Ṛgveda · Maṇḍala 8 · Sūkta 68

Ṛk 8.68.14

Indra · Dānastuti Of Ṛkṣa And Āśvamedha · Priyamedha Āṅgirasa

The whole sūkta Link

Saṃhitā

उप॑ मा॒ षड्द्वाद्वा॒ नरः॒ सोम॑स्य॒ हर्ष्या॑ ।
तिष्ठं॑ति स्वादुरा॒तयः॑ ॥

उप मा षड् द्वा-द्वा नरः सोमस्य हर्ष्या |
तिष्ठन्ति स्वादुरातयः ||

úpa mā ṣáḍdvā́dvā náraḥ sómasya hárṣyā ǀ
tíṣṭhanti svādurātáyaḥ ǁ

upa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā |
tiṣṭhanti svādurātayaḥ ||

Padapāṭha

उप॑ । मा॒ । षट् । द्वाऽद्वा॑ । नरः॑ । सोम॑स्य । हर्ष्या॑ ।
तिष्ठ॑न्ति । स्वा॒दु॒ऽरा॒तयः॑ ॥

उप । मा । षट् । द्वाऽद्वा । नरः । सोमस्य । हर्ष्या ।
तिष्ठन्ति । स्वादुऽरातयः ॥

úpa ǀ mā ǀ ṣáṭ ǀ dvā́-dvā ǀ náraḥ ǀ sómasya ǀ hárṣyā ǀ
tíṣṭhanti ǀ svādu-rātáyaḥ ǁ

upa ǀ mā ǀ ṣaṭ ǀ dvā-dvā ǀ naraḥ ǀ somasya ǀ harṣyā ǀ
tiṣṭhanti ǀ svādu-rātayaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.068.14
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.03.04
Maṇḍala · Anuvāka · Ṛk
08.07.136
Devatā देवता
1-13: Indra; 14-19: Dānastuti Of Ṛkṣa And Āśvamedha
Ṛṣi ऋषि
Priyamedha Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.68.14

Interpretations

Sāyaṇa

एतदाद्याः षळृचः ऋक्षाश्वमेधयोर्दानस्तुतिरूपाः यद्यपि बृहद्देवतानुक्रमण्यां-ऋक्षाश्वमेधयोरत्र पञ्चदानप्रशंसका इत्युक्तम् । तथाप्युपमाषळित्य- स्याः राजदानस्तुतिशेषत्वादविरोधः । अनयैवाशया अनुक्रमण्यांअन्त्याः षळृचः ऋक्षाश्वमेधयोर्दानस्तुतिरित्युक्तम् । मामां प्रियमेधं यज्ञे प्रसर्पन्तः षट् एतत्संख्याका नरोनेतारो राजानः सोमस्य पीतस्य हर्ष्या हर्षेण स्वादुरातयः सुष्ठूपभोगार्हदानाः सन्तो द्वाद्वा द्वौद्वौ पितृपुत्ररूपेण युग्मौ भूत्वा मामुपतिष्ठन्ति तेषां युग्मानां नाम तूत्तरत्र स्पष्टीक्रियते ॥ १४ ॥