Ṛgveda · Maṇḍala 8

Sūkta 5

Aśvins · Aśvins (A) · Caidya’s Dānastuti (B) · Caidya’s Dānastuti · Brahmātithi Kāṇva · 39 ṛks

Link
Devatā देवता
1-36: Aśvins; 37: Aśvins (A); Caidya’s Dānastuti (B); 38, 39: Caidya’s Dānastuti
Ṛṣi ऋषि
Brahmātithi Kāṇva
Chandas छन्दस्
Gāyatrī, Bṛhatī, Anuṣṭubh
Metres by ṛk

1st set of styles gāyatrī (2-4, 6-10, 15-17, 19, 20, 24, 25, 27, 28, 30, 34, 36); nicṛdgāyatrī (1, 5, 11, 12, 14, 18, 21, 22, 29, 32, 33); virāḍgāyatrī (13, 23, 31, 35); nicṛdbṛhatī (37, 38); svarāḍārcīgāyatrī (26); nicṛdārṣyanuṣṭup (39)

2nd set of styles gāyatrī (1-36); bṛhatī (37, 38); anuṣṭubh (39)

  1. Ṛk 1

    दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् ।
    वि भा॒नुं वि॒श्वधा॑तनत् ॥

    दूराद् इहेव यत् सत्य् अरुणप्सुर् अशिश्वितत् |
    वि भानुं विश्वधातनत् ||

    dūrā́dihéva yátsatyáruṇápsuráśiśvitat ǀ
    ví bhānúm viśvádhātanat ǁ

    dūrād iheva yat saty aruṇapsur aśiśvitat |
    vi bhānuṃ viśvadhātanat ||

    दू॒रात् । इ॒हऽइ॑व । यत् । स॒ती । अ॒रु॒णऽप्सुः॑ । अशि॑श्वितत् ।
    वि । भा॒नुम् । वि॒श्वधा॑ । अ॒त॒न॒त् ॥

    दूरात् । इहऽइव । यत् । सती । अरुणऽप्सुः । अशिश्वितत् ।
    वि । भानुम् । विश्वधा । अतनत् ॥

    dūrā́t ǀ ihá-iva ǀ yát ǀ satī́ ǀ aruṇá-psuḥ ǀ áśiśvitat ǀ
    ví ǀ bhānúm ǀ viśvádhā ǀ atanat ǁ

    dūrāt ǀ iha-iva ǀ yat ǀ satī ǀ aruṇa-psuḥ ǀ aśiśvitat ǀ
    vi ǀ bhānum ǀ viśvadhā ǀ atanat ǁ

    8.5.1 Aṣṭaka 5.8.1.1Anuvāka 8.1.122

  2. Ṛk 2

    नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा ।
    सचे॑थे अश्विनो॒षसं॑ ॥

    नृवद् दस्रा मनोयुजा रथेन पृथुपाजसा |
    सचेथे अश्विनोषसम् ||

    nṛváddasrā manoyújā ráthena pṛthupā́jasā ǀ
    sácethe aśvinoṣásam ǁ

    nṛvad dasrā manoyujā rathena pṛthupājasā |
    sacethe aśvinoṣasam ||

    नृ॒ऽवत् । द॒स्रा॒ । म॒नः॒ऽयुजा॑ । रथे॑न । पृ॒थु॒ऽपाज॑सा ।
    सचे॑थे॒ इति॑ । अ॒श्वि॒ना॒ । उ॒षस॑म् ॥

    नृऽवत् । दस्रा । मनःऽयुजा । रथेन । पृथुऽपाजसा ।
    सचेथे इति । अश्विना । उषसम् ॥

    nṛ-vát ǀ dasrā ǀ manaḥ-yújā ǀ ráthena ǀ pṛthu-pā́jasā ǀ
    sácethe íti ǀ aśvinā ǀ uṣásam ǁ

    nṛ-vat ǀ dasrā ǀ manaḥ-yujā ǀ rathena ǀ pṛthu-pājasā ǀ
    sacethe iti ǀ aśvinā ǀ uṣasam ǁ

    8.5.2 Aṣṭaka 5.8.1.2Anuvāka 8.1.123

  3. Ṛk 3

    यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत ।
    वाचं॑ दू॒तो यथो॑हिषे ॥

    युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत |
    वाचं दूतो यथोहिषे ||

    yuvā́bhyām vājinīvasū práti stómā adṛkṣata ǀ
    vā́cam dūtó yáthohiṣe ǁ

    yuvābhyāṃ vājinīvasū prati stomā adṛkṣata |
    vācaṃ dūto yathohiṣe ||

    यु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प्रति॑ । स्तोमाः॑ । अ॒दृ॒क्ष॒त॒ ।
    वाच॑म् । दू॒तः । यथा॑ । ओ॒हि॒षे॒ ॥

    युवाभ्याम् । वाजिनीवसू इति वाजिनीऽवसू । प्रति । स्तोमाः । अदृक्षत ।
    वाचम् । दूतः । यथा । ओहिषे ॥

    yuvā́bhyām ǀ vājinīvasū íti vājinī-vasū ǀ práti ǀ stómāḥ ǀ adṛkṣata ǀ
    vā́cam ǀ dūtáḥ ǀ yáthā ǀ ohiṣe ǁ

    yuvābhyām ǀ vājinīvasū iti vājinī-vasū ǀ prati ǀ stomāḥ ǀ adṛkṣata ǀ
    vācam ǀ dūtaḥ ǀ yathā ǀ ohiṣe ǁ

    8.5.3 Aṣṭaka 5.8.1.3Anuvāka 8.1.124

  4. Ṛk 4

    पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुमं॒द्रा पु॑रू॒वसू॑ ।
    स्तु॒षे कण्वा॑सो अ॒श्विना॑ ॥

    पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू |
    स्तुषे कण्वासो अश्विना ||

    purupriyā́ ṇa ūtáye purumandrā́ purūvásū ǀ
    stuṣé káṇvāso aśvínā ǁ

    purupriyā ṇa ūtaye purumandrā purūvasū |
    stuṣe kaṇvāso aśvinā ||

    पु॒रु॒ऽप्रि॒या । नः॒ । ऊ॒तये॑ । पु॒रु॒ऽम॒न्द्रा । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ ।
    स्तु॒षे । कण्वा॑सः । अ॒श्विना॑ ॥

    पुरुऽप्रिया । नः । ऊतये । पुरुऽमन्द्रा । पुरुवसू इति पुरुऽवसू ।
    स्तुषे । कण्वासः । अश्विना ॥

    puru-priyā́ ǀ naḥ ǀ ūtáye ǀ puru-mandrā́ ǀ puruvásū íti puru-vásū ǀ
    stuṣé ǀ káṇvāsaḥ ǀ aśvínā ǁ

    puru-priyā ǀ naḥ ǀ ūtaye ǀ puru-mandrā ǀ puruvasū iti puru-vasū ǀ
    stuṣe ǀ kaṇvāsaḥ ǀ aśvinā ǁ

    8.5.4 Aṣṭaka 5.8.1.4Anuvāka 8.1.125

  5. Ṛk 5

    मंहि॑ष्ठा वाज॒सात॑मे॒षयं॑ता शु॒भस्पती॑ ।
    गंता॑रा दा॒शुषो॑ गृ॒हं ॥

    मंहिष्ठा वाजसातमेषयन्ता शुभस् पती |
    गन्तारा दाशुषो गृहम् ||

    máṃhiṣṭhā vājasā́tameṣáyantā śubháspátī ǀ
    gántārā dāśúṣo gṛhám ǁ

    maṃhiṣṭhā vājasātameṣayantā śubhas patī |
    gantārā dāśuṣo gṛham ||

    मंहि॑ष्ठा । वा॒ज॒ऽसात॑मा । इ॒षय॑न्ता । शु॒भः । पती॒ इति॑ ।
    गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् ॥

    मंहिष्ठा । वाजऽसातमा । इषयन्ता । शुभः । पती इति ।
    गन्तारा । दाशुषः । गृहम् ॥

    máṃhiṣṭhā ǀ vāja-sā́tamā ǀ iṣáyantā ǀ śubháḥ ǀ pátī íti ǀ
    gántārā ǀ dāśúṣaḥ ǀ gṛhám ǁ

    maṃhiṣṭhā ǀ vāja-sātamā ǀ iṣayantā ǀ śubhaḥ ǀ patī iti ǀ
    gantārā ǀ dāśuṣaḥ ǀ gṛham ǁ

    8.5.5 Aṣṭaka 5.8.1.5Anuvāka 8.1.126

  6. Ṛk 6

    ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीं ।
    घृ॒तैर्गव्यू॑तिमुक्षतं ॥

    ता सुदेवाय दाशुषे सुमेधाम् अवितारिणीम् |
    घृतैर् गव्यूतिम् उक्षतम् ||

    tā́ sudevā́ya dāśúṣe sumedhā́mávitāriṇīm ǀ
    ghṛtáirgávyūtimukṣatam ǁ

    tā sudevāya dāśuṣe sumedhām avitāriṇīm |
    ghṛtair gavyūtim ukṣatam ||

    ता । सु॒ऽदे॒वाय॑ । दा॒शुषे॑ । सु॒ऽमे॒धाम् । अवि॑ऽतारिणीम् ।
    घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् ॥

    ता । सुऽदेवाय । दाशुषे । सुऽमेधाम् । अविऽतारिणीम् ।
    घृतैः । गव्यूतिम् । उक्षतम् ॥

    tā́ ǀ su-devā́ya ǀ dāśúṣe ǀ su-medhā́m ǀ ávi-tāriṇīm ǀ
    ghṛtáiḥ ǀ gávyūtim ǀ ukṣatam ǁ

    tā ǀ su-devāya ǀ dāśuṣe ǀ su-medhām ǀ avi-tāriṇīm ǀ
    ghṛtaiḥ ǀ gavyūtim ǀ ukṣatam ǁ

    8.5.6 Aṣṭaka 5.8.2.1Anuvāka 8.1.127

  7. Ṛk 7

    आ नः॒ स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभिः॑ ।
    या॒तमश्वे॑भिरश्विना ॥

    आ न स्तोमम् उप द्रवत् तूयं श्येनेभिर् आशुभिः |
    यातम् अश्वेभिर् अश्विना ||

    ā́ naḥ stómamúpa draváttū́yam śyenébhirāśúbhiḥ ǀ
    yātámáśvebhiraśvinā ǁ

    ā na stomam upa dravat tūyaṃ śyenebhir āśubhiḥ |
    yātam aśvebhir aśvinā ||

    आ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । तूय॑म् । श्ये॒नेभिः॑ । आ॒शुऽभिः॑ ।
    या॒तम् । अश्वे॑भिः । अ॒श्वि॒ना॒ ॥

    आ । नः । स्तोमम् । उप । द्रवत् । तूयम् । श्येनेभिः । आशुऽभिः ।
    यातम् । अश्वेभिः । अश्विना ॥

    ā́ ǀ naḥ ǀ stómam ǀ úpa ǀ dravát ǀ tū́yam ǀ śyenébhiḥ ǀ āśú-bhiḥ ǀ
    yātám ǀ áśvebhiḥ ǀ aśvinā ǁ

    ā ǀ naḥ ǀ stomam ǀ upa ǀ dravat ǀ tūyam ǀ śyenebhiḥ ǀ āśu-bhiḥ ǀ
    yātam ǀ aśvebhiḥ ǀ aśvinā ǁ

    8.5.7 Aṣṭaka 5.8.2.2Anuvāka 8.1.128

  8. Ṛk 8

    येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना ।
    त्रीँर॒क्तून्प॑रि॒दीय॑थः ॥

    येभिस् तिस्रः परावतो दिवो विश्वानि रोचना |
    त्रींर् अक्तून् परिदीयथः ||

    yébhistisráḥ parāváto divó víśvāni rocanā́ ǀ
    trī́m̐raktū́nparidī́yathaḥ ǁ

    yebhis tisraḥ parāvato divo viśvāni rocanā |
    trīṃr aktūn paridīyathaḥ ||

    येभिः॑ । ति॒स्रः । प॒रा॒ऽवतः॑ । दि॒वः । विश्वा॑नि । रो॒च॒ना ।
    त्रीन् । अ॒क्तून् । प॒रि॒ऽदीय॑थः ॥

    येभिः । तिस्रः । पराऽवतः । दिवः । विश्वानि । रोचना ।
    त्रीन् । अक्तून् । परिऽदीयथः ॥

    yébhiḥ ǀ tisráḥ ǀ parā-vátaḥ ǀ diváḥ ǀ víśvāni ǀ rocanā́ ǀ
    trī́n ǀ aktū́n ǀ pari-dī́yathaḥ ǁ

    yebhiḥ ǀ tisraḥ ǀ parā-vataḥ ǀ divaḥ ǀ viśvāni ǀ rocanā ǀ
    trīn ǀ aktūn ǀ pari-dīyathaḥ ǁ

    8.5.8 Aṣṭaka 5.8.2.3Anuvāka 8.1.129

  9. Ṛk 9

    उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा ।
    वि प॒थः सा॒तये॑ सितं ॥

    उत नो गोमतीर् इष उत सातीर् अहर्विदा |
    वि पथः सातये सितम् ||

    utá no gómatīríṣa utá sātī́raharvidā ǀ
    ví patháḥ sātáye sitam ǁ

    uta no gomatīr iṣa uta sātīr aharvidā |
    vi pathaḥ sātaye sitam ||

    उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । उ॒त । सा॒तीः । अ॒हः॒ऽवि॒दा॒ ।
    वि । प॒थः । सा॒तये॑ । सि॒त॒म् ॥

    उत । नः । गोऽमतीः । इषः । उत । सातीः । अहःऽविदा ।
    वि । पथः । सातये । सितम् ॥

    utá ǀ naḥ ǀ gó-matīḥ ǀ íṣaḥ ǀ utá ǀ sātī́ḥ ǀ ahaḥ-vidā ǀ
    ví ǀ patháḥ ǀ sātáye ǀ sitam ǁ

    uta ǀ naḥ ǀ go-matīḥ ǀ iṣaḥ ǀ uta ǀ sātīḥ ǀ ahaḥ-vidā ǀ
    vi ǀ pathaḥ ǀ sātaye ǀ sitam ǁ

    8.5.9 Aṣṭaka 5.8.2.4Anuvāka 8.1.130

  10. Ṛk 10

    आ नो॒ गोमं॑तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिं ।
    वो॒ळ्हमश्वा॑वती॒रिषः॑ ॥

    आ नो गोमन्तम् अश्विना सुवीरं सुरथं रयिम् |
    वोऌहम् अश्वावतीर् इषः ||

    ā́ no gómantamaśvinā suvī́ram surátham rayím ǀ
    voḷhámáśvāvatīríṣaḥ ǁ

    ā no gomantam aśvinā suvīraṃ surathaṃ rayim |
    voḷham aśvāvatīr iṣaḥ ||

    आ । नः॒ । गोऽम॑न्तम् । अ॒श्वि॒ना॒ । सु॒ऽवीर॑म् । सु॒ऽरथ॑म् । र॒यिम् ।
    वो॒ळ्हम् । अश्व॑ऽवतीः । इषः॑ ॥

    आ । नः । गोऽमन्तम् । अश्विना । सुऽवीरम् । सुऽरथम् । रयिम् ।
    वोळ्हम् । अश्वऽवतीः । इषः ॥

    ā́ ǀ naḥ ǀ gó-mantam ǀ aśvinā ǀ su-vī́ram ǀ su-rátham ǀ rayím ǀ
    voḷhám ǀ áśva-vatīḥ ǀ íṣaḥ ǁ

    ā ǀ naḥ ǀ go-mantam ǀ aśvinā ǀ su-vīram ǀ su-ratham ǀ rayim ǀ
    voḷham ǀ aśva-vatīḥ ǀ iṣaḥ ǁ

    8.5.10 Aṣṭaka 5.8.2.5Anuvāka 8.1.131

  11. Ṛk 11

    वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी ।
    पिब॑तं सो॒म्यं मधु॑ ॥

    वावृधाना शुभस् पती दस्रा हिरण्यवर्तनी |
    पिबतं सोम्यम् मधु ||

    vāvṛdhānā́ śubhaspatī dasrā híraṇyavartanī ǀ
    píbatam somyám mádhu ǁ

    vāvṛdhānā śubhas patī dasrā hiraṇyavartanī |
    pibataṃ somyam madhu ||

    व॒वृ॒धा॒ना । शु॒भः॒ । प॒ती॒ इति॑ । दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी ।
    पिब॑तम् । सो॒म्यम् । मधु॑ ॥

    ववृधाना । शुभः । पती इति । दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी ।
    पिबतम् । सोम्यम् । मधु ॥

    vavṛdhānā́ ǀ śubhaḥ ǀ patī íti ǀ dásrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ
    píbatam ǀ somyám ǀ mádhu ǁ

    vavṛdhānā ǀ śubhaḥ ǀ patī iti ǀ dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ
    pibatam ǀ somyam ǀ madhu ǁ

    8.5.11 Aṣṭaka 5.8.3.1Anuvāka 8.1.132

  12. Ṛk 12

    अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ ।
    छ॒र्दिर्यं॑त॒मदा॑भ्यं ॥

    अस्मभ्यं वाजिनीवसू मघवद्भ्यश् च सप्रथः |
    छर्दिर् यन्तम् अदाभ्यम् ||

    asmábhyam vājinīvasū maghávadbhyaśca sapráthaḥ ǀ
    chardíryantamádābhyam ǁ

    asmabhyaṃ vājinīvasū maghavadbhyaś ca saprathaḥ |
    chardir yantam adābhyam ||

    अ॒स्मभ्य॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । म॒घव॑त्ऽभ्यः । च॒ । स॒ऽप्रथः॑ ।
    छ॒र्दिः । य॒न्त॒म् । अदा॑भ्यम् ॥

    अस्मभ्यम् । वाजिनीवसू इति वाजिनीऽवसू । मघवत्ऽभ्यः । च । सऽप्रथः ।
    छर्दिः । यन्तम् । अदाभ्यम् ॥

    asmábhyam ǀ vājinīvasū íti vājinī-vasū ǀ maghávat-bhyaḥ ǀ ca ǀ sa-práthaḥ ǀ
    chardíḥ ǀ yantam ǀ ádābhyam ǁ

    asmabhyam ǀ vājinīvasū iti vājinī-vasū ǀ maghavat-bhyaḥ ǀ ca ǀ sa-prathaḥ ǀ
    chardiḥ ǀ yantam ǀ adābhyam ǁ

    8.5.12 Aṣṭaka 5.8.3.2Anuvāka 8.1.133

  13. Ṛk 13

    नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तं ।
    मो ष्व१॒॑न्याँ उपा॑रतं ॥

    नि षु ब्रह्म जनानां याविष्टं तूयम् आ गतम् |
    मो ष्व् अन्यां उपारतम् ||

    ní ṣú bráhma jánānām yā́viṣṭam tū́yamā́ gatam ǀ
    mó ṣványā́m̐ úpāratam ǁ

    ni ṣu brahma janānāṃ yāviṣṭaṃ tūyam ā gatam |
    mo ṣv anyāṃ upāratam ||

    नि । सु । ब्रह्म॑ । जना॑नाम् । या । अवि॑ष्टम् । तूय॑म् । आ । ग॒त॒म् ।
    मो इति॑ । सु । अ॒न्यान् । उप॑ । अ॒र॒त॒म् ॥

    नि । सु । ब्रह्म । जनानाम् । या । अविष्टम् । तूयम् । आ । गतम् ।
    मो इति । सु । अन्यान् । उप । अरतम् ॥

    ní ǀ sú ǀ bráhma ǀ jánānām ǀ yā́ ǀ áviṣṭam ǀ tū́yam ǀ ā́ ǀ gatam ǀ
    mó íti ǀ sú ǀ anyā́n ǀ úpa ǀ aratam ǁ

    ni ǀ su ǀ brahma ǀ janānām ǀ yā ǀ aviṣṭam ǀ tūyam ǀ ā ǀ gatam ǀ
    mo iti ǀ su ǀ anyān ǀ upa ǀ aratam ǁ

    8.5.13 Aṣṭaka 5.8.3.3Anuvāka 8.1.134

  14. Ṛk 14

    अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः ।
    मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥

    अस्य पिबतम् अश्विना युवम् मदस्य चारुणः |
    मध्वो रातस्य धिष्ण्या ||

    asyá pibatamaśvinā yuvám mádasya cā́ruṇaḥ ǀ
    mádhvo rātásya dhiṣṇyā ǁ

    asya pibatam aśvinā yuvam madasya cāruṇaḥ |
    madhvo rātasya dhiṣṇyā ||

    अ॒स्य । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मद॑स्य । चारु॑णः ।
    मध्वः॑ । रा॒तस्य॑ । धि॒ष्ण्या॒ ॥

    अस्य । पिबतम् । अश्विना । युवम् । मदस्य । चारुणः ।
    मध्वः । रातस्य । धिष्ण्या ॥

    asyá ǀ pibatam ǀ aśvinā ǀ yuvám ǀ mádasya ǀ cā́ruṇaḥ ǀ
    mádhvaḥ ǀ rātásya ǀ dhiṣṇyā ǁ

    asya ǀ pibatam ǀ aśvinā ǀ yuvam ǀ madasya ǀ cāruṇaḥ ǀ
    madhvaḥ ǀ rātasya ǀ dhiṣṇyā ǁ

    8.5.14 Aṣṭaka 5.8.3.4Anuvāka 8.1.135

  15. Ṛk 15

    अ॒स्मे आ व॑हतं र॒यिं श॒तवं॑तं सह॒स्रिणं॑ ।
    पु॒रु॒क्षुं वि॒श्वधा॑यसं ॥

    अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् |
    पुरुक्षुं विश्वधायसम् ||

    asmé ā́ vahatam rayím śatávantam sahasríṇam ǀ
    purukṣúm viśvádhāyasam ǁ

    asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam |
    purukṣuṃ viśvadhāyasam ||

    अ॒स्मे इति॑ । आ । व॒ह॒त॒म् । र॒यिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् ।
    पु॒रु॒ऽक्षुम् । वि॒श्वऽधा॑यसम् ॥

    अस्मे इति । आ । वहतम् । रयिम् । शतऽवन्तम् । सहस्रिणम् ।
    पुरुऽक्षुम् । विश्वऽधायसम् ॥

    asmé íti ǀ ā́ ǀ vahatam ǀ rayím ǀ śatá-vantam ǀ sahasríṇam ǀ
    puru-kṣúm ǀ viśvá-dhāyasam ǁ

    asme iti ǀ ā ǀ vahatam ǀ rayim ǀ śata-vantam ǀ sahasriṇam ǀ
    puru-kṣum ǀ viśva-dhāyasam ǁ

    8.5.15 Aṣṭaka 5.8.3.5Anuvāka 8.1.136

  16. Ṛk 16

    पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वयं॑ते मनी॒षिणः॑ ।
    वा॒घद्भि॑रश्वि॒ना ग॑तं ॥

    पुरुत्रा चिद् धि वां नरा विह्वयन्ते मनीषिणः |
    वाघद्भिर् अश्विना गतम् ||

    purutrā́ ciddhí vām narā vihváyante manīṣíṇaḥ ǀ
    vāghádbhiraśvinā́ gatam ǁ

    purutrā cid dhi vāṃ narā vihvayante manīṣiṇaḥ |
    vāghadbhir aśvinā gatam ||

    पु॒रु॒ऽत्रा । चि॒त् । हि । वा॒म् । न॒रा॒ । वि॒ऽह्वय॑न्ते । म॒नी॒षिणः॑ ।
    वा॒घत्ऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

    पुरुऽत्रा । चित् । हि । वाम् । नरा । विऽह्वयन्ते । मनीषिणः ।
    वाघत्ऽभिः । अश्विना । आ । गतम् ॥

    puru-trā́ ǀ cit ǀ hí ǀ vām ǀ narā ǀ vi-hváyante ǀ manīṣíṇaḥ ǀ
    vāghát-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

    puru-trā ǀ cit ǀ hi ǀ vām ǀ narā ǀ vi-hvayante ǀ manīṣiṇaḥ ǀ
    vāghat-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

    8.5.16 Aṣṭaka 5.8.4.1Anuvāka 8.1.137

  17. Ṛk 17

    जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्मं॑तो अरं॒कृतः॑ ।
    यु॒वां ह॑वंते अश्विना ॥

    जनासो वृक्तबर्हिषो हविष्मन्तो अरङ्कृतः |
    युवां हवन्ते अश्विना ||

    jánāso vṛktábarhiṣo havíṣmanto araṃkṛ́taḥ ǀ
    yuvā́m havante aśvinā ǁ

    janāso vṛktabarhiṣo haviṣmanto araṅkṛtaḥ |
    yuvāṃ havante aśvinā ||

    जना॑सः । वृ॒क्तऽब॑र्हिषः । ह॒विष्म॑न्तः । अ॒र॒म्ऽकृतः॑ ।
    यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥

    जनासः । वृक्तऽबर्हिषः । हविष्मन्तः । अरम्ऽकृतः ।
    युवाम् । हवन्ते । अश्विना ॥

    jánāsaḥ ǀ vṛktá-barhiṣaḥ ǀ havíṣmantaḥ ǀ aram-kṛ́taḥ ǀ
    yuvā́m ǀ havante ǀ aśvinā ǁ

    janāsaḥ ǀ vṛkta-barhiṣaḥ ǀ haviṣmantaḥ ǀ aram-kṛtaḥ ǀ
    yuvām ǀ havante ǀ aśvinā ǁ

    8.5.17 Aṣṭaka 5.8.4.2Anuvāka 8.1.138

  18. Ṛk 18

    अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अंत॑मः ।
    यु॒वाभ्यां॑ भूत्वश्विना ॥

    अस्माकम् अद्य वाम् अयं स्तोमो वाहिष्ठो अन्तमः |
    युवाभ्याम् भूत्व् अश्विना ||

    asmā́kamadyá vāmayám stómo vā́hiṣṭho ántamaḥ ǀ
    yuvā́bhyām bhūtvaśvinā ǁ

    asmākam adya vām ayaṃ stomo vāhiṣṭho antamaḥ |
    yuvābhyām bhūtv aśvinā ||

    अ॒स्माक॑म् । अ॒द्य । वा॒म् । अ॒यम् । स्तोमः॑ । वाहि॑ष्ठः । अन्त॑मः ।
    यु॒वाभ्या॑म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥

    अस्माकम् । अद्य । वाम् । अयम् । स्तोमः । वाहिष्ठः । अन्तमः ।
    युवाभ्याम् । भूतु । अश्विना ॥

    asmā́kam ǀ adyá ǀ vām ǀ ayám ǀ stómaḥ ǀ vā́hiṣṭhaḥ ǀ ántamaḥ ǀ
    yuvā́bhyām ǀ bhūtu ǀ aśvinā ǁ

    asmākam ǀ adya ǀ vām ǀ ayam ǀ stomaḥ ǀ vāhiṣṭhaḥ ǀ antamaḥ ǀ
    yuvābhyām ǀ bhūtu ǀ aśvinā ǁ

    8.5.18 Aṣṭaka 5.8.4.3Anuvāka 8.1.139

  19. Ṛk 19

    यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे ।
    ततः॑ पिबतमश्विना ॥

    यो ह वाम् मधुनो दृतिर् आहितो रथचर्षणे |
    ततः पिबतम् अश्विना ||

    yó ha vām mádhuno dṛ́tirā́hito rathacárṣaṇe ǀ
    tátaḥ pibatamaśvinā ǁ

    yo ha vām madhuno dṛtir āhito rathacarṣaṇe |
    tataḥ pibatam aśvinā ||

    यः । ह॒ । वा॒म् । मधु॑नः । दृतिः॑ । आऽहि॑तः । र॒थ॒ऽचर्ष॑णे ।
    ततः॑ । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥

    यः । ह । वाम् । मधुनः । दृतिः । आऽहितः । रथऽचर्षणे ।
    ततः । पिबतम् । अश्विना ॥

    yáḥ ǀ ha ǀ vām ǀ mádhunaḥ ǀ dṛ́tiḥ ǀ ā́-hitaḥ ǀ ratha-cárṣaṇe ǀ
    tátaḥ ǀ pibatam ǀ aśvinā ǁ

    yaḥ ǀ ha ǀ vām ǀ madhunaḥ ǀ dṛtiḥ ǀ ā-hitaḥ ǀ ratha-carṣaṇe ǀ
    tataḥ ǀ pibatam ǀ aśvinā ǁ

    8.5.19 Aṣṭaka 5.8.4.4Anuvāka 8.1.140

  20. Ṛk 20

    तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ ।
    वह॑तं॒ पीव॑री॒रिषः॑ ॥

    तेन नो वाजिनीवसू पश्वे तोकाय शं गवे |
    वहतम् पीवरीर् इषः ||

    téna no vājinīvasū páśve tokā́ya śám gáve ǀ
    váhatam pī́varīríṣaḥ ǁ

    tena no vājinīvasū paśve tokāya śaṃ gave |
    vahatam pīvarīr iṣaḥ ||

    तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पश्वे॑ । तो॒काय॑ । शम् । गवे॑ ।
    वह॑तम् । पीव॑रीः । इषः॑ ॥

    तेन । नः । वाजिनीवसू इति वाजिनीऽवसू । पश्वे । तोकाय । शम् । गवे ।
    वहतम् । पीवरीः । इषः ॥

    téna ǀ naḥ ǀ vājinīvasū íti vājinī-vasū ǀ páśve ǀ tokā́ya ǀ śám ǀ gáve ǀ
    váhatam ǀ pī́varīḥ ǀ íṣaḥ ǁ

    tena ǀ naḥ ǀ vājinīvasū iti vājinī-vasū ǀ paśve ǀ tokāya ǀ śam ǀ gave ǀ
    vahatam ǀ pīvarīḥ ǀ iṣaḥ ǁ

    8.5.20 Aṣṭaka 5.8.4.5Anuvāka 8.1.141

  21. Ṛk 21

    उ॒त नो॑ दि॒व्या इष॑ उ॒त सिंधूँ॑रहर्विदा ।
    अप॒ द्वारे॑व वर्षथः ॥

    उत नो दिव्या इष उत सिन्धूंर् अहर्विदा |
    अप द्वारेव वर्षथः ||

    utá no divyā́ íṣa utá síndhūm̐raharvidā ǀ
    ápa dvā́reva varṣathaḥ ǁ

    uta no divyā iṣa uta sindhūṃr aharvidā |
    apa dvāreva varṣathaḥ ||

    उ॒त । नः॒ । दि॒व्याः । इषः॑ । उ॒त । सिन्धू॑न् । अ॒हः॒ऽवि॒दा॒ ।
    अप॑ । द्वारा॑ऽइव । व॒र्ष॒थः॒ ॥

    उत । नः । दिव्याः । इषः । उत । सिन्धून् । अहःऽविदा ।
    अप । द्वाराऽइव । वर्षथः ॥

    utá ǀ naḥ ǀ divyā́ḥ ǀ íṣaḥ ǀ utá ǀ síndhūn ǀ ahaḥ-vidā ǀ
    ápa ǀ dvā́rā-iva ǀ varṣathaḥ ǁ

    uta ǀ naḥ ǀ divyāḥ ǀ iṣaḥ ǀ uta ǀ sindhūn ǀ ahaḥ-vidā ǀ
    apa ǀ dvārā-iva ǀ varṣathaḥ ǁ

    8.5.21 Aṣṭaka 5.8.5.1Anuvāka 8.1.142

  22. Ṛk 22

    क॒दा वां॑ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा ।
    यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥

    कदा वां तौग्र्यो विधत् समुद्रे जहितो नरा |
    यद् वां रथो विभिष् पतात् ||

    kadā́ vām taugryó vidhatsamudré jahitó narā ǀ
    yádvām rátho víbhiṣpátāt ǁ

    kadā vāṃ taugryo vidhat samudre jahito narā |
    yad vāṃ ratho vibhiṣ patāt ||

    क॒दा । वा॒म् । तौ॒ग्र्यः । वि॒ध॒त् । स॒मु॒द्रे । ज॒हि॒तः । न॒रा॒ ।
    यत् । वा॒म् । रथः॑ । विऽभिः॑ । पता॑त् ॥

    कदा । वाम् । तौग्र्यः । विधत् । समुद्रे । जहितः । नरा ।
    यत् । वाम् । रथः । विऽभिः । पतात् ॥

    kadā́ ǀ vām ǀ taugryáḥ ǀ vidhat ǀ samudré ǀ jahitáḥ ǀ narā ǀ
    yát ǀ vām ǀ ráthaḥ ǀ ví-bhiḥ ǀ pátāt ǁ

    kadā ǀ vām ǀ taugryaḥ ǀ vidhat ǀ samudre ǀ jahitaḥ ǀ narā ǀ
    yat ǀ vām ǀ rathaḥ ǀ vi-bhiḥ ǀ patāt ǁ

    8.5.22 Aṣṭaka 5.8.5.2Anuvāka 8.1.143

  23. Ṛk 23

    यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये ।
    शश्व॑दू॒तीर्द॑शस्यथः ॥

    युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये |
    शश्वद् ऊतीर् दशस्यथः ||

    yuvám káṇvāya nāsatyā́ piriptāya harmyé ǀ
    śáśvadūtī́rdaśasyathaḥ ǁ

    yuvaṃ kaṇvāya nāsatyā ṛpiriptāya harmye |
    śaśvad ūtīr daśasyathaḥ ||

    यु॒वम् । कण्वा॑य । ना॒स॒त्या॒ । अपि॑ऽरिप्ताय । ह॒र्म्ये ।
    शश्व॑त् । ऊ॒तीः । द॒श॒स्य॒थः॒ ॥

    युवम् । कण्वाय । नासत्या । अपिऽरिप्ताय । हर्म्ये ।
    शश्वत् । ऊतीः । दशस्यथः ॥

    yuvám ǀ káṇvāya ǀ nāsatyā ǀ ápi-riptāya ǀ harmyé ǀ
    śáśvat ǀ ūtī́ḥ ǀ daśasyathaḥ ǁ

    yuvam ǀ kaṇvāya ǀ nāsatyā ǀ api-riptāya ǀ harmye ǀ
    śaśvat ǀ ūtīḥ ǀ daśasyathaḥ ǁ

    8.5.23 Aṣṭaka 5.8.5.3Anuvāka 8.1.144

  24. Ṛk 24

    ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ ।
    यद्वां॑ वृषण्वसू हु॒वे ॥

    ताभिर् आ यातम् ऊतिभिर् नव्यसीभिः सुशस्तिभिः |
    यद् वां वृषण्वसू हुवे ||

    tā́bhirā́ yātamūtíbhirnávyasībhiḥ suśastíbhiḥ ǀ
    yádvām vṛṣaṇvasū huvé ǁ

    tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ |
    yad vāṃ vṛṣaṇvasū huve ||

    ताभिः॑ । आ । या॒त॒म् । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । सु॒श॒स्तिऽभिः॑ ।
    यत् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । हु॒वे ॥

    ताभिः । आ । यातम् । ऊतिऽभिः । नव्यसीभिः । सुशस्तिऽभिः ।
    यत् । वाम् । वृषण्वसू इति वृषण्ऽवसू । हुवे ॥

    tā́bhiḥ ǀ ā́ ǀ yātam ǀ ūtí-bhiḥ ǀ návyasībhiḥ ǀ suśastí-bhiḥ ǀ
    yát ǀ vām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ huvé ǁ

    tābhiḥ ǀ ā ǀ yātam ǀ ūti-bhiḥ ǀ navyasībhiḥ ǀ suśasti-bhiḥ ǀ
    yat ǀ vām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ huve ǁ

    8.5.24 Aṣṭaka 5.8.5.4Anuvāka 8.1.145

  25. Ṛk 25

    यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तं ।
    अत्रिं॑ शिं॒जार॑मश्विना ॥

    यथा चित् कण्वम् आवतम् प्रियमेधम् उपस्तुतम् |
    अत्रिं शिञ्जारम् अश्विना ||

    yáthā citkáṇvamā́vatam priyámedhamupastutám ǀ
    átrim śiñjā́ramaśvinā ǁ

    yathā cit kaṇvam āvatam priyamedham upastutam |
    atriṃ śiñjāram aśvinā ||

    यथा॑ । चि॒त् । कण्व॑म् । आव॑तम् । प्रि॒यऽमे॑धम् । उ॒प॒ऽस्तु॒तम् ।
    अत्रि॑म् । शि॒ञ्जार॑म् । अ॒श्वि॒ना॒ ॥

    यथा । चित् । कण्वम् । आवतम् । प्रियऽमेधम् । उपऽस्तुतम् ।
    अत्रिम् । शिञ्जारम् । अश्विना ॥

    yáthā ǀ cit ǀ káṇvam ǀ ā́vatam ǀ priyá-medham ǀ upa-stutám ǀ
    átrim ǀ śiñjā́ram ǀ aśvinā ǁ

    yathā ǀ cit ǀ kaṇvam ǀ āvatam ǀ priya-medham ǀ upa-stutam ǀ
    atrim ǀ śiñjāram ǀ aśvinā ǁ

    8.5.25 Aṣṭaka 5.8.5.5Anuvāka 8.1.146

  26. Ṛk 26

    यथो॒त कृत्व्ये॒ धने॒ऽंशुं गोष्व॒गस्त्यं॑ ।
    यथा॒ वाजे॑षु॒ सोभ॑रिं ॥

    यथोत कृत्व्ये धने ऽंशुं गोष्व् अगस्त्यम् |
    यथा वाजेषु सोभरिम् ||

    yáthotá kṛ́tvye dháne’ṃśúm góṣvagástyam ǀ
    yáthā vā́jeṣu sóbharim ǁ

    yathota kṛtvye dhane 'ṃśuṃ goṣv agastyam |
    yathā vājeṣu sobharim ||

    यथा॑ । उ॒त । कृत्व्ये॑ । धने॑ । अं॒शुम् । गोषु॑ । अ॒गस्त्य॑म् ।
    यथा॑ । वाजे॑षु । सोभ॑रिम् ॥

    यथा । उत । कृत्व्ये । धने । अंशुम् । गोषु । अगस्त्यम् ।
    यथा । वाजेषु । सोभरिम् ॥

    yáthā ǀ utá ǀ kṛ́tvye ǀ dháne ǀ aṃśúm ǀ góṣu ǀ agástyam ǀ
    yáthā ǀ vā́jeṣu ǀ sóbharim ǁ

    yathā ǀ uta ǀ kṛtvye ǀ dhane ǀ aṃśum ǀ goṣu ǀ agastyam ǀ
    yathā ǀ vājeṣu ǀ sobharim ǁ

    8.5.26 Aṣṭaka 5.8.6.1Anuvāka 8.1.147

  27. Ṛk 27

    ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना ।
    गृ॒णंतः॑ सु॒म्नमी॑महे ॥

    एतावद् वां वृषण्वसू अतो वा भूयो अश्विना |
    गृणन्तः सुम्नम् ईमहे ||

    etā́vadvām vṛṣaṇvasū áto vā bhū́yo aśvinā ǀ
    gṛṇántaḥ sumnámīmahe ǁ

    etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā |
    gṛṇantaḥ sumnam īmahe ||

    ए॒ताव॑त् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । अतः॑ । वा॒ । भूयः॑ । अ॒श्वि॒ना॒ ।
    गृ॒णन्तः॑ । सु॒म्नम् । ई॒म॒हे॒ ॥

    एतावत् । वाम् । वृषण्वसू इति वृषण्ऽवसू । अतः । वा । भूयः । अश्विना ।
    गृणन्तः । सुम्नम् । ईमहे ॥

    etā́vat ǀ vām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ átaḥ ǀ vā ǀ bhū́yaḥ ǀ aśvinā ǀ
    gṛṇántaḥ ǀ sumnám ǀ īmahe ǁ

    etāvat ǀ vām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ ataḥ ǀ vā ǀ bhūyaḥ ǀ aśvinā ǀ
    gṛṇantaḥ ǀ sumnam ǀ īmahe ǁ

    8.5.27 Aṣṭaka 5.8.6.2Anuvāka 8.1.148

  28. Ṛk 28

    रथं॒ हिर॑ण्यवंधुरं॒ हिर॑ण्याभीशुमश्विना ।
    आ हि स्थाथो॑ दिवि॒स्पृशं॑ ॥

    रथं हिरण्यवन्धुरं हिरण्याभीशुम् अश्विना |
    आ हि स्थाथो दिविस्पृशम् ||

    rátham híraṇyavandhuram híraṇyābhīśumaśvinā ǀ
    ā́ hí sthā́tho divispṛ́śam ǁ

    rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśum aśvinā |
    ā hi sthātho divispṛśam ||

    रथ॑म् । हिर॑ण्यऽवन्धुरम् । हिर॑ण्यऽअभीशुम् । अ॒श्वि॒ना॒ ।
    आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥

    रथम् । हिरण्यऽवन्धुरम् । हिरण्यऽअभीशुम् । अश्विना ।
    आ । हि । स्थाथः । दिविऽस्पृशम् ॥

    rátham ǀ híraṇya-vandhuram ǀ híraṇya-abhīśum ǀ aśvinā ǀ
    ā́ ǀ hí ǀ sthā́thaḥ ǀ divi-spṛ́śam ǁ

    ratham ǀ hiraṇya-vandhuram ǀ hiraṇya-abhīśum ǀ aśvinā ǀ
    ā ǀ hi ǀ sthāthaḥ ǀ divi-spṛśam ǁ

    8.5.28 Aṣṭaka 5.8.6.3Anuvāka 8.1.149

  29. Ṛk 29

    हि॒र॒ण्ययी॑ वां॒ रभि॑री॒षा अक्षो॑ हिर॒ण्ययः॑ ।
    उ॒भा च॒क्रा हि॑र॒ण्यया॑ ॥

    हिरण्ययी वां रभिर् ईषा अक्षो हिरण्ययः |
    उभा चक्रा हिरण्यया ||

    hiraṇyáyī vām rábhirīṣā́ ákṣo hiraṇyáyaḥ ǀ
    ubhā́ cakrā́ hiraṇyáyā ǁ

    hiraṇyayī vāṃ rabhir īṣā akṣo hiraṇyayaḥ |
    ubhā cakrā hiraṇyayā ||

    हि॒र॒ण्ययी॑म् । वा॒म् । रभिः॑ । ई॒षा । अक्षः॑ । हि॒र॒ण्ययः॑ ।
    उ॒भा । च॒क्रा । हि॒र॒ण्यया॑ ॥

    हिरण्ययीम् । वाम् । रभिः । ईषा । अक्षः । हिरण्ययः ।
    उभा । चक्रा । हिरण्यया ॥

    hiraṇyáyīm ǀ vām ǀ rábhiḥ ǀ īṣā́ ǀ ákṣaḥ ǀ hiraṇyáyaḥ ǀ
    ubhā́ ǀ cakrā́ ǀ hiraṇyáyā ǁ

    hiraṇyayīm ǀ vām ǀ rabhiḥ ǀ īṣā ǀ akṣaḥ ǀ hiraṇyayaḥ ǀ
    ubhā ǀ cakrā ǀ hiraṇyayā ǁ

    8.5.29 Aṣṭaka 5.8.6.4Anuvāka 8.1.150

  30. Ṛk 30

    तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तं ।
    उपे॒मां सु॑ष्टु॒तिं मम॑ ॥

    तेन नो वाजिनीवसू परावतश् चिद् आ गतम् |
    उपेमां सुष्टुतिम् मम ||

    téna no vājinīvasū parāvátaścidā́ gatam ǀ
    úpemā́m suṣṭutím máma ǁ

    tena no vājinīvasū parāvataś cid ā gatam |
    upemāṃ suṣṭutim mama ||

    तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प॒रा॒ऽवतः॑ । चि॒त् । आ । ग॒त॒म् ।
    उप॑ । इ॒माम् । सु॒ऽस्तु॒तिम् । मम॑ ॥

    तेन । नः । वाजिनीवसू इति वाजिनीऽवसू । पराऽवतः । चित् । आ । गतम् ।
    उप । इमाम् । सुऽस्तुतिम् । मम ॥

    téna ǀ naḥ ǀ vājinīvasū íti vājinī-vasū ǀ parā-vátaḥ ǀ cit ǀ ā́ ǀ gatam ǀ
    úpa ǀ imā́m ǀ su-stutím ǀ máma ǁ

    tena ǀ naḥ ǀ vājinīvasū iti vājinī-vasū ǀ parā-vataḥ ǀ cit ǀ ā ǀ gatam ǀ
    upa ǀ imām ǀ su-stutim ǀ mama ǁ

    8.5.30 Aṣṭaka 5.8.6.5Anuvāka 8.1.151

  31. Ṛk 31

    आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नंता॑वश्विना ।
    इषो॒ दासी॑रमर्त्या ॥

    आ वहेथे पराकात् पूर्वीर् अश्नन्ताव् अश्विना |
    इषो दासीर् अमर्त्या ||

    ā́ vahethe parākā́tpūrvī́raśnántāvaśvinā ǀ
    íṣo dā́sīramartyā ǁ

    ā vahethe parākāt pūrvīr aśnantāv aśvinā |
    iṣo dāsīr amartyā ||

    आ । व॒हे॒थे॒ इति॑ । प॒रा॒कात् । पू॒र्वीः । अ॒श्नन्तौ॑ । अ॒श्वि॒ना॒ ।
    इषः॑ । दासीः॑ । अ॒म॒र्त्या॒ ॥

    आ । वहेथे इति । पराकात् । पूर्वीः । अश्नन्तौ । अश्विना ।
    इषः । दासीः । अमर्त्या ॥

    ā́ ǀ vahethe íti ǀ parākā́t ǀ pūrvī́ḥ ǀ aśnántau ǀ aśvinā ǀ
    íṣaḥ ǀ dā́sīḥ ǀ amartyā ǁ

    ā ǀ vahethe iti ǀ parākāt ǀ pūrvīḥ ǀ aśnantau ǀ aśvinā ǀ
    iṣaḥ ǀ dāsīḥ ǀ amartyā ǁ

    8.5.31 Aṣṭaka 5.8.7.1Anuvāka 8.1.152

  32. Ṛk 32

    आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना ।
    पुरु॑श्चंद्रा॒ नास॑त्या ॥

    आ नो द्युम्नैर् आ श्रवोभिर् आ राया यातम् अश्विना |
    पुरुश्चन्द्रा नासत्या ||

    ā́ no dyumnáirā́ śrávobhirā́ rāyā́ yātamaśvinā ǀ
    púruścandrā nā́satyā ǁ

    ā no dyumnair ā śravobhir ā rāyā yātam aśvinā |
    puruścandrā nāsatyā ||

    आ । नः॒ । द्यु॒म्नैः । आ । श्रवः॑ऽभिः । आ । रा॒या । या॒त॒म् । अ॒श्वि॒ना॒ ।
    पुरु॑ऽचन्द्रा । नास॑त्या ॥

    आ । नः । द्युम्नैः । आ । श्रवःऽभिः । आ । राया । यातम् । अश्विना ।
    पुरुऽचन्द्रा । नासत्या ॥

    ā́ ǀ naḥ ǀ dyumnáiḥ ǀ ā́ ǀ śrávaḥ-bhiḥ ǀ ā́ ǀ rāyā́ ǀ yātam ǀ aśvinā ǀ
    púru-candrā ǀ nā́satyā ǁ

    ā ǀ naḥ ǀ dyumnaiḥ ǀ ā ǀ śravaḥ-bhiḥ ǀ ā ǀ rāyā ǀ yātam ǀ aśvinā ǀ
    puru-candrā ǀ nāsatyā ǁ

    8.5.32 Aṣṭaka 5.8.7.2Anuvāka 8.1.153

  33. Ṛk 33

    एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहंतु प॒र्णिनः॑ ।
    अच्छा॑ स्वध्व॒रं जनं॑ ॥

    एह वाम् प्रुषितप्सवो वयो वहन्तु पर्णिनः |
    अच्छा स्वध्वरं जनम् ||

    éhá vām pruṣitápsavo váyo vahantu parṇínaḥ ǀ
    ácchā svadhvarám jánam ǁ

    eha vām pruṣitapsavo vayo vahantu parṇinaḥ |
    acchā svadhvaraṃ janam ||

    आ । इ॒ह । वा॒म् । प्रु॒षि॒तऽप्स॑वः । वयः॑ । व॒ह॒न्तु॒ । प॒र्णिनः॑ ।
    अच्छ॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् ॥

    आ । इह । वाम् । प्रुषितऽप्सवः । वयः । वहन्तु । पर्णिनः ।
    अच्छ । सुऽअध्वरम् । जनम् ॥

    ā́ ǀ ihá ǀ vām ǀ pruṣitá-psavaḥ ǀ váyaḥ ǀ vahantu ǀ parṇínaḥ ǀ
    áccha ǀ su-adhvarám ǀ jánam ǁ

    ā ǀ iha ǀ vām ǀ pruṣita-psavaḥ ǀ vayaḥ ǀ vahantu ǀ parṇinaḥ ǀ
    accha ǀ su-adhvaram ǀ janam ǁ

    8.5.33 Aṣṭaka 5.8.7.3Anuvāka 8.1.154

  34. Ṛk 34

    रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह ।
    न च॒क्रम॒भि बा॑धते ॥

    रथं वाम् अनुगायसं य इषा वर्तते सह |
    न चक्रम् अभि बाधते ||

    rátham vāmánugāyasam yá iṣā́ vártate sahá ǀ
    ná cakrámabhí bādhate ǁ

    rathaṃ vām anugāyasaṃ ya iṣā vartate saha |
    na cakram abhi bādhate ||

    रथ॑म् । वा॒म् । अनु॑ऽगायसम् । यः । इ॒षा । वर्त॑ते । स॒ह ।
    न । च॒क्रम् । अ॒भि । बा॒ध॒ते॒ ॥

    रथम् । वाम् । अनुऽगायसम् । यः । इषा । वर्तते । सह ।
    न । चक्रम् । अभि । बाधते ॥

    rátham ǀ vām ǀ ánu-gāyasam ǀ yáḥ ǀ iṣā́ ǀ vártate ǀ sahá ǀ
    ná ǀ cakrám ǀ abhí ǀ bādhate ǁ

    ratham ǀ vām ǀ anu-gāyasam ǀ yaḥ ǀ iṣā ǀ vartate ǀ saha ǀ
    na ǀ cakram ǀ abhi ǀ bādhate ǁ

    8.5.34 Aṣṭaka 5.8.7.4Anuvāka 8.1.155

  35. Ṛk 35

    हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वैः॑ ।
    धीज॑वना॒ नास॑त्या ॥

    हिरण्ययेन रथेन द्रवत्पाणिभिर् अश्वैः |
    धीजवना नासत्या ||

    hiraṇyáyena ráthena dravátpāṇibhiráśvaiḥ ǀ
    dhī́javanā nā́satyā ǁ

    hiraṇyayena rathena dravatpāṇibhir aśvaiḥ |
    dhījavanā nāsatyā ||

    हि॒र॒ण्यये॑न । रथे॑न । द्र॒वत्पा॑णिऽभिः । अश्वैः॑ ।
    धीऽज॑वना । नास॑त्या ॥

    हिरण्ययेन । रथेन । द्रवत्पाणिऽभिः । अश्वैः ।
    धीऽजवना । नासत्या ॥

    hiraṇyáyena ǀ ráthena ǀ dravátpāṇi-bhiḥ ǀ áśvaiḥ ǀ
    dhī́-javanā ǀ nā́satyā ǁ

    hiraṇyayena ǀ rathena ǀ dravatpāṇi-bhiḥ ǀ aśvaiḥ ǀ
    dhī-javanā ǀ nāsatyā ǁ

    8.5.35 Aṣṭaka 5.8.7.5Anuvāka 8.1.156

  36. Ṛk 36

    यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू ।
    ता नः॑ पृंक्तमि॒षा र॒यिं ॥

    युवम् मृगं जागृवांसं स्वदथो वा वृषण्वसू |
    ता नः पृङ्क्तम् इषा रयिम् ||

    yuvám mṛgám jāgṛvā́ṃsam svádatho vā vṛṣaṇvasū ǀ
    tā́ naḥ pṛṅktamiṣā́ rayím ǁ

    yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vā vṛṣaṇvasū |
    tā naḥ pṛṅktam iṣā rayim ||

    यु॒वम् । मृ॒गम् । जा॒गृ॒ऽवांसम् । स्वद॑थः । वा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
    ता । नः॒ । पृ॒ङ्क्त॒म् । इ॒षा । र॒यिम् ॥

    युवम् । मृगम् । जागृऽवांसम् । स्वदथः । वा । वृषण्वसू इति वृषण्ऽवसू ।
    ता । नः । पृङ्क्तम् । इषा । रयिम् ॥

    yuvám ǀ mṛgám ǀ jāgṛ-vā́ṃsám ǀ svádathaḥ ǀ vā ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ
    tā́ ǀ naḥ ǀ pṛṅktam ǀ iṣā́ ǀ rayím ǁ

    yuvam ǀ mṛgam ǀ jāgṛ-vāṃsam ǀ svadathaḥ ǀ vā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ
    tā ǀ naḥ ǀ pṛṅktam ǀ iṣā ǀ rayim ǁ

    8.5.36 Aṣṭaka 5.8.8.1Anuvāka 8.1.157

  37. Ṛk 37

    ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नां ।
    यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोनां॑ ॥

    ता मे अश्विना सनीनां विद्यातं नवानाम् |
    यथा चिच् चैद्यः कशुः शतम् उष्ट्रानां ददत् सहस्रा दश गोनाम् ||

    tā́ me aśvinā sanīnā́m vidyā́tam návānām ǀ
    yáthā ciccaidyáḥ kaśúḥ śatámúṣṭrānām dádatsahásrā dáśa gónām ǁ

    tā me aśvinā sanīnāṃ vidyātaṃ navānām |
    yathā cic caidyaḥ kaśuḥ śatam uṣṭrānāṃ dadat sahasrā daśa gonām ||

    ता । मे॒ । अ॒श्वि॒ना॒ । स॒नी॒नाम् । वि॒द्यात॑म् । नवा॑नाम् ।
    यथा॑ । चि॒त् । चै॒द्यः । क॒शुः । श॒तम् । उष्ट्रा॑नाम् । दद॑त् । स॒हस्रा॑ । दश॑ । गोना॑म् ॥

    ता । मे । अश्विना । सनीनाम् । विद्यातम् । नवानाम् ।
    यथा । चित् । चैद्यः । कशुः । शतम् । उष्ट्रानाम् । ददत् । सहस्रा । दश । गोनाम् ॥

    tā́ ǀ me ǀ aśvinā ǀ sanīnā́m ǀ vidyā́tam ǀ návānām ǀ
    yáthā ǀ cit ǀ caidyáḥ ǀ kaśúḥ ǀ śatám ǀ úṣṭrānām ǀ dádat ǀ sahásrā ǀ dáśa ǀ gónām ǁ

    tā ǀ me ǀ aśvinā ǀ sanīnām ǀ vidyātam ǀ navānām ǀ
    yathā ǀ cit ǀ caidyaḥ ǀ kaśuḥ ǀ śatam ǀ uṣṭrānām ǀ dadat ǀ sahasrā ǀ daśa ǀ gonām ǁ

    8.5.37 Aṣṭaka 5.8.8.2Anuvāka 8.1.158

  38. Ṛk 38

    यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत ।
    अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जनाः॑ ॥

    यो मे हिरण्यसंदृशो दश राज्ञो अमंहत |
    अधस्पदा इच् चैद्यस्य कृष्टयश् चर्मम्ना अभितो जनाः ||

    yó me híraṇyasaṃdṛśo dáśa rā́jño ámaṃhata ǀ
    adhaspadā́ íccaidyásya kṛṣṭáyaścarmamnā́ abhíto jánāḥ ǁ

    yo me hiraṇyasaṃdṛśo daśa rājño amaṃhata |
    adhaspadā ic caidyasya kṛṣṭayaś carmamnā abhito janāḥ ||

    यः । मे॒ । हिर॑ण्यऽसन्दृशः । दश॑ । राज्ञः॑ । अमं॑हत ।
    अ॒धः॒ऽप॒दाः । इत् । चै॒द्यस्य॑ । कृ॒ष्टयः॑ । च॒र्म॒ऽम्नाः । अ॒भितः॑ । जनाः॑ ॥

    यः । मे । हिरण्यऽसन्दृशः । दश । राज्ञः । अमंहत ।
    अधःऽपदाः । इत् । चैद्यस्य । कृष्टयः । चर्मऽम्नाः । अभितः । जनाः ॥

    yáḥ ǀ me ǀ híraṇya-sandṛśaḥ ǀ dáśa ǀ rā́jñaḥ ǀ ámaṃhata ǀ
    adhaḥ-padā́ḥ ǀ ít ǀ caidyásya ǀ kṛṣṭáyaḥ ǀ carma-mnā́ḥ ǀ abhítaḥ ǀ jánāḥ ǁ

    yaḥ ǀ me ǀ hiraṇya-sandṛśaḥ ǀ daśa ǀ rājñaḥ ǀ amaṃhata ǀ
    adhaḥ-padāḥ ǀ it ǀ caidyasya ǀ kṛṣṭayaḥ ǀ carma-mnāḥ ǀ abhitaḥ ǀ janāḥ ǁ

    8.5.38 Aṣṭaka 5.8.8.3Anuvāka 8.1.159

  39. Ṛk 39

    माकि॑रे॒ना प॒था गा॒द्येने॒मे यंति॑ चे॒दयः॑ ।
    अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ॥

    माकिर् एना पथा गाद् येनेमे यन्ति चेदयः |
    अन्यो नेत् सूरिर् ओहते भूरिदावत्तरो जनः ||

    mā́kirenā́ pathā́ gādyénemé yánti cedáyaḥ ǀ
    anyó nétsūríróhate bhūridā́vattaro jánaḥ ǁ

    mākir enā pathā gād yeneme yanti cedayaḥ |
    anyo net sūrir ohate bhūridāvattaro janaḥ ||

    माकिः॑ । ए॒ना । प॒था । गा॒त् । येन॑ । इ॒मे । यन्ति॑ । चे॒दयः॑ ।
    अ॒न्यः । न । इत् । सू॒रिः । ओह॑ते । भू॒रि॒दाव॑त्ऽतरः । जनः॑ ॥

    माकिः । एना । पथा । गात् । येन । इमे । यन्ति । चेदयः ।
    अन्यः । न । इत् । सूरिः । ओहते । भूरिदावत्ऽतरः । जनः ॥

    mā́kiḥ ǀ enā́ ǀ pathā́ ǀ gāt ǀ yéna ǀ imé ǀ yánti ǀ cedáyaḥ ǀ
    anyáḥ ǀ ná ǀ ít ǀ sūríḥ ǀ óhate ǀ bhūridā́vat-taraḥ ǀ jánaḥ ǁ

    mākiḥ ǀ enā ǀ pathā ǀ gāt ǀ yena ǀ ime ǀ yanti ǀ cedayaḥ ǀ
    anyaḥ ǀ na ǀ it ǀ sūriḥ ǀ ohate ǀ bhūridāvat-taraḥ ǀ janaḥ ǁ

    8.5.39 Aṣṭaka 5.8.8.4Anuvāka 8.1.160

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.5 · Aśvins · Aśvins (A) · Caidya’s Dānastuti (B) · Caidya’s Dānastuti

Interpretations

Ralph T. H. Griffith

Ṛk 1

WHEN, even as she were present here, red Dawn hath shone from far away, She spreadeth light on every side.

Ṛk 2

Like Heroes on your will-yoked car farshining, Wonder-Workers! ye Attend, O Aśvins, on the Dawn.

Ṛk 3

By you, O Lords of ample wealth our songs of praise have been observed: As envoy have I brought the prayer.

Ṛk 4

Kaṇvas must praise the Aśvins dear to many, making many glad, Most rich, that they may succour us.

Ṛk 5

Most liberal, best at winning strength, inciters, Lords of splendour who Visit the worshipper's abode.

Ṛk 6

So for devout Sudeva dew with fatness his unfailing mead, And make it rich for sacrifice.

Ṛk 7

Hitherward running speedily with horses, as with rapid hawks, Come, Aśvins, to our song of praise

Ṛk 8

Wherewith the three wide distances, and all the lights that are in heaven. Ye traverse, and three times of night.

Ṛk 9

O Finders of the Day, that we may win us food of kine and wealth, Open the paths for us to tread.

Ṛk 10

O Aśvins, bring us wealth in kine, in noble heroes, and in cars: Bring us the strength that horses give.

Ṛk 11

Ye Lords of splendour, glorified, ye Wonder-Workers borne on paths Of gold, drink sweets with Somajuice.

Ṛk 12

To us, ye Lords of ample wealth, and to our wealth chiefs extend Wide shelter, ne’er to be assailed.

Ṛk 13

Come quickly downward to the prayer of people whom ye favour most: Approach not unto other folk.

Ṛk 14

Ye Aśvins whom our minds perceive, drink of this lovely gladdening draught, The mcath which we present to you.

Ṛk 15

Bring riches hither unto us in hundreds and in thousands, source Of plenteous food, sustaining all.

Ṛk 16

Verily sages call on you, ye Heroes, in full many a place. Moved by the priests, O Aśvins, conic.

Ṛk 17

Men who have trimmed the sacred grass, bringing oblations and prepared, O Aśvins, are invoking you.

Ṛk 18

May this our hymn of praise to-day, most powerful to bring you, be, O Aśvins, nearest to your hearts.

Ṛk 19

The skin filled full of savoury meath, laid in the pathway of your car- O Aśvins, drink ye both therefrom.

Ṛk 20

For this, ye Lords of ample wealth, bring blessing for our herd, our kine, Our progeny, and plenteous food.

Ṛk 21

Ye too unclose to us like doors the strengthening waters of the sky, And rivers, ye who find the day.

Ṛk 22

When did the son of Tugra serve you, Men? Abandoned in the sea, That with winged steeds your car might fly.

Ṛk 23

Ye, O Nāsatyas, ministered to Kaṇva with repeated aid, When cast into the heated pit.

Ṛk 24

Come near with those most recent aids of yours which merit eulogy, When I invoke you, Wealthy Gods.

Ṛk 25

As ye protected Kaṇva erst, Priyamedha and Upastuta, Atri, Sinjara, Aśvins Twain

Ṛk 26

And Amsu in decisive fight, Agastya in the fray for kine. And, in his battles, Sobhari.

Ṛk 27

For so much bliss, or even more, O Aśvins, Wealthy Gods, than this, We pray white singing hymns to you.

Ṛk 28

Ascend your car with golden seat, O Aśvins, and with reins of gold, That reaches even to the sky.

Ṛk 29

Golden is its supporting shaft, the axle also is of gold, And both the wheels are made of gold.

Ṛk 30

Thereon, ye Lords of ample wealth, come to us even from afar, Come ye to this mine eulogy.

Ṛk 31

From far away ye come to us, Aśvins, enjoying plenteous food Of Dāsas, O Immortal Ones.

Ṛk 32

With splendour, riches, and renown, O Aśvins, hither come to us, Nāsatyas, shining brilliantly.

Ṛk 33

May dappled horses, steeds who fly with pinions, bring you hitherward To people skilled in sacrifice.

Ṛk 34

The whcel delayeth not that car of yours accompanied by song, That cometh with a store of food.

Ṛk 35

Borne on that chariot wrought of gold, with coursers very fleet of foot, Come, O Nāsatyas, swift as thought.

Ṛk 36

O Wealthy Gods, ye taste and find the brisk and watchful wild beast good. Associate wealth with food for us.

Ṛk 37

As such, O Aśvins, find for me my share of new-presented gifts, As Kasu, Cedi's son, gave me a hundred head of buffaloes, and ten thousand kine.

Ṛk 38

He who hath given me for mine own ten Kings like gold to look upon. At Caidya's feet are all the people round about, all those who think upon the shield.