Sūkta 59
- Devatā देवता
- Indra, Varuṇa
- Ṛṣi ऋषि
- Suparṇa Kāṇva
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles virāḍjagatī (4, 5, 7); nicṛjjagatī (2, 3); jagatī (1); triṣṭup (6)
2nd set of styles jagatī
-
Ṛk 1
इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इंद्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वां ।
य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥इमानि वाम् भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् |
यज्ञे-यज्ञे ह सवना भुरण्यथो यत् सुन्वते यजमानाय शिक्षथः ||imā́ni vām bhāgadhéyāni sisrata índrāvaruṇā prá mahé sutéṣu vām ǀ
yajñéyajñe ha sávanā bhuraṇyátho yátsunvaté yájamānāya śíkṣathaḥ ǁimāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām |
yajñe-yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ ||इ॒मानि॑ । वा॒म् । भा॒ग॒ऽधेया॑नि । सि॒स्र॒ते॒ । इन्द्रा॑वरुणा । प्र । म॒हे । सु॒तेषु॑ । वा॒म् ।
य॒ज्ञेऽय॑ज्ञे । ह॒ । सव॑ना । भु॒र॒ण्यथः॑ । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑थः ॥इमानि । वाम् । भागऽधेयानि । सिस्रते । इन्द्रावरुणा । प्र । महे । सुतेषु । वाम् ।
यज्ञेऽयज्ञे । ह । सवना । भुरण्यथः । यत् । सुन्वते । यजमानाय । शिक्षथः ॥imā́ni ǀ vām ǀ bhāga-dhéyāni ǀ sisrate ǀ índrāvaruṇā ǀ prá ǀ mahé ǀ sutéṣu ǀ vām ǀ
yajñé-yajñe ǀ ha ǀ sávanā ǀ bhuraṇyáthaḥ ǀ yát ǀ sunvaté ǀ yájamānāya ǀ śíkṣathaḥ ǁimāni ǀ vām ǀ bhāga-dheyāni ǀ sisrate ǀ indrāvaruṇā ǀ pra ǀ mahe ǀ suteṣu ǀ vām ǀ
yajñe-yajñe ǀ ha ǀ savanā ǀ bhuraṇyathaḥ ǀ yat ǀ sunvate ǀ yajamānāya ǀ śikṣathaḥ ǁ8.59.1 Aṣṭaka 6.4.30.1Anuvāka 8.6.245
-
Ṛk 2
नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिंद्रा॑वरुणा महि॒मान॒माश॑त ।
या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययोः॒ शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥निष्षिध्वरीर् ओषधीर् आप आस्ताम् इन्द्रावरुणा महिमानम् आशत |
या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर् नकिर् आदेव ओहते ||niṣṣídhvarīróṣadhīrā́pa āstāmíndrāvaruṇā mahimā́namā́śata ǀ
yā́ sísratū rájasaḥ pāré ádhvano yáyoḥ śátrurnákirā́deva óhate ǁniṣṣidhvarīr oṣadhīr āpa āstām indrāvaruṇā mahimānam āśata |
yā sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate ||निः॒ऽसिध्व॑रीः । ओष॑धीः । आपः॑ । आ॒स्ता॒म् । इन्द्रा॑वरुणा । म॒हि॒मान॑म् । आ॒श॒त॒ ।
या । सिस्र॑तुः । रज॑सः । पा॒रे । अध्व॑नः । ययोः॑ । शत्रुः॑ । नकिः॑ । अदे॑वः । ओह॑ते ॥निःऽसिध्वरीः । ओषधीः । आपः । आस्ताम् । इन्द्रावरुणा । महिमानम् । आशत ।
या । सिस्रतुः । रजसः । पारे । अध्वनः । ययोः । शत्रुः । नकिः । अदेवः । ओहते ॥niḥ-sídhvarīḥ ǀ óṣadhīḥ ǀ ā́paḥ ǀ āstām ǀ índrāvaruṇā ǀ mahimā́nam ǀ āśata ǀ
yā́ ǀ sísratuḥ ǀ rájasaḥ ǀ pāré ǀ ádhvanaḥ ǀ yáyoḥ ǀ śátruḥ ǀ nákiḥ ǀ ádevaḥ ǀ óhate ǁniḥ-sidhvarīḥ ǀ oṣadhīḥ ǀ āpaḥ ǀ āstām ǀ indrāvaruṇā ǀ mahimānam ǀ āśata ǀ
yā ǀ sisratuḥ ǀ rajasaḥ ǀ pāre ǀ adhvanaḥ ǀ yayoḥ ǀ śatruḥ ǀ nakiḥ ǀ adevaḥ ǀ ohate ǁ8.59.2 Aṣṭaka 6.4.30.2Anuvāka 8.6.246
-
Ṛk 3
स॒त्यं तदिं॑द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणीः॑ ।
ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥सत्यं तद् इन्द्रावरुणा कृशस्य वाम् मध्व ऊर्मिं दुहते सप्त वाणीः |
ताभिर् दाश्वांसम् अवतं शुभस् पती यो वाम् अदब्धो अभि पाति चित्तिभिः ||satyám tádindrāvaruṇā kṛśásya vām mádhva ūrmím duhate saptá vā́ṇīḥ ǀ
tā́bhirdāśvā́ṃsamavatam śubhaspatī yó vāmádabdho abhí pā́ti cíttibhiḥ ǁsatyaṃ tad indrāvaruṇā kṛśasya vām madhva ūrmiṃ duhate sapta vāṇīḥ |
tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhi pāti cittibhiḥ ||स॒त्यम् । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । कृ॒शस्य॑ । वा॒म् । मध्वः॑ । ऊ॒र्मिम् । दु॒ह॒ते॒ । स॒प्त । वाणीः॑ ।
ताभिः॑ । दा॒श्वांस॑म् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । यः । वा॒म् । अद॑ब्धः । अ॒भि । पाति॑ । चित्ति॑ऽभिः ॥सत्यम् । तत् । इन्द्रावरुणा । कृशस्य । वाम् । मध्वः । ऊर्मिम् । दुहते । सप्त । वाणीः ।
ताभिः । दाश्वांसम् । अवतम् । शुभः । पती इति । यः । वाम् । अदब्धः । अभि । पाति । चित्तिऽभिः ॥satyám ǀ tát ǀ indrāvaruṇā ǀ kṛśásya ǀ vām ǀ mádhvaḥ ǀ ūrmím ǀ duhate ǀ saptá ǀ vā́ṇīḥ ǀ
tā́bhiḥ ǀ dāśvā́ṃsam ǀ avatam ǀ śubhaḥ ǀ patī íti ǀ yáḥ ǀ vām ǀ ádabdhaḥ ǀ abhí ǀ pā́ti ǀ cítti-bhiḥ ǁsatyam ǀ tat ǀ indrāvaruṇā ǀ kṛśasya ǀ vām ǀ madhvaḥ ǀ ūrmim ǀ duhate ǀ sapta ǀ vāṇīḥ ǀ
tābhiḥ ǀ dāśvāṃsam ǀ avatam ǀ śubhaḥ ǀ patī iti ǀ yaḥ ǀ vām ǀ adabdhaḥ ǀ abhi ǀ pāti ǀ citti-bhiḥ ǁ8.59.3 Aṣṭaka 6.4.30.3Anuvāka 8.6.247
-
Ṛk 4
घृ॒त॒प्रुषः॒ सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑रः॒ सद॑न ऋ॒तस्य॑ ।
या ह॑ वामिंद्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतं ॥घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य |
या ह वाम् इन्द्रावरुणा घृतश्चुतस् ताभिर् धत्तं यजमानाय शिक्षतम् ||ghṛtaprúṣaḥ sáumyā jīrádānavaḥ saptá svásāraḥ sádana ṛtásya ǀ
yā́ ha vāmindrāvaruṇā ghṛtaścútastā́bhirdhattam yájamānāya śikṣatam ǁghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya |
yā ha vām indrāvaruṇā ghṛtaścutas tābhir dhattaṃ yajamānāya śikṣatam ||घृ॒त॒ऽप्रुषः॑ । सौम्याः॑ । जी॒रऽदा॑नवः । स॒प्त । स्वसा॑रः । सद॑ने । ऋ॒तस्य॑ ।
याः । ह॒ । वा॒म् । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । ताभिः॑ । ध॒त्त॒म् । यज॑मानाय । शि॒क्ष॒त॒म् ॥घृतऽप्रुषः । सौम्याः । जीरऽदानवः । सप्त । स्वसारः । सदने । ऋतस्य ।
याः । ह । वाम् । इन्द्रावरुणा । घृतऽश्चुतः । ताभिः । धत्तम् । यजमानाय । शिक्षतम् ॥ghṛta-prúṣaḥ ǀ sáumyāḥ ǀ jīrá-dānavaḥ ǀ saptá ǀ svásāraḥ ǀ sádane ǀ ṛtásya ǀ
yā́ḥ ǀ ha ǀ vām ǀ indrāvaruṇā ǀ ghṛta-ścútaḥ ǀ tā́bhiḥ ǀ dhattam ǀ yájamānāya ǀ śikṣatam ǁghṛta-pruṣaḥ ǀ saumyāḥ ǀ jīra-dānavaḥ ǀ sapta ǀ svasāraḥ ǀ sadane ǀ ṛtasya ǀ
yāḥ ǀ ha ǀ vām ǀ indrāvaruṇā ǀ ghṛta-ścutaḥ ǀ tābhiḥ ǀ dhattam ǀ yajamānāya ǀ śikṣatam ǁ8.59.4 Aṣṭaka 6.4.30.4Anuvāka 8.6.248
-
Ṛk 5
अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिंद्रि॒यं ।
अ॒स्मान्त्स्विं॑द्रावरुणा घृत॒श्चुत॒स्त्रिभिः॑ सा॒प्तेभि॑रवतं शुभस्पती ॥अवोचाम महते सौभगाय सत्यं त्वेषाभ्याम् महिमानम् इन्द्रियम् |
अस्मान् स्व् इन्द्रावरुणा घृतश्चुतस् त्रिभिः साप्तेभिर् अवतं शुभस् पती ||ávocāma mahaté sáubhagāya satyám tveṣā́bhyām mahimā́namindriyám ǀ
asmā́ntsvíndrāvaruṇā ghṛtaścútastríbhiḥ sāptébhiravatam śubhaspatī ǁavocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam |
asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṃ śubhas patī ||अवो॑चाम । म॒ह॒ते । सौभ॑गाय । स॒त्यम् । त्वे॒षाभ्या॑म् । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ।
अ॒स्मान् । सु । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । त्रिऽभिः॑ । सा॒प्तेभिः॑ । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥अवोचाम । महते । सौभगाय । सत्यम् । त्वेषाभ्याम् । महिमानम् । इन्द्रियम् ।
अस्मान् । सु । इन्द्रावरुणा । घृतऽश्चुतः । त्रिऽभिः । साप्तेभिः । अवतम् । शुभः । पती इति ॥ávocāma ǀ mahaté ǀ sáubhagāya ǀ satyám ǀ tveṣā́bhyām ǀ mahimā́nam ǀ indriyám ǀ
asmā́n ǀ sú ǀ indrāvaruṇā ǀ ghṛta-ścútaḥ ǀ trí-bhiḥ ǀ sāptébhiḥ ǀ avatam ǀ śubhaḥ ǀ patī íti ǁavocāma ǀ mahate ǀ saubhagāya ǀ satyam ǀ tveṣābhyām ǀ mahimānam ǀ indriyam ǀ
asmān ǀ su ǀ indrāvaruṇā ǀ ghṛta-ścutaḥ ǀ tri-bhiḥ ǀ sāptebhiḥ ǀ avatam ǀ śubhaḥ ǀ patī iti ǁ8.59.5 Aṣṭaka 6.4.31.1Anuvāka 8.6.249
-
Ṛk 6
इंद्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ ।
यानि॒ स्थाना॑न्यसृजंत॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यं ॥इन्द्रावरुणा यद् ऋषिभ्यो मनीषां वाचो मतिं श्रुतम् अदत्तम् अग्रे |
यानि स्थानान्य् असृजन्त धीरा यज्ञं तन्वानास् तपसाभ्य् अपश्यम् ||índrāvaruṇā yádṛṣíbhyo manīṣā́m vācó matím śrutámadattamágre ǀ
yā́ni sthā́nānyasṛjanta dhī́rā yajñám tanvānā́stápasābhyápaśyam ǁindrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutam adattam agre |
yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam ||इन्द्रा॑वरुणा । यत् । ऋ॒षिऽभ्यः॑ । म॒नी॒षाम् । वा॒चः । म॒तिम् । श्रु॒तम् । अ॒द॒त्त॒म् । अग्रे॑ ।
यानि॑ । स्थाना॑नि । अ॒सृ॒ज॒न्त॒ । धीराः॑ । य॒ज्ञम् । त॒न्वा॒नाः । तप॑सा । अ॒भि । अ॒प॒श्य॒म् ॥इन्द्रावरुणा । यत् । ऋषिऽभ्यः । मनीषाम् । वाचः । मतिम् । श्रुतम् । अदत्तम् । अग्रे ।
यानि । स्थानानि । असृजन्त । धीराः । यज्ञम् । तन्वानाः । तपसा । अभि । अपश्यम् ॥índrāvaruṇā ǀ yát ǀ ṛṣí-bhyaḥ ǀ manīṣā́m ǀ vācáḥ ǀ matím ǀ śrutám ǀ adattam ǀ ágre ǀ
yā́ni ǀ sthā́nāni ǀ asṛjanta ǀ dhī́rāḥ ǀ yajñám ǀ tanvānā́ḥ ǀ tápasā ǀ abhí ǀ apaśyam ǁindrāvaruṇā ǀ yat ǀ ṛṣi-bhyaḥ ǀ manīṣām ǀ vācaḥ ǀ matim ǀ śrutam ǀ adattam ǀ agre ǀ
yāni ǀ sthānāni ǀ asṛjanta ǀ dhīrāḥ ǀ yajñam ǀ tanvānāḥ ǀ tapasā ǀ abhi ǀ apaśyam ǁ8.59.6 Aṣṭaka 6.4.31.2Anuvāka 8.6.250
-
Ṛk 7
इंद्रा॑वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तं ।
प्र॒जां पु॒ष्टिं भू॑तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयुः॑ ॥इन्द्रावरुणा सौमनसम् अदृप्तं रायस् पोषं यजमानेषु धत्तम् |
प्रजाम् पुष्टिम् भूतिम् अस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ||índrāvaruṇā saumanasámádṛptam rāyáspóṣam yájamāneṣu dhattam ǀ
prajā́m puṣṭím bhūtimasmā́su dhattam dīrghāyutvā́ya prá tiratam na ā́yuḥ ǁindrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam |
prajām puṣṭim bhūtim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ ||इन्द्रा॑वरुणा । सौ॒म॒न॒सम् । अदृ॑प्तम् । रा॒यः । पोष॑म् । यज॑मानेषु । ध॒त्त॒म् ।
प्र॒ऽजाम् । पु॒ष्टिम् । भू॒ति॒म् । अ॒स्मासु॑ । ध॒त्त॒म् । दी॒र्घा॒यु॒ऽत्वाय॑ । प्र । ति॒र॒त॒म् । नः॒ । आयुः॑ ॥इन्द्रावरुणा । सौमनसम् । अदृप्तम् । रायः । पोषम् । यजमानेषु । धत्तम् ।
प्रऽजाम् । पुष्टिम् । भूतिम् । अस्मासु । धत्तम् । दीर्घायुऽत्वाय । प्र । तिरतम् । नः । आयुः ॥índrāvaruṇā ǀ saumanasám ǀ ádṛptam ǀ rāyáḥ ǀ póṣam ǀ yájamāneṣu ǀ dhattam ǀ
pra-jā́m ǀ puṣṭím ǀ bhūtim ǀ asmā́su ǀ dhattam ǀ dīrghāyu-tvā́ya ǀ prá ǀ tiratam ǀ naḥ ǀ ā́yuḥ ǁindrāvaruṇā ǀ saumanasam ǀ adṛptam ǀ rāyaḥ ǀ poṣam ǀ yajamāneṣu ǀ dhattam ǀ
pra-jām ǀ puṣṭim ǀ bhūtim ǀ asmāsu ǀ dhattam ǀ dīrghāyu-tvāya ǀ pra ǀ tiratam ǀ naḥ ǀ āyuḥ ǁ8.59.7 Aṣṭaka 6.4.31.3Anuvāka 8.6.251
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.