Ṛk 8.24.6
Saṃhitā
आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिर्ऋ॑णोम्यद्रिवः ।
आ स्मा॒ कामं॑ जरि॒तुरा मनः॑ पृण ॥
आ त्वा गोभिर् इव व्रजं गीर्भिर् ऋणोम्य् अद्रिवः |
आ स्मा कामं जरितुर् आ मनः पृण ||
ā́ tvā góbhiriva vrajám gīrbhírṛṇomyadrivaḥ ǀ
ā́ smā kā́mam jaritúrā́ mánaḥ pṛṇa ǁ
ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ |
ā smā kāmaṃ jaritur ā manaḥ pṛṇa ||
Padapāṭha
आ । त्वा॒ । गोभिः॑ऽइव । व्र॒जम् । गीः॒ऽभिः । ऋ॒णो॒मि॒ । अ॒द्रि॒ऽवः॒ ।
आ । स्म॒ । काम॑म् । ज॒रि॒तुः । आ । मनः॑ । पृ॒ण॒ ॥
आ । त्वा । गोभिःऽइव । व्रजम् । गीःऽभिः । ऋणोमि । अद्रिऽवः ।
आ । स्म । कामम् । जरितुः । आ । मनः । पृण ॥
ā́ ǀ tvā ǀ góbhiḥ-iva ǀ vrajám ǀ gīḥ-bhíḥ ǀ ṛṇomi ǀ adri-vaḥ ǀ
ā́ ǀ sma ǀ kā́mam ǀ jaritúḥ ǀ ā́ ǀ mánaḥ ǀ pṛṇa ǁ
ā ǀ tvā ǀ gobhiḥ-iva ǀ vrajam ǀ gīḥ-bhiḥ ǀ ṛṇomi ǀ adri-vaḥ ǀ
ā ǀ sma ǀ kāmam ǀ jarituḥ ǀ ā ǀ manaḥ ǀ pṛṇa ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.024.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.16.01
- Maṇḍala · Anuvāka · Ṛk
- 08.04.072
- Devatā देवता
- 1-27: Indra; 28-30: Varu Sauṣāmṇa’s Dānastuti
- Ṛṣi ऋषि
- Viśvamanas Vaiyaśva
- Chandas छन्दस्
- Uṣṇih, Anuṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.