Sūkta 36
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Śakvarī, Mahāpaṅkti
Metres by ṛk
1st set of styles śakvarī (1, 5, 6); nicṛcchakvarī (2, 4); virāṭśakvarī (3); virāḍjagatī (7)
2nd set of styles śakvarī (1-6); mahāpaṅkti (7)
-
Ṛk 1
अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिषः॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमम् मदाय कं शतक्रतो |
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ||avitā́si sunvató vṛktábarhiṣaḥ píbā sómam mádāya kám śatakrato ǀ
yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁavitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṃ śatakrato |
yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||अ॒वि॒ता । अ॒सि॒ । सु॒न्व॒तः । वृ॒क्तऽब॑र्हिषः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥अविता । असि । सुन्वतः । वृक्तऽबर्हिषः । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥avitā́ ǀ asi ǀ sunvatáḥ ǀ vṛktá-barhiṣaḥ ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ
yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁavitā ǀ asi ǀ sunvataḥ ǀ vṛkta-barhiṣaḥ ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ
yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ8.36.1 Aṣṭaka 6.3.18.1Anuvāka 8.5.110
-
Ṛk 2
प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥प्राव स्तोतारम् मघवन्न् अव त्वाम् पिबा सोमम् मदाय कं शतक्रतो |
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ||prā́va stotā́ram maghavannáva tvā́m píbā sómam mádāya kám śatakrato ǀ
yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁprāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato |
yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||प्र । अ॒व॒ । स्तो॒तार॑म् । म॒घ॒ऽव॒न् । अव॑ । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥प्र । अव । स्तोतारम् । मघऽवन् । अव । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥prá ǀ ava ǀ stotā́ram ǀ magha-van ǀ áva ǀ tvā́m ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ
yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁpra ǀ ava ǀ stotāram ǀ magha-van ǀ ava ǀ tvām ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ
yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ8.36.2 Aṣṭaka 6.3.18.2Anuvāka 8.5.111
-
Ṛk 3
ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥ऊर्जा देवां अवस्य् ओजसा त्वाम् पिबा सोमम् मदाय कं शतक्रतो |
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ||ūrjā́ devā́m̐ ávasyójasā tvā́m píbā sómam mádāya kám śatakrato ǀ
yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁūrjā devāṃ avasy ojasā tvām pibā somam madāya kaṃ śatakrato |
yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||ऊ॒र्जा । दे॒वान् । अव॑सि । ओज॑सा । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥ऊर्जा । देवान् । अवसि । ओजसा । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥ūrjā́ ǀ devā́n ǀ ávasi ǀ ójasā ǀ tvā́m ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ
yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁūrjā ǀ devān ǀ avasi ǀ ojasā ǀ tvām ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ
yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ8.36.3 Aṣṭaka 6.3.18.3Anuvāka 8.5.112
-
Ṛk 4
ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥जनिता दिवो जनिता पृथिव्याः पिबा सोमम् मदाय कं शतक्रतो |
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ||janitā́ divó janitā́ pṛthivyā́ḥ píbā sómam mádāya kám śatakrato ǀ
yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁjanitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato |
yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||ज॒नि॒ता । दि॒वः । ज॒नि॒ता । पृ॒थि॒व्याः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥जनिता । दिवः । जनिता । पृथिव्याः । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥janitā́ ǀ diváḥ ǀ janitā́ ǀ pṛthivyā́ḥ ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ
yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁjanitā ǀ divaḥ ǀ janitā ǀ pṛthivyāḥ ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ
yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ8.36.4 Aṣṭaka 6.3.18.4Anuvāka 8.5.113
-
Ṛk 5
ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥जनिताश्वानां जनिता गवाम् असि पिबा सोमम् मदाय कं शतक्रतो |
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ||janitā́śvānām janitā́ gávāmasi píbā sómam mádāya kám śatakrato ǀ
yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁjanitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato |
yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||ज॒नि॒ता । अश्वा॑नाम् । ज॒नि॒ता । गवा॑म् । अ॒सि॒ । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥जनिता । अश्वानाम् । जनिता । गवाम् । असि । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥janitā́ ǀ áśvānām ǀ janitā́ ǀ gávām ǀ asi ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ
yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁjanitā ǀ aśvānām ǀ janitā ǀ gavām ǀ asi ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ
yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ8.36.5 Aṣṭaka 6.3.18.5Anuvāka 8.5.114
-
Ṛk 6
अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
यं ते॑ भा॒गमधा॑रय॒न्विश्वाः॑ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इंद्र सत्पते ॥अत्रीणां स्तोमम् अद्रिवो महस् कृधि पिबा सोमम् मदाय कं शतक्रतो |
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वां इन्द्र सत्पते ||átrīṇām stómamadrivo maháskṛdhi píbā sómam mádāya kám śatakrato ǀ
yám te bhāgámádhārayanvíśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sámapsujínmarútvām̐ indra satpate ǁatrīṇāṃ stomam adrivo mahas kṛdhi pibā somam madāya kaṃ śatakrato |
yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṃ indra satpate ||अत्री॑णाम् । स्तोम॑म् । अ॒द्रि॒ऽवः॒ । म॒हः । कृ॒धि॒ । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥अत्रीणाम् । स्तोमम् । अद्रिऽवः । महः । कृधि । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतऽक्रतो ।
यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुऽजित् । मरुत्वान् । इन्द्र । सत्ऽपते ॥átrīṇām ǀ stómam ǀ adri-vaḥ ǀ maháḥ ǀ kṛdhi ǀ píba ǀ sómam ǀ mádāya ǀ kám ǀ śatakrato íti śata-krato ǀ
yám ǀ te ǀ bhāgám ǀ ádhārayan ǀ víśvāḥ ǀ sehānáḥ ǀ pṛ́tanāḥ ǀ urú ǀ jráyaḥ ǀ sám ǀ apsu-jít ǀ marútvān ǀ indra ǀ sat-pate ǁatrīṇām ǀ stomam ǀ adri-vaḥ ǀ mahaḥ ǀ kṛdhi ǀ piba ǀ somam ǀ madāya ǀ kam ǀ śatakrato iti śata-krato ǀ
yam ǀ te ǀ bhāgam ǀ adhārayan ǀ viśvāḥ ǀ sehānaḥ ǀ pṛtanāḥ ǀ uru ǀ jrayaḥ ǀ sam ǀ apsu-jit ǀ marutvān ǀ indra ǀ sat-pate ǁ8.36.6 Aṣṭaka 6.3.18.6Anuvāka 8.5.115
-
Ṛk 7
श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः ।
प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इंद्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥श्यावाश्वस्य सुन्वतस् तथा शृणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः |
प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ||śyāvā́śvasya sunvatástáthā śṛṇu yáthā́śṛṇorátreḥ kármāṇi kṛṇvatáḥ ǀ
prá trasádasyumāvitha tváméka ínnṛṣā́hya índra bráhmāṇi vardháyan ǁśyāvāśvasya sunvatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ |
pra trasadasyum āvitha tvam eka in nṛṣāhya indra brahmāṇi vardhayan ||श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । तथा॑ । शृ॒णु॒ । यथा॑ । अशृ॑णोः । अत्रेः॑ । कर्मा॑णि । कृ॒ण्व॒तः ।
प्र । त्र॒सद॑स्युम् । आ॒वि॒थ॒ । त्वम् । एकः॑ । इत् । नृ॒ऽसह्ये॑ । इन्द्र॑ । ब्रह्मा॑णि । व॒र्धय॑न् ॥श्यावऽअश्वस्य । सुन्वतः । तथा । शृणु । यथा । अशृणोः । अत्रेः । कर्माणि । कृण्वतः ।
प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृऽसह्ये । इन्द्र । ब्रह्माणि । वर्धयन् ॥śyāvá-aśvasya ǀ sunvatáḥ ǀ táthā ǀ śṛṇu ǀ yáthā ǀ áśṛṇoḥ ǀ átreḥ ǀ kármāṇi ǀ kṛṇvatáḥ ǀ
prá ǀ trasádasyum ǀ āvitha ǀ tvám ǀ ékaḥ ǀ ít ǀ nṛ-sáhye ǀ índra ǀ bráhmāṇi ǀ vardháyan ǁśyāva-aśvasya ǀ sunvataḥ ǀ tathā ǀ śṛṇu ǀ yathā ǀ aśṛṇoḥ ǀ atreḥ ǀ karmāṇi ǀ kṛṇvataḥ ǀ
pra ǀ trasadasyum ǀ āvitha ǀ tvam ǀ ekaḥ ǀ it ǀ nṛ-sahye ǀ indra ǀ brahmāṇi ǀ vardhayan ǁ8.36.7 Aṣṭaka 6.3.18.7Anuvāka 8.5.116
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.