Ṛk 8.24.15
Saṃhitā
न॒ह्यं१॒॑ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् ।
नकी॑ रा॒या नैवथा॒ न भं॒दना॑ ॥
नह्य् अङ्ग पुरा चन जज्ञे वीरतरस् त्वत् |
नकी राया नैवथा न भन्दना ||
nahyáṅgá purā́ caná jajñé vīrátarastvát ǀ
nákī rāyā́ náiváthā ná bhandánā ǁ
nahy aṅga purā cana jajñe vīrataras tvat |
nakī rāyā naivathā na bhandanā ||
Padapāṭha
न॒हि । अ॒ङ्ग । पु॒रा । च॒न । ज॒ज्ञे । वी॒रऽत॑रः । त्वत् ।
नकिः॑ । रा॒या । न । ए॒वऽथा॑ । न । भ॒न्दना॑ ॥
नहि । अङ्ग । पुरा । चन । जज्ञे । वीरऽतरः । त्वत् ।
नकिः । राया । न । एवऽथा । न । भन्दना ॥
nahí ǀ aṅgá ǀ purā́ ǀ caná ǀ jajñé ǀ vīrá-taraḥ ǀ tvát ǀ
nákiḥ ǀ rāyā́ ǀ ná ǀ evá-thā ǀ ná ǀ bhandánā ǁ
nahi ǀ aṅga ǀ purā ǀ cana ǀ jajñe ǀ vīra-taraḥ ǀ tvat ǀ
nakiḥ ǀ rāyā ǀ na ǀ eva-thā ǀ na ǀ bhandanā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.024.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.17.05
- Maṇḍala · Anuvāka · Ṛk
- 08.04.081
- Devatā देवता
- 1-27: Indra; 28-30: Varu Sauṣāmṇa’s Dānastuti
- Ṛṣi ऋषि
- Viśvamanas Vaiyaśva
- Chandas छन्दस्
- Uṣṇih, Anuṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.