Sūkta 61
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharga Pragātha
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles nicṛdbṛhatī (1, 5, 11, 15); paṅktiḥ (2, 4, 10); virāṭpaṅkti (6, 14, 16); nicṛtpaṅkti (8, 12, 18); virāḍbṛhatī (3, 9); pādnicṛdbṛhatī (7, 17); bṛhatī (13)
2nd set of styles bṛhatī (1, 3, 5, 7, 9, 11, 13, 15, 17); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18)
-
Ṛk 1
उ॒भयं॑ शृ॒णव॑च्च न॒ इंद्रो॑ अ॒र्वागि॒दं वचः॑ ।
स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥उभयं शृणवच् च न इन्द्रो अर्वाग् इदं वचः |
सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ||ubháyam śṛṇávacca na índro arvā́gidám vácaḥ ǀ
satrā́cyā maghávā sómapītaye dhiyā́ śáviṣṭha ā́ gamat ǁubhayaṃ śṛṇavac ca na indro arvāg idaṃ vacaḥ |
satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat ||उ॒भय॑म् । शृ॒णव॑त् । च॒ । नः॒ । इन्द्रः॑ । अ॒र्वाक् । इ॒दम् । वचः॑ ।
स॒त्राच्या॑ । म॒घऽवा॑ । सोम॑ऽपीतये । धि॒या । शवि॑ष्ठः । आ । ग॒म॒त् ॥उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः ।
सत्राच्या । मघऽवा । सोमऽपीतये । धिया । शविष्ठः । आ । गमत् ॥ubháyam ǀ śṛṇávat ǀ ca ǀ naḥ ǀ índraḥ ǀ arvā́k ǀ idám ǀ vácaḥ ǀ
satrā́cyā ǀ maghá-vā ǀ sóma-pītaye ǀ dhiyā́ ǀ śáviṣṭhaḥ ǀ ā́ ǀ gamat ǁubhayam ǀ śṛṇavat ǀ ca ǀ naḥ ǀ indraḥ ǀ arvāk ǀ idam ǀ vacaḥ ǀ
satrācyā ǀ magha-vā ǀ soma-pītaye ǀ dhiyā ǀ śaviṣṭhaḥ ǀ ā ǀ gamat ǁ8.61.1 Aṣṭaka 6.4.36.1Anuvāka 8.7.21
-
Ṛk 2
तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑ ।
उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥तं हि स्वराजं वृषभं तम् ओजसे धिषणे निष्टतक्षतुः |
उतोपमानाम् प्रथमो नि षीदसि सोमकामं हि ते मनः ||tám hí svarā́jam vṛṣabhám támójase dhiṣáṇe niṣṭatakṣátuḥ ǀ
utópamā́nām prathamó ní ṣīdasi sómakāmam hí te mánaḥ ǁtaṃ hi svarājaṃ vṛṣabhaṃ tam ojase dhiṣaṇe niṣṭatakṣatuḥ |
utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ ||तम् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॒ इति॑ । निः॒ऽत॒त॒क्षतुः॑ ।
उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒मः । नि । सी॒द॒सि॒ । सोम॑ऽकामम् । हि । ते॒ । मनः॑ ॥तम् । हि । स्वऽराजम् । वृषभम् । तम् । ओजसे । धिषणे इति । निःऽततक्षतुः ।
उत । उपऽमानाम् । प्रथमः । नि । सीदसि । सोमऽकामम् । हि । ते । मनः ॥tám ǀ hí ǀ sva-rā́jam ǀ vṛṣabhám ǀ tám ǀ ójase ǀ dhiṣáṇe íti ǀ niḥ-tatakṣátuḥ ǀ
utá ǀ upa-mā́nām ǀ prathamáḥ ǀ ní ǀ sīdasi ǀ sóma-kāmam ǀ hí ǀ te ǀ mánaḥ ǁtam ǀ hi ǀ sva-rājam ǀ vṛṣabham ǀ tam ǀ ojase ǀ dhiṣaṇe iti ǀ niḥ-tatakṣatuḥ ǀ
uta ǀ upa-mānām ǀ prathamaḥ ǀ ni ǀ sīdasi ǀ soma-kāmam ǀ hi ǀ te ǀ manaḥ ǁ8.61.2 Aṣṭaka 6.4.36.2Anuvāka 8.7.22
-
Ṛk 3
आ वृ॑षस्व पुरूवसो सु॒तस्यें॒द्रांध॑सः ।
वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणिं॑ ॥आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः |
विद्मा हि त्वा हरिवः पृत्सु सासहिम् अधृष्टं चिद् दधृष्वणिम् ||ā́ vṛṣasva purūvaso sutásyendrā́ndhasaḥ ǀ
vidmā́ hí tvā harivaḥ pṛtsú sāsahímádhṛṣṭam ciddadhṛṣváṇim ǁā vṛṣasva purūvaso sutasyendrāndhasaḥ |
vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṃ cid dadhṛṣvaṇim ||आ । वृ॒ष॒स्व॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । सु॒तस्य॑ । इ॒न्द्र॒ । अन्ध॑सः ।
वि॒द्म । हि । त्वा॒ । ह॒रि॒ऽवः॒ । पृ॒त्ऽसु । स॒स॒हिम् । अधृ॑ष्टम् । चि॒त् । द॒धृ॒ष्वणि॑म् ॥आ । वृषस्व । पुरुवसो इति पुरुऽवसो । सुतस्य । इन्द्र । अन्धसः ।
विद्म । हि । त्वा । हरिऽवः । पृत्ऽसु । ससहिम् । अधृष्टम् । चित् । दधृष्वणिम् ॥ā́ ǀ vṛṣasva ǀ puruvaso íti puru-vaso ǀ sutásya ǀ indra ǀ ándhasaḥ ǀ
vidmá ǀ hí ǀ tvā ǀ hari-vaḥ ǀ pṛt-sú ǀ sasahím ǀ ádhṛṣṭam ǀ cit ǀ dadhṛṣváṇim ǁā ǀ vṛṣasva ǀ puruvaso iti puru-vaso ǀ sutasya ǀ indra ǀ andhasaḥ ǀ
vidma ǀ hi ǀ tvā ǀ hari-vaḥ ǀ pṛt-su ǀ sasahim ǀ adhṛṣṭam ǀ cit ǀ dadhṛṣvaṇim ǁ8.61.3 Aṣṭaka 6.4.36.3Anuvāka 8.7.23
-
Ṛk 4
अप्रा॑मिसत्य मघवं॒तथेद॑स॒दिंद्र॒ क्रत्वा॒ यथा॒ वशः॑ ।
स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यंतो॑ अद्रिवः ॥अप्रामिसत्य मघवन् तथेद् असद् इन्द्र क्रत्वा यथा वशः |
सनेम वाजं तव शिप्रिन्न् अवसा मक्षू चिद् यन्तो अद्रिवः ||áprāmisatya maghavantáthédasadíndra krátvā yáthā váśaḥ ǀ
sanéma vā́jam táva śiprinnávasā makṣū́ cidyánto adrivaḥ ǁaprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ |
sanema vājaṃ tava śiprinn avasā makṣū cid yanto adrivaḥ ||अप्रा॑मिऽसत्य । म॒घ॒ऽव॒न् । तथा॑ । इत् । अ॒स॒त् । इन्द्र॑ । क्रत्वा॑ । यथा॑ । वशः॑ ।
स॒नेम॑ । वाज॑म् । तव॑ । शि॒प्रि॒न् । अव॑सा । म॒क्षु । चि॒त् । यन्तः॑ । अ॒द्रि॒ऽवः॒ ॥अप्रामिऽसत्य । मघऽवन् । तथा । इत् । असत् । इन्द्र । क्रत्वा । यथा । वशः ।
सनेम । वाजम् । तव । शिप्रिन् । अवसा । मक्षु । चित् । यन्तः । अद्रिऽवः ॥áprāmi-satya ǀ magha-van ǀ táthā ǀ ít ǀ asat ǀ índra ǀ krátvā ǀ yáthā ǀ váśaḥ ǀ
sanéma ǀ vā́jam ǀ táva ǀ śiprin ǀ ávasā ǀ makṣú ǀ cit ǀ yántaḥ ǀ adri-vaḥ ǁaprāmi-satya ǀ magha-van ǀ tathā ǀ it ǀ asat ǀ indra ǀ kratvā ǀ yathā ǀ vaśaḥ ǀ
sanema ǀ vājam ǀ tava ǀ śiprin ǀ avasā ǀ makṣu ǀ cit ǀ yantaḥ ǀ adri-vaḥ ǁ8.61.4 Aṣṭaka 6.4.36.4Anuvāka 8.7.24
-
Ṛk 5
श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ ।
भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥शग्ध्य् ऊ षु शचीपत इन्द्र विश्वाभिर् ऊतिभिः |
भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि ||śagdhyū́ ṣú śacīpata índra víśvābhirūtíbhiḥ ǀ
bhágam ná hí tvā yaśásam vasuvídamánu śūra cárāmasi ǁśagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ |
bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi ||श॒ग्धि । ऊं॒ इति॑ । सु । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
भग॑म् । न । हि । त्वा॒ । य॒शस॑म् । व॒सु॒ऽविद॑म् । अनु॑ । शू॒र॒ । चरा॑मसि ॥शग्धि । ऊं इति । सु । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।
भगम् । न । हि । त्वा । यशसम् । वसुऽविदम् । अनु । शूर । चरामसि ॥śagdhí ǀ ūṃ íti ǀ sú ǀ śacī-pate ǀ índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ
bhágam ǀ ná ǀ hí ǀ tvā ǀ yaśásam ǀ vasu-vídam ǀ ánu ǀ śūra ǀ cárāmasi ǁśagdhi ǀ ūṃ iti ǀ su ǀ śacī-pate ǀ indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ
bhagam ǀ na ǀ hi ǀ tvā ǀ yaśasam ǀ vasu-vidam ǀ anu ǀ śūra ǀ carāmasi ǁ8.61.5 Aṣṭaka 6.4.36.5Anuvāka 8.7.25
-
Ṛk 6
पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑ ।
नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः |
नकिर् हि दानम् परिमर्धिषत् त्वे यद्-यद् यामि तद् आ भर ||pauró áśvasya purukṛ́dgávāmasyútso deva hiraṇyáyaḥ ǀ
nákirhí dā́nam parimárdhiṣattvé yádyadyā́mi tádā́ bhara ǁpauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ |
nakir hi dānam parimardhiṣat tve yad-yad yāmi tad ā bhara ||पौ॒रः । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ ।
नकिः॑ । हि । दान॑म् । प॒रि॒ऽमर्धि॑षत् । त्वे इति॑ । यत्ऽय॑त् । यामि॑ । तत् । आ । भ॒र॒ ॥पौरः । अश्वस्य । पुरुऽकृत् । गवाम् । असि । उत्सः । देव । हिरण्ययः ।
नकिः । हि । दानम् । परिऽमर्धिषत् । त्वे इति । यत्ऽयत् । यामि । तत् । आ । भर ॥pauráḥ ǀ áśvasya ǀ puru-kṛ́t ǀ gávām ǀ asi ǀ útsaḥ ǀ deva ǀ hiraṇyáyaḥ ǀ
nákiḥ ǀ hí ǀ dā́nam ǀ pari-márdhiṣat ǀ tvé íti ǀ yát-yat ǀ yā́mi ǀ tát ǀ ā́ ǀ bhara ǁpauraḥ ǀ aśvasya ǀ puru-kṛt ǀ gavām ǀ asi ǀ utsaḥ ǀ deva ǀ hiraṇyayaḥ ǀ
nakiḥ ǀ hi ǀ dānam ǀ pari-mardhiṣat ǀ tve iti ǀ yat-yat ǀ yāmi ǀ tat ǀ ā ǀ bhara ǁ8.61.6 Aṣṭaka 6.4.37.1Anuvāka 8.7.26
-
Ṛk 7
त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये ।
उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदिं॒द्राश्व॑मिष्टये ॥त्वं ह्य् एहि चेरवे विदा भगं वसुत्तये |
उद् वावृषस्व मघवन् गविष्टय उद् इन्द्राश्वमिष्टये ||tvám hyéhi cérave vidā́ bhágam vásuttaye ǀ
údvāvṛṣasva maghavangáviṣṭaya údindrā́śvamiṣṭaye ǁtvaṃ hy ehi cerave vidā bhagaṃ vasuttaye |
ud vāvṛṣasva maghavan gaviṣṭaya ud indrāśvamiṣṭaye ||त्वम् । हि । आ । इ॒हि॒ । चेर॑वे । वि॒दाः । भग॑म् । वसु॑त्तये ।
उत् । व॒वृ॒ष॒स्व॒ । म॒घ॒ऽव॒न् । गोऽइ॑ष्टये । उत् । इ॒न्द्र॒ । अश्व॑म्ऽइष्टये ॥त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये ।
उत् । ववृषस्व । मघऽवन् । गोऽइष्टये । उत् । इन्द्र । अश्वम्ऽइष्टये ॥tvám ǀ hí ǀ ā́ ǀ ihi ǀ cérave ǀ vidā́ḥ ǀ bhágam ǀ vásuttaye ǀ
út ǀ vavṛṣasva ǀ magha-van ǀ gó-iṣṭaye ǀ út ǀ indra ǀ áśvam-iṣṭaye ǁtvam ǀ hi ǀ ā ǀ ihi ǀ cerave ǀ vidāḥ ǀ bhagam ǀ vasuttaye ǀ
ut ǀ vavṛṣasva ǀ magha-van ǀ go-iṣṭaye ǀ ut ǀ indra ǀ aśvam-iṣṭaye ǁ8.61.7 Aṣṭaka 6.4.37.2Anuvāka 8.7.27
-
Ṛk 8
त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे ।
आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इंद्रं॒ गायं॒तोऽव॑से ॥त्वम् पुरू सहस्राणि शतानि च यूथा दानाय मंहसे |
आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तो ऽवसे ||tvám purū́ sahásrāṇi śatā́ni ca yūthā́ dānā́ya maṃhase ǀ
ā́ puraṃdarám cakṛma vípravacasa índram gā́yantó’vase ǁtvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase |
ā purandaraṃ cakṛma vipravacasa indraṃ gāyanto 'vase ||त्वम् । पु॒रु । स॒हस्रा॑णि । श॒तानि॑ । च॒ । यू॒था । दा॒नाय॑ । मं॒ह॒से॒ ।
आ । पु॒र॒म्ऽद॒रम् । च॒कृ॒म॒ । विप्र॑ऽवचसः । इन्द्र॑म् । गाय॑न्तः । अव॑से ॥त्वम् । पुरु । सहस्राणि । शतानि । च । यूथा । दानाय । मंहसे ।
आ । पुरम्ऽदरम् । चकृम । विप्रऽवचसः । इन्द्रम् । गायन्तः । अवसे ॥tvám ǀ purú ǀ sahásrāṇi ǀ śatā́ni ǀ ca ǀ yūthā́ ǀ dānā́ya ǀ maṃhase ǀ
ā́ ǀ puram-darám ǀ cakṛma ǀ vípra-vacasaḥ ǀ índram ǀ gā́yantaḥ ǀ ávase ǁtvam ǀ puru ǀ sahasrāṇi ǀ śatāni ǀ ca ǀ yūthā ǀ dānāya ǀ maṃhase ǀ
ā ǀ puram-daram ǀ cakṛma ǀ vipra-vacasaḥ ǀ indram ǀ gāyantaḥ ǀ avase ǁ8.61.8 Aṣṭaka 6.4.37.3Anuvāka 8.7.28
-
Ṛk 9
अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो॑ वेंद्र ते॒ वचः॑ ।
स प्र म॑मंदत्त्वा॒या श॑तक्रतो॒ प्राचा॑मन्यो॒ अहं॑सन ॥अविप्रो वा यद् अविधद् विप्रो वेन्द्र ते वचः |
स प्र ममन्दत् त्वाया शतक्रतो प्राचामन्यो अहंसन ||avipró vā yádávidhadvípro vendra te vácaḥ ǀ
sá prá mamandattvāyā́ śatakrato prā́cāmanyo áhaṃsana ǁavipro vā yad avidhad vipro vendra te vacaḥ |
sa pra mamandat tvāyā śatakrato prācāmanyo ahaṃsana ||अ॒वि॒प्रः । वा॒ । यत् । अवि॑धत् । विप्रः॑ । वा॒ । इ॒न्द्र॒ । ते॒ । वचः॑ ।
सः । प्र । म॒म॒न्द॒त् । त्वा॒ऽया । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । प्राचा॑मन्यो॒ इति॒ प्राचा॑ऽमन्यो । अह॑म्ऽसन ॥अविप्रः । वा । यत् । अविधत् । विप्रः । वा । इन्द्र । ते । वचः ।
सः । प्र । ममन्दत् । त्वाऽया । शतक्रतो इति शतऽक्रतो । प्राचामन्यो इति प्राचाऽमन्यो । अहम्ऽसन ॥avipráḥ ǀ vā ǀ yát ǀ ávidhat ǀ vípraḥ ǀ vā ǀ indra ǀ te ǀ vácaḥ ǀ
sáḥ ǀ prá ǀ mamandat ǀ tvā-yā́ ǀ śatakrato íti śata-krato ǀ prā́cāmanyo íti prā́cā-manyo ǀ áham-sana ǁavipraḥ ǀ vā ǀ yat ǀ avidhat ǀ vipraḥ ǀ vā ǀ indra ǀ te ǀ vacaḥ ǀ
saḥ ǀ pra ǀ mamandat ǀ tvā-yā ǀ śatakrato iti śata-krato ǀ prācāmanyo iti prācā-manyo ǀ aham-sana ǁ8.61.9 Aṣṭaka 6.4.37.4Anuvāka 8.7.29
-
Ṛk 10
उ॒ग्रबा॑हुर्म्रक्ष॒कृत्वा॑ पुरंद॒रो यदि॑ मे शृ॒णव॒द्धवं॑ ।
व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिंद्रं॑ हवामहे ॥उग्रबाहुर् म्रक्षकृत्वा पुरन्दरो यदि मे शृणवद् धवम् |
वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ||ugrábāhurmrakṣakṛ́tvā puraṃdaró yádi me śṛṇávaddhávam ǀ
vasūyávo vásupatim śatákratum stómairíndram havāmahe ǁugrabāhur mrakṣakṛtvā purandaro yadi me śṛṇavad dhavam |
vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe ||उ॒ग्रऽबा॑हुः । म्र॒क्ष॒ऽकृत्वा॑ । पु॒र॒म्ऽद॒रः । यदि॑ । मे॒ । शृ॒णव॑त् । हव॑म् ।
व॒सु॒ऽयवः॑ । वसु॑ऽपतिम् । श॒तऽक्र॑तुम् । स्तोमैः॑ । इन्द्र॑म् । ह॒वा॒म॒हे॒ ॥उग्रऽबाहुः । म्रक्षऽकृत्वा । पुरम्ऽदरः । यदि । मे । शृणवत् । हवम् ।
वसुऽयवः । वसुऽपतिम् । शतऽक्रतुम् । स्तोमैः । इन्द्रम् । हवामहे ॥ugrá-bāhuḥ ǀ mrakṣa-kṛ́tvā ǀ puram-daráḥ ǀ yádi ǀ me ǀ śṛṇávat ǀ hávam ǀ
vasu-yávaḥ ǀ vásu-patim ǀ śatá-kratum ǀ stómaiḥ ǀ índram ǀ havāmahe ǁugra-bāhuḥ ǀ mrakṣa-kṛtvā ǀ puram-daraḥ ǀ yadi ǀ me ǀ śṛṇavat ǀ havam ǀ
vasu-yavaḥ ǀ vasu-patim ǀ śata-kratum ǀ stomaiḥ ǀ indram ǀ havāmahe ǁ8.61.10 Aṣṭaka 6.4.37.5Anuvāka 8.7.30
-
Ṛk 11
न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः ।
यदिन्न्विंद्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥न पापासो मनामहे नारायासो न जऌहवः |
यद् इन् न्व् इन्द्रं वृषणं सचा सुते सखायं कृणवामहै ||ná pāpā́so manāmahe nā́rāyāso ná jáḷhavaḥ ǀ
yádínnvíndram vṛ́ṣaṇam sácā suté sákhāyam kṛṇávāmahai ǁna pāpāso manāmahe nārāyāso na jaḷhavaḥ |
yad in nv indraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai ||न । पा॒पासः॑ । म॒ना॒म॒हे॒ । न । अरा॑यासः । न । जळ्ह॑वः ।
यत् । इत् । नु । इन्द्र॑म् । वृष॑णम् । सचा॑ । सु॒ते । सखा॑यम् । कृ॒णवा॑महै ॥न । पापासः । मनामहे । न । अरायासः । न । जळ्हवः ।
यत् । इत् । नु । इन्द्रम् । वृषणम् । सचा । सुते । सखायम् । कृणवामहै ॥ná ǀ pāpā́saḥ ǀ manāmahe ǀ ná ǀ árāyāsaḥ ǀ ná ǀ jáḷhavaḥ ǀ
yát ǀ ít ǀ nú ǀ índram ǀ vṛ́ṣaṇam ǀ sácā ǀ suté ǀ sákhāyam ǀ kṛṇávāmahai ǁna ǀ pāpāsaḥ ǀ manāmahe ǀ na ǀ arāyāsaḥ ǀ na ǀ jaḷhavaḥ ǀ
yat ǀ it ǀ nu ǀ indram ǀ vṛṣaṇam ǀ sacā ǀ sute ǀ sakhāyam ǀ kṛṇavāmahai ǁ8.61.11 Aṣṭaka 6.4.38.1Anuvāka 8.7.31
-
Ṛk 12
उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यं ।
वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥उग्रं युयुज्म पृतनासु सासहिम् ऋणकातिम् अदाभ्यम् |
वेदा भृमं चित् सनिता रथीतमो वाजिनं यम् इद् ऊ नशत् ||ugrám yuyujma pṛ́tanāsu sāsahímṛṇákātimádābhyam ǀ
védā bhṛmám citsánitā rathī́tamo vājínam yámídū náśat ǁugraṃ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam |
vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yam id ū naśat ||उ॒ग्रम् । यु॒यु॒ज्म॒ । पृत॑नासु । स॒स॒हिम् । ऋ॒णऽका॑तिम् । अदा॑भ्यम् ।
वेद॑ । भृ॒मम् । चि॒त् । सनि॑ता । र॒थिऽत॑मः । वा॒जिन॑म् । यम् । इत् । ऊं॒ इति॑ । नश॑त् ॥उग्रम् । युयुज्म । पृतनासु । ससहिम् । ऋणऽकातिम् । अदाभ्यम् ।
वेद । भृमम् । चित् । सनिता । रथिऽतमः । वाजिनम् । यम् । इत् । ऊं इति । नशत् ॥ugrám ǀ yuyujma ǀ pṛ́tanāsu ǀ sasahím ǀ ṛṇá-kātim ǀ ádābhyam ǀ
véda ǀ bhṛmám ǀ cit ǀ sánitā ǀ rathí-tamaḥ ǀ vājínam ǀ yám ǀ ít ǀ ūṃ íti ǀ náśat ǁugram ǀ yuyujma ǀ pṛtanāsu ǀ sasahim ǀ ṛṇa-kātim ǀ adābhyam ǀ
veda ǀ bhṛmam ǀ cit ǀ sanitā ǀ rathi-tamaḥ ǀ vājinam ǀ yam ǀ it ǀ ūṃ iti ǀ naśat ǁ8.61.12 Aṣṭaka 6.4.38.2Anuvāka 8.7.32
-
Ṛk 13
यत॑ इंद्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वंछ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥यत इन्द्र भयामहे ततो नो अभयं कृधि |
मघवञ् छग्धि तव तन् न ऊतिभिर् वि द्विषो वि मृधो जहि ||yáta indra bháyāmahe táto no ábhayam kṛdhi ǀ
mághavañchagdhí táva tánna ūtíbhirví dvíṣo ví mṛ́dho jahi ǁyata indra bhayāmahe tato no abhayaṃ kṛdhi |
maghavañ chagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi ||यतः॑ । इ॒न्द्र॒ । भया॑महे । ततः॑ । नः॒ । अभ॑यम् । कृ॒धि॒ ।
मघ॑ऽवन् । श॒ग्धि । तव॑ । तम् । नः॒ । ऊ॒तिऽभिः॑ । वि । द्विषः॑ । वि । मृधः॑ । ज॒हि॒ ॥यतः । इन्द्र । भयामहे । ततः । नः । अभयम् । कृधि ।
मघऽवन् । शग्धि । तव । तम् । नः । ऊतिऽभिः । वि । द्विषः । वि । मृधः । जहि ॥yátaḥ ǀ indra ǀ bháyāmahe ǀ tátaḥ ǀ naḥ ǀ ábhayam ǀ kṛdhi ǀ
mágha-van ǀ śagdhí ǀ táva ǀ tám ǀ naḥ ǀ ūtí-bhiḥ ǀ ví ǀ dvíṣaḥ ǀ ví ǀ mṛ́dhaḥ ǀ jahi ǁyataḥ ǀ indra ǀ bhayāmahe ǀ tataḥ ǀ naḥ ǀ abhayam ǀ kṛdhi ǀ
magha-van ǀ śagdhi ǀ tava ǀ tam ǀ naḥ ǀ ūti-bhiḥ ǀ vi ǀ dviṣaḥ ǀ vi ǀ mṛdhaḥ ǀ jahi ǁ8.61.13 Aṣṭaka 6.4.38.3Anuvāka 8.7.33
-
Ṛk 14
त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः ।
तं त्वा॑ व॒यं म॑घवन्निंद्र गिर्वणः सु॒तावं॑तो हवामहे ॥त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः |
तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ||tvám hí rādhaspate rā́dhaso maháḥ kṣáyasyā́si vidhatáḥ ǀ
tám tvā vayám maghavannindra girvaṇaḥ sutā́vanto havāmahe ǁtvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ |
taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe ||त्वम् । हि । रा॒धः॒ऽप॒ते॒ । राध॑सः । म॒हः । क्षय॑स्य । असि॑ । वि॒ध॒तः ।
तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥त्वम् । हि । राधःऽपते । राधसः । महः । क्षयस्य । असि । विधतः ।
तम् । त्वा । वयम् । मघऽवन् । इन्द्र । गिर्वणः । सुतऽवन्तः । हवामहे ॥tvám ǀ hí ǀ rādhaḥ-pate ǀ rā́dhasaḥ ǀ maháḥ ǀ kṣáyasya ǀ ási ǀ vidhatáḥ ǀ
tám ǀ tvā ǀ vayám ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ sutá-vantaḥ ǀ havāmahe ǁtvam ǀ hi ǀ rādhaḥ-pate ǀ rādhasaḥ ǀ mahaḥ ǀ kṣayasya ǀ asi ǀ vidhataḥ ǀ
tam ǀ tvā ǀ vayam ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ suta-vantaḥ ǀ havāmahe ǁ8.61.14 Aṣṭaka 6.4.38.4Anuvāka 8.7.34
-
Ṛk 15
इंद्र॒ स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः ।
स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥इन्द्र स्पऌ उत वृत्रहा परस्पा नो वरेण्यः |
स नो रक्षिषच् चरमं स मध्यमं स पश्चात् पातु नः पुरः ||índra spáḷutá vṛtrahā́ paraspā́ no váreṇyaḥ ǀ
sá no rakṣiṣaccaramám sá madhyamám sá paścā́tpātu naḥ puráḥ ǁindra spaḷ uta vṛtrahā paraspā no vareṇyaḥ |
sa no rakṣiṣac caramaṃ sa madhyamaṃ sa paścāt pātu naḥ puraḥ ||इन्द्रः॑ । स्पट् । उ॒त । वृ॒त्र॒ऽहा । प॒रः॒ऽपाः । नः॒ । वरे॑ण्यः ।
सः । नः॒ । र॒क्षि॒ष॒त् । च॒र॒मम् । सः । म॒ध्य॒मम् । सः । प॒श्चात् । पा॒तु॒ । नः॒ । पु॒रः ॥इन्द्रः । स्पट् । उत । वृत्रऽहा । परःऽपाः । नः । वरेण्यः ।
सः । नः । रक्षिषत् । चरमम् । सः । मध्यमम् । सः । पश्चात् । पातु । नः । पुरः ॥índraḥ ǀ spáṭ ǀ utá ǀ vṛtra-hā́ ǀ paraḥ-pā́ḥ ǀ naḥ ǀ váreṇyaḥ ǀ
sáḥ ǀ naḥ ǀ rakṣiṣat ǀ caramám ǀ sáḥ ǀ madhyamám ǀ sáḥ ǀ paścā́t ǀ pātu ǀ naḥ ǀ puráḥ ǁindraḥ ǀ spaṭ ǀ uta ǀ vṛtra-hā ǀ paraḥ-pāḥ ǀ naḥ ǀ vareṇyaḥ ǀ
saḥ ǀ naḥ ǀ rakṣiṣat ǀ caramam ǀ saḥ ǀ madhyamam ǀ saḥ ǀ paścāt ǀ pātu ǀ naḥ ǀ puraḥ ǁ8.61.15 Aṣṭaka 6.4.38.5Anuvāka 8.7.35
-
Ṛk 16
त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इंद्र॒ नि पा॑हि वि॒श्वतः॑ ।
आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥त्वं नः पश्चाद् अधराद् उत्तरात् पुर इन्द्र नि पाहि विश्वतः |
आरे अस्मत् कृणुहि दैव्यम् भयम् आरे हेतीर् अदेवीः ||tvám naḥ paścā́dadharā́duttarā́tpurá índra ní pāhi viśvátaḥ ǀ
āré asmátkṛṇuhi dáivyam bhayámāré hetī́rádevīḥ ǁtvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ |
āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ ||त्वम् । नः॒ । प॒श्चात् । अ॒ध॒रात् । उ॒त्त॒रात् । पु॒रः । इन्द्र॑ । नि । पा॒हि॒ । वि॒श्वतः॑ ।
आ॒रे । अ॒स्मत् । कृ॒णु॒हि॒ । दैव्य॑म् । भ॒यम् । आ॒रे । हे॒तीः । अदे॑वीः ॥त्वम् । नः । पश्चात् । अधरात् । उत्तरात् । पुरः । इन्द्र । नि । पाहि । विश्वतः ।
आरे । अस्मत् । कृणुहि । दैव्यम् । भयम् । आरे । हेतीः । अदेवीः ॥tvám ǀ naḥ ǀ paścā́t ǀ adharā́t ǀ uttarā́t ǀ puráḥ ǀ índra ǀ ní ǀ pāhi ǀ viśvátaḥ ǀ
āré ǀ asmát ǀ kṛṇuhi ǀ dáivyam ǀ bhayám ǀ āré ǀ hetī́ḥ ǀ ádevīḥ ǁtvam ǀ naḥ ǀ paścāt ǀ adharāt ǀ uttarāt ǀ puraḥ ǀ indra ǀ ni ǀ pāhi ǀ viśvataḥ ǀ
āre ǀ asmat ǀ kṛṇuhi ǀ daivyam ǀ bhayam ǀ āre ǀ hetīḥ ǀ adevīḥ ǁ8.61.16 Aṣṭaka 6.4.39.1Anuvāka 8.7.36
-
Ṛk 17
अ॒द्याद्या॒ श्वःश्व॒ इंद्र॒ त्रास्व॑ प॒रे च॑ नः ।
विश्वा॑ च नो जरि॒तॄन्त्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥अद्याद्या श्वः-श्व इन्द्र त्रास्व परे च नः |
विश्वा च नो जरितॄन् सत्पते अहा दिवा नक्तं च रक्षिषः ||adyā́dyā śváḥśva índra trā́sva paré ca naḥ ǀ
víśvā ca no jaritṝ́ntsatpate áhā dívā náktam ca rakṣiṣaḥ ǁadyādyā śvaḥ-śva indra trāsva pare ca naḥ |
viśvā ca no jaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ ||अ॒द्यऽअ॑द्य । श्वःऽश्वः॑ । इन्द्र॑ । त्रास्व॑ । प॒रे । च॒ । नः॒ ।
विश्वा॑ । च॒ । नः॒ । ज॒रि॒तॄन् । स॒त्ऽप॒ते॒ । अहा॑ । दिवा॑ । नक्त॑म् । च॒ । र॒क्षि॒षः॒ ॥अद्यऽअद्य । श्वःऽश्वः । इन्द्र । त्रास्व । परे । च । नः ।
विश्वा । च । नः । जरितॄन् । सत्ऽपते । अहा । दिवा । नक्तम् । च । रक्षिषः ॥adyá-adya ǀ śváḥ-śvaḥ ǀ índra ǀ trā́sva ǀ paré ǀ ca ǀ naḥ ǀ
víśvā ǀ ca ǀ naḥ ǀ jaritṝ́n ǀ sat-pate ǀ áhā ǀ dívā ǀ náktam ǀ ca ǀ rakṣiṣaḥ ǁadya-adya ǀ śvaḥ-śvaḥ ǀ indra ǀ trāsva ǀ pare ǀ ca ǀ naḥ ǀ
viśvā ǀ ca ǀ naḥ ǀ jaritṝn ǀ sat-pate ǀ ahā ǀ divā ǀ naktam ǀ ca ǀ rakṣiṣaḥ ǁ8.61.17 Aṣṭaka 6.4.39.2Anuvāka 8.7.37
-
Ṛk 18
प्र॒भं॒गी शूरो॑ म॒घवा॑ तु॒वीम॑घः॒ सम्मि॑श्लो वि॒र्या॑य॒ कं ।
उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतुः॑ ॥प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् |
उभा ते बाहू वृषणा शतक्रतो नि या वज्रम् मिमिक्षतुः ||prabhaṅgī́ śū́ro maghávā tuvī́maghaḥ sámmiślo viryā́ya kám ǀ
ubhā́ te bāhū́ vṛ́ṣaṇā śatakrato ní yā́ vájram mimikṣátuḥ ǁprabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo viryāya kam |
ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ ||प्र॒ऽभ॒ङ्गी । शूरः॑ । म॒घऽवा॑ । तु॒विऽम॑घः । सम्ऽमि॑श्लः । वी॒र्या॑य । कम् ।
उ॒भा । ते॒ । बा॒हू इति॑ । वृष॑णा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या । वज्र॑म् । मि॒मि॒क्षतुः॑ ॥प्रऽभङ्गी । शूरः । मघऽवा । तुविऽमघः । सम्ऽमिश्लः । वीर्याय । कम् ।
उभा । ते । बाहू इति । वृषणा । शतक्रतो इति शतऽक्रतो । नि । या । वज्रम् । मिमिक्षतुः ॥pra-bhaṅgī́ ǀ śū́raḥ ǀ maghá-vā ǀ tuví-maghaḥ ǀ sám-miślaḥ ǀ vīryā́ya ǀ kám ǀ
ubhā́ ǀ te ǀ bāhū́ íti ǀ vṛ́ṣaṇā ǀ śatakrato íti śata-krato ǀ ní ǀ yā́ ǀ vájram ǀ mimikṣátuḥ ǁpra-bhaṅgī ǀ śūraḥ ǀ magha-vā ǀ tuvi-maghaḥ ǀ sam-miślaḥ ǀ vīryāya ǀ kam ǀ
ubhā ǀ te ǀ bāhū iti ǀ vṛṣaṇā ǀ śatakrato iti śata-krato ǀ ni ǀ yā ǀ vajram ǀ mimikṣatuḥ ǁ8.61.18 Aṣṭaka 6.4.39.3Anuvāka 8.7.38
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.