Sūkta 81
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kusīdin Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (2, 3, 6, 7); gāyatrī (1, 5, 8); virāḍgāyatrī (4, 9)
2nd set of styles gāyatrī
-
Ṛk 1
आ तू न॑ इंद्र क्षु॒मंतं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय |
महाहस्ती दक्षिणेन ||ā́ tū́ na indra kṣumántam citrám grābhám sám gṛbhāya ǀ
mahāhastī́ dákṣiṇena ǁā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya |
mahāhastī dakṣiṇena ||आ । तु । नः॒ । इ॒न्द्र॒ । क्षु॒ऽमन्त॑म् । चि॒त्रम् । ग्रा॒भम् । सम् । गृ॒भा॒य॒ ।
म॒हा॒ऽह॒स्ती । दक्षि॑णेन ॥आ । तु । नः । इन्द्र । क्षुऽमन्तम् । चित्रम् । ग्राभम् । सम् । गृभाय ।
महाऽहस्ती । दक्षिणेन ॥ā́ ǀ tú ǀ naḥ ǀ indra ǀ kṣu-mántam ǀ citrám ǀ grābhám ǀ sám ǀ gṛbhāya ǀ
mahā-hastī́ ǀ dákṣiṇena ǁā ǀ tu ǀ naḥ ǀ indra ǀ kṣu-mantam ǀ citram ǀ grābham ǀ sam ǀ gṛbhāya ǀ
mahā-hastī ǀ dakṣiṇena ǁ8.81.1 Aṣṭaka 6.5.37.1Anuvāka 8.9.1
-
Ṛk 2
वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घं ।
तु॒वि॒मा॒त्रमवो॑भिः ॥विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् |
तुविमात्रम् अवोभिः ||vidmā́ hí tvā tuvikūrmím tuvídeṣṇam tuvī́magham ǀ
tuvimātrámávobhiḥ ǁvidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham |
tuvimātram avobhiḥ ||वि॒द्म । हि । त्वा॒ । तु॒वि॒ऽकू॒र्मिम् । तु॒विऽदे॑ष्णम् । तु॒विऽम॑घम् ।
तु॒वि॒ऽमा॒त्रम् । अवः॑ऽभिः ॥विद्म । हि । त्वा । तुविऽकूर्मिम् । तुविऽदेष्णम् । तुविऽमघम् ।
तुविऽमात्रम् । अवःऽभिः ॥vidmá ǀ hí ǀ tvā ǀ tuvi-kūrmím ǀ tuví-deṣṇam ǀ tuví-magham ǀ
tuvi-mātrám ǀ ávaḥ-bhiḥ ǁvidma ǀ hi ǀ tvā ǀ tuvi-kūrmim ǀ tuvi-deṣṇam ǀ tuvi-magham ǀ
tuvi-mātram ǀ avaḥ-bhiḥ ǁ8.81.2 Aṣṭaka 6.5.37.2Anuvāka 8.9.2
-
Ṛk 3
न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्सं॑तं ।
भी॒मं न गां वा॒रयं॑ते ॥नहि त्वा शूर देवा न मर्तासो दित्सन्तम् |
भीमं न गां वारयन्ते ||nahí tvā śūra devā́ ná mártāso dítsantam ǀ
bhīmám ná gā́m vāráyante ǁnahi tvā śūra devā na martāso ditsantam |
bhīmaṃ na gāṃ vārayante ||न॒हि । त्वा॒ । शू॒र॒ । दे॒वाः । न । मर्ता॑सः । दित्स॑न्तम् ।
भी॒मम् । न । गाम् । वा॒रय॑न्ते ॥नहि । त्वा । शूर । देवाः । न । मर्तासः । दित्सन्तम् ।
भीमम् । न । गाम् । वारयन्ते ॥nahí ǀ tvā ǀ śūra ǀ devā́ḥ ǀ ná ǀ mártāsaḥ ǀ dítsantam ǀ
bhīmám ǀ ná ǀ gā́m ǀ vāráyante ǁnahi ǀ tvā ǀ śūra ǀ devāḥ ǀ na ǀ martāsaḥ ǀ ditsantam ǀ
bhīmam ǀ na ǀ gām ǀ vārayante ǁ8.81.3 Aṣṭaka 6.5.37.3Anuvāka 8.9.3
-
Ṛk 4
एतो॒ न्विंद्रं॒ स्तवा॒मेशा॑नं॒ वस्वः॑ स्व॒राजं॑ ।
न राध॑सा मर्धिषन्नः ॥एतो न्व् इन्द्रं स्तवामेशानं वस्वः स्वराजम् |
न राधसा मर्धिषन् नः ||éto nvíndram stávāméśānam vásvaḥ svarā́jam ǀ
ná rā́dhasā mardhiṣannaḥ ǁeto nv indraṃ stavāmeśānaṃ vasvaḥ svarājam |
na rādhasā mardhiṣan naḥ ||आ । इ॒त॒ । ऊं॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । ईशा॑नम् । वस्वः॑ । स्व॒ऽराज॑म् ।
न । राध॑सा । म॒र्धि॒ष॒त् । नः॒ ॥आ । इत । ऊं इति । नु । इन्द्रम् । स्तवाम । ईशानम् । वस्वः । स्वऽराजम् ।
न । राधसा । मर्धिषत् । नः ॥ā́ ǀ ita ǀ ūṃ íti ǀ nú ǀ índram ǀ stávāma ǀ ī́śānam ǀ vásvaḥ ǀ sva-rā́jam ǀ
ná ǀ rā́dhasā ǀ mardhiṣat ǀ naḥ ǁā ǀ ita ǀ ūṃ iti ǀ nu ǀ indram ǀ stavāma ǀ īśānam ǀ vasvaḥ ǀ sva-rājam ǀ
na ǀ rādhasā ǀ mardhiṣat ǀ naḥ ǁ8.81.4 Aṣṭaka 6.5.37.4Anuvāka 8.9.4
-
Ṛk 5
प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नं ।
अ॒भि राध॑सा जुगुरत् ॥प्र स्तोषद् उप गासिषच् छ्रवत् साम गीयमानम् |
अभि राधसा जुगुरत् ||prá stoṣadúpa gāsiṣacchrávatsā́ma gīyámānam ǀ
abhí rā́dhasā jugurat ǁpra stoṣad upa gāsiṣac chravat sāma gīyamānam |
abhi rādhasā jugurat ||प्र । स्तो॒ष॒त् । उप॑ । गा॒सि॒ष॒त् । श्रव॑त् । साम॑ । गी॒यमा॑नम् ।
अ॒भि । राध॑सा । जु॒गु॒र॒त् ॥प्र । स्तोषत् । उप । गासिषत् । श्रवत् । साम । गीयमानम् ।
अभि । राधसा । जुगुरत् ॥prá ǀ stoṣat ǀ úpa ǀ gāsiṣat ǀ śrávat ǀ sā́ma ǀ gīyámānam ǀ
abhí ǀ rā́dhasā ǀ jugurat ǁpra ǀ stoṣat ǀ upa ǀ gāsiṣat ǀ śravat ǀ sāma ǀ gīyamānam ǀ
abhi ǀ rādhasā ǀ jugurat ǁ8.81.5 Aṣṭaka 6.5.37.5Anuvāka 8.9.5
-
Ṛk 6
आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इंद्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥आ नो भर दक्षिणेनाभि सव्येन प्र मृश |
इन्द्र मा नो वसोर् निर् भाक् ||ā́ no bhara dákṣiṇenābhí savyéna prá mṛśa ǀ
índra mā́ no vásornírbhāk ǁā no bhara dakṣiṇenābhi savyena pra mṛśa |
indra mā no vasor nir bhāk ||आ । नः॒ । भ॒र॒ । दक्षि॑णेन । अ॒भि । स॒व्येन॑ । प्र । मृ॒श॒ ।
इन्द्र॑ । मा । नः॒ । वसोः॑ । निः । भा॒क् ॥आ । नः । भर । दक्षिणेन । अभि । सव्येन । प्र । मृश ।
इन्द्र । मा । नः । वसोः । निः । भाक् ॥ā́ ǀ naḥ ǀ bhara ǀ dákṣiṇena ǀ abhí ǀ savyéna ǀ prá ǀ mṛśa ǀ
índra ǀ mā́ ǀ naḥ ǀ vásoḥ ǀ níḥ ǀ bhāk ǁā ǀ naḥ ǀ bhara ǀ dakṣiṇena ǀ abhi ǀ savyena ǀ pra ǀ mṛśa ǀ
indra ǀ mā ǀ naḥ ǀ vasoḥ ǀ niḥ ǀ bhāk ǁ8.81.6 Aṣṭaka 6.5.38.1Anuvāka 8.9.6
-
Ṛk 7
उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नां ।
अदा॑शूष्टरस्य॒ वेदः॑ ॥उप क्रमस्वा भर धृषता धृष्णो जनानाम् |
अदाशूष्टरस्य वेदः ||úpa kramasvā́ bhara dhṛṣatā́ dhṛṣṇo jánānām ǀ
ádāśūṣṭarasya védaḥ ǁupa kramasvā bhara dhṛṣatā dhṛṣṇo janānām |
adāśūṣṭarasya vedaḥ ||उप॑ । क्र॒म॒स्व॒ । आ । भ॒र॒ । धृ॒ष॒ता । धृ॒ष्णो॒ इति॑ । जना॑नाम् ।
अदा॑शूःऽतरस्य । वेदः॑ ॥उप । क्रमस्व । आ । भर । धृषता । धृष्णो इति । जनानाम् ।
अदाशूःऽतरस्य । वेदः ॥úpa ǀ kramasva ǀ ā́ ǀ bhara ǀ dhṛṣatā́ ǀ dhṛṣṇo íti ǀ jánānām ǀ
ádāśūḥ-tarasya ǀ védaḥ ǁupa ǀ kramasva ǀ ā ǀ bhara ǀ dhṛṣatā ǀ dhṛṣṇo iti ǀ janānām ǀ
adāśūḥ-tarasya ǀ vedaḥ ǁ8.81.7 Aṣṭaka 6.5.38.2Anuvāka 8.9.7
-
Ṛk 8
इंद्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भिः॒ सनि॑त्वः ।
अ॒स्माभिः॒ सु तं स॑नुहि ॥इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः |
अस्माभिः सु तं सनुहि ||índra yá u nú te ásti vā́jo víprebhiḥ sánitvaḥ ǀ
asmā́bhiḥ sú tám sanuhi ǁindra ya u nu te asti vājo viprebhiḥ sanitvaḥ |
asmābhiḥ su taṃ sanuhi ||इन्द्र॑ । यः । ऊं॒ इति॑ । नु । ते॒ । अस्ति॑ । वाजः॑ । विप्रे॑भिः । सनि॑त्वः ।
अ॒स्माभिः॑ । सु । तम् । स॒नु॒हि॒ ॥इन्द्र । यः । ऊं इति । नु । ते । अस्ति । वाजः । विप्रेभिः । सनित्वः ।
अस्माभिः । सु । तम् । सनुहि ॥índra ǀ yáḥ ǀ ūṃ íti ǀ nú ǀ te ǀ ásti ǀ vā́jaḥ ǀ víprebhiḥ ǀ sánitvaḥ ǀ
asmā́bhiḥ ǀ sú ǀ tám ǀ sanuhi ǁindra ǀ yaḥ ǀ ūṃ iti ǀ nu ǀ te ǀ asti ǀ vājaḥ ǀ viprebhiḥ ǀ sanitvaḥ ǀ
asmābhiḥ ǀ su ǀ tam ǀ sanuhi ǁ8.81.8 Aṣṭaka 6.5.38.3Anuvāka 8.9.8
-
Ṛk 9
स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्चं॑द्राः ।
वशै॑श्च म॒क्षू ज॑रंते ॥सद्योजुवस् ते वाजा अस्मभ्यं विश्वश्चन्द्राः |
वशैश् च मक्षू जरन्ते ||sadyojúvaste vā́jā asmábhyam viśváścandrāḥ ǀ
váśaiśca makṣū́ jarante ǁsadyojuvas te vājā asmabhyaṃ viśvaścandrāḥ |
vaśaiś ca makṣū jarante ||स॒द्यः॒ऽजुवः॑ । ते॒ । वाजाः॑ । अ॒स्मभ्य॑म् । वि॒श्वऽच॑न्द्राः ।
वशैः॑ । च॒ । म॒क्षु । ज॒र॒न्ते॒ ॥सद्यःऽजुवः । ते । वाजाः । अस्मभ्यम् । विश्वऽचन्द्राः ।
वशैः । च । मक्षु । जरन्ते ॥sadyaḥ-júvaḥ ǀ te ǀ vā́jāḥ ǀ asmábhyam ǀ viśvá-candrāḥ ǀ
váśaiḥ ǀ ca ǀ makṣú ǀ jarante ǁsadyaḥ-juvaḥ ǀ te ǀ vājāḥ ǀ asmabhyam ǀ viśva-candrāḥ ǀ
vaśaiḥ ǀ ca ǀ makṣu ǀ jarante ǁ8.81.9 Aṣṭaka 6.5.38.4Anuvāka 8.9.9
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.