Ṛgveda · Maṇḍala 8 · Sūkta 36

Ṛk 8.36.7

Indra · Śyāvāśva Ātreya

The whole sūkta Link

Saṃhitā

श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः ।
प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इंद्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥

श्यावाश्वस्य सुन्वतस् तथा शृणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः |
प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ||

śyāvā́śvasya sunvatástáthā śṛṇu yáthā́śṛṇorátreḥ kármāṇi kṛṇvatáḥ ǀ
prá trasádasyumāvitha tváméka ínnṛṣā́hya índra bráhmāṇi vardháyan ǁ

śyāvāśvasya sunvatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ |
pra trasadasyum āvitha tvam eka in nṛṣāhya indra brahmāṇi vardhayan ||

Padapāṭha

श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । तथा॑ । शृ॒णु॒ । यथा॑ । अशृ॑णोः । अत्रेः॑ । कर्मा॑णि । कृ॒ण्व॒तः ।
प्र । त्र॒सद॑स्युम् । आ॒वि॒थ॒ । त्वम् । एकः॑ । इत् । नृ॒ऽसह्ये॑ । इन्द्र॑ । ब्रह्मा॑णि । व॒र्धय॑न् ॥

श्यावऽअश्वस्य । सुन्वतः । तथा । शृणु । यथा । अशृणोः । अत्रेः । कर्माणि । कृण्वतः ।
प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृऽसह्ये । इन्द्र । ब्रह्माणि । वर्धयन् ॥

śyāvá-aśvasya ǀ sunvatáḥ ǀ táthā ǀ śṛṇu ǀ yáthā ǀ áśṛṇoḥ ǀ átreḥ ǀ kármāṇi ǀ kṛṇvatáḥ ǀ
prá ǀ trasádasyum ǀ āvitha ǀ tvám ǀ ékaḥ ǀ ít ǀ nṛ-sáhye ǀ índra ǀ bráhmāṇi ǀ vardháyan ǁ

śyāva-aśvasya ǀ sunvataḥ ǀ tathā ǀ śṛṇu ǀ yathā ǀ aśṛṇoḥ ǀ atreḥ ǀ karmāṇi ǀ kṛṇvataḥ ǀ
pra ǀ trasadasyum ǀ āvitha ǀ tvam ǀ ekaḥ ǀ it ǀ nṛ-sahye ǀ indra ǀ brahmāṇi ǀ vardhayan ǁ

References

Maṇḍala · Sūkta · Ṛk
08.036.07
Aṣṭaka · Adhyāya · Varga · Ṛk
6.3.18.07
Maṇḍala · Anuvāka · Ṛk
08.05.116
Devatā देवता
Indra
Ṛṣi ऋषि
Śyāvāśva Ātreya
Chandas छन्दस्
Śakvarī, Mahāpaṅkti
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.36.7

Interpretations

Sāyaṇa

प्रेदंब्रह्मेति सप्तर्चं सप्तमं सूक्तं आत्रेयस्य श्यावाश्वस्यार्षं आद्या द्वापञ्चाशदक्षरा अतिजगतं शिष्टाः षडृचः षडष्टका महापङ्तयः । इन्द्रोदेवता । तथाचानुक्रान्तम्-प्रेदंमहापाङ्तमाद्यातिजगतीति । महाव्रते निष्केवल्येएतत्सूक्तम् । तथाच सूत्रम्-प्रेदंब्रह्मेन्द्रोमदायेति ।