Sūkta 92
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdgāyatrī (2, 4, 8-12, 22, 25-27, 30); gāyatrī (16-21, 23, 24, 29, 32); virāḍgāyatrī (6, 13-15, 28); gāyatrī (pādanicṛdgāyatrī) (3, 7, 31, 33); virāḍanuṣṭup (1); svarāḍārcīgāyatrī (5)
2nd set of styles gāyatrī (2-33); anuṣṭubh (1)
-
Ṛk 1
पांत॒मा वो॒ अंध॑स॒ इंद्र॑म॒भि प्र गा॑यत ।
वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नां ॥पान्तम् आ वो अन्धस इन्द्रम् अभि प्र गायत |
विश्वासाहं शतक्रतुम् मंहिष्ठं चर्षणीनाम् ||pā́ntamā́ vo ándhasa índramabhí prá gāyata ǀ
viśvāsā́ham śatákratum máṃhiṣṭham carṣaṇīnā́m ǁpāntam ā vo andhasa indram abhi pra gāyata |
viśvāsāhaṃ śatakratum maṃhiṣṭhaṃ carṣaṇīnām ||पान्त॑म् । आ । वः॒ । अन्ध॑सः । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।
वि॒श्व॒ऽसह॑म् । श॒तऽक्र॑तुम् । मंहि॑ष्ठम् । च॒र्ष॒णी॒नाम् ॥पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत ।
विश्वऽसहम् । शतऽक्रतुम् । मंहिष्ठम् । चर्षणीनाम् ॥pā́ntam ǀ ā́ ǀ vaḥ ǀ ándhasaḥ ǀ índram ǀ abhí ǀ prá ǀ gāyata ǀ
viśva-sáham ǀ śatá-kratum ǀ máṃhiṣṭham ǀ carṣaṇīnā́m ǁpāntam ǀ ā ǀ vaḥ ǀ andhasaḥ ǀ indram ǀ abhi ǀ pra ǀ gāyata ǀ
viśva-saham ǀ śata-kratum ǀ maṃhiṣṭham ǀ carṣaṇīnām ǁ8.92.1 Aṣṭaka 6.6.15.1Anuvāka 8.9.83
-
Ṛk 2
पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतं ।
इंद्र॒ इति॑ ब्रवीतन ॥पुरुहूतम् पुरुष्टुतं गाथान्यं सनश्रुतम् |
इन्द्र इति ब्रवीतन ||puruhūtám puruṣṭutám gāthānyám sánaśrutam ǀ
índra íti bravītana ǁpuruhūtam puruṣṭutaṃ gāthānyaṃ sanaśrutam |
indra iti bravītana ||पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् । गा॒था॒न्य॑म् । सन॑ऽश्रुतम् ।
इन्द्रः॑ । इति॑ । ब्र॒वी॒त॒न॒ ॥पुरुऽहूतम् । पुरुऽस्तुतम् । गाथान्यम् । सनऽश्रुतम् ।
इन्द्रः । इति । ब्रवीतन ॥puru-hūtám ǀ puru-stutám ǀ gāthānyám ǀ sána-śrutam ǀ
índraḥ ǀ íti ǀ bravītana ǁpuru-hūtam ǀ puru-stutam ǀ gāthānyam ǀ sana-śrutam ǀ
indraḥ ǀ iti ǀ bravītana ǁ8.92.2 Aṣṭaka 6.6.15.2Anuvāka 8.9.84
-
Ṛk 3
इंद्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः ।
म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥इन्द्र इन् नो महानां दाता वाजानां नृतुः |
महां अभिज्ञ्व् आ यमत् ||índra ínno mahā́nām dātā́ vā́jānām nṛtúḥ ǀ
mahā́m̐ abhijñvā́ yamat ǁindra in no mahānāṃ dātā vājānāṃ nṛtuḥ |
mahāṃ abhijñv ā yamat ||इन्द्रः॑ । इत् । नः॒ । म॒हाना॑म् । द॒ता । वाजा॑नाम् । नृ॒तुः ।
म॒हान् । अ॒भि॒ऽज्ञु । आ । य॒म॒त् ॥इन्द्रः । इत् । नः । महानाम् । दता । वाजानाम् । नृतुः ।
महान् । अभिऽज्ञु । आ । यमत् ॥índraḥ ǀ ít ǀ naḥ ǀ mahā́nām ǀ datā́ ǀ vā́jānām ǀ nṛtúḥ ǀ
mahā́n ǀ abhi-jñú ǀ ā́ ǀ yamat ǁindraḥ ǀ it ǀ naḥ ǀ mahānām ǀ datā ǀ vājānām ǀ nṛtuḥ ǀ
mahān ǀ abhi-jñu ǀ ā ǀ yamat ǁ8.92.3 Aṣṭaka 6.6.15.3Anuvāka 8.9.85
-
Ṛk 4
अपा॑दु शि॒प्र्यंध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ ।
इंदो॒रिंद्रो॒ यवा॑शिरः ॥अपाद् उ शिप्र्य् अन्धसः सुदक्षस्य प्रहोषिणः |
इन्दोर् इन्द्रो यवाशिरः ||ápādu śipryándhasaḥ sudákṣasya prahoṣíṇaḥ ǀ
índoríndro yávāśiraḥ ǁapād u śipry andhasaḥ sudakṣasya prahoṣiṇaḥ |
indor indro yavāśiraḥ ||अपा॑त् । ऊं॒ इति॑ । शि॒प्री । अन्ध॑सः । सु॒ऽदक्ष॑स्य । प्र॒ऽहो॒षिणः॑ ।
इन्दोः॑ । इन्द्रः॑ । यव॑ऽआशिरः ॥अपात् । ऊं इति । शिप्री । अन्धसः । सुऽदक्षस्य । प्रऽहोषिणः ।
इन्दोः । इन्द्रः । यवऽआशिरः ॥ápāt ǀ ūṃ íti ǀ śiprī́ ǀ ándhasaḥ ǀ su-dákṣasya ǀ pra-hoṣíṇaḥ ǀ
índoḥ ǀ índraḥ ǀ yáva-āśiraḥ ǁapāt ǀ ūṃ iti ǀ śiprī ǀ andhasaḥ ǀ su-dakṣasya ǀ pra-hoṣiṇaḥ ǀ
indoḥ ǀ indraḥ ǀ yava-āśiraḥ ǁ8.92.4 Aṣṭaka 6.6.15.4Anuvāka 8.9.86
-
Ṛk 5
तम्व॒भि प्रार्च॒तेंद्रं॒ सोम॑स्य पी॒तये॑ ।
तदिद्ध्य॑स्य॒ वर्ध॑नं ॥तम् व् अभि प्रार्चतेन्द्रं सोमस्य पीतये |
तद् इद् ध्य् अस्य वर्धनम् ||támvabhí prā́rcaténdram sómasya pītáye ǀ
tádíddhyásya várdhanam ǁtam v abhi prārcatendraṃ somasya pītaye |
tad id dhy asya vardhanam ||तम् । ऊं॒ इति॑ । अ॒भि । प्र । अ॒र्च॒त॒ । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ।
तत् । इत् । हि । अ॒स्य॒ । वर्ध॑नम् ॥तम् । ऊं इति । अभि । प्र । अर्चत । इन्द्रम् । सोमस्य । पीतये ।
तत् । इत् । हि । अस्य । वर्धनम् ॥tám ǀ ūṃ íti ǀ abhí ǀ prá ǀ arcata ǀ índram ǀ sómasya ǀ pītáye ǀ
tát ǀ ít ǀ hí ǀ asya ǀ várdhanam ǁtam ǀ ūṃ iti ǀ abhi ǀ pra ǀ arcata ǀ indram ǀ somasya ǀ pītaye ǀ
tat ǀ it ǀ hi ǀ asya ǀ vardhanam ǁ8.92.5 Aṣṭaka 6.6.15.5Anuvāka 8.9.87
-
Ṛk 6
अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा ।
विश्वा॒भि भुव॑ना भुवत् ॥अस्य पीत्वा मदानां देवो देवस्यौजसा |
विश्वाभि भुवना भुवत् ||asyá pītvā́ mádānām devó devásyáujasā ǀ
víśvābhí bhúvanā bhuvat ǁasya pītvā madānāṃ devo devasyaujasā |
viśvābhi bhuvanā bhuvat ||अ॒स्य । पी॒त्वा । मदा॑नाम् । दे॒वः । दे॒वस्य॑ । ओज॑सा ।
विश्वा॑ । अ॒भि । भुव॑ना । भु॒व॒त् ॥अस्य । पीत्वा । मदानाम् । देवः । देवस्य । ओजसा ।
विश्वा । अभि । भुवना । भुवत् ॥asyá ǀ pītvā́ ǀ mádānām ǀ deváḥ ǀ devásya ǀ ójasā ǀ
víśvā ǀ abhí ǀ bhúvanā ǀ bhuvat ǁasya ǀ pītvā ǀ madānām ǀ devaḥ ǀ devasya ǀ ojasā ǀ
viśvā ǀ abhi ǀ bhuvanā ǀ bhuvat ǁ8.92.6 Aṣṭaka 6.6.16.1Anuvāka 8.9.88
-
Ṛk 7
त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तं ।
आ च्या॑वयस्यू॒तये॑ ॥त्यम् उ वः सत्रासाहं विश्वासु गीर्ष्व् आयतम् |
आ च्यावयस्य् ऊतये ||tyámu vaḥ satrāsā́ham víśvāsu gīrṣvā́yatam ǀ
ā́ cyāvayasyūtáye ǁtyam u vaḥ satrāsāhaṃ viśvāsu gīrṣv āyatam |
ā cyāvayasy ūtaye ||त्यम् । ऊं॒ इति॑ । वः॒ । स॒त्रा॒ऽसह॑म् । विश्वा॑सु । गी॒र्षु । आऽय॑तम् ।
आ । च्य॒व॒य॒सि॒ । ऊ॒तये॑ ॥त्यम् । ऊं इति । वः । सत्राऽसहम् । विश्वासु । गीर्षु । आऽयतम् ।
आ । च्यवयसि । ऊतये ॥tyám ǀ ūṃ íti ǀ vaḥ ǀ satrā-sáham ǀ víśvāsu ǀ gīrṣú ǀ ā́-yatam ǀ
ā́ ǀ cyavayasi ǀ ūtáye ǁtyam ǀ ūṃ iti ǀ vaḥ ǀ satrā-saham ǀ viśvāsu ǀ gīrṣu ǀ ā-yatam ǀ
ā ǀ cyavayasi ǀ ūtaye ǁ8.92.7 Aṣṭaka 6.6.16.2Anuvāka 8.9.89
-
Ṛk 8
यु॒ध्मं संत॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतं ।
नर॑मवा॒र्यक्र॑तुं ॥युध्मं सन्तम् अनर्वाणं सोमपाम् अनपच्युतम् |
नरम् अवार्यक्रतुम् ||yudhmám sántamanarvā́ṇam somapā́mánapacyutam ǀ
náramavāryákratum ǁyudhmaṃ santam anarvāṇaṃ somapām anapacyutam |
naram avāryakratum ||यु॒ध्मम् । सन्त॑म् । अ॒न॒र्वाण॑म् । सो॒म॒ऽपाम् । अन॑पऽच्युतम् ।
नर॑म् । अ॒वा॒र्यऽक्र॑तुम् ॥युध्मम् । सन्तम् । अनर्वाणम् । सोमऽपाम् । अनपऽच्युतम् ।
नरम् । अवार्यऽक्रतुम् ॥yudhmám ǀ sántam ǀ anarvā́ṇam ǀ soma-pā́m ǀ ánapa-cyutam ǀ
náram ǀ avāryá-kratum ǁyudhmam ǀ santam ǀ anarvāṇam ǀ soma-pām ǀ anapa-cyutam ǀ
naram ǀ avārya-kratum ǁ8.92.8 Aṣṭaka 6.6.16.3Anuvāka 8.9.90
-
Ṛk 9
शिक्षा॑ ण इंद्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम ।
अवा॑ नः॒ पार्ये॒ धने॑ ॥शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम |
अवा नः पार्ये धने ||śíkṣā ṇa indra rāyá ā́ purú vidvā́m̐ ṛcīṣama ǀ
ávā naḥ pā́rye dháne ǁśikṣā ṇa indra rāya ā puru vidvāṃ ṛcīṣama |
avā naḥ pārye dhane ||शिक्ष॑ । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । पु॒रु । वि॒द्वान् । ऋ॒ची॒ष॒म॒ ।
अव॑ । नः॒ । पार्ये॑ । धने॑ ॥शिक्ष । नः । इन्द्र । रायः । आ । पुरु । विद्वान् । ऋचीषम ।
अव । नः । पार्ये । धने ॥śíkṣa ǀ naḥ ǀ indra ǀ rāyáḥ ǀ ā́ ǀ purú ǀ vidvā́n ǀ ṛcīṣama ǀ
áva ǀ naḥ ǀ pā́rye ǀ dháne ǁśikṣa ǀ naḥ ǀ indra ǀ rāyaḥ ǀ ā ǀ puru ǀ vidvān ǀ ṛcīṣama ǀ
ava ǀ naḥ ǀ pārye ǀ dhane ǁ8.92.9 Aṣṭaka 6.6.16.4Anuvāka 8.9.91
-
Ṛk 10
अत॑श्चिदिंद्र ण॒ उपा या॑हि श॒तवा॑जया ।
इ॒षा स॒हस्र॑वाजया ॥अतश् चिद् इन्द्र ण उपा याहि शतवाजया |
इषा सहस्रवाजया ||átaścidindra ṇa úpā́ yāhi śatávājayā ǀ
iṣā́ sahásravājayā ǁataś cid indra ṇa upā yāhi śatavājayā |
iṣā sahasravājayā ||अतः॑ । चि॒त् । इ॒न्द्र॒ । नः॒ । उप॑ । आ । या॒हि॒ । श॒तऽवा॑जया ।
इ॒षा । स॒हस्र॑ऽवाजया ॥अतः । चित् । इन्द्र । नः । उप । आ । याहि । शतऽवाजया ।
इषा । सहस्रऽवाजया ॥átaḥ ǀ cit ǀ indra ǀ naḥ ǀ úpa ǀ ā́ ǀ yāhi ǀ śatá-vājayā ǀ
iṣā́ ǀ sahásra-vājayā ǁataḥ ǀ cit ǀ indra ǀ naḥ ǀ upa ǀ ā ǀ yāhi ǀ śata-vājayā ǀ
iṣā ǀ sahasra-vājayā ǁ8.92.10 Aṣṭaka 6.6.16.5Anuvāka 8.9.92
-
Ṛk 11
अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे ।
जये॑म पृ॒त्सु व॑ज्रिवः ॥अयाम धीवतो धियो ऽर्वद्भिः शक्र गोदरे |
जयेम पृत्सु वज्रिवः ||áyāma dhī́vato dhíyó’rvadbhiḥ śakra godare ǀ
jáyema pṛtsú vajrivaḥ ǁayāma dhīvato dhiyo 'rvadbhiḥ śakra godare |
jayema pṛtsu vajrivaḥ ||अया॑म । धीऽव॑तः । धियः॑ । अर्व॑त्ऽभिः । श॒क्र॒ । गो॒ऽद॒रे॒ ।
जये॑म । पृ॒त्ऽसु । व॒ज्रि॒ऽवः॒ ॥अयाम । धीऽवतः । धियः । अर्वत्ऽभिः । शक्र । गोऽदरे ।
जयेम । पृत्ऽसु । वज्रिऽवः ॥áyāma ǀ dhī́-vataḥ ǀ dhíyaḥ ǀ árvat-bhiḥ ǀ śakra ǀ go-dare ǀ
jáyema ǀ pṛt-sú ǀ vajri-vaḥ ǁayāma ǀ dhī-vataḥ ǀ dhiyaḥ ǀ arvat-bhiḥ ǀ śakra ǀ go-dare ǀ
jayema ǀ pṛt-su ǀ vajri-vaḥ ǁ8.92.11 Aṣṭaka 6.6.17.1Anuvāka 8.9.93
-
Ṛk 12
व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा ।
उ॒क्थेषु॑ रणयामसि ॥वयम् उ त्वा शतक्रतो गावो न यवसेष्व् आ |
उक्थेषु रणयामसि ||vayámu tvā śatakrato gā́vo ná yávaseṣvā́ ǀ
ukthéṣu raṇayāmasi ǁvayam u tvā śatakrato gāvo na yavaseṣv ā |
uktheṣu raṇayāmasi ||व॒यम् । ऊं॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । गावः॑ । न । यव॑सेषु । आ ।
उ॒क्थेषु॑ । र॒ण॒या॒म॒सि॒ ॥वयम् । ऊं इति । त्वा । शतक्रतो इति शतऽक्रतो । गावः । न । यवसेषु । आ ।
उक्थेषु । रणयामसि ॥vayám ǀ ūṃ íti ǀ tvā ǀ śatakrato íti śata-krato ǀ gā́vaḥ ǀ ná ǀ yávaseṣu ǀ ā́ ǀ
ukthéṣu ǀ raṇayāmasi ǁvayam ǀ ūṃ iti ǀ tvā ǀ śatakrato iti śata-krato ǀ gāvaḥ ǀ na ǀ yavaseṣu ǀ ā ǀ
uktheṣu ǀ raṇayāmasi ǁ8.92.12 Aṣṭaka 6.6.17.2Anuvāka 8.9.94
-
Ṛk 13
विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो ।
अग॑न्म वज्रिन्ना॒शसः॑ ॥विश्वा हि मर्त्यत्वनानुकामा शतक्रतो |
अगन्म वज्रिन्न् आशसः ||víśvā hí martyatvanā́nukāmā́ śatakrato ǀ
áganma vajrinnāśásaḥ ǁviśvā hi martyatvanānukāmā śatakrato |
aganma vajrinn āśasaḥ ||विश्वा॑ । हि । म॒र्त्य॒ऽत्व॒ना । अ॒नु॒ऽका॒मा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
अग॑न्म । व॒ज्रि॒न् । आ॒ऽशसः॑ ॥विश्वा । हि । मर्त्यऽत्वना । अनुऽकामा । शतक्रतो इति शतऽक्रतो ।
अगन्म । वज्रिन् । आऽशसः ॥víśvā ǀ hí ǀ martya-tvanā́ ǀ anu-kāmā́ ǀ śatakrato íti śata-krato ǀ
áganma ǀ vajrin ǀ ā-śásaḥ ǁviśvā ǀ hi ǀ martya-tvanā ǀ anu-kāmā ǀ śatakrato iti śata-krato ǀ
aganma ǀ vajrin ǀ ā-śasaḥ ǁ8.92.13 Aṣṭaka 6.6.17.3Anuvāka 8.9.95
-
Ṛk 14
त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः ।
न त्वामिं॒द्राति॑ रिच्यते ॥त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः |
न त्वाम् इन्द्राति रिच्यते ||tvé sú putra śavasó’vṛtrankā́makātayaḥ ǀ
ná tvā́mindrā́ti ricyate ǁtve su putra śavaso 'vṛtran kāmakātayaḥ |
na tvām indrāti ricyate ||त्वे इति॑ । सु । पु॒त्र॒ । श॒व॒सः॒ । अवृ॑त्रन् । काम॑ऽकातयः ।
न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥त्वे इति । सु । पुत्र । शवसः । अवृत्रन् । कामऽकातयः ।
न । त्वाम् । इन्द्र । अति । रिच्यते ॥tvé íti ǀ sú ǀ putra ǀ śavasaḥ ǀ ávṛtran ǀ kā́ma-kātayaḥ ǀ
ná ǀ tvā́m ǀ indra ǀ áti ǀ ricyate ǁtve iti ǀ su ǀ putra ǀ śavasaḥ ǀ avṛtran ǀ kāma-kātayaḥ ǀ
na ǀ tvām ǀ indra ǀ ati ǀ ricyate ǁ8.92.14 Aṣṭaka 6.6.17.4Anuvāka 8.9.96
-
Ṛk 15
स नो॑ वृष॒न्त्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा ।
धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥स नो वृषन् सनिष्ठया सं घोरया द्रवित्न्वा |
धियाविड्ढि पुरन्ध्या ||sá no vṛṣantsániṣṭhayā sám ghoráyā dravitnvā́ ǀ
dhiyā́viḍḍhi púraṃdhyā ǁsa no vṛṣan saniṣṭhayā saṃ ghorayā dravitnvā |
dhiyāviḍḍhi purandhyā ||सः । नः॒ । वृ॒ष॒न् । सनि॑ष्ठया । सम् । घो॒रया॑ । द्र॒वि॒त्न्वा ।
धि॒या । अ॒वि॒ड्ढि॒ । पुर॑म्ऽध्या ॥सः । नः । वृषन् । सनिष्ठया । सम् । घोरया । द्रवित्न्वा ।
धिया । अविड्ढि । पुरम्ऽध्या ॥sáḥ ǀ naḥ ǀ vṛṣan ǀ sániṣṭhayā ǀ sám ǀ ghoráyā ǀ dravitnvā́ ǀ
dhiyā́ ǀ aviḍḍhi ǀ púram-dhyā ǁsaḥ ǀ naḥ ǀ vṛṣan ǀ saniṣṭhayā ǀ sam ǀ ghorayā ǀ dravitnvā ǀ
dhiyā ǀ aviḍḍhi ǀ puram-dhyā ǁ8.92.15 Aṣṭaka 6.6.17.5Anuvāka 8.9.97
-
Ṛk 16
यस्ते॑ नू॒नं श॑तक्रत॒विंद्र॑ द्यु॒म्नित॑मो॒ मदः॑ ।
तेन॑ नू॒नं मदे॑ मदेः ॥यस् ते नूनं शतक्रतव् इन्द्र द्युम्नितमो मदः |
तेन नूनम् मदे मदेः ||yáste nūnám śatakratavíndra dyumnítamo mádaḥ ǀ
téna nūnám máde madeḥ ǁyas te nūnaṃ śatakratav indra dyumnitamo madaḥ |
tena nūnam made madeḥ ||यः । ते॒ । नू॒नम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । द्यु॒म्निऽत॑मः । मदः॑ ।
तेन॑ । नू॒नम् । मदे॑ । म॒दे॒रिति॑ मदेः ॥यः । ते । नूनम् । शतक्रतो इति शतऽक्रतो । इन्द्र । द्युम्निऽतमः । मदः ।
तेन । नूनम् । मदे । मदेरिति मदेः ॥yáḥ ǀ te ǀ nūnám ǀ śatakrato íti śata-krato ǀ índra ǀ dyumní-tamaḥ ǀ mádaḥ ǀ
téna ǀ nūnám ǀ máde ǀ maderíti madeḥ ǁyaḥ ǀ te ǀ nūnam ǀ śatakrato iti śata-krato ǀ indra ǀ dyumni-tamaḥ ǀ madaḥ ǀ
tena ǀ nūnam ǀ made ǀ maderiti madeḥ ǁ8.92.16 Aṣṭaka 6.6.18.1Anuvāka 8.9.98
-
Ṛk 17
यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इं॑द्र वृत्र॒हंत॑मः ।
य ओ॑जो॒दात॑मो॒ मदः॑ ॥यस् ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः |
य ओजोदातमो मदः ||yáste citráśravastamo yá indra vṛtrahántamaḥ ǀ
yá ojodā́tamo mádaḥ ǁyas te citraśravastamo ya indra vṛtrahantamaḥ |
ya ojodātamo madaḥ ||यः । ते॒ । चि॒त्रश्र॑वःऽतमः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्ऽत॑मः ।
यः । ओ॒जः॒ऽदात॑मः । मदः॑ ॥यः । ते । चित्रश्रवःऽतमः । यः । इन्द्र । वृत्रहन्ऽतमः ।
यः । ओजःऽदातमः । मदः ॥yáḥ ǀ te ǀ citráśravaḥ-tamaḥ ǀ yáḥ ǀ indra ǀ vṛtrahán-tamaḥ ǀ
yáḥ ǀ ojaḥ-dā́tamaḥ ǀ mádaḥ ǁyaḥ ǀ te ǀ citraśravaḥ-tamaḥ ǀ yaḥ ǀ indra ǀ vṛtrahan-tamaḥ ǀ
yaḥ ǀ ojaḥ-dātamaḥ ǀ madaḥ ǁ8.92.17 Aṣṭaka 6.6.18.2Anuvāka 8.9.99
-
Ṛk 18
वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः ।
विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥विद्मा हि यस् ते अद्रिवस् त्वादत्तः सत्य सोमपाः |
विश्वासु दस्म कृष्टिषु ||vidmā́ hí yáste adrivastvā́dattaḥ satya somapāḥ ǀ
víśvāsu dasma kṛṣṭíṣu ǁvidmā hi yas te adrivas tvādattaḥ satya somapāḥ |
viśvāsu dasma kṛṣṭiṣu ||वि॒द्म । हि । यः । ते॒ । अ॒द्रि॒ऽवः॒ । त्वाऽद॑त्तः । स॒त्य॒ । सो॒म॒ऽपाः॒ ।
विश्वा॑सु । द॒स्म॒ । कृ॒ष्टिषु॑ ॥विद्म । हि । यः । ते । अद्रिऽवः । त्वाऽदत्तः । सत्य । सोमऽपाः ।
विश्वासु । दस्म । कृष्टिषु ॥vidmá ǀ hí ǀ yáḥ ǀ te ǀ adri-vaḥ ǀ tvā́-dattaḥ ǀ satya ǀ soma-pāḥ ǀ
víśvāsu ǀ dasma ǀ kṛṣṭíṣu ǁvidma ǀ hi ǀ yaḥ ǀ te ǀ adri-vaḥ ǀ tvā-dattaḥ ǀ satya ǀ soma-pāḥ ǀ
viśvāsu ǀ dasma ǀ kṛṣṭiṣu ǁ8.92.18 Aṣṭaka 6.6.18.3Anuvāka 8.9.100
-
Ṛk 19
इंद्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभंतु नो॒ गिरः॑ ।
अ॒र्कम॑र्चंतु का॒रवः॑ ॥इन्द्राय मद्वने सुतम् परि ष्टोभन्तु नो गिरः |
अर्कम् अर्चन्तु कारवः ||índrāya mádvane sutám pári ṣṭobhantu no gíraḥ ǀ
arkámarcantu kārávaḥ ǁindrāya madvane sutam pari ṣṭobhantu no giraḥ |
arkam arcantu kāravaḥ ||इन्द्रा॑य । मद्व॑ने । सु॒तम् । परि॑ । स्तो॒भ॒न्तु॒ । नः॒ । गिरः॑ ।
अ॒र्कम् । अ॒र्च॒न्तु॒ । का॒रवः॑ ॥इन्द्राय । मद्वने । सुतम् । परि । स्तोभन्तु । नः । गिरः ।
अर्कम् । अर्चन्तु । कारवः ॥índrāya ǀ mádvane ǀ sutám ǀ pári ǀ stobhantu ǀ naḥ ǀ gíraḥ ǀ
arkám ǀ arcantu ǀ kārávaḥ ǁindrāya ǀ madvane ǀ sutam ǀ pari ǀ stobhantu ǀ naḥ ǀ giraḥ ǀ
arkam ǀ arcantu ǀ kāravaḥ ǁ8.92.19 Aṣṭaka 6.6.18.4Anuvāka 8.9.101
-
Ṛk 20
यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रणं॑ति स॒प्त सं॒सदः॑ ।
इंद्रं॑ सु॒ते ह॑वामहे ॥यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः |
इन्द्रं सुते हवामहे ||yásminvíśvā ádhi śríyo ráṇanti saptá saṃsádaḥ ǀ
índram suté havāmahe ǁyasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ |
indraṃ sute havāmahe ||यस्मि॑न् । विश्वाः॑ । अधि॑ । श्रियः॑ । रण॑न्ति । स॒प्त । स॒म्ऽसदः॑ ।
इन्द्र॑म् । सु॒ते । ह॒वा॒म॒हे॒ ॥यस्मिन् । विश्वाः । अधि । श्रियः । रणन्ति । सप्त । सम्ऽसदः ।
इन्द्रम् । सुते । हवामहे ॥yásmin ǀ víśvāḥ ǀ ádhi ǀ śríyaḥ ǀ ráṇanti ǀ saptá ǀ sam-sádaḥ ǀ
índram ǀ suté ǀ havāmahe ǁyasmin ǀ viśvāḥ ǀ adhi ǀ śriyaḥ ǀ raṇanti ǀ sapta ǀ sam-sadaḥ ǀ
indram ǀ sute ǀ havāmahe ǁ8.92.20 Aṣṭaka 6.6.18.5Anuvāka 8.9.102
-
Ṛk 21
त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
तमिद्व॑र्धंतु नो॒ गिरः॑ ॥त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत |
तम् इद् वर्धन्तु नो गिरः ||tríkadrukeṣu cétanam devā́so yajñámatnata ǀ
támídvardhantu no gíraḥ ǁtrikadrukeṣu cetanaṃ devāso yajñam atnata |
tam id vardhantu no giraḥ ||त्रिऽक॑द्रुकेषु । चेत॑नम् । दे॒वासः॑ । य॒ज्ञम् । अ॒त्न॒त॒ ।
तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥त्रिऽकद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत ।
तम् । इत् । वर्धन्तु । नः । गिरः ॥trí-kadrukeṣu ǀ cétanam ǀ devā́saḥ ǀ yajñám ǀ atnata ǀ
tám ǀ ít ǀ vardhantu ǀ naḥ ǀ gíraḥ ǁtri-kadrukeṣu ǀ cetanam ǀ devāsaḥ ǀ yajñam ǀ atnata ǀ
tam ǀ it ǀ vardhantu ǀ naḥ ǀ giraḥ ǁ8.92.21 Aṣṭaka 6.6.19.1Anuvāka 8.9.103
-
Ṛk 22
आ त्वा॑ विशं॒त्विंद॑वः समु॒द्रमि॑व॒ सिंध॑वः ।
न त्वामिं॒द्राति॑ रिच्यते ॥आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः |
न त्वाम् इन्द्राति रिच्यते ||ā́ tvā viśantvíndavaḥ samudrámiva síndhavaḥ ǀ
ná tvā́mindrā́ti ricyate ǁā tvā viśantv indavaḥ samudram iva sindhavaḥ |
na tvām indrāti ricyate ||आ । त्वा॒ । वि॒श॒न्तु॒ । इन्द॑वः । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।
न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥आ । त्वा । विशन्तु । इन्दवः । समुद्रम्ऽइव । सिन्धवः ।
न । त्वाम् । इन्द्र । अति । रिच्यते ॥ā́ ǀ tvā ǀ viśantu ǀ índavaḥ ǀ samudrám-iva ǀ síndhavaḥ ǀ
ná ǀ tvā́m ǀ indra ǀ áti ǀ ricyate ǁā ǀ tvā ǀ viśantu ǀ indavaḥ ǀ samudram-iva ǀ sindhavaḥ ǀ
na ǀ tvām ǀ indra ǀ ati ǀ ricyate ǁ8.92.22 Aṣṭaka 6.6.19.2Anuvāka 8.9.104
-
Ṛk 23
वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे ।
य इं॑द्र ज॒ठरे॑षु ते ॥विव्यक्थ महिना वृषन् भक्षं सोमस्य जागृवे |
य इन्द्र जठरेषु ते ||vivyáktha mahinā́ vṛṣanbhakṣám sómasya jāgṛve ǀ
yá indra jaṭháreṣu te ǁvivyaktha mahinā vṛṣan bhakṣaṃ somasya jāgṛve |
ya indra jaṭhareṣu te ||वि॒व्यक्थ॑ । म॒हि॒ना । वृ॒ष॒न् । भ॒क्षम् । सोम॑स्य । जा॒गृ॒वे॒ ।
यः । इ॒न्द्र॒ । ज॒ठरे॑षु । ते॒ ॥विव्यक्थ । महिना । वृषन् । भक्षम् । सोमस्य । जागृवे ।
यः । इन्द्र । जठरेषु । ते ॥vivyáktha ǀ mahinā́ ǀ vṛṣan ǀ bhakṣám ǀ sómasya ǀ jāgṛve ǀ
yáḥ ǀ indra ǀ jaṭháreṣu ǀ te ǁvivyaktha ǀ mahinā ǀ vṛṣan ǀ bhakṣam ǀ somasya ǀ jāgṛve ǀ
yaḥ ǀ indra ǀ jaṭhareṣu ǀ te ǁ8.92.23 Aṣṭaka 6.6.19.3Anuvāka 8.9.105
-
Ṛk 24
अरं॑ त इंद्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् ।
अरं॒ धाम॑भ्य॒ इंद॑वः ॥अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् |
अरं धामभ्य इन्दवः ||áram ta indra kukṣáye sómo bhavatu vṛtrahan ǀ
áram dhā́mabhya índavaḥ ǁaraṃ ta indra kukṣaye somo bhavatu vṛtrahan |
araṃ dhāmabhya indavaḥ ||अर॑म् । ते॒ । इ॒न्द्र॒ । कु॒क्षये॑ । सोमः॑ । भ॒व॒तु॒ । वृ॒त्र॒ऽह॒न् ।
अर॑म् । धाम॑ऽभ्यः । इन्द॑वः ॥अरम् । ते । इन्द्र । कुक्षये । सोमः । भवतु । वृत्रऽहन् ।
अरम् । धामऽभ्यः । इन्दवः ॥áram ǀ te ǀ indra ǀ kukṣáye ǀ sómaḥ ǀ bhavatu ǀ vṛtra-han ǀ
áram ǀ dhā́ma-bhyaḥ ǀ índavaḥ ǁaram ǀ te ǀ indra ǀ kukṣaye ǀ somaḥ ǀ bhavatu ǀ vṛtra-han ǀ
aram ǀ dhāma-bhyaḥ ǀ indavaḥ ǁ8.92.24 Aṣṭaka 6.6.19.4Anuvāka 8.9.106
-
Ṛk 25
अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ ।
अर॒मिंद्र॑स्य॒ धाम्ने॑ ॥अरम् अश्वाय गायति श्रुतकक्षो अरं गवे |
अरम् इन्द्रस्य धाम्ने ||áramáśvāya gāyati śrutákakṣo áram gáve ǀ
áramíndrasya dhā́mne ǁaram aśvāya gāyati śrutakakṣo araṃ gave |
aram indrasya dhāmne ||अर॑म् । अश्वा॑य । गा॒य॒ति॒ । श्रु॒तऽक॑क्षः । अर॑म् । गवे॑ ।
अर॑म् । इन्द्र॑स्य । धाम्ने॑ ॥अरम् । अश्वाय । गायति । श्रुतऽकक्षः । अरम् । गवे ।
अरम् । इन्द्रस्य । धाम्ने ॥áram ǀ áśvāya ǀ gāyati ǀ śrutá-kakṣaḥ ǀ áram ǀ gáve ǀ
áram ǀ índrasya ǀ dhā́mne ǁaram ǀ aśvāya ǀ gāyati ǀ śruta-kakṣaḥ ǀ aram ǀ gave ǀ
aram ǀ indrasya ǀ dhāmne ǁ8.92.25 Aṣṭaka 6.6.19.5Anuvāka 8.9.107
-
Ṛk 26
अरं॒ हि ष्म॑ सु॒तेषु॑ णः॒ सोमे॑ष्विंद्र॒ भूष॑सि ।
अरं॑ ते शक्र दा॒वने॑ ॥अरं हि ष्म सुतेषु णः सोमेष्व् इन्द्र भूषसि |
अरं ते शक्र दावने ||áram hí ṣma sutéṣu ṇaḥ sómeṣvindra bhū́ṣasi ǀ
áram te śakra dāváne ǁaraṃ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi |
araṃ te śakra dāvane ||अर॑म् । हि । स्म॒ । सु॒तेषु॑ । नः॒ । सोमे॑षु । इ॒न्द्र॒ । भूष॑सि ।
अर॑म् । ते॒ । श॒क्र॒ । दा॒वने॑ ॥अरम् । हि । स्म । सुतेषु । नः । सोमेषु । इन्द्र । भूषसि ।
अरम् । ते । शक्र । दावने ॥áram ǀ hí ǀ sma ǀ sutéṣu ǀ naḥ ǀ sómeṣu ǀ indra ǀ bhū́ṣasi ǀ
áram ǀ te ǀ śakra ǀ dāváne ǁaram ǀ hi ǀ sma ǀ suteṣu ǀ naḥ ǀ someṣu ǀ indra ǀ bhūṣasi ǀ
aram ǀ te ǀ śakra ǀ dāvane ǁ8.92.26 Aṣṭaka 6.6.19.6Anuvāka 8.9.108
-
Ṛk 27
प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षंत नो॒ गिरः॑ ।
अरं॑ गमाम ते व॒यं ॥पराकात्ताच् चिद् अद्रिवस् त्वां नक्षन्त नो गिरः |
अरं गमाम ते वयम् ||parākā́ttāccidadrivastvā́m nakṣanta no gíraḥ ǀ
áram gamāma te vayám ǁparākāttāc cid adrivas tvāṃ nakṣanta no giraḥ |
araṃ gamāma te vayam ||प॒रा॒कात्ता॑त् । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वाम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ।
अर॑म् । ग॒मा॒म॒ । ते॒ । व॒यम् ॥पराकात्तात् । चित् । अद्रिऽवः । त्वाम् । नक्षन्त । नः । गिरः ।
अरम् । गमाम । ते । वयम् ॥parākā́ttāt ǀ cit ǀ adri-vaḥ ǀ tvā́m ǀ nakṣanta ǀ naḥ ǀ gíraḥ ǀ
áram ǀ gamāma ǀ te ǀ vayám ǁparākāttāt ǀ cit ǀ adri-vaḥ ǀ tvām ǀ nakṣanta ǀ naḥ ǀ giraḥ ǀ
aram ǀ gamāma ǀ te ǀ vayam ǁ8.92.27 Aṣṭaka 6.6.20.1Anuvāka 8.9.109
-
Ṛk 28
ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।
ए॒वा ते॒ राध्यं॒ मनः॑ ॥एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः |
एवा ते राध्यम् मनः ||evā́ hyási vīrayúrevā́ śū́ra utá sthiráḥ ǀ
evā́ te rā́dhyam mánaḥ ǁevā hy asi vīrayur evā śūra uta sthiraḥ |
evā te rādhyam manaḥ ||ए॒व । हि । असि॑ । वी॒र॒ऽयुः । ए॒व । शूरः॑ । उ॒त । स्थि॒रः ।
ए॒व । ते॒ । राध्य॑म् । मनः॑ ॥एव । हि । असि । वीरऽयुः । एव । शूरः । उत । स्थिरः ।
एव । ते । राध्यम् । मनः ॥evá ǀ hí ǀ ási ǀ vīra-yúḥ ǀ evá ǀ śū́raḥ ǀ utá ǀ sthiráḥ ǀ
evá ǀ te ǀ rā́dhyam ǀ mánaḥ ǁeva ǀ hi ǀ asi ǀ vīra-yuḥ ǀ eva ǀ śūraḥ ǀ uta ǀ sthiraḥ ǀ
eva ǀ te ǀ rādhyam ǀ manaḥ ǁ8.92.28 Aṣṭaka 6.6.20.2Anuvāka 8.9.110
-
Ṛk 29
ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑ ।
अधा॑ चिदिंद्र मे॒ सचा॑ ॥एवा रातिस् तुवीमघ विश्वेभिर् धायि धातृभिः |
अधा चिद् इन्द्र मे सचा ||evā́ rātístuvīmagha víśvebhirdhāyi dhātṛ́bhiḥ ǀ
ádhā cidindra me sácā ǁevā rātis tuvīmagha viśvebhir dhāyi dhātṛbhiḥ |
adhā cid indra me sacā ||ए॒व । रा॒तिः । तु॒वि॒ऽम॒घ॒ । विश्वे॑भिः । धा॒यि॒ । धा॒तृऽभिः॑ ।
अध॑ । चि॒त् । इ॒न्द्र॒ । मे॒ । सचा॑ ॥एव । रातिः । तुविऽमघ । विश्वेभिः । धायि । धातृऽभिः ।
अध । चित् । इन्द्र । मे । सचा ॥evá ǀ rātíḥ ǀ tuvi-magha ǀ víśvebhiḥ ǀ dhāyi ǀ dhātṛ́-bhiḥ ǀ
ádha ǀ cit ǀ indra ǀ me ǀ sácā ǁeva ǀ rātiḥ ǀ tuvi-magha ǀ viśvebhiḥ ǀ dhāyi ǀ dhātṛ-bhiḥ ǀ
adha ǀ cit ǀ indra ǀ me ǀ sacā ǁ8.92.29 Aṣṭaka 6.6.20.3Anuvāka 8.9.111
-
Ṛk 30
मो षु ब्र॒ह्मेव॑ तंद्र॒युर्भुवो॑ वाजानां पते ।
मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानाम् पते |
मत्स्वा सुतस्य गोमतः ||mó ṣú brahméva tandrayúrbhúvo vājānām pate ǀ
mátsvā sutásya gómataḥ ǁmo ṣu brahmeva tandrayur bhuvo vājānām pate |
matsvā sutasya gomataḥ ||मो इति॑ । सु । ब्र॒ह्माऽइ॑व । त॒न्द्र॒युः । भुवः॑ । वा॒जा॒ना॒म् । प॒ते॒ ।
मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ॥मो इति । सु । ब्रह्माऽइव । तन्द्रयुः । भुवः । वाजानाम् । पते ।
मत्स्व । सुतस्य । गोऽमतः ॥mó íti ǀ sú ǀ brahmā́-iva ǀ tandrayúḥ ǀ bhúvaḥ ǀ vājānām ǀ pate ǀ
mátsva ǀ sutásya ǀ gó-mataḥ ǁmo iti ǀ su ǀ brahmā-iva ǀ tandrayuḥ ǀ bhuvaḥ ǀ vājānām ǀ pate ǀ
matsva ǀ sutasya ǀ go-mataḥ ǁ8.92.30 Aṣṭaka 6.6.20.4Anuvāka 8.9.112
-
Ṛk 31
मा न॑ इंद्रा॒भ्या॒३॒॑दिशः॒ सूरो॑ अ॒क्तुष्वा य॑मन् ।
त्वा यु॒जा व॑नेम॒ तत् ॥मा न इन्द्राभ्य् आदिशः सूरो अक्तुष्व् आ यमन् |
त्वा युजा वनेम तत् ||mā́ na indrābhyā́díśaḥ sū́ro aktúṣvā́ yaman ǀ
tvā́ yujā́ vanema tát ǁmā na indrābhy ādiśaḥ sūro aktuṣv ā yaman |
tvā yujā vanema tat ||मा । नः॒ । इ॒न्द्र॒ । अ॒भि । आ॒ऽदिशः॑ । सूरः॑ । अ॒क्तुषु॑ । आ । य॒म॒न् ।
त्वा । यु॒जा । व॒ने॒म॒ । तत् ॥मा । नः । इन्द्र । अभि । आऽदिशः । सूरः । अक्तुषु । आ । यमन् ।
त्वा । युजा । वनेम । तत् ॥mā́ ǀ naḥ ǀ indra ǀ abhí ǀ ā-díśaḥ ǀ sū́raḥ ǀ aktúṣu ǀ ā́ ǀ yaman ǀ
tvā́ ǀ yujā́ ǀ vanema ǀ tát ǁmā ǀ naḥ ǀ indra ǀ abhi ǀ ā-diśaḥ ǀ sūraḥ ǀ aktuṣu ǀ ā ǀ yaman ǀ
tvā ǀ yujā ǀ vanema ǀ tat ǁ8.92.31 Aṣṭaka 6.6.20.5Anuvāka 8.9.113
-
Ṛk 32
त्वयेदिं॑द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ ।
त्वम॒स्माकं॒ तव॑ स्मसि ॥त्वयेद् इन्द्र युजा वयम् प्रति ब्रुवीमहि स्पृधः |
त्वम् अस्माकं तव स्मसि ||tváyédindra yujā́ vayám práti bruvīmahi spṛ́dhaḥ ǀ
tvámasmā́kam táva smasi ǁtvayed indra yujā vayam prati bruvīmahi spṛdhaḥ |
tvam asmākaṃ tava smasi ||त्वया॑ । इत् । इ॒न्द्र॒ । यु॒जा । व॒यम् । प्रति॑ । ब्रु॒वी॒म॒हि॒ । स्पृधः॑ ।
त्वम् । अ॒स्माक॑म् । तव॑ । स्म॒सि॒ ॥त्वया । इत् । इन्द्र । युजा । वयम् । प्रति । ब्रुवीमहि । स्पृधः ।
त्वम् । अस्माकम् । तव । स्मसि ॥tváyā ǀ ít ǀ indra ǀ yujā́ ǀ vayám ǀ práti ǀ bruvīmahi ǀ spṛ́dhaḥ ǀ
tvám ǀ asmā́kam ǀ táva ǀ smasi ǁtvayā ǀ it ǀ indra ǀ yujā ǀ vayam ǀ prati ǀ bruvīmahi ǀ spṛdhaḥ ǀ
tvam ǀ asmākam ǀ tava ǀ smasi ǁ8.92.32 Aṣṭaka 6.6.20.6Anuvāka 8.9.114
-
Ṛk 33
त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् ।
सखा॑य इंद्र का॒रवः॑ ॥त्वाम् इद् धि त्वायवो ऽनुनोनुवतश् चरान् |
सखाय इन्द्र कारवः ||tvā́míddhí tvāyávo’nunónuvataścárān ǀ
sákhāya indra kārávaḥ ǁtvām id dhi tvāyavo 'nunonuvataś carān |
sakhāya indra kāravaḥ ||त्वाम् । इत् । हि । त्वा॒ऽयवः॑ । अ॒नु॒ऽनोनु॑वतः । चरा॑न् ।
सखा॑यः । इ॒न्द्र॒ । का॒रवः॑ ॥त्वाम् । इत् । हि । त्वाऽयवः । अनुऽनोनुवतः । चरान् ।
सखायः । इन्द्र । कारवः ॥tvā́m ǀ ít ǀ hí ǀ tvā-yávaḥ ǀ anu-nónuvataḥ ǀ cárān ǀ
sákhāyaḥ ǀ indra ǀ kārávaḥ ǁtvām ǀ it ǀ hi ǀ tvā-yavaḥ ǀ anu-nonuvataḥ ǀ carān ǀ
sakhāyaḥ ǀ indra ǀ kāravaḥ ǁ8.92.33 Aṣṭaka 6.6.20.7Anuvāka 8.9.115
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.