Sūkta 68
- Devatā देवता
- 1-13: Indra; 14-19: Dānastuti Of Ṛkṣa And Āśvamedha
- Ṛṣi ऋषि
- Priyamedha Āṅgirasa
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdgāyatrī (5, 6, 8, 12, 13, 17, 19); gāyatrī (2, 3, 15); gāyatrī (pādanicṛdgāyatrī) (9, 14, 18); virāḍanuṣṭup (4, 7); anuṣṭup (1); nicṛdanuṣṭup (10); virāḍgāyatrī (11); svarāḍārcīgāyatrī (16)
2nd set of styles gāyatrī (2, 3, 5, 6, 8, 9, 11-19); anuṣṭubh (1, 4, 7, 10)
-
Ṛk 1
आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि ।
तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिंद्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥आ त्वा रथं यथोतये सुम्नाय वर्तयामसि |
तुविकूर्मिम् ऋतीषहम् इन्द्र शविष्ठ सत्पते ||ā́ tvā rátham yáthotáye sumnā́ya vartayāmasi ǀ
tuvikūrmímṛtīṣáhamíndra śáviṣṭha sátpate ǁā tvā rathaṃ yathotaye sumnāya vartayāmasi |
tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate ||आ । त्वा॒ । रथ॑म् । यथा॑ । ऊ॒तये॑ । सु॒म्नाय॑ । व॒र्त॒या॒म॒सि॒ ।
तु॒वि॒ऽकू॒र्मिम् । ऋ॒ति॒ऽसह॑म् । इन्द्र॑ । शवि॑ष्ठ । सत्ऽप॑ते ॥आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि ।
तुविऽकूर्मिम् । ऋतिऽसहम् । इन्द्र । शविष्ठ । सत्ऽपते ॥ā́ ǀ tvā ǀ rátham ǀ yáthā ǀ ūtáye ǀ sumnā́ya ǀ vartayāmasi ǀ
tuvi-kūrmím ǀ ṛti-sáham ǀ índra ǀ śáviṣṭha ǀ sát-pate ǁā ǀ tvā ǀ ratham ǀ yathā ǀ ūtaye ǀ sumnāya ǀ vartayāmasi ǀ
tuvi-kūrmim ǀ ṛti-saham ǀ indra ǀ śaviṣṭha ǀ sat-pate ǁ8.68.1 Aṣṭaka 6.5.1.1Anuvāka 8.7.123
-
Ṛk 2
तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते ।
आ प॑प्राथ महित्व॒ना ॥तुविशुष्म तुविक्रतो शचीवो विश्वया मते |
आ पप्राथ महित्वना ||túviśuṣma túvikrato śácīvo víśvayā mate ǀ
ā́ paprātha mahitvanā́ ǁtuviśuṣma tuvikrato śacīvo viśvayā mate |
ā paprātha mahitvanā ||तुवि॑ऽशुष्म । तुवि॑क्रतो॒ इति॒ तुवि॑ऽक्रतो । शची॑ऽवः । विश्व॑या । म॒ते॒ ।
आ । प॒प्रा॒थ॒ । म॒हि॒ऽत्व॒ना ॥तुविऽशुष्म । तुविक्रतो इति तुविऽक्रतो । शचीऽवः । विश्वया । मते ।
आ । पप्राथ । महिऽत्वना ॥túvi-śuṣma ǀ túvikrato íti túvi-krato ǀ śácī-vaḥ ǀ víśvayā ǀ mate ǀ
ā́ ǀ paprātha ǀ mahi-tvanā́ ǁtuvi-śuṣma ǀ tuvikrato iti tuvi-krato ǀ śacī-vaḥ ǀ viśvayā ǀ mate ǀ
ā ǀ paprātha ǀ mahi-tvanā ǁ8.68.2 Aṣṭaka 6.5.1.2Anuvāka 8.7.124
-
Ṛk 3
यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यंत॑मी॒यतुः॑ ।
हस्ता॒ वज्रं॑ हिर॒ण्ययं॑ ॥यस्य ते महिना महः परि ज्मायन्तम् ईयतुः |
हस्ता वज्रं हिरण्ययम् ||yásya te mahinā́ maháḥ pári jmāyántamīyátuḥ ǀ
hástā vájram hiraṇyáyam ǁyasya te mahinā mahaḥ pari jmāyantam īyatuḥ |
hastā vajraṃ hiraṇyayam ||यस्य॑ । ते॒ । म॒हि॒ना । म॒हः । परि॑ । ज्मा॒यन्त॑म् । ई॒यतुः॑ ।
हस्ता॑ । वज्र॑म् । हि॒र॒ण्यय॑म् ॥यस्य । ते । महिना । महः । परि । ज्मायन्तम् । ईयतुः ।
हस्ता । वज्रम् । हिरण्ययम् ॥yásya ǀ te ǀ mahinā́ ǀ maháḥ ǀ pári ǀ jmāyántam ǀ īyátuḥ ǀ
hástā ǀ vájram ǀ hiraṇyáyam ǁyasya ǀ te ǀ mahinā ǀ mahaḥ ǀ pari ǀ jmāyantam ǀ īyatuḥ ǀ
hastā ǀ vajram ǀ hiraṇyayam ǁ8.68.3 Aṣṭaka 6.5.1.3Anuvāka 8.7.125
-
Ṛk 4
वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः ।
एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नां ॥विश्वानरस्य वस् पतिम् अनानतस्य शवसः |
एवैश् च चर्षणीनाम् ऊती हुवे रथानाम् ||viśvā́narasya vaspátimánānatasya śávasaḥ ǀ
évaiśca carṣaṇīnā́mūtī́ huve ráthānām ǁviśvānarasya vas patim anānatasya śavasaḥ |
evaiś ca carṣaṇīnām ūtī huve rathānām ||वि॒श्वान॑रस्य । वः॒ । पति॑म् । अना॑नतस्य । शव॑सः ।
एवैः॑ । च॒ । च॒र्ष॒णी॒नाम् । ऊ॒ती । हु॒वे॒ । रथा॑नाम् ॥विश्वानरस्य । वः । पतिम् । अनानतस्य । शवसः ।
एवैः । च । चर्षणीनाम् । ऊती । हुवे । रथानाम् ॥viśvā́narasya ǀ vaḥ ǀ pátim ǀ ánānatasya ǀ śávasaḥ ǀ
évaiḥ ǀ ca ǀ carṣaṇīnā́m ǀ ūtī́ ǀ huve ǀ ráthānām ǁviśvānarasya ǀ vaḥ ǀ patim ǀ anānatasya ǀ śavasaḥ ǀ
evaiḥ ǀ ca ǀ carṣaṇīnām ǀ ūtī ǀ huve ǀ rathānām ǁ8.68.4 Aṣṭaka 6.5.1.4Anuvāka 8.7.126
-
Ṛk 5
अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नरः॑ ।
नाना॒ हवं॑त ऊ॒तये॑ ॥अभिष्टये सदावृधं स्वर्मीऌहेषु यं नरः |
नाना हवन्त ऊतये ||abhíṣṭaye sadā́vṛdham svármīḷheṣu yám náraḥ ǀ
nā́nā hávanta ūtáye ǁabhiṣṭaye sadāvṛdhaṃ svarmīḷheṣu yaṃ naraḥ |
nānā havanta ūtaye ||अ॒भिष्ट॑ये । स॒दाऽवृ॑धम् । स्वः॑ऽमीळ्हेषु । यम् । नरः॑ ।
नाना॑ । हव॑न्ते । ऊ॒तये॑ ॥अभिष्टये । सदाऽवृधम् । स्वःऽमीळ्हेषु । यम् । नरः ।
नाना । हवन्ते । ऊतये ॥abhíṣṭaye ǀ sadā́-vṛdham ǀ sváḥ-mīḷheṣu ǀ yám ǀ náraḥ ǀ
nā́nā ǀ hávante ǀ ūtáye ǁabhiṣṭaye ǀ sadā-vṛdham ǀ svaḥ-mīḷheṣu ǀ yam ǀ naraḥ ǀ
nānā ǀ havante ǀ ūtaye ǁ8.68.5 Aṣṭaka 6.5.1.5Anuvāka 8.7.127
-
Ṛk 6
प॒रोमा॑त्र॒मृची॑षम॒मिंद्र॑मु॒ग्रं सु॒राध॑सं ।
ईशा॑नं चि॒द्वसू॑नां ॥परोमात्रम् ऋचीषमम् इन्द्रम् उग्रं सुराधसम् |
ईशानं चिद् वसूनाम् ||parómātramṛ́cīṣamamíndramugrám surā́dhasam ǀ
ī́śānam cidvásūnām ǁparomātram ṛcīṣamam indram ugraṃ surādhasam |
īśānaṃ cid vasūnām ||प॒रःऽमा॑त्रम् । ऋची॑षमम् । इन्द्र॑म् । उ॒ग्रम् । सु॒ऽराध॑सम् ।
ईशा॑नम् । चि॒त् । वसू॑नाम् ॥परःऽमात्रम् । ऋचीषमम् । इन्द्रम् । उग्रम् । सुऽराधसम् ।
ईशानम् । चित् । वसूनाम् ॥paráḥ-mātram ǀ ṛ́cīṣamam ǀ índram ǀ ugrám ǀ su-rā́dhasam ǀ
ī́śānam ǀ cit ǀ vásūnām ǁparaḥ-mātram ǀ ṛcīṣamam ǀ indram ǀ ugram ǀ su-rādhasam ǀ
īśānam ǀ cit ǀ vasūnām ǁ8.68.6 Aṣṭaka 6.5.2.1Anuvāka 8.7.128
-
Ṛk 7
तंत॒मिद्राध॑से म॒ह इंद्रं॑ चोदामि पी॒तये॑ ।
यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः ॥तं-तम् इद् राधसे मह इन्द्रं चोदामि पीतये |
यः पूर्व्याम् अनुष्टुतिम् ईशे कृष्टीनां नृतुः ||táṃtamídrā́dhase mahá índram codāmi pītáye ǀ
yáḥ pūrvyā́mánuṣṭutimī́śe kṛṣṭīnā́m nṛtúḥ ǁtaṃ-tam id rādhase maha indraṃ codāmi pītaye |
yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ ||तम्ऽत॑म् । इत् । राध॑से । म॒हे । इन्द्र॑म् । चो॒दा॒मि॒ । पी॒तये॑ ।
यः । पू॒र्व्याम् । अनु॑ऽस्तुतिम् । ईशे॑ । कृ॒ष्टी॒नाम् । नृ॒तुः ॥तम्ऽतम् । इत् । राधसे । महे । इन्द्रम् । चोदामि । पीतये ।
यः । पूर्व्याम् । अनुऽस्तुतिम् । ईशे । कृष्टीनाम् । नृतुः ॥tám-tam ǀ ít ǀ rā́dhase ǀ mahé ǀ índram ǀ codāmi ǀ pītáye ǀ
yáḥ ǀ pūrvyā́m ǀ ánu-stutim ǀ ī́śe ǀ kṛṣṭīnā́m ǀ nṛtúḥ ǁtam-tam ǀ it ǀ rādhase ǀ mahe ǀ indram ǀ codāmi ǀ pītaye ǀ
yaḥ ǀ pūrvyām ǀ anu-stutim ǀ īśe ǀ kṛṣṭīnām ǀ nṛtuḥ ǁ8.68.7 Aṣṭaka 6.5.2.2Anuvāka 8.7.129
-
Ṛk 8
न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्यः॑ ।
नकिः॒ शवां॑सि ते नशत् ॥न यस्य ते शवसान सख्यम् आनंश मर्त्यः |
नकिः शवांसि ते नशत् ||ná yásya te śavasāna sakhyámānáṃśa mártyaḥ ǀ
nákiḥ śávāṃsi te naśat ǁna yasya te śavasāna sakhyam ānaṃśa martyaḥ |
nakiḥ śavāṃsi te naśat ||न । यस्य॑ । ते॒ । श॒व॒सा॒न॒ । स॒ख्यम् । आ॒नंश॑ । मर्त्यः॑ ।
नकिः॑ । शवां॑सि । ते॒ । न॒श॒त् ॥न । यस्य । ते । शवसान । सख्यम् । आनंश । मर्त्यः ।
नकिः । शवांसि । ते । नशत् ॥ná ǀ yásya ǀ te ǀ śavasāna ǀ sakhyám ǀ ānáṃśa ǀ mártyaḥ ǀ
nákiḥ ǀ śávāṃsi ǀ te ǀ naśat ǁna ǀ yasya ǀ te ǀ śavasāna ǀ sakhyam ǀ ānaṃśa ǀ martyaḥ ǀ
nakiḥ ǀ śavāṃsi ǀ te ǀ naśat ǁ8.68.8 Aṣṭaka 6.5.2.3Anuvāka 8.7.130
-
Ṛk 9
त्वोता॑स॒स्त्वा यु॒जाप्सु सूर्ये॑ म॒हद्धनं॑ ।
जये॑म पृ॒त्सु व॑ज्रिवः ॥त्वोतासस् त्वा युजाप्सु सूर्ये महद् धनम् |
जयेम पृत्सु वज्रिवः ||tvótāsastvā́ yujā́psú sū́rye maháddhánam ǀ
jáyema pṛtsú vajrivaḥ ǁtvotāsas tvā yujāpsu sūrye mahad dhanam |
jayema pṛtsu vajrivaḥ ||त्वाऽऊ॑तासः । त्वा । यु॒जा । अ॒प्ऽसु । सूर्ये॑ । म॒हत् । धन॑म् ।
जये॑म । पृ॒त्ऽसु । व॒ज्रि॒ऽवः॒ ॥त्वाऽऊतासः । त्वा । युजा । अप्ऽसु । सूर्ये । महत् । धनम् ।
जयेम । पृत्ऽसु । वज्रिऽवः ॥tvā́-ūtāsaḥ ǀ tvā́ ǀ yujā́ ǀ ap-sú ǀ sū́rye ǀ mahát ǀ dhánam ǀ
jáyema ǀ pṛt-sú ǀ vajri-vaḥ ǁtvā-ūtāsaḥ ǀ tvā ǀ yujā ǀ ap-su ǀ sūrye ǀ mahat ǀ dhanam ǀ
jayema ǀ pṛt-su ǀ vajri-vaḥ ǁ8.68.9 Aṣṭaka 6.5.2.4Anuvāka 8.7.131
-
Ṛk 10
तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम ।
इंद्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्यं॑ ॥तं त्वा यज्ञेभिर् ईमहे तं गीर्भिर् गिर्वणस्तम |
इन्द्र यथा चिद् आविथ वाजेषु पुरुमाय्यम् ||tám tvā yajñébhirīmahe tám gīrbhírgirvaṇastama ǀ
índra yáthā cidā́vitha vā́jeṣu purumā́yyam ǁtaṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama |
indra yathā cid āvitha vājeṣu purumāyyam ||तम् । त्वा॒ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । तम् । गीः॒ऽभिः । गि॒र्व॒णः॒ऽत॒म॒ ।
इन्द्र॑ । यथा॑ । चि॒त् । आवि॑थ । वाजे॑षु । पु॒रु॒ऽमाय्य॑म् ॥तम् । त्वा । यज्ञेभिः । ईमहे । तम् । गीःऽभिः । गिर्वणःऽतम ।
इन्द्र । यथा । चित् । आविथ । वाजेषु । पुरुऽमाय्यम् ॥tám ǀ tvā ǀ yajñébhiḥ ǀ īmahe ǀ tám ǀ gīḥ-bhíḥ ǀ girvaṇaḥ-tama ǀ
índra ǀ yáthā ǀ cit ǀ ā́vitha ǀ vā́jeṣu ǀ puru-mā́yyam ǁtam ǀ tvā ǀ yajñebhiḥ ǀ īmahe ǀ tam ǀ gīḥ-bhiḥ ǀ girvaṇaḥ-tama ǀ
indra ǀ yathā ǀ cit ǀ āvitha ǀ vājeṣu ǀ puru-māyyam ǁ8.68.10 Aṣṭaka 6.5.2.5Anuvāka 8.7.132
-
Ṛk 11
यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः ।
य॒ज्ञो वि॑तंत॒साय्यः॑ ॥यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिर् अद्रिवः |
यज्ञो वितन्तसाय्यः ||yásya te svādú sakhyám svādvī́ práṇītiradrivaḥ ǀ
yajñó vitantasā́yyaḥ ǁyasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ |
yajño vitantasāyyaḥ ||यस्य॑ । ते॒ । स्वा॒दु । स॒ख्यम् । स्वा॒द्वी । प्रऽनी॑तिः । अ॒द्रि॒ऽवः॒ ।
य॒ज्ञः । वि॒त॒न्त॒साय्यः॑ ॥यस्य । ते । स्वादु । सख्यम् । स्वाद्वी । प्रऽनीतिः । अद्रिऽवः ।
यज्ञः । वितन्तसाय्यः ॥yásya ǀ te ǀ svādú ǀ sakhyám ǀ svādvī́ ǀ prá-nītiḥ ǀ adri-vaḥ ǀ
yajñáḥ ǀ vitantasā́yyaḥ ǁyasya ǀ te ǀ svādu ǀ sakhyam ǀ svādvī ǀ pra-nītiḥ ǀ adri-vaḥ ǀ
yajñaḥ ǀ vitantasāyyaḥ ǁ8.68.11 Aṣṭaka 6.5.3.1Anuvāka 8.7.133
-
Ṛk 12
उ॒रु ण॑स्त॒न्वे॒३॒॑ तन॑ उ॒रु क्षया॑य नस्कृधि ।
उ॒रु णो॑ यंधि जी॒वसे॑ ॥उरु णस् तन्वे तन उरु क्षयाय नस् कृधि |
उरु णो यन्धि जीवसे ||urú ṇastanvé tána urú kṣáyāya naskṛdhi ǀ
urú ṇo yandhi jīváse ǁuru ṇas tanve tana uru kṣayāya nas kṛdhi |
uru ṇo yandhi jīvase ||उ॒रु । नः॒ । त॒न्वे॑ । तने॑ । उ॒रु । क्षया॑य । नः॒ । कृ॒धि॒ ।
उ॒रु । नः॒ । य॒न्धि॒ । जी॒वसे॑ ॥उरु । नः । तन्वे । तने । उरु । क्षयाय । नः । कृधि ।
उरु । नः । यन्धि । जीवसे ॥urú ǀ naḥ ǀ tanvé ǀ táne ǀ urú ǀ kṣáyāya ǀ naḥ ǀ kṛdhi ǀ
urú ǀ naḥ ǀ yandhi ǀ jīváse ǁuru ǀ naḥ ǀ tanve ǀ tane ǀ uru ǀ kṣayāya ǀ naḥ ǀ kṛdhi ǀ
uru ǀ naḥ ǀ yandhi ǀ jīvase ǁ8.68.12 Aṣṭaka 6.5.3.2Anuvāka 8.7.134
-
Ṛk 13
उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पंथां॑ ।
दे॒ववी॑तिं मनामहे ॥उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् |
देववीतिम् मनामहे ||urúm nṛ́bhya urúm gáva urúm ráthāya pánthām ǀ
devávītim manāmahe ǁuruṃ nṛbhya uruṃ gava uruṃ rathāya panthām |
devavītim manāmahe ||उ॒रुम् । नृऽभ्यः॑ । उ॒रुम् । गवे॑ । उ॒रुम् । रथा॑य । पन्था॑म् ।
दे॒वऽवी॑तिम् । म॒ना॒म॒हे॒ ॥उरुम् । नृऽभ्यः । उरुम् । गवे । उरुम् । रथाय । पन्थाम् ।
देवऽवीतिम् । मनामहे ॥urúm ǀ nṛ́-bhyaḥ ǀ urúm ǀ gáve ǀ urúm ǀ ráthāya ǀ pánthām ǀ
devá-vītim ǀ manāmahe ǁurum ǀ nṛ-bhyaḥ ǀ urum ǀ gave ǀ urum ǀ rathāya ǀ panthām ǀ
deva-vītim ǀ manāmahe ǁ8.68.13 Aṣṭaka 6.5.3.3Anuvāka 8.7.135
-
Ṛk 14
उप॑ मा॒ षड्द्वाद्वा॒ नरः॒ सोम॑स्य॒ हर्ष्या॑ ।
तिष्ठं॑ति स्वादुरा॒तयः॑ ॥उप मा षड् द्वा-द्वा नरः सोमस्य हर्ष्या |
तिष्ठन्ति स्वादुरातयः ||úpa mā ṣáḍdvā́dvā náraḥ sómasya hárṣyā ǀ
tíṣṭhanti svādurātáyaḥ ǁupa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā |
tiṣṭhanti svādurātayaḥ ||उप॑ । मा॒ । षट् । द्वाऽद्वा॑ । नरः॑ । सोम॑स्य । हर्ष्या॑ ।
तिष्ठ॑न्ति । स्वा॒दु॒ऽरा॒तयः॑ ॥उप । मा । षट् । द्वाऽद्वा । नरः । सोमस्य । हर्ष्या ।
तिष्ठन्ति । स्वादुऽरातयः ॥úpa ǀ mā ǀ ṣáṭ ǀ dvā́-dvā ǀ náraḥ ǀ sómasya ǀ hárṣyā ǀ
tíṣṭhanti ǀ svādu-rātáyaḥ ǁupa ǀ mā ǀ ṣaṭ ǀ dvā-dvā ǀ naraḥ ǀ somasya ǀ harṣyā ǀ
tiṣṭhanti ǀ svādu-rātayaḥ ǁ8.68.14 Aṣṭaka 6.5.3.4Anuvāka 8.7.136
-
Ṛk 15
ऋ॒ज्राविं॑द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ ।
आ॒श्व॒मे॒धस्य॒ रोहि॑ता ॥ऋज्राव् इन्द्रोत आ ददे हरी ऋक्षस्य सूनवि |
आश्वमेधस्य रोहिता ||ṛjrā́vindrotá ā́ dade hárī ṛ́kṣasya sūnávi ǀ
āśvamedhásya róhitā ǁṛjrāv indrota ā dade harī ṛkṣasya sūnavi |
āśvamedhasya rohitā ||ऋ॒ज्रौ । इ॒न्द्रो॒ते । आ । द॒दे॒ । हरी॒ इति॑ । ऋक्ष॑स्य । सू॒नवि॑ ।
आ॒श्व॒ऽमे॒धस्य॑ । रोहि॑ता ॥ऋज्रौ । इन्द्रोते । आ । ददे । हरी इति । ऋक्षस्य । सूनवि ।
आश्वऽमेधस्य । रोहिता ॥ṛjráu ǀ indroté ǀ ā́ ǀ dade ǀ hárī íti ǀ ṛ́kṣasya ǀ sūnávi ǀ
āśva-medhásya ǀ róhitā ǁṛjrau ǀ indrote ǀ ā ǀ dade ǀ harī iti ǀ ṛkṣasya ǀ sūnavi ǀ
āśva-medhasya ǀ rohitā ǁ8.68.15 Aṣṭaka 6.5.3.5Anuvāka 8.7.137
-
Ṛk 16
सु॒रथाँ॑ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे ।
आ॒श्व॒मे॒धे सु॒पेश॑सः ॥सुरथां आतिथिग्वे स्वभीशूंर् आर्क्षे |
आश्वमेधे सुपेशसः ||suráthām̐ ātithigvé svabhīśū́m̐rārkṣé ǀ
āśvamedhé supéśasaḥ ǁsurathāṃ ātithigve svabhīśūṃr ārkṣe |
āśvamedhe supeśasaḥ ||सु॒ऽरथा॑न् । आ॒ति॒थि॒ऽग्वे । सु॒ऽअ॒भी॒शून् । आ॒र्क्षे ।
आ॒श्व॒ऽमे॒धे । सु॒ऽपेश॑सः ॥सुऽरथान् । आतिथिऽग्वे । सुऽअभीशून् । आर्क्षे ।
आश्वऽमेधे । सुऽपेशसः ॥su-ráthān ǀ ātithi-gvé ǀ su-abhīśū́n ǀ ārkṣé ǀ
āśva-medhé ǀ su-péśasaḥ ǁsu-rathān ǀ ātithi-gve ǀ su-abhīśūn ǀ ārkṣe ǀ
āśva-medhe ǀ su-peśasaḥ ǁ8.68.16 Aṣṭaka 6.5.4.1Anuvāka 8.7.138
-
Ṛk 17
षळश्वाँ॑ आतिथि॒ग्व इं॑द्रो॒ते व॒धूम॑तः ।
सचा॑ पू॒तक्र॑तौ सनं ॥षऌ अश्वां आतिथिग्व इन्द्रोते वधूमतः |
सचा पूतक्रतौ सनम् ||ṣáḷáśvām̐ ātithigvá indroté vadhū́mataḥ ǀ
sácā pūtákratau sanam ǁṣaḷ aśvāṃ ātithigva indrote vadhūmataḥ |
sacā pūtakratau sanam ||षट् । अश्वा॑न् । आ॒ति॒थि॒ऽग्वे । इ॒न्द्रो॒ते । व॒धूऽम॑तः ।
सचा॑ । पू॒तऽक्र॑तौ । स॒न॒म् ॥षट् । अश्वान् । आतिथिऽग्वे । इन्द्रोते । वधूऽमतः ।
सचा । पूतऽक्रतौ । सनम् ॥ṣáṭ ǀ áśvān ǀ ātithi-gvé ǀ indroté ǀ vadhū́-mataḥ ǀ
sácā ǀ pūtá-kratau ǀ sanam ǁṣaṭ ǀ aśvān ǀ ātithi-gve ǀ indrote ǀ vadhū-mataḥ ǀ
sacā ǀ pūta-kratau ǀ sanam ǁ8.68.17 Aṣṭaka 6.5.4.2Anuvāka 8.7.139
-
Ṛk 18
ऐषु॑ चेत॒द्वृष॑ण्वत्यं॒तर्ऋ॒ज्रेष्वरु॑षी ।
स्व॒भी॒शुः कशा॑वती ॥ऐषु चेतद् वृषण्वत्य् अन्तर् ऋज्रेष्व् अरुषी |
स्वभीशुः कशावती ||áiṣu cetadvṛ́ṣaṇvatyantárṛjréṣváruṣī ǀ
svabhīśúḥ káśāvatī ǁaiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī |
svabhīśuḥ kaśāvatī ||आ । ए॒षु॒ । चे॒त॒त् । वृष॑ण्ऽवती । अ॒न्तः । ऋ॒ज्रेषु॑ । अरु॑षी ।
सु॒ऽअ॒भी॒शुः । कशा॑ऽवती ॥आ । एषु । चेतत् । वृषण्ऽवती । अन्तः । ऋज्रेषु । अरुषी ।
सुऽअभीशुः । कशाऽवती ॥ā́ ǀ eṣu ǀ cetat ǀ vṛ́ṣaṇ-vatī ǀ antáḥ ǀ ṛjréṣu ǀ áruṣī ǀ
su-abhīśúḥ ǀ káśā-vatī ǁā ǀ eṣu ǀ cetat ǀ vṛṣaṇ-vatī ǀ antaḥ ǀ ṛjreṣu ǀ aruṣī ǀ
su-abhīśuḥ ǀ kaśā-vatī ǁ8.68.18 Aṣṭaka 6.5.4.3Anuvāka 8.7.140
-
Ṛk 19
न यु॒ष्मे वा॑जबंधवो निनि॒त्सुश्च॒न मर्त्यः॑ ।
अ॒व॒द्यमधि॑ दीधरत् ॥न युष्मे वाजबन्धवो निनित्सुश् चन मर्त्यः |
अवद्यम् अधि दीधरत् ||ná yuṣmé vājabandhavo ninitsúścaná mártyaḥ ǀ
avadyámádhi dīdharat ǁna yuṣme vājabandhavo ninitsuś cana martyaḥ |
avadyam adhi dīdharat ||न । यु॒ष्मे इति॑ । वा॒ज॒ऽब॒न्ध॒वः॒ । नि॒नि॒त्सुः । च॒न । मर्त्यः॑ ।
अ॒व॒द्यम् । अधि॑ । दी॒ध॒र॒त् ॥न । युष्मे इति । वाजऽबन्धवः । निनित्सुः । चन । मर्त्यः ।
अवद्यम् । अधि । दीधरत् ॥ná ǀ yuṣmé íti ǀ vāja-bandhavaḥ ǀ ninitsúḥ ǀ caná ǀ mártyaḥ ǀ
avadyám ǀ ádhi ǀ dīdharat ǁna ǀ yuṣme iti ǀ vāja-bandhavaḥ ǀ ninitsuḥ ǀ cana ǀ martyaḥ ǀ
avadyam ǀ adhi ǀ dīdharat ǁ8.68.19 Aṣṭaka 6.5.4.4Anuvāka 8.7.141
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.