । ववर्तत् । राये । नः । विश्वा । सुऽपथा । कृणोतु । वज्री ॥tám ǀ índram ǀ johavīmi ǀ maghá-vānam ǀ ugrám ǀ satrā́ ǀ dádhānam ǀ áprati-skutam ǀ śávāṃsi ǀ
máṃhiṣṭhaḥ ǀ gīḥ-bhíḥ ǀ ā́ ǀ ca ǀ yajñíyaḥ ǀ vavártat ǀ rāyé ǀ naḥ ǀ víśvā ǀ su-páthā ǀ kṛṇotu ǀ vajrī́ ǁtam ǀ indram ǀ johavīmi ǀ magha-vānam ǀ ugram ǀ satrā ǀ dadhānam ǀ aprati-skutam ǀ śavāṃsi ǀ
maṃhiṣṭhaḥ ǀ gīḥ-bhiḥ ǀ ā ǀ ca ǀ yajñiyaḥ ǀ vavartat ǀ rāye ǀ naḥ ǀ viśvā ǀ su-pathā ǀ kṛṇotu ǀ vajrī ǁ8.97.13 Aṣṭaka 6.6.38.3Anuvāka 8.10.55
-
Ṛk 14
त्वं पुर॑ इंद्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।
त्वद्विश्वा॑नि॒ भुव॑नानि वज्रिं॒द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥त्वम् पुर इन्द्र चिकिद् एना व्य् ओजसा शविष्ठ शक्र नाशयध्यै |
त्वद् विश्वानि भुवनानि वज्रिन् द्यावा रेजेते पृथिवी च भीषा ||tvám púra indra cikídenā vyójasā śaviṣṭha śakra nāśayádhyai ǀ
tvádvíśvāni bhúvanāni vajrindyā́vā rejete pṛthivī́ ca bhīṣā́ ǁtvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai |
tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā ||त्वम् । पुरः॑ । इ॒न्द्र॒ । चि॒कित् । ए॒नाः॒ । वि । ओज॑सा । श॒वि॒ष्ठ॒ । श॒क्र॒ । ना॒श॒यध्यै॑ ।
त्वत् । विश्वा॑नि । भुव॑नानि । व॒ज्रि॒न् । द्यावा॑ । रे॒जे॒ते॒ इति॑ । पृ॒थि॒वी इति॑ । च॒ । भी॒षा ॥त्वम् । पुरः । इन्द्र । चिकित् । एनाः । वि । ओजसा । शविष्ठ । शक्र । नाशयध्यै ।
त्वत् । विश्वानि । भुवनानि । वज्रिन् । द्यावा । रेजेते इति । पृथिवी इति । च । भीषा ॥tvám ǀ púraḥ ǀ indra ǀ cikít ǀ enāḥ ǀ ví ǀ ójasā ǀ śaviṣṭha ǀ śakra ǀ nāśayádhyai ǀ
tvát ǀ víśvāni ǀ bhúvanāni ǀ vajrin ǀ dyā́vā ǀ rejete íti ǀ pṛthivī́ íti ǀ ca ǀ bhīṣā́ ǁtvam ǀ puraḥ ǀ indra ǀ cikit ǀ enāḥ ǀ vi ǀ ojasā ǀ śaviṣṭha ǀ śakra ǀ nāśayadhyai ǀ
tvat ǀ viśvāni ǀ bhuvanāni ǀ vajrin ǀ dyāvā ǀ rejete iti ǀ pṛthivī iti ǀ ca ǀ bhīṣā ǁ8.97.14 Aṣṭaka 6.6.38.4Anuvāka 8.10.56
-
Ṛk 15
तन्म॑ ऋ॒तमिं॑द्र शूर चित्र पात्व॒पो न व॑ज्रिंदुरि॒ताति॑ पर्षि॒ भूरि॑ ।
क॒दा न॑ इंद्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥तन् म ऋतम् इन्द्र शूर चित्र पात्व् अपो न वज्रिन् दुरिताति पर्षि भूरि |
कदा न इन्द्र राय आ दशस्येर् विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ||tánma ṛtámindra śūra citra pātvapó ná vajrinduritā́ti parṣi bhū́ri ǀ
kadā́ na indra rāyá ā́ daśasyerviśvápsnyasya spṛhayā́yyasya rājan ǁtan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri |
kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan ||तत् । मा॒ । ऋ॒तम् । इ॒न्द्र॒ । शू॒र॒ । चि॒त्र॒ । पा॒तु॒ । अ॒पः । न । व॒ज्रि॒न् । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ । भूरि॑ ।
क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ । वि॒श्वऽप्स्न्य॑स्य । स्पृ॒ह॒याय्य॑स्य । रा॒ज॒न् ॥तत् । मा । ऋतम् । इन्द्र । शूर । चित्र । पातु । अपः । न । वज्रिन् । दुःऽइता । अति । पर्षि । भूरि ।
कदा । नः । इन्द्र । रायः । आ । दशस्येः । विश्वऽप्स्न्यस्य । स्पृहयाय्यस्य । राजन् ॥tát ǀ mā ǀ ṛtám ǀ indra ǀ śūra ǀ citra ǀ pātu ǀ apáḥ ǀ ná ǀ vajrin ǀ duḥ-itā́ ǀ áti ǀ parṣi ǀ bhū́ri ǀ
kadā́ ǀ naḥ ǀ indra ǀ rāyáḥ ǀ ā́ ǀ daśasyeḥ ǀ viśvá-psnyasya ǀ spṛhayā́yyasya ǀ rājan ǁtat ǀ mā ǀ ṛtam ǀ indra ǀ śūra ǀ citra ǀ pātu ǀ apaḥ ǀ na ǀ vajrin ǀ duḥ-itā ǀ ati ǀ parṣi ǀ bhūri ǀ
kadā ǀ naḥ ǀ indra ǀ rāyaḥ ǀ ā ǀ daśasyeḥ ǀ viśva-psnyasya ǀ spṛhayāyyasya ǀ rājan ǁ8.97.15 Aṣṭaka 6.6.38.5Anuvāka 8.10.57
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.