Ṛgveda · Maṇḍala 8 · Sūkta 92

Ṛk 8.92.27

Indra · Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa

The whole sūkta Link

Saṃhitā

प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षंत नो॒ गिरः॑ ।
अरं॑ गमाम ते व॒यं ॥

पराकात्ताच् चिद् अद्रिवस् त्वां नक्षन्त नो गिरः |
अरं गमाम ते वयम् ||

parākā́ttāccidadrivastvā́m nakṣanta no gíraḥ ǀ
áram gamāma te vayám ǁ

parākāttāc cid adrivas tvāṃ nakṣanta no giraḥ |
araṃ gamāma te vayam ||

Padapāṭha

प॒रा॒कात्ता॑त् । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वाम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ।
अर॑म् । ग॒मा॒म॒ । ते॒ । व॒यम् ॥

पराकात्तात् । चित् । अद्रिऽवः । त्वाम् । नक्षन्त । नः । गिरः ।
अरम् । गमाम । ते । वयम् ॥

parākā́ttāt ǀ cit ǀ adri-vaḥ ǀ tvā́m ǀ nakṣanta ǀ naḥ ǀ gíraḥ ǀ
áram ǀ gamāma ǀ te ǀ vayám ǁ

parākāttāt ǀ cit ǀ adri-vaḥ ǀ tvām ǀ nakṣanta ǀ naḥ ǀ giraḥ ǀ
aram ǀ gamāma ǀ te ǀ vayam ǁ

References

Maṇḍala · Sūkta · Ṛk
08.092.27
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.20.01
Maṇḍala · Anuvāka · Ṛk
08.09.109
Devatā देवता
Indra
Ṛṣi ऋषि
Śrutakakṣa Āṅgirasa Or Sukakṣa Āṅgirasa
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.92.27

Interpretations

Sāyaṇa

हे अद्रिवः वज्रवन्निन्द्र नोस्मदीयागिरः इतोनिर्गताः स्तुतयः पराकात्तात् । चिदप्यर्थः । अतिदूरादपि त्वां नक्षन्त व्याप्नुवन्तु किमुत समीपात्त्वां अश्नुवन्तामिति । नक्षतेर्व्याप्तिकर्मणो नशतेर्वा लेटि सिपि रूपं । एवं सति स्तोतारो वयं त्वदीयं धनमरमलं पर्याप्तं गमाम त्वत्तो गच्छाम ॥ २७ ॥ आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिन एवाह्यसिवीरयुरिति वैकल्पिकःस्तोत्रियः । सूत्रितंच-एवाह्यसिवीरयुरेवाह्यस्यसूनृतेति ।