Sūkta 24
- Devatā देवता
- 1-27: Indra; 28-30: Varu Sauṣāmṇa’s Dānastuti
- Ṛṣi ऋषि
- Viśvamanas Vaiyaśva
- Chandas छन्दस्
- Uṣṇih, Anuṣṭubh
Metres by ṛk
1st set of styles uṣṇik (2-5, 7, 8, 10, 16, 25-27); nicṛduṣṇik (1, 6, 11, 13, 20, 23, 24); virāḍuṣnik (9, 12, 18, 22, 28, 29); pādanicṛduṣṇik (14, 15, 17, 21); ārcīsvarāḍuṣṇik (19); nicṛdanuṣṭup (30)
2nd set of styles uṣṇih (1-29); anuṣṭubh (30)
-
Ṛk 1
सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेंद्रा॑य व॒ज्रिणे॑ ।
स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑ ॥सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे |
स्तुष ऊ षु वो नृतमाय धृष्णवे ||sákhāya ā́ śiṣāmahi bráhméndrāya vajríṇe ǀ
stuṣá ū ṣú vo nṛ́tamāya dhṛṣṇáve ǁsakhāya ā śiṣāmahi brahmendrāya vajriṇe |
stuṣa ū ṣu vo nṛtamāya dhṛṣṇave ||सखा॑यः । आ । शि॒षा॒म॒हि॒ । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ ।
स्तु॒षे । ऊं॒ इति॑ । सु । वः॒ । नृऽत॑माय । धृ॒ष्णवे॑ ॥सखायः । आ । शिषामहि । ब्रह्म । इन्द्राय । वज्रिणे ।
स्तुषे । ऊं इति । सु । वः । नृऽतमाय । धृष्णवे ॥sákhāyaḥ ǀ ā́ ǀ śiṣāmahi ǀ bráhma ǀ índrāya ǀ vajríṇe ǀ
stuṣé ǀ ūṃ íti ǀ sú ǀ vaḥ ǀ nṛ́-tamāya ǀ dhṛṣṇáve ǁsakhāyaḥ ǀ ā ǀ śiṣāmahi ǀ brahma ǀ indrāya ǀ vajriṇe ǀ
stuṣe ǀ ūṃ iti ǀ su ǀ vaḥ ǀ nṛ-tamāya ǀ dhṛṣṇave ǁ8.24.1 Aṣṭaka 6.2.15.1Anuvāka 8.4.67
-
Ṛk 2
शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा ।
म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा |
मघैर् मघोनो अति शूर दाशसि ||śávasā hyási śrutó vṛtrahátyena vṛtrahā́ ǀ
magháirmaghóno áti śūra dāśasi ǁśavasā hy asi śruto vṛtrahatyena vṛtrahā |
maghair maghono ati śūra dāśasi ||शव॑सा । हि । असि॑ । श्रु॒तः । वृ॒त्र॒ऽहत्ये॑न । वृ॒त्र॒ऽहा ।
म॒घैः । म॒घोनः॑ । अति॑ । शू॒र॒ । दा॒श॒सि॒ ॥शवसा । हि । असि । श्रुतः । वृत्रऽहत्येन । वृत्रऽहा ।
मघैः । मघोनः । अति । शूर । दाशसि ॥śávasā ǀ hí ǀ ási ǀ śrutáḥ ǀ vṛtra-hátyena ǀ vṛtra-hā́ ǀ
magháiḥ ǀ maghónaḥ ǀ áti ǀ śūra ǀ dāśasi ǁśavasā ǀ hi ǀ asi ǀ śrutaḥ ǀ vṛtra-hatyena ǀ vṛtra-hā ǀ
maghaiḥ ǀ maghonaḥ ǀ ati ǀ śūra ǀ dāśasi ǁ8.24.2 Aṣṭaka 6.2.15.2Anuvāka 8.4.68
-
Ṛk 3
स नः॒ स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमं ।
नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥स न स्तवान आ भर रयिं चित्रश्रवस्तमम् |
निरेके चिद् यो हरिवो वसुर् ददिः ||sá naḥ stávāna ā́ bhara rayím citráśravastamam ǀ
nireké cidyó harivo vásurdadíḥ ǁsa na stavāna ā bhara rayiṃ citraśravastamam |
nireke cid yo harivo vasur dadiḥ ||सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । र॒यिम् । चि॒त्रश्र॑वःऽतमम् ।
नि॒रे॒के । चि॒त् । यः । ह॒रि॒ऽवः॒ । वसुः॑ । द॒दिः ॥सः । नः । स्तवानः । आ । भर । रयिम् । चित्रश्रवःऽतमम् ।
निरेके । चित् । यः । हरिऽवः । वसुः । ददिः ॥sáḥ ǀ naḥ ǀ stávānaḥ ǀ ā́ ǀ bhara ǀ rayím ǀ citráśravaḥ-tamam ǀ
nireké ǀ cit ǀ yáḥ ǀ hari-vaḥ ǀ vásuḥ ǀ dadíḥ ǁsaḥ ǀ naḥ ǀ stavānaḥ ǀ ā ǀ bhara ǀ rayim ǀ citraśravaḥ-tamam ǀ
nireke ǀ cit ǀ yaḥ ǀ hari-vaḥ ǀ vasuḥ ǀ dadiḥ ǁ8.24.3 Aṣṭaka 6.2.15.3Anuvāka 8.4.69
-
Ṛk 4
आ नि॑रे॒कमु॒त प्रि॒यमिंद्र॒ दर्षि॒ जना॑नां ।
धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ॥आ निरेकम् उत प्रियम् इन्द्र दर्षि जनानाम् |
धृषता धृष्णो स्तवमान आ भर ||ā́ nirekámutá priyámíndra dárṣi jánānām ǀ
dhṛṣatā́ dhṛṣṇo stávamāna ā́ bhara ǁā nirekam uta priyam indra darṣi janānām |
dhṛṣatā dhṛṣṇo stavamāna ā bhara ||आ । नि॒रे॒कम् । उ॒त । प्रि॒यम् । इन्द्र॑ । दर्षि॑ । जना॑नाम् ।
धृ॒ष॒ता । धृ॒ष्णो॒ इति॑ । स्तव॑मानः । आ । भ॒र॒ ॥आ । निरेकम् । उत । प्रियम् । इन्द्र । दर्षि । जनानाम् ।
धृषता । धृष्णो इति । स्तवमानः । आ । भर ॥ā́ ǀ nirekám ǀ utá ǀ priyám ǀ índra ǀ dárṣi ǀ jánānām ǀ
dhṛṣatā́ ǀ dhṛṣṇo íti ǀ stávamānaḥ ǀ ā́ ǀ bhara ǁā ǀ nirekam ǀ uta ǀ priyam ǀ indra ǀ darṣi ǀ janānām ǀ
dhṛṣatā ǀ dhṛṣṇo iti ǀ stavamānaḥ ǀ ā ǀ bhara ǁ8.24.4 Aṣṭaka 6.2.15.4Anuvāka 8.4.70
-
Ṛk 5
न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरंत आ॒मुरः॑ ।
न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः |
न परिबाधो हरिवो गविष्टिषु ||ná te savyám ná dákṣiṇam hástam varanta āmúraḥ ǀ
ná paribā́dho harivo gáviṣṭiṣu ǁna te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ |
na paribādho harivo gaviṣṭiṣu ||न । ते॒ । स॒व्यम् । न । दक्षि॑णम् । हस्त॑म् । व॒र॒न्ते॒ । आ॒ऽमुरः॑ ।
न । प॒रि॒ऽबाधः॑ । ह॒रि॒ऽवः॒ । गोऽइ॑ष्टिषु ॥न । ते । सव्यम् । न । दक्षिणम् । हस्तम् । वरन्ते । आऽमुरः ।
न । परिऽबाधः । हरिऽवः । गोऽइष्टिषु ॥ná ǀ te ǀ savyám ǀ ná ǀ dákṣiṇam ǀ hástam ǀ varante ǀ ā-múraḥ ǀ
ná ǀ pari-bā́dhaḥ ǀ hari-vaḥ ǀ gó-iṣṭiṣu ǁna ǀ te ǀ savyam ǀ na ǀ dakṣiṇam ǀ hastam ǀ varante ǀ ā-muraḥ ǀ
na ǀ pari-bādhaḥ ǀ hari-vaḥ ǀ go-iṣṭiṣu ǁ8.24.5 Aṣṭaka 6.2.15.5Anuvāka 8.4.71
-
Ṛk 6
आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिर्ऋ॑णोम्यद्रिवः ।
आ स्मा॒ कामं॑ जरि॒तुरा मनः॑ पृण ॥आ त्वा गोभिर् इव व्रजं गीर्भिर् ऋणोम्य् अद्रिवः |
आ स्मा कामं जरितुर् आ मनः पृण ||ā́ tvā góbhiriva vrajám gīrbhírṛṇomyadrivaḥ ǀ
ā́ smā kā́mam jaritúrā́ mánaḥ pṛṇa ǁā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ |
ā smā kāmaṃ jaritur ā manaḥ pṛṇa ||आ । त्वा॒ । गोभिः॑ऽइव । व्र॒जम् । गीः॒ऽभिः । ऋ॒णो॒मि॒ । अ॒द्रि॒ऽवः॒ ।
आ । स्म॒ । काम॑म् । ज॒रि॒तुः । आ । मनः॑ । पृ॒ण॒ ॥आ । त्वा । गोभिःऽइव । व्रजम् । गीःऽभिः । ऋणोमि । अद्रिऽवः ।
आ । स्म । कामम् । जरितुः । आ । मनः । पृण ॥ā́ ǀ tvā ǀ góbhiḥ-iva ǀ vrajám ǀ gīḥ-bhíḥ ǀ ṛṇomi ǀ adri-vaḥ ǀ
ā́ ǀ sma ǀ kā́mam ǀ jaritúḥ ǀ ā́ ǀ mánaḥ ǀ pṛṇa ǁā ǀ tvā ǀ gobhiḥ-iva ǀ vrajam ǀ gīḥ-bhiḥ ǀ ṛṇomi ǀ adri-vaḥ ǀ
ā ǀ sma ǀ kāmam ǀ jarituḥ ǀ ā ǀ manaḥ ǀ pṛṇa ǁ8.24.6 Aṣṭaka 6.2.16.1Anuvāka 8.4.72
-
Ṛk 7
विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहंतम ।
उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ॥विश्वानि विश्वमनसो धिया नो वृत्रहन्तम |
उग्र प्रणेतर् अधि षू वसो गहि ||víśvāni viśvámanaso dhiyā́ no vṛtrahantama ǀ
úgra praṇetarádhi ṣū́ vaso gahi ǁviśvāni viśvamanaso dhiyā no vṛtrahantama |
ugra praṇetar adhi ṣū vaso gahi ||विश्वा॑नि । वि॒श्वऽम॑नसः । धि॒या । नः॒ । वृ॒त्र॒ह॒न्ऽत॒म॒ ।
उग्र॑ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । अधि॑ । सु । व॒सो॒ इति॑ । ग॒हि॒ ॥विश्वानि । विश्वऽमनसः । धिया । नः । वृत्रहन्ऽतम ।
उग्र । प्रनेतरिति प्रऽनेतः । अधि । सु । वसो इति । गहि ॥víśvāni ǀ viśvá-manasaḥ ǀ dhiyā́ ǀ naḥ ǀ vṛtrahan-tama ǀ
úgra ǀ pranetaríti pra-netaḥ ǀ ádhi ǀ sú ǀ vaso íti ǀ gahi ǁviśvāni ǀ viśva-manasaḥ ǀ dhiyā ǀ naḥ ǀ vṛtrahan-tama ǀ
ugra ǀ pranetariti pra-netaḥ ǀ adhi ǀ su ǀ vaso iti ǀ gahi ǁ8.24.7 Aṣṭaka 6.2.16.2Anuvāka 8.4.73
-
Ṛk 8
व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः ।
वसोः॑ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥वयं ते अस्य वृत्रहन् विद्याम शूर नव्यसः |
वसो स्पार्हस्य पुरुहूत राधसः ||vayám te asyá vṛtrahanvidyā́ma śūra návyasaḥ ǀ
vásoḥ spārhásya puruhūta rā́dhasaḥ ǁvayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ |
vaso spārhasya puruhūta rādhasaḥ ||व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः ।
वसोः॑ । स्पा॒र्हस्य॑ । पु॒रु॒ऽहू॒त॒ । राध॑सः ॥वयम् । ते । अस्य । वृत्रऽहन् । विद्याम । शूर । नव्यसः ।
वसोः । स्पार्हस्य । पुरुऽहूत । राधसः ॥vayám ǀ te ǀ asyá ǀ vṛtra-han ǀ vidyā́ma ǀ śūra ǀ návyasaḥ ǀ
vásoḥ ǀ spārhásya ǀ puru-hūta ǀ rā́dhasaḥ ǁvayam ǀ te ǀ asya ǀ vṛtra-han ǀ vidyāma ǀ śūra ǀ navyasaḥ ǀ
vasoḥ ǀ spārhasya ǀ puru-hūta ǀ rādhasaḥ ǁ8.24.8 Aṣṭaka 6.2.16.3Anuvāka 8.4.74
-
Ṛk 9
इंद्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ ।
अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥इन्द्र यथा ह्य् अस्ति ते ऽपरीतं नृतो शवः |
अमृक्ता रातिः पुरुहूत दाशुषे ||índra yáthā hyásti té’parītam nṛto śávaḥ ǀ
ámṛktā rātíḥ puruhūta dāśúṣe ǁindra yathā hy asti te 'parītaṃ nṛto śavaḥ |
amṛktā rātiḥ puruhūta dāśuṣe ||इन्द्र॑ । यथा॑ । हि । अस्ति॑ । ते॒ । अप॑रिऽइतम् । नृ॒तो॒ इति॑ । शवः॑ ।
अमृ॑क्ता । रा॒तिः । पु॒रु॒ऽहू॒त॒ । दा॒शुषे॑ ॥इन्द्र । यथा । हि । अस्ति । ते । अपरिऽइतम् । नृतो इति । शवः ।
अमृक्ता । रातिः । पुरुऽहूत । दाशुषे ॥índra ǀ yáthā ǀ hí ǀ ásti ǀ te ǀ ápari-itam ǀ nṛto íti ǀ śávaḥ ǀ
ámṛktā ǀ rātíḥ ǀ puru-hūta ǀ dāśúṣe ǁindra ǀ yathā ǀ hi ǀ asti ǀ te ǀ apari-itam ǀ nṛto iti ǀ śavaḥ ǀ
amṛktā ǀ rātiḥ ǀ puru-hūta ǀ dāśuṣe ǁ8.24.9 Aṣṭaka 6.2.16.4Anuvāka 8.4.75
-
Ṛk 10
आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से ।
दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ॥आ वृषस्व महामह महे नृतम राधसे |
दृऌहश् चिद् दृह्य मघवन् मघत्तये ||ā́ vṛṣasva mahāmaha mahé nṛtama rā́dhase ǀ
dṛḷháściddṛhya maghavanmagháttaye ǁā vṛṣasva mahāmaha mahe nṛtama rādhase |
dṛḷhaś cid dṛhya maghavan maghattaye ||आ । वृ॒ष॒स्व॒ । म॒हा॒ऽम॒ह॒ । म॒हे । नृ॒ऽत॒म॒ । राध॑से ।
दृ॒ळ्हः । चि॒त् । दृ॒ह्य॒ । म॒घ॒ऽव॒न् । म॒घत्त॑ये ॥आ । वृषस्व । महाऽमह । महे । नृऽतम । राधसे ।
दृळ्हः । चित् । दृह्य । मघऽवन् । मघत्तये ॥ā́ ǀ vṛṣasva ǀ mahā-maha ǀ mahé ǀ nṛ-tama ǀ rā́dhase ǀ
dṛḷháḥ ǀ cit ǀ dṛhya ǀ magha-van ǀ magháttaye ǁā ǀ vṛṣasva ǀ mahā-maha ǀ mahe ǀ nṛ-tama ǀ rādhase ǀ
dṛḷhaḥ ǀ cit ǀ dṛhya ǀ magha-van ǀ maghattaye ǁ8.24.10 Aṣṭaka 6.2.16.5Anuvāka 8.4.76
-
Ṛk 11
नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शसः॑ ।
मघ॑वंछ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ॥नू अन्यत्रा चिद् अद्रिवस् त्वन् नो जग्मुर् आशसः |
मघवञ् छग्धि तव तन् न ऊतिभिः ||nū́ anyátrā cidadrivastvánno jagmurāśásaḥ ǀ
mághavañchagdhí táva tánna ūtíbhiḥ ǁnū anyatrā cid adrivas tvan no jagmur āśasaḥ |
maghavañ chagdhi tava tan na ūtibhiḥ ||नु । अ॒न्यत्र॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वत् । नः॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ ।
मघ॑ऽवन् । श॒ग्धि । तव॑ । तत् । नः॒ । ऊ॒तिऽभिः॑ ॥नु । अन्यत्र । चित् । अद्रिऽवः । त्वत् । नः । जग्मुः । आऽशसः ।
मघऽवन् । शग्धि । तव । तत् । नः । ऊतिऽभिः ॥nú ǀ anyátra ǀ cit ǀ adri-vaḥ ǀ tvát ǀ naḥ ǀ jagmuḥ ǀ ā-śásaḥ ǀ
mágha-van ǀ śagdhí ǀ táva ǀ tát ǀ naḥ ǀ ūtí-bhiḥ ǁnu ǀ anyatra ǀ cit ǀ adri-vaḥ ǀ tvat ǀ naḥ ǀ jagmuḥ ǀ ā-śasaḥ ǀ
magha-van ǀ śagdhi ǀ tava ǀ tat ǀ naḥ ǀ ūti-bhiḥ ǁ8.24.11 Aṣṭaka 6.2.17.1Anuvāka 8.4.77
-
Ṛk 12
न॒ह्यं१॒॑ग नृ॑तो॒ त्वद॒न्यं विं॒दामि॒ राध॑से ।
रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥नह्य् अङ्ग नृतो त्वद् अन्यं विन्दामि राधसे |
राये द्युम्नाय शवसे च गिर्वणः ||nahyáṅgá nṛto tvádanyám vindā́mi rā́dhase ǀ
rāyé dyumnā́ya śávase ca girvaṇaḥ ǁnahy aṅga nṛto tvad anyaṃ vindāmi rādhase |
rāye dyumnāya śavase ca girvaṇaḥ ||न॒हि । अ॒ङ्ग । नृ॒तो॒ इति॑ । त्वत् । अ॒न्यम् । वि॒न्दामि॑ । राध॑से ।
रा॒ये । द्यु॒म्नाय॑ । शव॑से । च॒ । गि॒र्व॒णः॒ ॥नहि । अङ्ग । नृतो इति । त्वत् । अन्यम् । विन्दामि । राधसे ।
राये । द्युम्नाय । शवसे । च । गिर्वणः ॥nahí ǀ aṅgá ǀ nṛto íti ǀ tvát ǀ anyám ǀ vindā́mi ǀ rā́dhase ǀ
rāyé ǀ dyumnā́ya ǀ śávase ǀ ca ǀ girvaṇaḥ ǁnahi ǀ aṅga ǀ nṛto iti ǀ tvat ǀ anyam ǀ vindāmi ǀ rādhase ǀ
rāye ǀ dyumnāya ǀ śavase ǀ ca ǀ girvaṇaḥ ǁ8.24.12 Aṣṭaka 6.2.17.2Anuvāka 8.4.78
-
Ṛk 13
एंदु॒मिंद्रा॑य सिंचत॒ पिबा॑ति सो॒म्यं मधु॑ ।
प्र राध॑सा चोदयाते महित्व॒ना ॥एन्दुम् इन्द्राय सिञ्चत पिबाति सोम्यम् मधु |
प्र राधसा चोदयाते महित्वना ||éndumíndrāya siñcata píbāti somyám mádhu ǀ
prá rā́dhasā codayāte mahitvanā́ ǁendum indrāya siñcata pibāti somyam madhu |
pra rādhasā codayāte mahitvanā ||आ । इन्दु॑म् । इन्द्रा॑य । सि॒ञ्च॒त॒ । पिबा॑ति । सो॒म्यम् । मधु॑ ।
प्र । राध॑सा । चो॒द॒या॒ते॒ । म॒हि॒ऽत्व॒ना ॥आ । इन्दुम् । इन्द्राय । सिञ्चत । पिबाति । सोम्यम् । मधु ।
प्र । राधसा । चोदयाते । महिऽत्वना ॥ā́ ǀ índum ǀ índrāya ǀ siñcata ǀ píbāti ǀ somyám ǀ mádhu ǀ
prá ǀ rā́dhasā ǀ codayāte ǀ mahi-tvanā́ ǁā ǀ indum ǀ indrāya ǀ siñcata ǀ pibāti ǀ somyam ǀ madhu ǀ
pra ǀ rādhasā ǀ codayāte ǀ mahi-tvanā ǁ8.24.13 Aṣṭaka 6.2.17.3Anuvāka 8.4.79
-
Ṛk 14
उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृं॒चंत॑मब्रवं ।
नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ॥उपो हरीणाम् पतिं दक्षम् पृञ्चन्तम् अब्रवम् |
नूनं श्रुधि स्तुवतो अश्व्यस्य ||úpo hárīṇām pátim dákṣam pṛñcántamabravam ǀ
nūnám śrudhi stuvató aśvyásya ǁupo harīṇām patiṃ dakṣam pṛñcantam abravam |
nūnaṃ śrudhi stuvato aśvyasya ||उपो॒ इति॑ । हरी॑णाम् । पति॑म् । दक्ष॑म् । पृ॒ञ्चन्त॑म् । अ॒ब्र॒व॒म् ।
नू॒नम् । श्रु॒धि॒ । स्तु॒व॒तः । अ॒श्व्यस्य॑ ॥उपो इति । हरीणाम् । पतिम् । दक्षम् । पृञ्चन्तम् । अब्रवम् ।
नूनम् । श्रुधि । स्तुवतः । अश्व्यस्य ॥úpo íti ǀ hárīṇām ǀ pátim ǀ dákṣam ǀ pṛñcántam ǀ abravam ǀ
nūnám ǀ śrudhi ǀ stuvatáḥ ǀ aśvyásya ǁupo iti ǀ harīṇām ǀ patim ǀ dakṣam ǀ pṛñcantam ǀ abravam ǀ
nūnam ǀ śrudhi ǀ stuvataḥ ǀ aśvyasya ǁ8.24.14 Aṣṭaka 6.2.17.4Anuvāka 8.4.80
-
Ṛk 15
न॒ह्यं१॒॑ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् ।
नकी॑ रा॒या नैवथा॒ न भं॒दना॑ ॥नह्य् अङ्ग पुरा चन जज्ञे वीरतरस् त्वत् |
नकी राया नैवथा न भन्दना ||nahyáṅgá purā́ caná jajñé vīrátarastvát ǀ
nákī rāyā́ náiváthā ná bhandánā ǁnahy aṅga purā cana jajñe vīrataras tvat |
nakī rāyā naivathā na bhandanā ||न॒हि । अ॒ङ्ग । पु॒रा । च॒न । ज॒ज्ञे । वी॒रऽत॑रः । त्वत् ।
नकिः॑ । रा॒या । न । ए॒वऽथा॑ । न । भ॒न्दना॑ ॥नहि । अङ्ग । पुरा । चन । जज्ञे । वीरऽतरः । त्वत् ।
नकिः । राया । न । एवऽथा । न । भन्दना ॥nahí ǀ aṅgá ǀ purā́ ǀ caná ǀ jajñé ǀ vīrá-taraḥ ǀ tvát ǀ
nákiḥ ǀ rāyā́ ǀ ná ǀ evá-thā ǀ ná ǀ bhandánā ǁnahi ǀ aṅga ǀ purā ǀ cana ǀ jajñe ǀ vīra-taraḥ ǀ tvat ǀ
nakiḥ ǀ rāyā ǀ na ǀ eva-thā ǀ na ǀ bhandanā ǁ8.24.15 Aṣṭaka 6.2.17.5Anuvāka 8.4.81
-
Ṛk 16
एदु॒ मध्वो॑ म॒दिंत॑रं सिं॒च वा॑ध्वर्यो॒ अंध॑सः ।
ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥एद् उ मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः |
एवा हि वीर स्तवते सदावृधः ||édu mádhvo madíntaram siñcá vādhvaryo ándhasaḥ ǀ
evā́ hí vīráḥ stávate sadā́vṛdhaḥ ǁed u madhvo madintaraṃ siñca vādhvaryo andhasaḥ |
evā hi vīra stavate sadāvṛdhaḥ ||आ । इत् । ऊं॒ इति॑ । मध्वः॑ । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति॑ । अन्ध॑सः ।
ए॒व । हि । वी॒रः । स्तव॑ते । स॒दाऽवृ॑धः ॥आ । इत् । ऊं इति । मध्वः । मदिन्ऽतरम् । सिञ्च । वा । अध्वर्यो इति । अन्धसः ।
एव । हि । वीरः । स्तवते । सदाऽवृधः ॥ā́ ǀ ít ǀ ūṃ íti ǀ mádhvaḥ ǀ madín-taram ǀ siñcá ǀ vā ǀ adhvaryo íti ǀ ándhasaḥ ǀ
evá ǀ hí ǀ vīráḥ ǀ stávate ǀ sadā́-vṛdhaḥ ǁā ǀ it ǀ ūṃ iti ǀ madhvaḥ ǀ madin-taram ǀ siñca ǀ vā ǀ adhvaryo iti ǀ andhasaḥ ǀ
eva ǀ hi ǀ vīraḥ ǀ stavate ǀ sadā-vṛdhaḥ ǁ8.24.16 Aṣṭaka 6.2.18.1Anuvāka 8.4.82
-
Ṛk 17
इंद्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिं ।
उदा॑नंश॒ शव॑सा॒ न भं॒दना॑ ॥इन्द्र स्थातर् हरीणां नकिष् टे पूर्व्यस्तुतिम् |
उद् आनंश शवसा न भन्दना ||índra sthātarharīṇām nákiṣṭe pūrvyástutim ǀ
údānaṃśa śávasā ná bhandánā ǁindra sthātar harīṇāṃ nakiṣ ṭe pūrvyastutim |
ud ānaṃśa śavasā na bhandanā ||इन्द्र॑ । स्था॒तः॒ । ह॒री॒णा॒म् । नकिः॑ । ते॒ । पू॒र्व्यऽस्तु॑तिम् ।
उत् । आ॒नं॒श॒ । शव॑सा । न । भ॒न्दना॑ ॥इन्द्र । स्थातः । हरीणाम् । नकिः । ते । पूर्व्यऽस्तुतिम् ।
उत् । आनंश । शवसा । न । भन्दना ॥índra ǀ sthātaḥ ǀ harīṇām ǀ nákiḥ ǀ te ǀ pūrvyá-stutim ǀ
út ǀ ānaṃśa ǀ śávasā ǀ ná ǀ bhandánā ǁindra ǀ sthātaḥ ǀ harīṇām ǀ nakiḥ ǀ te ǀ pūrvya-stutim ǀ
ut ǀ ānaṃśa ǀ śavasā ǀ na ǀ bhandanā ǁ8.24.17 Aṣṭaka 6.2.18.2Anuvāka 8.4.83
-
Ṛk 18
तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑ ।
अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्यं॑ ॥तं वो वाजानाम् पतिम् अहूमहि श्रवस्यवः |
अप्रायुभिर् यज्ञेभिर् वावृधेन्यम् ||tám vo vā́jānām pátimáhūmahi śravasyávaḥ ǀ
áprāyubhiryajñébhirvāvṛdhényam ǁtaṃ vo vājānām patim ahūmahi śravasyavaḥ |
aprāyubhir yajñebhir vāvṛdhenyam ||तम् । वः॒ । वाजा॑नाम् । पति॑म् । अहू॑महि । श्र॒व॒स्यवः॑ ।
अप्रा॑युऽभिः । य॒ज्ञेभिः॑ । व॒वृ॒धेन्य॑म् ॥तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः ।
अप्रायुऽभिः । यज्ञेभिः । ववृधेन्यम् ॥tám ǀ vaḥ ǀ vā́jānām ǀ pátim ǀ áhūmahi ǀ śravasyávaḥ ǀ
áprāyu-bhiḥ ǀ yajñébhiḥ ǀ vavṛdhényam ǁtam ǀ vaḥ ǀ vājānām ǀ patim ǀ ahūmahi ǀ śravasyavaḥ ǀ
aprāyu-bhiḥ ǀ yajñebhiḥ ǀ vavṛdhenyam ǁ8.24.18 Aṣṭaka 6.2.18.3Anuvāka 8.4.84
-
Ṛk 19
एतो॒ न्विंद्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नरं॑ ।
कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥एतो न्व् इन्द्रं स्तवाम सखाय स्तोम्यं नरम् |
कृष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत् ||éto nvíndram stávāma sákhāyaḥ stómyam náram ǀ
kṛṣṭī́ryó víśvā abhyástyéka ít ǁeto nv indraṃ stavāma sakhāya stomyaṃ naram |
kṛṣṭīr yo viśvā abhy asty eka it ||एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑यः । स्तोम्य॑म् । नर॑म् ।
कृ॒ष्टीः । यः । विश्वाः॑ । अ॒भि । अस्ति॑ । एकः॑ । इत् ॥एतो इति । नु । इन्द्रम् । स्तवाम । सखायः । स्तोम्यम् । नरम् ।
कृष्टीः । यः । विश्वाः । अभि । अस्ति । एकः । इत् ॥éto íti ǀ nú ǀ índram ǀ stávāma ǀ sákhāyaḥ ǀ stómyam ǀ náram ǀ
kṛṣṭī́ḥ ǀ yáḥ ǀ víśvāḥ ǀ abhí ǀ ásti ǀ ékaḥ ǀ ít ǁeto iti ǀ nu ǀ indram ǀ stavāma ǀ sakhāyaḥ ǀ stomyam ǀ naram ǀ
kṛṣṭīḥ ǀ yaḥ ǀ viśvāḥ ǀ abhi ǀ asti ǀ ekaḥ ǀ it ǁ8.24.19 Aṣṭaka 6.2.18.4Anuvāka 8.4.85
-
Ṛk 20
अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ ।
घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः |
घृतात् स्वादीयो मधुनश् च वोचत ||ágorudhāya gavíṣe dyukṣā́ya dásmyam vácaḥ ǀ
ghṛtā́tsvā́dīyo mádhunaśca vocata ǁagorudhāya gaviṣe dyukṣāya dasmyaṃ vacaḥ |
ghṛtāt svādīyo madhunaś ca vocata ||अगो॑ऽरुधाय । गो॒ऽइषे॑ । द्यु॒क्षाय॑ । दस्म्य॑म् । वचः॑ ।
घृ॒तात् । स्वादी॑यः । मधु॑नः । च॒ । वो॒च॒त॒ ॥अगोऽरुधाय । गोऽइषे । द्युक्षाय । दस्म्यम् । वचः ।
घृतात् । स्वादीयः । मधुनः । च । वोचत ॥ágo-rudhāya ǀ go-íṣe ǀ dyukṣā́ya ǀ dásmyam ǀ vácaḥ ǀ
ghṛtā́t ǀ svā́dīyaḥ ǀ mádhunaḥ ǀ ca ǀ vocata ǁago-rudhāya ǀ go-iṣe ǀ dyukṣāya ǀ dasmyam ǀ vacaḥ ǀ
ghṛtāt ǀ svādīyaḥ ǀ madhunaḥ ǀ ca ǀ vocata ǁ8.24.20 Aṣṭaka 6.2.18.5Anuvāka 8.4.86
-
Ṛk 21
यस्यामि॑तानि वी॒र्या॒३॒॑ न राधः॒ पर्ये॑तवे ।
ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥यस्यामितानि वीर्या न राधः पर्येतवे |
ज्योतिर् न विश्वम् अभ्य् अस्ति दक्षिणा ||yásyā́mitāni vīryā́ ná rā́dhaḥ páryetave ǀ
jyótirná víśvamabhyásti dákṣiṇā ǁyasyāmitāni vīryā na rādhaḥ paryetave |
jyotir na viśvam abhy asti dakṣiṇā ||यस्य॑ । अमि॑तानि । वी॒र्या॑ । न । राधः॑ । परि॑ऽएतवे ।
ज्योतिः॑ । न । विश्व॑म् । अ॒भि । अस्ति॑ । दक्षि॑णा ॥यस्य । अमितानि । वीर्या । न । राधः । परिऽएतवे ।
ज्योतिः । न । विश्वम् । अभि । अस्ति । दक्षिणा ॥yásya ǀ ámitāni ǀ vīryā́ ǀ ná ǀ rā́dhaḥ ǀ pári-etave ǀ
jyótiḥ ǀ ná ǀ víśvam ǀ abhí ǀ ásti ǀ dákṣiṇā ǁyasya ǀ amitāni ǀ vīryā ǀ na ǀ rādhaḥ ǀ pari-etave ǀ
jyotiḥ ǀ na ǀ viśvam ǀ abhi ǀ asti ǀ dakṣiṇā ǁ8.24.21 Aṣṭaka 6.2.19.1Anuvāka 8.4.87
-
Ṛk 22
स्तु॒हींद्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यमं॑ ।
अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥स्तुहीन्द्रं व्यश्ववद् अनूर्मिं वाजिनं यमम् |
अर्यो गयम् मंहमानं वि दाशुषे ||stuhī́ndram vyaśvavádánūrmim vājínam yámam ǀ
aryó gáyam máṃhamānam ví dāśúṣe ǁstuhīndraṃ vyaśvavad anūrmiṃ vājinaṃ yamam |
aryo gayam maṃhamānaṃ vi dāśuṣe ||स्तु॒हि । इन्द्र॑म् । व्य॒श्व॒ऽवत् । अनू॑र्मिम् । वा॒जिन॑म् । यम॑म् ।
अ॒र्यः । गय॑म् । मंह॑मानम् । वि । दा॒शुषे॑ ॥स्तुहि । इन्द्रम् । व्यश्वऽवत् । अनूर्मिम् । वाजिनम् । यमम् ।
अर्यः । गयम् । मंहमानम् । वि । दाशुषे ॥stuhí ǀ índram ǀ vyaśva-vát ǀ ánūrmim ǀ vājínam ǀ yámam ǀ
aryáḥ ǀ gáyam ǀ máṃhamānam ǀ ví ǀ dāśúṣe ǁstuhi ǀ indram ǀ vyaśva-vat ǀ anūrmim ǀ vājinam ǀ yamam ǀ
aryaḥ ǀ gayam ǀ maṃhamānam ǀ vi ǀ dāśuṣe ǁ8.24.22 Aṣṭaka 6.2.19.2Anuvāka 8.4.88
-
Ṛk 23
ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नवं॑ ।
सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नां ॥एवा नूनम् उप स्तुहि वैयश्व दशमं नवम् |
सुविद्वांसं चर्कृत्यं चरणीनाम् ||evā́ nūnámúpa stuhi váiyaśva daśamám návam ǀ
súvidvāṃsam carkṛ́tyam caráṇīnām ǁevā nūnam upa stuhi vaiyaśva daśamaṃ navam |
suvidvāṃsaṃ carkṛtyaṃ caraṇīnām ||ए॒व । नू॒नम् । उप॑ । स्तु॒हि॒ । वैय॑श्व । द॒श॒मम् । नव॑म् ।
सुऽवि॑द्वांसम् । च॒र्कृत्य॑म् । च॒रणी॑नाम् ॥एव । नूनम् । उप । स्तुहि । वैयश्व । दशमम् । नवम् ।
सुऽविद्वांसम् । चर्कृत्यम् । चरणीनाम् ॥evá ǀ nūnám ǀ úpa ǀ stuhi ǀ váiyaśva ǀ daśamám ǀ návam ǀ
sú-vidvāṃsam ǀ carkṛ́tyam ǀ caráṇīnām ǁeva ǀ nūnam ǀ upa ǀ stuhi ǀ vaiyaśva ǀ daśamam ǀ navam ǀ
su-vidvāṃsam ǀ carkṛtyam ǀ caraṇīnām ǁ8.24.23 Aṣṭaka 6.2.19.3Anuvāka 8.4.89
-
Ṛk 24
वेत्था॒ हि निर्ऋ॑तीनां॒ वज्र॑हस्त परि॒वृजं॑ ।
अह॑रहः शुं॒ध्युः प॑रि॒पदा॑मिव ॥वेत्था हि निरृतीनां वज्रहस्त परिवृजम् |
अहर्-अहः शुन्ध्युः परिपदाम् इव ||vétthā hí nírṛtīnām vájrahasta parivṛ́jam ǀ
áharahaḥ śundhyúḥ paripádāmiva ǁvetthā hi nirṛtīnāṃ vajrahasta parivṛjam |
ahar-ahaḥ śundhyuḥ paripadām iva ||वेत्थ॑ । हि । निःऽऋ॑तीनाम् । वज्र॑ऽहस्त । प॒रि॒ऽवृज॑म् ।
अहः॑ऽअहः । शु॒न्ध्युः । प॒रि॒पदा॑म्ऽइव ॥वेत्थ । हि । निःऽऋतीनाम् । वज्रऽहस्त । परिऽवृजम् ।
अहःऽअहः । शुन्ध्युः । परिपदाम्ऽइव ॥véttha ǀ hí ǀ níḥ-ṛtīnām ǀ vájra-hasta ǀ pari-vṛ́jam ǀ
áhaḥ-ahaḥ ǀ śundhyúḥ ǀ paripádām-iva ǁvettha ǀ hi ǀ niḥ-ṛtīnām ǀ vajra-hasta ǀ pari-vṛjam ǀ
ahaḥ-ahaḥ ǀ śundhyuḥ ǀ paripadām-iva ǁ8.24.24 Aṣṭaka 6.2.19.4Anuvāka 8.4.90
-
Ṛk 25
तदिं॒द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने ।
द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय ॥तद् इन्द्राव आ भर येना दंसिष्ठ कृत्वने |
द्विता कुत्साय शिश्नथो नि चोदय ||tádindrā́va ā́ bhara yénā daṃsiṣṭha kṛ́tvane ǀ
dvitā́ kútsāya śiśnatho ní codaya ǁtad indrāva ā bhara yenā daṃsiṣṭha kṛtvane |
dvitā kutsāya śiśnatho ni codaya ||तत् । इ॒न्द्र॒ । अवः॑ । आ । भ॒र॒ । येन॑ । दं॒सि॒ष्ठ॒ । कृत्व॑ने ।
द्वि॒ता । कुत्सा॑य । शि॒श्न॒थः॒ । नि । चो॒द॒य॒ ॥तत् । इन्द्र । अवः । आ । भर । येन । दंसिष्ठ । कृत्वने ।
द्विता । कुत्साय । शिश्नथः । नि । चोदय ॥tát ǀ indra ǀ ávaḥ ǀ ā́ ǀ bhara ǀ yéna ǀ daṃsiṣṭha ǀ kṛ́tvane ǀ
dvitā́ ǀ kútsāya ǀ śiśnathaḥ ǀ ní ǀ codaya ǁtat ǀ indra ǀ avaḥ ǀ ā ǀ bhara ǀ yena ǀ daṃsiṣṭha ǀ kṛtvane ǀ
dvitā ǀ kutsāya ǀ śiśnathaḥ ǀ ni ǀ codaya ǁ8.24.25 Aṣṭaka 6.2.19.5Anuvāka 8.4.91
-
Ṛk 26
तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से ।
स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणिः॑ ॥तम् उ त्वा नूनम् ईमहे नव्यं दंसिष्ठ सन्यसे |
स त्वं नो विश्वा अभिमातीः सक्षणिः ||támu tvā nūnámīmahe návyam daṃsiṣṭha sányase ǀ
sá tvám no víśvā abhímātīḥ sakṣáṇiḥ ǁtam u tvā nūnam īmahe navyaṃ daṃsiṣṭha sanyase |
sa tvaṃ no viśvā abhimātīḥ sakṣaṇiḥ ||तम् । ऊं॒ इति॑ । त्वा॒ । नू॒नम् । ई॒म॒हे॒ । नव्य॑म् । दं॒सि॒ष्ठ॒ । सन्य॑से ।
सः । त्वम् । नः॒ । विश्वाः॑ । अ॒भिऽमा॑तीः । स॒क्षणिः॑ ॥तम् । ऊं इति । त्वा । नूनम् । ईमहे । नव्यम् । दंसिष्ठ । सन्यसे ।
सः । त्वम् । नः । विश्वाः । अभिऽमातीः । सक्षणिः ॥tám ǀ ūṃ íti ǀ tvā ǀ nūnám ǀ īmahe ǀ návyam ǀ daṃsiṣṭha ǀ sányase ǀ
sáḥ ǀ tvám ǀ naḥ ǀ víśvāḥ ǀ abhí-mātīḥ ǀ sakṣáṇiḥ ǁtam ǀ ūṃ iti ǀ tvā ǀ nūnam ǀ īmahe ǀ navyam ǀ daṃsiṣṭha ǀ sanyase ǀ
saḥ ǀ tvam ǀ naḥ ǀ viśvāḥ ǀ abhi-mātīḥ ǀ sakṣaṇiḥ ǁ8.24.26 Aṣṭaka 6.2.20.1Anuvāka 8.4.92
-
Ṛk 27
य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिंधु॑षु ।
वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥य ऋक्षाद् अंहसो मुचद् यो वार्यात् सप्त सिन्धुषु |
वधर् दासस्य तुविनृम्ण नीनमः ||yá ṛ́kṣādáṃhaso mucádyó vā́ryātsaptá síndhuṣu ǀ
vádhardāsásya tuvinṛmṇa nīnamaḥ ǁya ṛkṣād aṃhaso mucad yo vāryāt sapta sindhuṣu |
vadhar dāsasya tuvinṛmṇa nīnamaḥ ||यः । ऋक्षा॑त् । अंह॑सः । मु॒चत् । यः । वा॒ । आर्या॑त् । स॒प्त । सिन्धु॑षु ।
वधः॑ । दा॒सस्य॑ । तु॒वि॒ऽनृ॒म्ण॒ । नी॒न॒मः॒ ॥यः । ऋक्षात् । अंहसः । मुचत् । यः । वा । आर्यात् । सप्त । सिन्धुषु ।
वधः । दासस्य । तुविऽनृम्ण । नीनमः ॥yáḥ ǀ ṛ́kṣāt ǀ áṃhasaḥ ǀ mucát ǀ yáḥ ǀ vā ǀ ā́ryāt ǀ saptá ǀ síndhuṣu ǀ
vádhaḥ ǀ dāsásya ǀ tuvi-nṛmṇa ǀ nīnamaḥ ǁyaḥ ǀ ṛkṣāt ǀ aṃhasaḥ ǀ mucat ǀ yaḥ ǀ vā ǀ āryāt ǀ sapta ǀ sindhuṣu ǀ
vadhaḥ ǀ dāsasya ǀ tuvi-nṛmṇa ǀ nīnamaḥ ǁ8.24.27 Aṣṭaka 6.2.20.2Anuvāka 8.4.93
-
Ṛk 28
यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिं ।
व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् |
व्यश्वेभ्यः सुभगे वाजिनीवति ||yáthā varo suṣā́mṇe saníbhya ā́vaho rayím ǀ
vyáśvebhyaḥ subhage vājinīvati ǁyathā varo suṣāmṇe sanibhya āvaho rayim |
vyaśvebhyaḥ subhage vājinīvati ||यथा॑ । व॒रो॒ इति॑ । सु॒ऽसाम्ने॑ । स॒निऽभ्यः॑ । आ । अव॑हः । र॒यिम् ।
विऽअ॑श्वेभ्यः । सु॒ऽभ॒गे॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥यथा । वरो इति । सुऽसाम्ने । सनिऽभ्यः । आ । अवहः । रयिम् ।
विऽअश्वेभ्यः । सुऽभगे । वाजिनीऽवति ॥yáthā ǀ varo íti ǀ su-sā́mne ǀ saní-bhyaḥ ǀ ā́ ǀ ávahaḥ ǀ rayím ǀ
ví-aśvebhyaḥ ǀ su-bhage ǀ vājinī-vati ǁyathā ǀ varo iti ǀ su-sāmne ǀ sani-bhyaḥ ǀ ā ǀ avahaḥ ǀ rayim ǀ
vi-aśvebhyaḥ ǀ su-bhage ǀ vājinī-vati ǁ8.24.28 Aṣṭaka 6.2.20.3Anuvāka 8.4.94
-
Ṛk 29
आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिनः॑ ।
स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ॥आ नार्यस्य दक्षिणा व्यश्वां एतु सोमिनः |
स्थूरं च राधः शतवत् सहस्रवत् ||ā́ nāryásya dákṣiṇā vyáśvām̐ etu somínaḥ ǀ
sthūrám ca rā́dhaḥ śatávatsahásravat ǁā nāryasya dakṣiṇā vyaśvāṃ etu sominaḥ |
sthūraṃ ca rādhaḥ śatavat sahasravat ||आ । ना॒र्यस्य॑ । दक्षि॑णा । विऽअ॑श्वान् । ए॒तु॒ । सो॒मिनः॑ ।
स्थू॒रम् । च॒ । राधः॑ । श॒तऽव॑त् । स॒हस्र॑ऽवत् ॥आ । नार्यस्य । दक्षिणा । विऽअश्वान् । एतु । सोमिनः ।
स्थूरम् । च । राधः । शतऽवत् । सहस्रऽवत् ॥ā́ ǀ nāryásya ǀ dákṣiṇā ǀ ví-aśvān ǀ etu ǀ somínaḥ ǀ
sthūrám ǀ ca ǀ rā́dhaḥ ǀ śatá-vat ǀ sahásra-vat ǁā ǀ nāryasya ǀ dakṣiṇā ǀ vi-aśvān ǀ etu ǀ sominaḥ ǀ
sthūram ǀ ca ǀ rādhaḥ ǀ śata-vat ǀ sahasra-vat ǁ8.24.29 Aṣṭaka 6.2.20.4Anuvāka 8.4.95
-
Ṛk 30
यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते ।
ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥यत् त्वा पृच्छाद् ईजानः कुहया कुहयाकृते |
एषो अपश्रितो वलो गोमतीम् अव तिष्ठति ||yáttvā pṛcchā́dījānáḥ kuhayā́ kuhayākṛte ǀ
eṣó ápaśrito való gomatī́máva tiṣṭhati ǁyat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte |
eṣo apaśrito valo gomatīm ava tiṣṭhati ||यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒ऽकृ॒ते॒ ।
ए॒षः । अप॑ऽश्रितः । व॒लः । गो॒ऽम॒तीम् । अव॑ । ति॒ष्ठ॒ति॒ ॥यत् । त्वा । पृच्छात् । ईजानः । कुहया । कुहयाऽकृते ।
एषः । अपऽश्रितः । वलः । गोऽमतीम् । अव । तिष्ठति ॥yát ǀ tvā ǀ pṛcchā́t ǀ ījānáḥ ǀ kuhayā́ ǀ kuhayā-kṛte ǀ
eṣáḥ ǀ ápa-śritaḥ ǀ valáḥ ǀ go-matī́m ǀ áva ǀ tiṣṭhati ǁyat ǀ tvā ǀ pṛcchāt ǀ ījānaḥ ǀ kuhayā ǀ kuhayā-kṛte ǀ
eṣaḥ ǀ apa-śritaḥ ǀ valaḥ ǀ go-matīm ǀ ava ǀ tiṣṭhati ǁ8.24.30 Aṣṭaka 6.2.20.5Anuvāka 8.4.96
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.