Ṛgveda · Maṇḍala 8

Sūkta 8

Aśvins · Sadhvaṃsa Kāṇva · 23 ṛks

Link
Devatā देवता
Aśvins
Ṛṣi ऋषि
Sadhvaṃsa Kāṇva
Chandas छन्दस्
Anuṣṭubh
Metres by ṛk

1st set of styles nicṛdanuṣṭup (1-3, 5, 9, 12, 14, 15, 18-20, 22); virāḍārṣyanuṣṭup (4, 7, 8, 10, 11, 13, 17, 21, 23); anuṣṭup (6, 16)

2nd set of styles anuṣṭubh

  1. Ṛk 1

    आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वं ।
    दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥

    आ नो विश्वाभिर् ऊतिभिर् अश्विना गच्छतं युवम् |
    दस्रा हिरण्यवर्तनी पिबतं सोम्यम् मधु ||

    ā́ no víśvābhirūtíbhiráśvinā gácchatam yuvám ǀ
    dásrā híraṇyavartanī píbatam somyám mádhu ǁ

    ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam |
    dasrā hiraṇyavartanī pibataṃ somyam madhu ||

    आ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।
    दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । पिब॑तम् । सो॒म्यम् । मधु॑ ॥

    आ । नः । विश्वाभिः । ऊतिऽभिः । अश्विना । गच्छतम् । युवम् ।
    दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । पिबतम् । सोम्यम् । मधु ॥

    ā́ ǀ naḥ ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ áśvinā ǀ gácchatam ǀ yuvám ǀ
    dásrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ píbatam ǀ somyám ǀ mádhu ǁ

    ā ǀ naḥ ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ aśvinā ǀ gacchatam ǀ yuvam ǀ
    dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ pibatam ǀ somyam ǀ madhu ǁ

    8.8.1 Aṣṭaka 5.8.25.1Anuvāka 8.2.85

  2. Ṛk 2

    आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा ।
    भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गंभी॑रचेतसा ॥

    आ नूनं यातम् अश्विना रथेन सूर्यत्वचा |
    भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ||

    ā́ nūnám yātamaśvinā ráthena sū́ryatvacā ǀ
    bhújī híraṇyapeśasā kávī gámbhīracetasā ǁ

    ā nūnaṃ yātam aśvinā rathena sūryatvacā |
    bhujī hiraṇyapeśasā kavī gambhīracetasā ||

    आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । रथे॑न । सूर्य॑ऽत्वचा ।
    भुजी॒ इति॑ । हिर॑ण्यऽपेशसा । कवी॒ इति॑ । गम्भी॑रऽचेतसा ॥

    आ । नूनम् । यातम् । अश्विना । रथेन । सूर्यऽत्वचा ।
    भुजी इति । हिरण्यऽपेशसा । कवी इति । गम्भीरऽचेतसा ॥

    ā́ ǀ nūnám ǀ yātam ǀ aśvinā ǀ ráthena ǀ sū́rya-tvacā ǀ
    bhújī íti ǀ híraṇya-peśasā ǀ kávī íti ǀ gámbhīra-cetasā ǁ

    ā ǀ nūnam ǀ yātam ǀ aśvinā ǀ rathena ǀ sūrya-tvacā ǀ
    bhujī iti ǀ hiraṇya-peśasā ǀ kavī iti ǀ gambhīra-cetasā ǁ

    8.8.2 Aṣṭaka 5.8.25.2Anuvāka 8.2.86

  3. Ṛk 3

    आ या॑तं॒ नहु॑ष॒स्पर्यांतरि॑क्षात्सुवृ॒क्तिभिः॑ ।
    पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तं ॥

    आ यातं नहुषस् पर्य् आन्तरिक्षात् सुवृक्तिभिः |
    पिबाथो अश्विना मधु कण्वानां सवने सुतम् ||

    ā́ yātam náhuṣaspáryā́ntárikṣātsuvṛktíbhiḥ ǀ
    píbātho aśvinā mádhu káṇvānām sávane sutám ǁ

    ā yātaṃ nahuṣas pary āntarikṣāt suvṛktibhiḥ |
    pibātho aśvinā madhu kaṇvānāṃ savane sutam ||

    आ । या॒त॒म् । नहु॑षः । परि॑ । आ । अ॒न्तरि॑क्षात् । सु॒वृ॒क्तिऽभिः॑ ।
    पिबा॑थः । अ॒श्वि॒ना॒ । मधु॑ । कण्वा॑नाम् । सव॑ने । सु॒तम् ॥

    आ । यातम् । नहुषः । परि । आ । अन्तरिक्षात् । सुवृक्तिऽभिः ।
    पिबाथः । अश्विना । मधु । कण्वानाम् । सवने । सुतम् ॥

    ā́ ǀ yātam ǀ náhuṣaḥ ǀ pári ǀ ā́ ǀ antárikṣāt ǀ suvṛktí-bhiḥ ǀ
    píbāthaḥ ǀ aśvinā ǀ mádhu ǀ káṇvānām ǀ sávane ǀ sutám ǁ

    ā ǀ yātam ǀ nahuṣaḥ ǀ pari ǀ ā ǀ antarikṣāt ǀ suvṛkti-bhiḥ ǀ
    pibāthaḥ ǀ aśvinā ǀ madhu ǀ kaṇvānām ǀ savane ǀ sutam ǁ

    8.8.3 Aṣṭaka 5.8.25.3Anuvāka 8.2.87

  4. Ṛk 4

    आ नो॑ यातं दि॒वस्पर्यांतरि॑क्षादधप्रिया ।
    पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥

    आ नो यातं दिवस् पर्य् आन्तरिक्षाद् अधप्रिया |
    पुत्रः कण्वस्य वाम् इह सुषाव सोम्यम् मधु ||

    ā́ no yātam diváspáryā́ntárikṣādadhapriyā ǀ
    putráḥ káṇvasya vāmihá suṣā́va somyám mádhu ǁ

    ā no yātaṃ divas pary āntarikṣād adhapriyā |
    putraḥ kaṇvasya vām iha suṣāva somyam madhu ||

    आ । नः॒ । या॒त॒म् । दि॒वः । परि॑ । आ । अ॒न्तरि॑क्षात् । अ॒ध॒ऽप्रि॒या॒ ।
    पु॒त्रः । कण्व॑स्य । वा॒म् । इ॒ह । सु॒साव॑ । सो॒म्यम् । मधु॑ ॥

    आ । नः । यातम् । दिवः । परि । आ । अन्तरिक्षात् । अधऽप्रिया ।
    पुत्रः । कण्वस्य । वाम् । इह । सुसाव । सोम्यम् । मधु ॥

    ā́ ǀ naḥ ǀ yātam ǀ diváḥ ǀ pári ǀ ā́ ǀ antárikṣāt ǀ adha-priyā ǀ
    putráḥ ǀ káṇvasya ǀ vām ǀ ihá ǀ susā́va ǀ somyám ǀ mádhu ǁ

    ā ǀ naḥ ǀ yātam ǀ divaḥ ǀ pari ǀ ā ǀ antarikṣāt ǀ adha-priyā ǀ
    putraḥ ǀ kaṇvasya ǀ vām ǀ iha ǀ susāva ǀ somyam ǀ madhu ǁ

    8.8.4 Aṣṭaka 5.8.25.4Anuvāka 8.2.88

  5. Ṛk 5

    आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये ।
    स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥

    आ नो यातम् उपश्रुत्य् अश्विना सोमपीतये |
    स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर् नरा ||

    ā́ no yātamúpaśrutyáśvinā sómapītaye ǀ
    svā́hā stómasya vardhanā prá kavī dhītíbhirnarā ǁ

    ā no yātam upaśruty aśvinā somapītaye |
    svāhā stomasya vardhanā pra kavī dhītibhir narā ||

    आ । नः॒ । या॒त॒म् । उप॑ऽश्रुति । अश्वि॑ना । सोम॑ऽपीतये ।
    स्वाहा॑ । स्तोम॑स्य । व॒र्ध॒ना॒ । प्र । क॒वी॒ इति॑ । धी॒तिऽभिः॑ । न॒रा॒ ॥

    आ । नः । यातम् । उपऽश्रुति । अश्विना । सोमऽपीतये ।
    स्वाहा । स्तोमस्य । वर्धना । प्र । कवी इति । धीतिऽभिः । नरा ॥

    ā́ ǀ naḥ ǀ yātam ǀ úpa-śruti ǀ áśvinā ǀ sóma-pītaye ǀ
    svā́hā ǀ stómasya ǀ vardhanā ǀ prá ǀ kavī íti ǀ dhītí-bhiḥ ǀ narā ǁ

    ā ǀ naḥ ǀ yātam ǀ upa-śruti ǀ aśvinā ǀ soma-pītaye ǀ
    svāhā ǀ stomasya ǀ vardhanā ǀ pra ǀ kavī iti ǀ dhīti-bhiḥ ǀ narā ǁ

    8.8.5 Aṣṭaka 5.8.25.5Anuvāka 8.2.89

  6. Ṛk 6

    यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा ।
    आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥

    यच् चिद् धि वाम् पुर ऋषयो जुहूरे ऽवसे नरा |
    आ यातम् अश्विना गतम् उपेमां सुष्टुतिम् मम ||

    yácciddhí vām purá ṛ́ṣayo juhūré’vase narā ǀ
    ā́ yātamaśvinā́ gatamúpemā́m suṣṭutím máma ǁ

    yac cid dhi vām pura ṛṣayo juhūre 'vase narā |
    ā yātam aśvinā gatam upemāṃ suṣṭutim mama ||

    यत् । चि॒त् । हि । वा॒म् । पु॒रा । ऋष॑यः । जु॒हू॒रे । अव॑से । न॒रा॒ ।
    आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । उप॑ । इ॒माम् । सु॒ऽस्तु॒तिम् । मम॑ ॥

    यत् । चित् । हि । वाम् । पुरा । ऋषयः । जुहूरे । अवसे । नरा ।
    आ । यातम् । अश्विना । आ । गतम् । उप । इमाम् । सुऽस्तुतिम् । मम ॥

    yát ǀ cit ǀ hí ǀ vām ǀ purā́ ǀ ṛ́ṣayaḥ ǀ juhūré ǀ ávase ǀ narā ǀ
    ā́ ǀ yātam ǀ aśvinā ǀ ā́ ǀ gatam ǀ úpa ǀ imā́m ǀ su-stutím ǀ máma ǁ

    yat ǀ cit ǀ hi ǀ vām ǀ purā ǀ ṛṣayaḥ ǀ juhūre ǀ avase ǀ narā ǀ
    ā ǀ yātam ǀ aśvinā ǀ ā ǀ gatam ǀ upa ǀ imām ǀ su-stutim ǀ mama ǁ

    8.8.6 Aṣṭaka 5.8.26.1Anuvāka 8.2.90

  7. Ṛk 7

    दि॒वश्चि॑द्रोच॒नादध्या नो॑ गंतं स्वर्विदा ।
    धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥

    दिवश् चिद् रोचनाद् अध्य् आ नो गन्तं स्वर्विदा |
    धीभिर् वत्सप्रचेतसा स्तोमेभिर् हवनश्रुता ||

    diváścidrocanā́dádhyā́ no gantam svarvidā ǀ
    dhībhírvatsapracetasā stómebhirhavanaśrutā ǁ

    divaś cid rocanād adhy ā no gantaṃ svarvidā |
    dhībhir vatsapracetasā stomebhir havanaśrutā ||

    दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ । आ । नः॒ । ग॒न्त॒म् । स्वः॒ऽवि॒दा॒ ।
    धी॒भिः । व॒त्स॒ऽप्र॒चे॒त॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ ॥

    दिवः । चित् । रोचनात् । अधि । आ । नः । गन्तम् । स्वःऽविदा ।
    धीभिः । वत्सऽप्रचेतसा । स्तोमेभिः । हवनऽश्रुता ॥

    diváḥ ǀ cit ǀ rocanā́t ǀ ádhi ǀ ā́ ǀ naḥ ǀ gantam ǀ svaḥ-vidā ǀ
    dhībhíḥ ǀ vatsa-pracetasā ǀ stómebhiḥ ǀ havana-śrutā ǁ

    divaḥ ǀ cit ǀ rocanāt ǀ adhi ǀ ā ǀ naḥ ǀ gantam ǀ svaḥ-vidā ǀ
    dhībhiḥ ǀ vatsa-pracetasā ǀ stomebhiḥ ǀ havana-śrutā ǁ

    8.8.7 Aṣṭaka 5.8.26.2Anuvāka 8.2.91

  8. Ṛk 8

    किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑ ।
    पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ॥

    किम् अन्ये पर्य् आसते ऽस्मत् स्तोमेभिर् अश्विना |
    पुत्रः कण्वस्य वाम् ऋषिर् गीर्भिर् वत्सो अवीवृधत् ||

    kímanyé páryāsate’smátstómebhiraśvínā ǀ
    putráḥ káṇvasya vāmṛ́ṣirgīrbhírvatsó avīvṛdhat ǁ

    kim anye pary āsate 'smat stomebhir aśvinā |
    putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat ||

    किम् । अ॒न्ये । परि॑ । आ॒स॒ते॒ । अ॒स्मत् । स्तोमे॑भिः । अ॒श्विना॑ ।
    पु॒त्रः । कण्व॑स्य । वा॒म् । ऋषिः॑ । गीः॒ऽभिः । व॒त्सः । अ॒वी॒वृ॒ध॒त् ॥

    किम् । अन्ये । परि । आसते । अस्मत् । स्तोमेभिः । अश्विना ।
    पुत्रः । कण्वस्य । वाम् । ऋषिः । गीःऽभिः । वत्सः । अवीवृधत् ॥

    kím ǀ anyé ǀ pári ǀ āsate ǀ asmát ǀ stómebhiḥ ǀ aśvínā ǀ
    putráḥ ǀ káṇvasya ǀ vām ǀ ṛ́ṣiḥ ǀ gīḥ-bhíḥ ǀ vatsáḥ ǀ avīvṛdhat ǁ

    kim ǀ anye ǀ pari ǀ āsate ǀ asmat ǀ stomebhiḥ ǀ aśvinā ǀ
    putraḥ ǀ kaṇvasya ǀ vām ǀ ṛṣiḥ ǀ gīḥ-bhiḥ ǀ vatsaḥ ǀ avīvṛdhat ǁ

    8.8.8 Aṣṭaka 5.8.26.3Anuvāka 8.2.92

  9. Ṛk 9

    आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना ।
    अरि॑प्रा॒ वृत्र॑हंतमा॒ ता नो॑ भूतं मयो॒भुवा॑ ॥

    आ वां विप्र इहावसे ऽह्वत् स्तोमेभिर् अश्विना |
    अरिप्रा वृत्रहन्तमा ता नो भूतम् मयोभुवा ||

    ā́ vām vípra ihā́vasé’hvatstómebhiraśvinā ǀ
    áriprā vṛ́trahantamā tā́ no bhūtam mayobhúvā ǁ

    ā vāṃ vipra ihāvase 'hvat stomebhir aśvinā |
    ariprā vṛtrahantamā tā no bhūtam mayobhuvā ||

    आ । वा॒म् । विप्रः॑ । इ॒ह । अव॑से । अह्व॑त् । स्तोमे॑भिः । अ॒श्वि॒ना॒ ।
    अरि॑प्रा । वृत्र॑हन्ऽतमा । ता । नः॒ । भू॒त॒म् । म॒यः॒ऽभुवा॑ ॥

    आ । वाम् । विप्रः । इह । अवसे । अह्वत् । स्तोमेभिः । अश्विना ।
    अरिप्रा । वृत्रहन्ऽतमा । ता । नः । भूतम् । मयःऽभुवा ॥

    ā́ ǀ vām ǀ vípraḥ ǀ ihá ǀ ávase ǀ áhvat ǀ stómebhiḥ ǀ aśvinā ǀ
    áriprā ǀ vṛ́trahan-tamā ǀ tā́ ǀ naḥ ǀ bhūtam ǀ mayaḥ-bhúvā ǁ

    ā ǀ vām ǀ vipraḥ ǀ iha ǀ avase ǀ ahvat ǀ stomebhiḥ ǀ aśvinā ǀ
    ariprā ǀ vṛtrahan-tamā ǀ tā ǀ naḥ ǀ bhūtam ǀ mayaḥ-bhuvā ǁ

    8.8.9 Aṣṭaka 5.8.26.4Anuvāka 8.2.93

  10. Ṛk 10

    आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू ।
    विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतं ॥

    आ यद् वां योषणा रथम् अतिष्ठद् वाजिनीवसू |
    विश्वान्य् अश्विना युवम् प्र धीतान्य् अगच्छतम् ||

    ā́ yádvām yóṣaṇā ráthamátiṣṭhadvājinīvasū ǀ
    víśvānyaśvinā yuvám prá dhītā́nyagacchatam ǁ

    ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū |
    viśvāny aśvinā yuvam pra dhītāny agacchatam ||

    आ । यत् । वा॒म् । योष॑णा । रथ॑म् । अति॑ष्ठत् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
    विश्वा॑नि । अ॒श्वि॒ना॒ । यु॒वम् । प्र । धी॒तानि॑ । अ॒ग॒च्छ॒त॒म् ॥

    आ । यत् । वाम् । योषणा । रथम् । अतिष्ठत् । वाजिनीवसू इति वाजिनीऽवसू ।
    विश्वानि । अश्विना । युवम् । प्र । धीतानि । अगच्छतम् ॥

    ā́ ǀ yát ǀ vām ǀ yóṣaṇā ǀ rátham ǀ átiṣṭhat ǀ vājinīvasū íti vājinī-vasū ǀ
    víśvāni ǀ aśvinā ǀ yuvám ǀ prá ǀ dhītā́ni ǀ agacchatam ǁ

    ā ǀ yat ǀ vām ǀ yoṣaṇā ǀ ratham ǀ atiṣṭhat ǀ vājinīvasū iti vājinī-vasū ǀ
    viśvāni ǀ aśvinā ǀ yuvam ǀ pra ǀ dhītāni ǀ agacchatam ǁ

    8.8.10 Aṣṭaka 5.8.26.5Anuvāka 8.2.94

  11. Ṛk 11

    अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ।
    व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥

    अतः सहस्रनिर्णिजा रथेना यातम् अश्विना |
    वत्सो वाम् मधुमद् वचो ऽशंसीत् काव्यः कविः ||

    átaḥ sahásranirṇijā ráthenā́ yātamaśvinā ǀ
    vatsó vām mádhumadvácó’śaṃsītkāvyáḥ kavíḥ ǁ

    ataḥ sahasranirṇijā rathenā yātam aśvinā |
    vatso vām madhumad vaco 'śaṃsīt kāvyaḥ kaviḥ ||

    अतः॑ । स॒हस्र॑ऽनिर्निजा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
    व॒त्सः । वा॒म् । मधु॑ऽमत् । वचः॑ । अशं॑सीत् । का॒व्यः । क॒विः ॥

    अतः । सहस्रऽनिर्निजा । रथेन । आ । यातम् । अश्विना ।
    वत्सः । वाम् । मधुऽमत् । वचः । अशंसीत् । काव्यः । कविः ॥

    átaḥ ǀ sahásra-nirnijā ǀ ráthena ǀ ā́ ǀ yātam ǀ aśvinā ǀ
    vatsáḥ ǀ vām ǀ mádhu-mat ǀ vácaḥ ǀ áśaṃsīt ǀ kāvyáḥ ǀ kavíḥ ǁ

    ataḥ ǀ sahasra-nirnijā ǀ rathena ǀ ā ǀ yātam ǀ aśvinā ǀ
    vatsaḥ ǀ vām ǀ madhu-mat ǀ vacaḥ ǀ aśaṃsīt ǀ kāvyaḥ ǀ kaviḥ ǁ

    8.8.11 Aṣṭaka 5.8.27.1Anuvāka 8.2.95

  12. Ṛk 12

    पु॒रु॒मं॒द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णां ।
    स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषातां ॥

    पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् |
    स्तोमम् मे अश्विनाव् इमम् अभि वह्नी अनूषाताम् ||

    purumandrā́ purūvásū manotárā rayīṇā́m ǀ
    stómam me aśvínāvimámabhí váhnī anūṣātām ǁ

    purumandrā purūvasū manotarā rayīṇām |
    stomam me aśvināv imam abhi vahnī anūṣātām ||

    पु॒रु॒ऽम॒न्द्रा । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । म॒नो॒तरा॑ । र॒यी॒णाम् ।
    स्तोम॑म् । मे॒ । अ॒श्विनौ॑ । इ॒मम् । अ॒भि । वह्नी॒ इति॑ । अ॒नू॒षा॒ता॒म् ॥

    पुरुऽमन्द्रा । पुरुवसू इति पुरुऽवसू । मनोतरा । रयीणाम् ।
    स्तोमम् । मे । अश्विनौ । इमम् । अभि । वह्नी इति । अनूषाताम् ॥

    puru-mandrā́ ǀ puruvásū íti puru-vásū ǀ manotárā ǀ rayīṇā́m ǀ
    stómam ǀ me ǀ aśvínau ǀ imám ǀ abhí ǀ váhnī íti ǀ anūṣātām ǁ

    puru-mandrā ǀ puruvasū iti puru-vasū ǀ manotarā ǀ rayīṇām ǀ
    stomam ǀ me ǀ aśvinau ǀ imam ǀ abhi ǀ vahnī iti ǀ anūṣātām ǁ

    8.8.12 Aṣṭaka 5.8.27.2Anuvāka 8.2.96

  13. Ṛk 13

    आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या ।
    कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥

    आ नो विश्वान्य् अश्विना धत्तं राधांस्य् अह्रया |
    कृतं न ऋत्वियावतो मा नो रीरधतं निदे ||

    ā́ no víśvānyaśvinā dhattám rā́dhāṃsyáhrayā ǀ
    kṛtám na ṛtvíyāvato mā́ no rīradhatam nidé ǁ

    ā no viśvāny aśvinā dhattaṃ rādhāṃsy ahrayā |
    kṛtaṃ na ṛtviyāvato mā no rīradhataṃ nide ||

    आ । नः॒ । विश्वा॑नि । अ॒श्वि॒ना॒ । ध॒त्तम् । राधां॑सि । अह्र॑या ।
    कृ॒तम् । नः॒ । ऋ॒त्विय॑ऽवतः । मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥

    आ । नः । विश्वानि । अश्विना । धत्तम् । राधांसि । अह्रया ।
    कृतम् । नः । ऋत्वियऽवतः । मा । नः । रीरधतम् । निदे ॥

    ā́ ǀ naḥ ǀ víśvāni ǀ aśvinā ǀ dhattám ǀ rā́dhāṃsi ǀ áhrayā ǀ
    kṛtám ǀ naḥ ǀ ṛtvíya-vataḥ ǀ mā́ ǀ naḥ ǀ rīradhatam ǀ nidé ǁ

    ā ǀ naḥ ǀ viśvāni ǀ aśvinā ǀ dhattam ǀ rādhāṃsi ǀ ahrayā ǀ
    kṛtam ǀ naḥ ǀ ṛtviya-vataḥ ǀ mā ǀ naḥ ǀ rīradhatam ǀ nide ǁ

    8.8.13 Aṣṭaka 5.8.27.3Anuvāka 8.2.97

  14. Ṛk 14

    यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यंब॑रे ।
    अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥

    यन् नासत्या परावति यद् वा स्थो अध्य् अम्बरे |
    अतः सहस्रनिर्णिजा रथेना यातम् अश्विना ||

    yánnāsatyā parāváti yádvā sthó ádhyámbare ǀ
    átaḥ sahásranirṇijā ráthenā́ yātamaśvinā ǁ

    yan nāsatyā parāvati yad vā stho adhy ambare |
    ataḥ sahasranirṇijā rathenā yātam aśvinā ||

    यत् । ना॒स॒त्या॒ । प॒रा॒ऽवति॑ । यत् । वा॒ । स्थः । अधि॑ । अम्ब॑रे ।
    अतः॑ । स॒हस्र॑ऽनिर्निजा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥

    यत् । नासत्या । पराऽवति । यत् । वा । स्थः । अधि । अम्बरे ।
    अतः । सहस्रऽनिर्निजा । रथेन । आ । यातम् । अश्विना ॥

    yát ǀ nāsatyā ǀ parā-váti ǀ yát ǀ vā ǀ stháḥ ǀ ádhi ǀ ámbare ǀ
    átaḥ ǀ sahásra-nirnijā ǀ ráthena ǀ ā́ ǀ yātam ǀ aśvinā ǁ

    yat ǀ nāsatyā ǀ parā-vati ǀ yat ǀ vā ǀ sthaḥ ǀ adhi ǀ ambare ǀ
    ataḥ ǀ sahasra-nirnijā ǀ rathena ǀ ā ǀ yātam ǀ aśvinā ǁ

    8.8.14 Aṣṭaka 5.8.27.4Anuvāka 8.2.98

  15. Ṛk 15

    यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ।
    तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुतं॑ ॥

    यो वां नासत्याव् ऋषिर् गीर्भिर् वत्सो अवीवृधत् |
    तस्मै सहस्रनिर्णिजम् इषं धत्तं घृतश्चुतम् ||

    yó vām nāsatyāvṛ́ṣirgīrbhírvatsó ávīvṛdhat ǀ
    tásmai sahásranirṇijamíṣam dhattam ghṛtaścútam ǁ

    yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat |
    tasmai sahasranirṇijam iṣaṃ dhattaṃ ghṛtaścutam ||

    यः । वा॒म् । ना॒स॒त्यौ॒ । ऋषिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् ।
    तस्मै॑ । स॒हस्र॑ऽनिर्निज॑म् । इष॑म् । ध॒त्त॒म् । घृ॒त॒ऽश्चुत॑म् ॥

    यः । वाम् । नासत्यौ । ऋषिः । गीःऽभिः । वत्सः । अवीवृधत् ।
    तस्मै । सहस्रऽनिर्निजम् । इषम् । धत्तम् । घृतऽश्चुतम् ॥

    yáḥ ǀ vām ǀ nāsatyau ǀ ṛ́ṣiḥ ǀ gīḥ-bhíḥ ǀ vatsáḥ ǀ ávīvṛdhat ǀ
    tásmai ǀ sahásra-nirnijam ǀ íṣam ǀ dhattam ǀ ghṛta-ścútam ǁ

    yaḥ ǀ vām ǀ nāsatyau ǀ ṛṣiḥ ǀ gīḥ-bhiḥ ǀ vatsaḥ ǀ avīvṛdhat ǀ
    tasmai ǀ sahasra-nirnijam ǀ iṣam ǀ dhattam ǀ ghṛta-ścutam ǁ

    8.8.15 Aṣṭaka 5.8.27.5Anuvāka 8.2.99

  16. Ṛk 16

    प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वं ।
    यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥

    प्रास्मा ऊर्जं घृतश्चुतम् अश्विना यच्छतं युवम् |
    यो वां सुम्नाय तुष्टवद् वसूयाद् दानुनस् पती ||

    prā́smā ū́rjam ghṛtaścútamáśvinā yácchatam yuvám ǀ
    yó vām sumnā́ya tuṣṭávadvasūyā́ddānunaspatī ǁ

    prāsmā ūrjaṃ ghṛtaścutam aśvinā yacchataṃ yuvam |
    yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī ||

    प्र । अ॒स्मै॒ । ऊर्ज॑म् । घृ॒त॒ऽश्चुत॑म् । अश्वि॑ना । यच्छ॑तम् । यु॒वम् ।
    यः । वा॒म् । सु॒म्नाय॑ । तु॒स्तव॑त् । व॒सु॒ऽयात् । दा॒नु॒नः॒ । प॒ती॒ इति॑ ॥

    प्र । अस्मै । ऊर्जम् । घृतऽश्चुतम् । अश्विना । यच्छतम् । युवम् ।
    यः । वाम् । सुम्नाय । तुस्तवत् । वसुऽयात् । दानुनः । पती इति ॥

    prá ǀ asmai ǀ ū́rjam ǀ ghṛta-ścútam ǀ áśvinā ǀ yácchatam ǀ yuvám ǀ
    yáḥ ǀ vām ǀ sumnā́ya ǀ tustávat ǀ vasu-yā́t ǀ dānunaḥ ǀ patī íti ǁ

    pra ǀ asmai ǀ ūrjam ǀ ghṛta-ścutam ǀ aśvinā ǀ yacchatam ǀ yuvam ǀ
    yaḥ ǀ vām ǀ sumnāya ǀ tustavat ǀ vasu-yāt ǀ dānunaḥ ǀ patī iti ǁ

    8.8.16 Aṣṭaka 5.8.28.1Anuvāka 8.2.100

  17. Ṛk 17

    आ नो॑ गंतं रिशादसे॒मं स्तोमं॑ पुरुभुजा ।
    कृ॒तं नः॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥

    आ नो गन्तं रिशादसेमं स्तोमम् पुरुभुजा |
    कृतं नः सुश्रियो नरेमा दातम् अभिष्टये ||

    ā́ no gantam riśādasemám stómam purubhujā ǀ
    kṛtám naḥ suśríyo naremā́ dātamabhíṣṭaye ǁ

    ā no gantaṃ riśādasemaṃ stomam purubhujā |
    kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye ||

    आ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । इ॒मम् । स्तोम॑म् । पु॒रु॒ऽभु॒जा॒ ।
    कृ॒तम् । नः॒ । सु॒ऽश्रियः॑ । न॒रा॒ । इ॒मा । दा॒त॒म् । अ॒भिष्ट॑ये ॥

    आ । नः । गन्तम् । रिशादसा । इमम् । स्तोमम् । पुरुऽभुजा ।
    कृतम् । नः । सुऽश्रियः । नरा । इमा । दातम् । अभिष्टये ॥

    ā́ ǀ naḥ ǀ gantam ǀ riśādasā ǀ imám ǀ stómam ǀ puru-bhujā ǀ
    kṛtám ǀ naḥ ǀ su-śríyaḥ ǀ narā ǀ imā́ ǀ dātam ǀ abhíṣṭaye ǁ

    ā ǀ naḥ ǀ gantam ǀ riśādasā ǀ imam ǀ stomam ǀ puru-bhujā ǀ
    kṛtam ǀ naḥ ǀ su-śriyaḥ ǀ narā ǀ imā ǀ dātam ǀ abhiṣṭaye ǁ

    8.8.17 Aṣṭaka 5.8.28.2Anuvāka 8.2.101

  18. Ṛk 18

    आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।
    राजं॑तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥

    आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत |
    राजन्ताव् अध्वराणाम् अश्विना यामहूतिषु ||

    ā́ vām víśvābhirūtíbhiḥ priyámedhā ahūṣata ǀ
    rā́jantāvadhvarā́ṇāmáśvinā yā́mahūtiṣu ǁ

    ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata |
    rājantāv adhvarāṇām aśvinā yāmahūtiṣu ||

    आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।
    राज॑न्तौ । अ॒ध्व॒राणा॑म् । अश्वि॑ना । याम॑ऽहूतिषु ॥

    आ । वाम् । विश्वाभिः । ऊतिऽभिः । प्रियऽमेधाः । अहूषत ।
    राजन्तौ । अध्वराणाम् । अश्विना । यामऽहूतिषु ॥

    ā́ ǀ vām ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ priyá-medhāḥ ǀ ahūṣata ǀ
    rā́jantau ǀ adhvarā́ṇām ǀ áśvinā ǀ yā́ma-hūtiṣu ǁ

    ā ǀ vām ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ priya-medhāḥ ǀ ahūṣata ǀ
    rājantau ǀ adhvarāṇām ǀ aśvinā ǀ yāma-hūtiṣu ǁ

    8.8.18 Aṣṭaka 5.8.28.3Anuvāka 8.2.102

  19. Ṛk 19

    आ नो॑ गंतं मयो॒भुवाश्वि॑ना शं॒भुवा॑ यु॒वं ।
    यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥

    आ नो गन्तम् मयोभुवाश्विना शम्भुवा युवम् |
    यो वां विपन्यू धीतिभिर् गीर्भिर् वत्सो अवीवृधत् ||

    ā́ no gantam mayobhúvā́śvinā śambhúvā yuvám ǀ
    yó vām vipanyū dhītíbhirgīrbhírvatsó ávīvṛdhat ǁ

    ā no gantam mayobhuvāśvinā śambhuvā yuvam |
    yo vāṃ vipanyū dhītibhir gīrbhir vatso avīvṛdhat ||

    आ । नः॒ । ग॒न्त॒म् । म॒यः॒ऽभुवा॑ । अश्वि॑ना । श॒म्ऽभुवा॑ । यु॒वम् ।
    यः । वा॒म् । वि॒ऽप॒न्यू॒ इति॑ । धी॒तिऽभिः॑ । गीः॒ऽभिः । व॒त्सः । अवी॑वृधत् ॥

    आ । नः । गन्तम् । मयःऽभुवा । अश्विना । शम्ऽभुवा । युवम् ।
    यः । वाम् । विऽपन्यू इति । धीतिऽभिः । गीःऽभिः । वत्सः । अवीवृधत् ॥

    ā́ ǀ naḥ ǀ gantam ǀ mayaḥ-bhúvā ǀ áśvinā ǀ śam-bhúvā ǀ yuvám ǀ
    yáḥ ǀ vām ǀ vi-panyū íti ǀ dhītí-bhiḥ ǀ gīḥ-bhíḥ ǀ vatsáḥ ǀ ávīvṛdhat ǁ

    ā ǀ naḥ ǀ gantam ǀ mayaḥ-bhuvā ǀ aśvinā ǀ śam-bhuvā ǀ yuvam ǀ
    yaḥ ǀ vām ǀ vi-panyū iti ǀ dhīti-bhiḥ ǀ gīḥ-bhiḥ ǀ vatsaḥ ǀ avīvṛdhat ǁ

    8.8.19 Aṣṭaka 5.8.28.4Anuvāka 8.2.103

  20. Ṛk 20

    याभिः॒ कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजं ।
    याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥

    याभिः कण्वम् मेधातिथिं याभिर् वशं दशव्रजम् |
    याभिर् गोशर्यम् आवतं ताभिर् नो ऽवतं नरा ||

    yā́bhiḥ káṇvam médhātithim yā́bhirváśam dáśavrajam ǀ
    yā́bhirgóśaryamā́vatam tā́bhirno’vatam narā ǁ

    yābhiḥ kaṇvam medhātithiṃ yābhir vaśaṃ daśavrajam |
    yābhir gośaryam āvataṃ tābhir no 'vataṃ narā ||

    याभिः॑ । कण्व॑म् । मेध॑ऽअतिथिम् । याभिः॑ । वश॑म् । दश॑ऽव्रजम् ।
    याभिः॑ । गोऽश॑र्यम् । आव॑तम् । ताभिः॑ । नः॒ । अ॒व॒त॒म् । न॒रा॒ ॥

    याभिः । कण्वम् । मेधऽअतिथिम् । याभिः । वशम् । दशऽव्रजम् ।
    याभिः । गोऽशर्यम् । आवतम् । ताभिः । नः । अवतम् । नरा ॥

    yā́bhiḥ ǀ káṇvam ǀ médha-atithim ǀ yā́bhiḥ ǀ váśam ǀ dáśa-vrajam ǀ
    yā́bhiḥ ǀ gó-śaryam ǀ ā́vatam ǀ tā́bhiḥ ǀ naḥ ǀ avatam ǀ narā ǁ

    yābhiḥ ǀ kaṇvam ǀ medha-atithim ǀ yābhiḥ ǀ vaśam ǀ daśa-vrajam ǀ
    yābhiḥ ǀ go-śaryam ǀ āvatam ǀ tābhiḥ ǀ naḥ ǀ avatam ǀ narā ǁ

    8.8.20 Aṣṭaka 5.8.28.5Anuvāka 8.2.104

  21. Ṛk 21

    याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ ।
    ताभिः॒ ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥

    याभिर् नरा त्रसदस्युम् आवतं कृत्व्ये धने |
    ताभिः ष्व् अस्मां अश्विना प्रावतं वाजसातये ||

    yā́bhirnarā trasádasyumā́vatam kṛ́tvye dháne ǀ
    tā́bhiḥ ṣvásmā́m̐ aśvinā prā́vatam vā́jasātaye ǁ

    yābhir narā trasadasyum āvataṃ kṛtvye dhane |
    tābhiḥ ṣv asmāṃ aśvinā prāvataṃ vājasātaye ||

    याभिः॑ । न॒रा॒ । त्र॒सद॑स्युम् । आव॑तम् । कृत्व्ये॑ । धने॑ ।
    ताभिः॑ । सु । अ॒स्मान् । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । वाज॑ऽसातये ॥

    याभिः । नरा । त्रसदस्युम् । आवतम् । कृत्व्ये । धने ।
    ताभिः । सु । अस्मान् । अश्विना । प्र । अवतम् । वाजऽसातये ॥

    yā́bhiḥ ǀ narā ǀ trasádasyum ǀ ā́vatam ǀ kṛ́tvye ǀ dháne ǀ
    tā́bhiḥ ǀ sú ǀ asmā́n ǀ aśvinā ǀ prá ǀ avatam ǀ vā́ja-sātaye ǁ

    yābhiḥ ǀ narā ǀ trasadasyum ǀ āvatam ǀ kṛtvye ǀ dhane ǀ
    tābhiḥ ǀ su ǀ asmān ǀ aśvinā ǀ pra ǀ avatam ǀ vāja-sātaye ǁ

    8.8.21 Aṣṭaka 5.8.29.1Anuvāka 8.2.105

  22. Ṛk 22

    प्र वां॒ स्तोमाः॑ सुवृ॒क्तयो॒ गिरो॑ वर्धंत्वश्विना ।
    पुरु॑त्रा॒ वृत्र॑हंतमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥

    प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्व् अश्विना |
    पुरुत्रा वृत्रहन्तमा ता नो भूतम् पुरुस्पृहा ||

    prá vām stómāḥ suvṛktáyo gíro vardhantvaśvinā ǀ
    púrutrā vṛ́trahantamā tā́ no bhūtam puruspṛ́hā ǁ

    pra vāṃ stomāḥ suvṛktayo giro vardhantv aśvinā |
    purutrā vṛtrahantamā tā no bhūtam puruspṛhā ||

    प्र । वा॒म् । स्तोमाः॑ । सु॒ऽवृ॒क्तयः॑ । गिरः॑ । व॒र्ध॒न्तु॒ । अ॒श्वि॒ना॒ ।
    पुरु॑ऽत्रा । वृत्र॑हन्ऽतमा । ता । नः॒ । भू॒त॒म् । पु॒रु॒ऽस्पृहा॑ ॥

    प्र । वाम् । स्तोमाः । सुऽवृक्तयः । गिरः । वर्धन्तु । अश्विना ।
    पुरुऽत्रा । वृत्रहन्ऽतमा । ता । नः । भूतम् । पुरुऽस्पृहा ॥

    prá ǀ vām ǀ stómāḥ ǀ su-vṛktáyaḥ ǀ gíraḥ ǀ vardhantu ǀ aśvinā ǀ
    púru-trā ǀ vṛ́trahan-tamā ǀ tā́ ǀ naḥ ǀ bhūtam ǀ puru-spṛ́hā ǁ

    pra ǀ vām ǀ stomāḥ ǀ su-vṛktayaḥ ǀ giraḥ ǀ vardhantu ǀ aśvinā ǀ
    puru-trā ǀ vṛtrahan-tamā ǀ tā ǀ naḥ ǀ bhūtam ǀ puru-spṛhā ǁ

    8.8.22 Aṣṭaka 5.8.29.2Anuvāka 8.2.106

  23. Ṛk 23

    त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सांति॒ गुहा॑ प॒रः ।
    क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥

    त्रीणि पदान्य् अश्विनोर् आविः सान्ति गुहा परः |
    कवी ऋतस्य पत्मभिर् अर्वाग् जीवेभ्यस् परि ||

    trī́ṇi padā́nyaśvínorāvíḥ sā́nti gúhā paráḥ ǀ
    kavī́ ṛtásya pátmabhirarvā́gjīvébhyaspári ǁ

    trīṇi padāny aśvinor āviḥ sānti guhā paraḥ |
    kavī ṛtasya patmabhir arvāg jīvebhyas pari ||

    त्रीणि॑ । प॒दानि॑ । अ॒श्विनोः॑ । आ॒विः । सन्ति॑ । गुहा॑ । प॒रः ।
    क॒वी इति॑ । ऋ॒तस्य॑ । पत्म॑ऽभिः । अ॒र्वाक् । जी॒वेभ्यः॑ । परि॑ ॥

    त्रीणि । पदानि । अश्विनोः । आविः । सन्ति । गुहा । परः ।
    कवी इति । ऋतस्य । पत्मऽभिः । अर्वाक् । जीवेभ्यः । परि ॥

    trī́ṇi ǀ padā́ni ǀ aśvínoḥ ǀ āvíḥ ǀ sánti ǀ gúhā ǀ paráḥ ǀ
    kavī́ íti ǀ ṛtásya ǀ pátma-bhiḥ ǀ arvā́k ǀ jīvébhyaḥ ǀ pári ǁ

    trīṇi ǀ padāni ǀ aśvinoḥ ǀ āviḥ ǀ santi ǀ guhā ǀ paraḥ ǀ
    kavī iti ǀ ṛtasya ǀ patma-bhiḥ ǀ arvāk ǀ jīvebhyaḥ ǀ pari ǁ

    8.8.23 Aṣṭaka 5.8.29.3Anuvāka 8.2.107

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.8 · Aśvins

Interpretations

Ralph T. H. Griffith

Ṛk 1

WITH all the succours that are yours, O Aśvins, hither come to us: Wonderful, borne on paths of gold, drink ye the meath with Soma juice.

Ṛk 2

Come now, ye Aśvins, on your car decked with a sun-bright canopy, Bountiful, with your golden forms, Sages with depth of intellect.

Ṛk 3

Come hither from the Nahusas, come, drawn by pure hymns, from mid-air. O Aśvins, drink the savoury juice shed in the Kaṇvas' sacrifice.

Ṛk 4

Come to us hither from the heavens, come from mid-air, well-loved by us: Here Kaṇva's son hath pressed for you the pleasant meath of Soma juice.

Ṛk 5

Come, Aśvins, to give car to us, to drink the Soma, Aśvins, come. Hail, Strengtheners of the praise-song speed onward, ye Heroes, with your thoughts.

Ṛk 6

As, Heroes, in the olden time the Ṛṣis called you to their aid, So now, O Aśvins, come to us, come near to this mine eulogy.

Ṛk 7

Even from the luminous sphere of heaven come to us, ye who find the light, Carers for Vatsa, through our prayers and lauds, O yewho hearour call.

Ṛk 8

Do others more than we adore the Aśvins with their hymns of praise? The Ṛṣi Vatsa, Kaṇva's son, hath magnified you with his songs.

Ṛk 9

The holy singer with his hymns hath called you, Aśvins, hither-ward; Best Vṛtra-slayers, free from stain, as such bring us felicity.

Ṛk 10

What time, ye Lords of ample wealth, the Lady mounted on your car, Then, O ye Aśvins, ye attained all wishes that your hearts desired.

Ṛk 11

Come thence, O Aśvins, on your car that hath a thousand ornaments: Vatsa the sage, the sage's son, hath sung a song of sweets to you.

Ṛk 12

Cheerers of many, rich in goods, discoverers of opulence, The Aśvins, Riders through the sky, have welcomed this my song of praise.

Ṛk 13

O Aśvins, grant us all rich gifts wherewith no man mav interfere. Make us observe the stated times: give us not over to reproach.

Ṛk 14

Whether, Nāsatyas, ye be nigh, or whether ye be far away, Come thence, O Aśvins, on your car that hath a thousand ornaments.

Ṛk 15

Vatsa the Ṛṣi with his songs, Nāsatyas, hath exalted you: Grant him rich food distilling oil, graced with a thousand ornaments.

Ṛk 16

Bestow on him, O Aśvins, food that strengthens, and that drops with oil, On him who praises you for bliss, and, Lords of bounty, prays for wealth.

Ṛk 17

Come to us, ye who slay the foe, Lords of rich treasure, to this hymn. O Heroes, give us high renown and these good things of earth for help.

Ṛk 18

The Priyamedhas have invoked you with all succours that are yours, You, Aśvins, Lords of solemn rites, with calls entreating you to come.

Ṛk 19

Come to us, Aśvins, ye Who bring felicity, auspicious Ones, To Vatsa who with prayer and hymn, lovers of song, hath honoured you.

Ṛk 20

Aid us, O Heroes, for those hymns for which ye helped GoSarya erst, Gave Vaśa, Dasavraja aid, and Kaṇva and Medhatithi:

Ṛk 21

And favoured Trasadasyu, ye Heroes, in spoil-deciding fray: For these, O Aśvins, graciously assist us in acquiring strength.

Ṛk 22

O Aśvins, may pure hymns of ours, and songs and praises, honour you: Best slayers everywhere of foes, as such we fondly yearn for you.