Sūkta 78
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kurusuti Kāṇva
- Chandas छन्दस्
- Gāyatrī, Bṛhatī
Metres by ṛk
1st set of styles virāḍgāyatrī (2, 6-9); nicṛdgāyatrī (1, 3); gāyatrī (4, 5); bṛhatī (10)
2nd set of styles gāyatrī (1-9); bṛhatī (10)
-
Ṛk 1
पु॒रो॒ळाशं॑ नो॒ अंध॑स॒ इंद्र॑ स॒हस्र॒मा भ॑र ।
श॒ता च॑ शूर॒ गोनां॑ ॥पुरोऌआशं नो अन्धस इन्द्र सहस्रम् आ भर |
शता च शूर गोनाम् ||puroḷā́śam no ándhasa índra sahásramā́ bhara ǀ
śatā́ ca śūra gónām ǁpuroḷāśaṃ no andhasa indra sahasram ā bhara |
śatā ca śūra gonām ||पु॒रो॒ळाश॑म् । नः॒ । अन्ध॑सः । इन्द्र॑ । स॒हस्र॑म् । आ । भ॒र॒ ।
श॒ता । च॒ । शू॒र॒ । गोना॑म् ॥पुरोळाशम् । नः । अन्धसः । इन्द्र । सहस्रम् । आ । भर ।
शता । च । शूर । गोनाम् ॥puroḷā́śam ǀ naḥ ǀ ándhasaḥ ǀ índra ǀ sahásram ǀ ā́ ǀ bhara ǀ
śatā́ ǀ ca ǀ śūra ǀ gónām ǁpuroḷāśam ǀ naḥ ǀ andhasaḥ ǀ indra ǀ sahasram ǀ ā ǀ bhara ǀ
śatā ǀ ca ǀ śūra ǀ gonām ǁ8.78.1 Aṣṭaka 6.5.31.1Anuvāka 8.8.121
-
Ṛk 2
आ नो॑ भर॒ व्यंज॑नं॒ गामश्व॑म॒भ्यंज॑नं ।
सचा॑ म॒ना हि॑र॒ण्यया॑ ॥आ नो भर व्यञ्जनं गाम् अश्वम् अभ्यञ्जनम् |
सचा मना हिरण्यया ||ā́ no bhara vyáñjanam gā́máśvamabhyáñjanam ǀ
sácā manā́ hiraṇyáyā ǁā no bhara vyañjanaṃ gām aśvam abhyañjanam |
sacā manā hiraṇyayā ||आ । नः॒ । भ॒र॒ । वि॒ऽअञ्ज॑नम् । गाम् । अश्व॑म् । अ॒भि॒ऽअञ्ज॑नम् ।
सचा॑ । म॒ना । हि॒र॒ण्यया॑ ॥आ । नः । भर । विऽअञ्जनम् । गाम् । अश्वम् । अभिऽअञ्जनम् ।
सचा । मना । हिरण्यया ॥ā́ ǀ naḥ ǀ bhara ǀ vi-áñjanam ǀ gā́m ǀ áśvam ǀ abhi-áñjanam ǀ
sácā ǀ manā́ ǀ hiraṇyáyā ǁā ǀ naḥ ǀ bhara ǀ vi-añjanam ǀ gām ǀ aśvam ǀ abhi-añjanam ǀ
sacā ǀ manā ǀ hiraṇyayā ǁ8.78.2 Aṣṭaka 6.5.31.2Anuvāka 8.8.122
-
Ṛk 3
उ॒त नः॑ कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र ।
त्वं हि शृ॑ण्वि॒षे व॑सो ॥उत नः कर्णशोभना पुरूणि धृष्णव् आ भर |
त्वं हि शृण्विषे वसो ||utá naḥ karṇaśóbhanā purū́ṇi dhṛṣṇavā́ bhara ǀ
tvám hí śṛṇviṣé vaso ǁuta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara |
tvaṃ hi śṛṇviṣe vaso ||उ॒त । नः॒ । क॒र्ण॒ऽशोभ॑ना । पु॒रूणि॑ । धृ॒ष्णो॒ इति॑ । आ । भ॒र॒ ।
त्वम् । हि । शृ॒ण्वि॒षे । व॒सो॒ इति॑ ॥उत । नः । कर्णऽशोभना । पुरूणि । धृष्णो इति । आ । भर ।
त्वम् । हि । शृण्विषे । वसो इति ॥utá ǀ naḥ ǀ karṇa-śóbhanā ǀ purū́ṇi ǀ dhṛṣṇo íti ǀ ā́ ǀ bhara ǀ
tvám ǀ hí ǀ śṛṇviṣé ǀ vaso íti ǁuta ǀ naḥ ǀ karṇa-śobhanā ǀ purūṇi ǀ dhṛṣṇo iti ǀ ā ǀ bhara ǀ
tvam ǀ hi ǀ śṛṇviṣe ǀ vaso iti ǁ8.78.3 Aṣṭaka 6.5.31.3Anuvāka 8.8.123
-
Ṛk 4
नकीं॑ वृधी॒क इं॑द्र ते॒ न सु॒षा न सु॒दा उ॒त ।
नान्यस्त्वच्छू॑र वा॒घतः॑ ॥नकीं वृधीक इन्द्र ते न सुषा न सुदा उत |
नान्यस् त्वच् छूर वाघतः ||nákīm vṛdhīká indra te ná suṣā́ ná sudā́ utá ǀ
nā́nyástvácchūra vāghátaḥ ǁnakīṃ vṛdhīka indra te na suṣā na sudā uta |
nānyas tvac chūra vāghataḥ ||नकी॑म् । वृ॒धी॒कः । इ॒न्द्र॒ । ते॒ । न । सु॒ऽसाः । न । सु॒ऽदाः । उ॒त ।
न । अ॒न्यः । त्वत् । शू॒र॒ । वा॒घतः॑ ॥नकीम् । वृधीकः । इन्द्र । ते । न । सुऽसाः । न । सुऽदाः । उत ।
न । अन्यः । त्वत् । शूर । वाघतः ॥nákīm ǀ vṛdhīkáḥ ǀ indra ǀ te ǀ ná ǀ su-sā́ḥ ǀ ná ǀ su-dā́ḥ ǀ utá ǀ
ná ǀ anyáḥ ǀ tvát ǀ śūra ǀ vāghátaḥ ǁnakīm ǀ vṛdhīkaḥ ǀ indra ǀ te ǀ na ǀ su-sāḥ ǀ na ǀ su-dāḥ ǀ uta ǀ
na ǀ anyaḥ ǀ tvat ǀ śūra ǀ vāghataḥ ǁ8.78.4 Aṣṭaka 6.5.31.4Anuvāka 8.8.124
-
Ṛk 5
नकी॒मिंद्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे ।
विश्वं॑ शृणोति॒ पश्य॑ति ॥नकीम् इन्द्रो निकर्तवे न शक्रः परिशक्तवे |
विश्वं शृणोति पश्यति ||nákīmíndro níkartave ná śakráḥ páriśaktave ǀ
víśvam śṛṇoti páśyati ǁnakīm indro nikartave na śakraḥ pariśaktave |
viśvaṃ śṛṇoti paśyati ||नकी॑म् । इन्द्रः॑ । निऽक॑र्तवे । न । श॒क्रः । परि॑ऽशक्तवे ।
विश्व॑म् । शृ॒णो॒ति॒ । पश्य॑ति ॥नकीम् । इन्द्रः । निऽकर्तवे । न । शक्रः । परिऽशक्तवे ।
विश्वम् । शृणोति । पश्यति ॥nákīm ǀ índraḥ ǀ ní-kartave ǀ ná ǀ śakráḥ ǀ pári-śaktave ǀ
víśvam ǀ śṛṇoti ǀ páśyati ǁnakīm ǀ indraḥ ǀ ni-kartave ǀ na ǀ śakraḥ ǀ pari-śaktave ǀ
viśvam ǀ śṛṇoti ǀ paśyati ǁ8.78.5 Aṣṭaka 6.5.31.5Anuvāka 8.8.125
-
Ṛk 6
स म॒न्युं मर्त्या॑ना॒मद॑ब्धो॒ नि चि॑कीषते ।
पु॒रा नि॒दश्चि॑कीषते ॥स मन्युम् मर्त्यानाम् अदब्धो नि चिकीषते |
पुरा निदश् चिकीषते ||sá manyúm mártyānāmádabdho ní cikīṣate ǀ
purā́ nidáścikīṣate ǁsa manyum martyānām adabdho ni cikīṣate |
purā nidaś cikīṣate ||सः । म॒न्युम् । मर्त्या॑नाम् । अद॑ब्धः । नि । चि॒की॒ष॒ते॒ ।
पु॒रा । नि॒दः । चि॒की॒ष॒ते॒ ॥सः । मन्युम् । मर्त्यानाम् । अदब्धः । नि । चिकीषते ।
पुरा । निदः । चिकीषते ॥sáḥ ǀ manyúm ǀ mártyānām ǀ ádabdhaḥ ǀ ní ǀ cikīṣate ǀ
purā́ ǀ nidáḥ ǀ cikīṣate ǁsaḥ ǀ manyum ǀ martyānām ǀ adabdhaḥ ǀ ni ǀ cikīṣate ǀ
purā ǀ nidaḥ ǀ cikīṣate ǁ8.78.6 Aṣṭaka 6.5.32.1Anuvāka 8.8.126
-
Ṛk 7
क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः ।
वृ॒त्र॒घ्नः सो॑म॒पाव्नः॑ ॥क्रत्व इत् पूर्णम् उदरं तुरस्यास्ति विधतः |
वृत्रघ्नः सोमपाव्नः ||krátva ítpūrṇámudáram turásyāsti vidhatáḥ ǀ
vṛtraghnáḥ somapā́vnaḥ ǁkratva it pūrṇam udaraṃ turasyāsti vidhataḥ |
vṛtraghnaḥ somapāvnaḥ ||क्रत्वः॑ । इत् । पू॒र्णम् । उ॒दर॑म् । तु॒रस्य॑ । अ॒स्ति॒ । वि॒ध॒तः ।
वृ॒त्र॒ऽघ्नः । सो॒म॒ऽपाव्नः॑ ॥क्रत्वः । इत् । पूर्णम् । उदरम् । तुरस्य । अस्ति । विधतः ।
वृत्रऽघ्नः । सोमऽपाव्नः ॥krátvaḥ ǀ ít ǀ pūrṇám ǀ udáram ǀ turásya ǀ asti ǀ vidhatáḥ ǀ
vṛtra-ghnáḥ ǀ soma-pā́vnaḥ ǁkratvaḥ ǀ it ǀ pūrṇam ǀ udaram ǀ turasya ǀ asti ǀ vidhataḥ ǀ
vṛtra-ghnaḥ ǀ soma-pāvnaḥ ǁ8.78.7 Aṣṭaka 6.5.32.2Anuvāka 8.8.127
-
Ṛk 8
त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा ।
सु॒दात्वप॑रिह्वृता ॥त्वे वसूनि संगता विश्वा च सोम सौभगा |
सुदात्व् अपरिह्वृता ||tvé vásūni sáṃgatā víśvā ca soma sáubhagā ǀ
sudā́tváparihvṛtā ǁtve vasūni saṃgatā viśvā ca soma saubhagā |
sudātv aparihvṛtā ||त्वे इति॑ । वसू॑नि । सम्ऽग॑ता । विश्वा॑ । च॒ । सो॒म॒ । सौभ॑गा ।
सु॒ऽदातु॑ । अप॑रिऽह्वृता ॥त्वे इति । वसूनि । सम्ऽगता । विश्वा । च । सोम । सौभगा ।
सुऽदातु । अपरिऽह्वृता ॥tvé íti ǀ vásūni ǀ sám-gatā ǀ víśvā ǀ ca ǀ soma ǀ sáubhagā ǀ
su-dā́tu ǀ ápari-hvṛtā ǁtve iti ǀ vasūni ǀ sam-gatā ǀ viśvā ǀ ca ǀ soma ǀ saubhagā ǀ
su-dātu ǀ apari-hvṛtā ǁ8.78.8 Aṣṭaka 6.5.32.3Anuvāka 8.8.128
-
Ṛk 9
त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः ।
त्वाम॑श्व॒युरेष॑ते ॥त्वाम् इद् यवयुर् मम कामो गव्युर् हिरण्ययुः |
त्वाम् अश्वयुर् एषते ||tvā́mídyavayúrmáma kā́mo gavyúrhiraṇyayúḥ ǀ
tvā́maśvayúréṣate ǁtvām id yavayur mama kāmo gavyur hiraṇyayuḥ |
tvām aśvayur eṣate ||त्वाम् । इत् । य॒व॒ऽयुः । मम॑ । कामः॑ । ग॒व्युः । हि॒र॒ण्य॒ऽयुः ।
त्वाम् । अ॒श्व॒ऽयुः । आ । ई॒ष॒ते॒ ॥त्वाम् । इत् । यवऽयुः । मम । कामः । गव्युः । हिरण्यऽयुः ।
त्वाम् । अश्वऽयुः । आ । ईषते ॥tvā́m ǀ ít ǀ yava-yúḥ ǀ máma ǀ kā́maḥ ǀ gavyúḥ ǀ hiraṇya-yúḥ ǀ
tvā́m ǀ aśva-yúḥ ǀ ā́ ǀ īṣate ǁtvām ǀ it ǀ yava-yuḥ ǀ mama ǀ kāmaḥ ǀ gavyuḥ ǀ hiraṇya-yuḥ ǀ
tvām ǀ aśva-yuḥ ǀ ā ǀ īṣate ǁ8.78.9 Aṣṭaka 6.5.32.4Anuvāka 8.8.129
-
Ṛk 10
तवेदिं॑द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।
दि॒नस्य॑ वा मघव॒न्त्संभृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥तवेद् इन्द्राहम् आशसा हस्ते दात्रं चना ददे |
दिनस्य वा मघवन् सम्भृतस्य वा पूर्धि यवस्य काशिना ||távédindrāhámāśásā háste dā́tram canā́ dade ǀ
dinásya vā maghavantsámbhṛtasya vā pūrdhí yávasya kāśínā ǁtaved indrāham āśasā haste dātraṃ canā dade |
dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā ||तव॑ । इत् । इ॒न्द्र॒ । अ॒हम् । आ॒ऽशसा॑ । हस्ते॑ । दात्र॑म् । च॒न । आ । द॒दे॒ ।
दि॒नस्य॑ । वा॒ । म॒घ॒ऽव॒न् । सम्ऽभृ॑तस्य । वा॒ । पू॒र्धि । यव॑स्य । का॒शिना॑ ॥तव । इत् । इन्द्र । अहम् । आऽशसा । हस्ते । दात्रम् । चन । आ । ददे ।
दिनस्य । वा । मघऽवन् । सम्ऽभृतस्य । वा । पूर्धि । यवस्य । काशिना ॥táva ǀ ít ǀ indra ǀ ahám ǀ ā-śásā ǀ háste ǀ dā́tram ǀ caná ǀ ā́ ǀ dade ǀ
dinásya ǀ vā ǀ magha-van ǀ sám-bhṛtasya ǀ vā ǀ pūrdhí ǀ yávasya ǀ kāśínā ǁtava ǀ it ǀ indra ǀ aham ǀ ā-śasā ǀ haste ǀ dātram ǀ cana ǀ ā ǀ dade ǀ
dinasya ǀ vā ǀ magha-van ǀ sam-bhṛtasya ǀ vā ǀ pūrdhi ǀ yavasya ǀ kāśinā ǁ8.78.10 Aṣṭaka 6.5.32.5Anuvāka 8.8.130
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.