Ṛk 8.97.10
Saṃhitā
विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिंद्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।
क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विनं॑ ॥
विश्वाः पृतना अभिभूतरं नरं सजूस् ततक्षुर् इन्द्रं जजनुश् च राजसे |
क्रत्वा वरिष्ठं वर आमुरिम् उतोग्रम् ओजिष्ठं तवसं तरस्विनम् ||
víśvāḥ pṛ́tanā abhibhū́taram náram sajū́statakṣuríndram jajanúśca rājáse ǀ
krátvā váriṣṭham vára āmúrimutógramojiṣṭham tavásam tarasvínam ǁ
viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase |
kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam ||
Padapāṭha
विश्वाः॑ । पृत॑नाः । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजूः । त॒त॒क्षुः॒ । इन्द्र॑म् । ज॒ज॒नुः । च॒ । रा॒जसे॑ ।
क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥
विश्वाः । पृतनाः । अभिऽभूतरम् । नरम् । सऽजूः । ततक्षुः । इन्द्रम् । जजनुः । च । राजसे ।
क्रत्वा । वरिष्ठम् । वरे । आऽमुरिम् । उत । उग्रम् । ओजिष्ठम् । तवसम् । तरस्विनम् ॥
víśvāḥ ǀ pṛ́tanāḥ ǀ abhi-bhū́taram ǀ náram ǀ sa-jū́ḥ ǀ tatakṣuḥ ǀ índram ǀ jajanúḥ ǀ ca ǀ rājáse ǀ
krátvā ǀ váriṣṭham ǀ váre ǀ ā-múrim ǀ utá ǀ ugrám ǀ ójiṣṭham ǀ tavásam ǀ tarasvínam ǁ
viśvāḥ ǀ pṛtanāḥ ǀ abhi-bhūtaram ǀ naram ǀ sa-jūḥ ǀ tatakṣuḥ ǀ indram ǀ jajanuḥ ǀ ca ǀ rājase ǀ
kratvā ǀ variṣṭham ǀ vare ǀ ā-murim ǀ uta ǀ ugram ǀ ojiṣṭham ǀ tavasam ǀ tarasvinam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.097.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.37.05
- Maṇḍala · Anuvāka · Ṛk
- 8.10.052
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Rebha Kāśyapa
- Chandas छन्दस्
- Bṛhatī, Atijagatī, Upariṣṭādbṛhatī, Triṣṭubh, Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.