Ṛgveda · Maṇḍala 8

Sūkta 17

Indra · Irimbiṭhi Kāṇva · 15 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Irimbiṭhi Kāṇva
Chandas छन्दस्
Gāyatrī, Bṛhatī, Satobṛhatī
Metres by ṛk

1st set of styles nicṛdgāyatrī (4-6, 9-12); gāyatrī (1-3, 7, 8); virāḍgāyatrī (13); āsurībṛhatī (14); bhurigārṣībṛhatī (15)

2nd set of styles gāyatrī (1-13); bṛhatī (14); satobṛhatī (15)

  1. Ṛk 1

    आ या॑हि सुषु॒मा हि त॒ इंद्र॒ सोमं॒ पिबा॑ इ॒मं ।
    एदं ब॒र्हिः स॑दो॒ मम॑ ॥

    आ याहि सुषुमा हि त इन्द्र सोमम् पिबा इमम् |
    एदम् बर्हिः सदो मम ||

    ā́ yāhi suṣumā́ hí ta índra sómam píbā imám ǀ
    édám barhíḥ sado máma ǁ

    ā yāhi suṣumā hi ta indra somam pibā imam |
    edam barhiḥ sado mama ||

    आ । या॒हि॒ । सु॒सु॒म । हि । ते॒ । इन्द्र॑ । सोम॑म् । पिब॑ । इ॒मम् ।
    आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम॑ ॥

    आ । याहि । सुसुम । हि । ते । इन्द्र । सोमम् । पिब । इमम् ।
    आ । इदम् । बर्हिः । सदः । मम ॥

    ā́ ǀ yāhi ǀ susumá ǀ hí ǀ te ǀ índra ǀ sómam ǀ píba ǀ imám ǀ
    ā́ ǀ idám ǀ barhíḥ ǀ sadaḥ ǀ máma ǁ

    ā ǀ yāhi ǀ susuma ǀ hi ǀ te ǀ indra ǀ somam ǀ piba ǀ imam ǀ
    ā ǀ idam ǀ barhiḥ ǀ sadaḥ ǀ mama ǁ

    8.17.1 Aṣṭaka 6.1.22.1Anuvāka 8.3.74

  2. Ṛk 2

    आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिंद्र के॒शिना॑ ।
    उप॒ ब्रह्मा॑णि नः शृणु ॥

    आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना |
    उप ब्रह्माणि नः शृणु ||

    ā́ tvā brahmayújā hárī váhatāmindra keśínā ǀ
    úpa bráhmāṇi naḥ śṛṇu ǁ

    ā tvā brahmayujā harī vahatām indra keśinā |
    upa brahmāṇi naḥ śṛṇu ||

    आ । त्वा॒ । ब्र॒ह्म॒ऽयुजा॑ । हरी॒ इति॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।
    उप॑ । ब्रह्मा॑णि । नः॒ । शृ॒णु॒ ॥

    आ । त्वा । ब्रह्मऽयुजा । हरी इति । वहताम् । इन्द्र । केशिना ।
    उप । ब्रह्माणि । नः । शृणु ॥

    ā́ ǀ tvā ǀ brahma-yújā ǀ hárī íti ǀ váhatām ǀ indra ǀ keśínā ǀ
    úpa ǀ bráhmāṇi ǀ naḥ ǀ śṛṇu ǁ

    ā ǀ tvā ǀ brahma-yujā ǀ harī iti ǀ vahatām ǀ indra ǀ keśinā ǀ
    upa ǀ brahmāṇi ǀ naḥ ǀ śṛṇu ǁ

    8.17.2 Aṣṭaka 6.1.22.2Anuvāka 8.3.75

  3. Ṛk 3

    ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामिं॑द्र सो॒मिनः॑ ।
    सु॒तावं॑तो हवामहे ॥

    ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः |
    सुतावन्तो हवामहे ||

    brahmā́ṇastvā vayám yujā́ somapā́mindra somínaḥ ǀ
    sutā́vanto havāmahe ǁ

    brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ |
    sutāvanto havāmahe ||

    ब्र॒ह्माणः॑ । त्वा॒ । व॒यम् । यु॒जा । सो॒म॒ऽपाम् । इ॒न्द्र॒ । सो॒मिनः॑ ।
    सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥

    ब्रह्माणः । त्वा । वयम् । युजा । सोमऽपाम् । इन्द्र । सोमिनः ।
    सुतऽवन्तः । हवामहे ॥

    brahmā́ṇaḥ ǀ tvā ǀ vayám ǀ yujā́ ǀ soma-pā́m ǀ indra ǀ somínaḥ ǀ
    sutá-vantaḥ ǀ havāmahe ǁ

    brahmāṇaḥ ǀ tvā ǀ vayam ǀ yujā ǀ soma-pām ǀ indra ǀ sominaḥ ǀ
    suta-vantaḥ ǀ havāmahe ǁ

    8.17.3 Aṣṭaka 6.1.22.3Anuvāka 8.3.76

  4. Ṛk 4

    आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ ।
    पिबा॒ सु शि॑प्रि॒न्नंध॑सः ॥

    आ नो याहि सुतावतो ऽस्माकं सुष्टुतीर् उप |
    पिबा सु शिप्रिन्न् अन्धसः ||

    ā́ no yāhi sutā́vato’smā́kam suṣṭutī́rúpa ǀ
    píbā sú śiprinnándhasaḥ ǁ

    ā no yāhi sutāvato 'smākaṃ suṣṭutīr upa |
    pibā su śiprinn andhasaḥ ||

    आ । नः॒ । या॒हि॒ । सु॒तऽव॑तः । अ॒स्माक॑म् । सु॒ऽस्तु॒तीः । उप॑ ।
    पिब॑ । सु । शि॒प्रि॒न् । अन्ध॑सः ॥

    आ । नः । याहि । सुतऽवतः । अस्माकम् । सुऽस्तुतीः । उप ।
    पिब । सु । शिप्रिन् । अन्धसः ॥

    ā́ ǀ naḥ ǀ yāhi ǀ sutá-vataḥ ǀ asmā́kam ǀ su-stutī́ḥ ǀ úpa ǀ
    píba ǀ sú ǀ śiprin ǀ ándhasaḥ ǁ

    ā ǀ naḥ ǀ yāhi ǀ suta-vataḥ ǀ asmākam ǀ su-stutīḥ ǀ upa ǀ
    piba ǀ su ǀ śiprin ǀ andhasaḥ ǁ

    8.17.4 Aṣṭaka 6.1.22.4Anuvāka 8.3.77

  5. Ṛk 5

    आ ते॑ सिंचामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु ।
    गृ॒भा॒य जि॒ह्वया॒ मधु॑ ॥

    आ ते सिञ्चामि कुक्ष्योर् अनु गात्रा वि धावतु |
    गृभाय जिह्वया मधु ||

    ā́ te siñcāmi kukṣyóránu gā́trā ví dhāvatu ǀ
    gṛbhāyá jihváyā mádhu ǁ

    ā te siñcāmi kukṣyor anu gātrā vi dhāvatu |
    gṛbhāya jihvayā madhu ||

    आ । ते॒ । सि॒ञ्चा॒मि॒ । कु॒क्ष्योः । अनु॑ । गात्रा॑ । वि । धा॒व॒तु॒ ।
    गृ॒भा॒य । जि॒ह्वया॑ । मधु॑ ॥

    आ । ते । सिञ्चामि । कुक्ष्योः । अनु । गात्रा । वि । धावतु ।
    गृभाय । जिह्वया । मधु ॥

    ā́ ǀ te ǀ siñcāmi ǀ kukṣyóḥ ǀ ánu ǀ gā́trā ǀ ví ǀ dhāvatu ǀ
    gṛbhāyá ǀ jihváyā ǀ mádhu ǁ

    ā ǀ te ǀ siñcāmi ǀ kukṣyoḥ ǀ anu ǀ gātrā ǀ vi ǀ dhāvatu ǀ
    gṛbhāya ǀ jihvayā ǀ madhu ǁ

    8.17.5 Aṣṭaka 6.1.22.5Anuvāka 8.3.78

  6. Ṛk 6

    स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मांत॒न्वे॒३॒॑ तव॑ ।
    सोमः॒ शम॑स्तु ते हृ॒दे ॥

    स्वादुष् टे अस्तु संसुदे मधुमान् तन्वे तव |
    सोमः शम् अस्तु ते हृदे ||

    svādúṣṭe astu saṃsúde mádhumāntanvé táva ǀ
    sómaḥ śámastu te hṛdé ǁ

    svāduṣ ṭe astu saṃsude madhumān tanve tava |
    somaḥ śam astu te hṛde ||

    स्वा॒दुः । ते॒ । अ॒स्तु॒ । स॒म्ऽसुदे॑ । मधु॑ऽमान् । त॒न्वे॑ । तव॑ ।
    सोमः॑ । शम् । अ॒स्तु॒ । ते॒ । हृ॒दे ॥

    स्वादुः । ते । अस्तु । सम्ऽसुदे । मधुऽमान् । तन्वे । तव ।
    सोमः । शम् । अस्तु । ते । हृदे ॥

    svādúḥ ǀ te ǀ astu ǀ sam-súde ǀ mádhu-mān ǀ tanvé ǀ táva ǀ
    sómaḥ ǀ śám ǀ astu ǀ te ǀ hṛdé ǁ

    svāduḥ ǀ te ǀ astu ǀ sam-sude ǀ madhu-mān ǀ tanve ǀ tava ǀ
    somaḥ ǀ śam ǀ astu ǀ te ǀ hṛde ǁ

    8.17.6 Aṣṭaka 6.1.23.1Anuvāka 8.3.79

  7. Ṛk 7

    अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः ।
    प्र सोम॑ इंद्र सर्पतु ॥

    अयम् उ त्वा विचर्षणे जनीर् इवाभि संवृतः |
    प्र सोम इन्द्र सर्पतु ||

    ayámu tvā vicarṣaṇe jánīrivābhí sáṃvṛtaḥ ǀ
    prá sóma indra sarpatu ǁ

    ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ |
    pra soma indra sarpatu ||

    अ॒यम् । ऊं॒ इति॑ । त्वा॒ । वि॒ऽच॒र्ष॒णे॒ । जनीः॑ऽइव । अ॒भि । सम्ऽवृ॑तः ।
    प्र । सोमः॑ । इ॒न्द्र॒ । स॒र्प॒तु॒ ॥

    अयम् । ऊं इति । त्वा । विऽचर्षणे । जनीःऽइव । अभि । सम्ऽवृतः ।
    प्र । सोमः । इन्द्र । सर्पतु ॥

    ayám ǀ ūṃ íti ǀ tvā ǀ vi-carṣaṇe ǀ jánīḥ-iva ǀ abhí ǀ sám-vṛtaḥ ǀ
    prá ǀ sómaḥ ǀ indra ǀ sarpatu ǁ

    ayam ǀ ūṃ iti ǀ tvā ǀ vi-carṣaṇe ǀ janīḥ-iva ǀ abhi ǀ sam-vṛtaḥ ǀ
    pra ǀ somaḥ ǀ indra ǀ sarpatu ǁ

    8.17.7 Aṣṭaka 6.1.23.2Anuvāka 8.3.80

  8. Ṛk 8

    तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरंध॑सो॒ मदे॑ ।
    इंद्रो॑ वृ॒त्राणि॑ जिघ्नते ॥

    तुविग्रीवो वपोदरः सुबाहुर् अन्धसो मदे |
    इन्द्रो वृत्राणि जिघ्नते ||

    tuvigrī́vo vapódaraḥ subāhúrándhaso máde ǀ
    índro vṛtrā́ṇi jighnate ǁ

    tuvigrīvo vapodaraḥ subāhur andhaso made |
    indro vṛtrāṇi jighnate ||

    तु॒वि॒ऽग्रीवः॑ । व॒पाऽउ॑दरः । सु॒ऽबा॒हुः । अन्ध॑सः । मदे॑ ।
    इन्द्रः॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥

    तुविऽग्रीवः । वपाऽउदरः । सुऽबाहुः । अन्धसः । मदे ।
    इन्द्रः । वृत्राणि । जिघ्नते ॥

    tuvi-grī́vaḥ ǀ vapā́-udaraḥ ǀ su-bāhúḥ ǀ ándhasaḥ ǀ máde ǀ
    índraḥ ǀ vṛtrā́ṇi ǀ jighnate ǁ

    tuvi-grīvaḥ ǀ vapā-udaraḥ ǀ su-bāhuḥ ǀ andhasaḥ ǀ made ǀ
    indraḥ ǀ vṛtrāṇi ǀ jighnate ǁ

    8.17.8 Aṣṭaka 6.1.23.3Anuvāka 8.3.81

  9. Ṛk 9

    इंद्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा ।
    वृ॒त्राणि॑ वृत्रहंजहि ॥

    इन्द्र प्रेहि पुरस् त्वं विश्वस्येशान ओजसा |
    वृत्राणि वृत्रहञ् जहि ||

    índra préhi purástvám víśvasyéśāna ójasā ǀ
    vṛtrā́ṇi vṛtrahañjahi ǁ

    indra prehi puras tvaṃ viśvasyeśāna ojasā |
    vṛtrāṇi vṛtrahañ jahi ||

    इन्द्र॑ । प्र । इ॒हि॒ । पु॒रः । त्वम् । विश्व॑स्य । ईशा॑नः । ओज॑सा ।
    वृ॒त्राणि॑ । वृ॒त्र॒ऽह॒न् । ज॒हि॒ ॥

    इन्द्र । प्र । इहि । पुरः । त्वम् । विश्वस्य । ईशानः । ओजसा ।
    वृत्राणि । वृत्रऽहन् । जहि ॥

    índra ǀ prá ǀ ihi ǀ puráḥ ǀ tvám ǀ víśvasya ǀ ī́śānaḥ ǀ ójasā ǀ
    vṛtrā́ṇi ǀ vṛtra-han ǀ jahi ǁ

    indra ǀ pra ǀ ihi ǀ puraḥ ǀ tvam ǀ viśvasya ǀ īśānaḥ ǀ ojasā ǀ
    vṛtrāṇi ǀ vṛtra-han ǀ jahi ǁ

    8.17.9 Aṣṭaka 6.1.23.4Anuvāka 8.3.82

  10. Ṛk 10

    दी॒र्घस्ते॑ अस्त्वंकु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि ।
    यज॑मानाय सुन्व॒ते ॥

    दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयच्छसि |
    यजमानाय सुन्वते ||

    dīrgháste astvaṅkuśó yénā vásu prayácchasi ǀ
    yájamānāya sunvaté ǁ

    dīrghas te astv aṅkuśo yenā vasu prayacchasi |
    yajamānāya sunvate ||

    दी॒र्घः । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒शः । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि ।
    यज॑मानाय । सु॒न्व॒ते ॥

    दीर्घः । ते । अस्तु । अङ्कुशः । येन । वसु । प्रऽयच्छसि ।
    यजमानाय । सुन्वते ॥

    dīrgháḥ ǀ te ǀ astu ǀ aṅkuśáḥ ǀ yéna ǀ vásu ǀ pra-yácchasi ǀ
    yájamānāya ǀ sunvaté ǁ

    dīrghaḥ ǀ te ǀ astu ǀ aṅkuśaḥ ǀ yena ǀ vasu ǀ pra-yacchasi ǀ
    yajamānāya ǀ sunvate ǁ

    8.17.10 Aṣṭaka 6.1.23.5Anuvāka 8.3.83

  11. Ṛk 11

    अ॒यं त॑ इंद्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ ।
    एही॑म॒स्य द्रवा॒ पिब॑ ॥

    अयं त इन्द्र सोमो निपूतो अधि बर्हिषि |
    एहीम् अस्य द्रवा पिब ||

    ayám ta indra sómo nípūto ádhi barhíṣi ǀ
    éhīmasyá drávā píba ǁ

    ayaṃ ta indra somo nipūto adhi barhiṣi |
    ehīm asya dravā piba ||

    अ॒यम् । ते॒ । इ॒न्द्र॒ । सोमः॑ । निऽपू॑तः । अधि॑ । ब॒र्हिषि॑ ।
    आ । इ॒हि॒ । ई॒म् । अ॒स्य । द्रव॑ । पिब॑ ॥

    अयम् । ते । इन्द्र । सोमः । निऽपूतः । अधि । बर्हिषि ।
    आ । इहि । ईम् । अस्य । द्रव । पिब ॥

    ayám ǀ te ǀ indra ǀ sómaḥ ǀ ní-pūtaḥ ǀ ádhi ǀ barhíṣi ǀ
    ā́ ǀ ihi ǀ īm ǀ asyá ǀ dráva ǀ píba ǁ

    ayam ǀ te ǀ indra ǀ somaḥ ǀ ni-pūtaḥ ǀ adhi ǀ barhiṣi ǀ
    ā ǀ ihi ǀ īm ǀ asya ǀ drava ǀ piba ǁ

    8.17.11 Aṣṭaka 6.1.24.1Anuvāka 8.3.84

  12. Ṛk 12

    शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः ।
    आखं॑डल॒ प्र हू॑यसे ॥

    शाचिगो शाचिपूजनायं रणाय ते सुतः |
    आखण्डल प्र हूयसे ||

    śā́cigo śā́cipūjanāyám ráṇāya te sutáḥ ǀ
    ā́khaṇḍala prá hūyase ǁ

    śācigo śācipūjanāyaṃ raṇāya te sutaḥ |
    ākhaṇḍala pra hūyase ||

    शाचि॑गो॒ इति॒ शाचि॑ऽगो । शाचि॑ऽपूजन । अ॒यम् । रणा॑य । ते॒ । सु॒तः ।
    आख॑ण्डल । प्र । हू॒य॒से॒ ॥

    शाचिगो इति शाचिऽगो । शाचिऽपूजन । अयम् । रणाय । ते । सुतः ।
    आखण्डल । प्र । हूयसे ॥

    śā́cigo íti śā́ci-go ǀ śā́ci-pūjana ǀ ayám ǀ ráṇāya ǀ te ǀ sutáḥ ǀ
    ā́khaṇḍala ǀ prá ǀ hūyase ǁ

    śācigo iti śāci-go ǀ śāci-pūjana ǀ ayam ǀ raṇāya ǀ te ǀ sutaḥ ǀ
    ākhaṇḍala ǀ pra ǀ hūyase ǁ

    8.17.12 Aṣṭaka 6.1.24.2Anuvāka 8.3.85

  13. Ṛk 13

    यस्ते॑ शृंगवृषो नपा॒त्प्रण॑पात्कुंड॒पाय्यः॑ ।
    न्य॑स्मिंदध्र॒ आ मनः॑ ॥

    यस् ते शृङ्गवृषो नपात् प्रणपात् कुण्डपाय्यः |
    न्य् अस्मिन् दध्र आ मनः ||

    yáste śṛṅgavṛṣo napātpráṇapātkuṇḍapā́yyaḥ ǀ
    nyásmindadhra ā́ mánaḥ ǁ

    yas te śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ |
    ny asmin dadhra ā manaḥ ||

    यः । ते॒ । शृ॒ङ्ग॒ऽवृ॒षः॒ । न॒पा॒त् । प्रन॑पा॒दिति॒ प्रऽन॑पात् । कु॒ण्ड॒ऽपाय्यः॑ ।
    नि । अ॒स्मि॒न् । द॒ध्रे॒ । आ । मनः॑ ॥

    यः । ते । शृङ्गऽवृषः । नपात् । प्रनपादिति प्रऽनपात् । कुण्डऽपाय्यः ।
    नि । अस्मिन् । दध्रे । आ । मनः ॥

    yáḥ ǀ te ǀ śṛṅga-vṛṣaḥ ǀ napāt ǀ pránapādíti prá-napāt ǀ kuṇḍa-pā́yyaḥ ǀ
    ní ǀ asmin ǀ dadhre ǀ ā́ ǀ mánaḥ ǁ

    yaḥ ǀ te ǀ śṛṅga-vṛṣaḥ ǀ napāt ǀ pranapāditi pra-napāt ǀ kuṇḍa-pāyyaḥ ǀ
    ni ǀ asmin ǀ dadhre ǀ ā ǀ manaḥ ǁ

    8.17.13 Aṣṭaka 6.1.24.3Anuvāka 8.3.86

  14. Ṛk 14

    वास्तो॑ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्यानां॑ ।
    द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिंद्रो॒ मुनी॑नां॒ सखा॑ ॥

    वास्तोष् पते ध्रुवा स्थूणांसत्रं सोम्यानाम् |
    द्रप्सो भेत्ता पुरां शश्वतीनाम् इन्द्रो मुनीनां सखा ||

    vā́stoṣpate dhruvā́ sthū́ṇā́ṃsatram somyā́nām ǀ
    drapsó bhettā́ purā́m śáśvatīnāmíndro múnīnām sákhā ǁ

    vāstoṣ pate dhruvā sthūṇāṃsatraṃ somyānām |
    drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā ||

    वास्तोः॑ । प॒ते॒ । ध्रु॒वा । स्थूणा॑ । अंस॑त्रम् । सो॒म्याना॑म् ।
    द्र॒प्सः । भे॒त्ता । पु॒राम् । शश्व॑तीनाम् । इन्द्रः॑ । मुनी॑नाम् । सखा॑ ॥

    वास्तोः । पते । ध्रुवा । स्थूणा । अंसत्रम् । सोम्यानाम् ।
    द्रप्सः । भेत्ता । पुराम् । शश्वतीनाम् । इन्द्रः । मुनीनाम् । सखा ॥

    vā́stoḥ ǀ pate ǀ dhruvā́ ǀ sthū́ṇā ǀ áṃsatram ǀ somyā́nām ǀ
    drapsáḥ ǀ bhettā́ ǀ purā́m ǀ śáśvatīnām ǀ índraḥ ǀ múnīnām ǀ sákhā ǁ

    vāstoḥ ǀ pate ǀ dhruvā ǀ sthūṇā ǀ aṃsatram ǀ somyānām ǀ
    drapsaḥ ǀ bhettā ǀ purām ǀ śaśvatīnām ǀ indraḥ ǀ munīnām ǀ sakhā ǁ

    8.17.14 Aṣṭaka 6.1.24.4Anuvāka 8.3.87

  15. Ṛk 15

    पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एकः॒ सन्न॒भि भूय॑सः ।
    भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेंद्रं॒ सोम॑स्य पी॒तये॑ ॥

    पृदाकुसानुर् यजतो गवेषण एकः सन्न् अभि भूयसः |
    भूर्णिम् अश्वं नयत् तुजा पुरो गृभेन्द्रं सोमस्य पीतये ||

    pṛ́dākusānuryajató gavéṣaṇa ékaḥ sánnabhí bhū́yasaḥ ǀ
    bhū́rṇimáśvam nayattujā́ puró gṛbhéndram sómasya pītáye ǁ

    pṛdākusānur yajato gaveṣaṇa ekaḥ sann abhi bhūyasaḥ |
    bhūrṇim aśvaṃ nayat tujā puro gṛbhendraṃ somasya pītaye ||

    पृदा॑कुऽसानुः । य॒ज॒तः । गो॒ऽएष॑णः । एकः॑ । सन् । अ॒भि । भूय॑सः ।
    भूर्णि॑म् । अश्व॑म् । न॒य॒त् । तु॒जा । पु॒रः । गृ॒भा । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥

    पृदाकुऽसानुः । यजतः । गोऽएषणः । एकः । सन् । अभि । भूयसः ।
    भूर्णिम् । अश्वम् । नयत् । तुजा । पुरः । गृभा । इन्द्रम् । सोमस्य । पीतये ॥

    pṛ́dāku-sānuḥ ǀ yajatáḥ ǀ go-éṣaṇaḥ ǀ ékaḥ ǀ sán ǀ abhí ǀ bhū́yasaḥ ǀ
    bhū́rṇim ǀ áśvam ǀ nayat ǀ tujā́ ǀ puráḥ ǀ gṛbhā́ ǀ índram ǀ sómasya ǀ pītáye ǁ

    pṛdāku-sānuḥ ǀ yajataḥ ǀ go-eṣaṇaḥ ǀ ekaḥ ǀ san ǀ abhi ǀ bhūyasaḥ ǀ
    bhūrṇim ǀ aśvam ǀ nayat ǀ tujā ǀ puraḥ ǀ gṛbhā ǀ indram ǀ somasya ǀ pītaye ǁ

    8.17.15 Aṣṭaka 6.1.24.5Anuvāka 8.3.88

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.17 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

COME, we have pressed the juice for thee; O Indra, drink this Soma here Sit thou on this my sacred grass.

Ṛk 2

O Indra, let thy long-maned Bays, yoked by prayer, bring thee hitherward Give car and listen to our prayers.

Ṛk 3

We Soma-bearing Brahmans call thee Soma-drinker with thy friend, We, Indra, bringing Soma juice.

Ṛk 4

Come unto us who bring the juice, come unto this our eulogy, Fair-visored! drink thou of the juice.

Ṛk 5

I pour it down within thee, so through all thy members let it spread: Take with. thy tongue the pleasant drink.

Ṛk 6

Sweet to thy body let it be, delicious be the savoury juice: Sweet be the Soma to thine heart.

Ṛk 7

Like women, let this Soma-draught, invested with its robe, approach, O active Indra, close to thee.

Ṛk 8

Indra, transported with the juice, vast in his bulk, strong in his neck And stout arms, smites the Vṛtras down.

Ṛk 9

O Indra, go thou forward, thou who rulest over all by might: Thou Vṛtra-slayer slay the fiends,

Ṛk 10

Long be thy grasping-hook wherewith thou givest ample wealth to him Who sheds the juice and worships thee.

Ṛk 11

Here, Indra, is thy Soma-draught, made pure upon the sacred grass: Run hither, come and drink thereof.

Ṛk 12

Famed for thy radiance, worshipped well this juice is shed for thy delight Thou art invoked, Akhandala!

Ṛk 13

To Kundapayya, grandson's son, grandson of Srngavrs! to thee, To him have I addressed my thought.

Ṛk 14

Strong pillar thou, Lord of the home armour of Soma-offerers: The drop of Soma breaketh all the strongholds down, and Indra is the Ṛṣis’ Friend.