Ṛgveda · Maṇḍala 8 · Sūkta 92

Ṛk 8.92.22

Indra · Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

आ त्वा॑ विशं॒त्विंद॑वः समु॒द्रमि॑व॒ सिंध॑वः ।
न त्वामिं॒द्राति॑ रिच्यते ॥

आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः |
न त्वाम् इन्द्राति रिच्यते ||

ā́ tvā viśantvíndavaḥ samudrámiva síndhavaḥ ǀ
ná tvā́mindrā́ti ricyate ǁ

ā tvā viśantv indavaḥ samudram iva sindhavaḥ |
na tvām indrāti ricyate ||

Padapāṭha

आ । त्वा॒ । वि॒श॒न्तु॒ । इन्द॑वः । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।
न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥

आ । त्वा । विशन्तु । इन्दवः । समुद्रम्ऽइव । सिन्धवः ।
न । त्वाम् । इन्द्र । अति । रिच्यते ॥

ā́ ǀ tvā ǀ viśantu ǀ índavaḥ ǀ samudrám-iva ǀ síndhavaḥ ǀ
ná ǀ tvā́m ǀ indra ǀ áti ǀ ricyate ǁ

ā ǀ tvā ǀ viśantu ǀ indavaḥ ǀ samudram-iva ǀ sindhavaḥ ǀ
na ǀ tvām ǀ indra ǀ ati ǀ ricyate ǁ

References

Maṇḍala · Sūkta · Ṛk
08.092.22
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.19.02
Maṇḍala · Anuvāka · Ṛk
08.09.104
Devatā देवता
Indra
Ṛṣi ऋषि
Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.92.22

Interpretations

Sāyaṇa

हे इन्द्र इन्दवः स्रवन्तः अस्माभिर्दीयमानाः सोमाः त्वा त्वां आविशन्तु सर्वतः प्रविशन्तु । तत्रदृष्टान्तः-समुद्रमिवसिन्धवः स्यन्दमाना नद्योयथा समुद्रं जलाशयं सर्वतः प्रविशन्ति तद्वत् । यतएवं तस्मात् हे इन्द्र त्वां कश्चिदपि देवोबलेन धनेनवा नातिरिच्यते नातिरिक्तोस्ति सामर्थ्यवान् त्वत्तोधिकोनास्तीत्यर्थः ॥ २२ ॥