Ṛgveda · Maṇḍala 8

Sūkta 72

Agni Or A Praise To Sacrifice · Haryata Prāgātha · 18 ṛks

Link
Devatā देवता
Agni Or A Praise To Sacrifice
Ṛṣi ऋषि
Haryata Prāgātha
Chandas छन्दस्
Gāyatrī
Metres by ṛk

1st set of styles nicṛdgāyatrī (4-6, 11, 13-15, 17); gāyatrī (1, 3, 8-10, 12, 16); virāḍgāyatrī (7, 18); gāyatrī (pādanicṛdgāyatrī) (2)

2nd set of styles gāyatrī

  1. Ṛk 1

    ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुनः॑ ।
    वि॒द्वाँ अ॑स्य प्र॒शास॑नं ॥

    हविष् कृणुध्वम् आ गमद् अध्वर्युर् वनते पुनः |
    विद्वां अस्य प्रशासनम् ||

    havíṣkṛṇudhvamā́ gamadadhvaryúrvanate púnaḥ ǀ
    vidvā́m̐ asya praśā́sanam ǁ

    haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ |
    vidvāṃ asya praśāsanam ||

    ह॒विः । कृ॒णु॒ध्व॒म् । आ । ग॒म॒त् । अ॒ध्व॒र्युः । व॒न॒ते॒ । पुन॒रिति॑ ।
    वि॒द्वान् । अ॒स्य॒ । प्र॒ऽशास॑नम् ॥

    हविः । कृणुध्वम् । आ । गमत् । अध्वर्युः । वनते । पुनरिति ।
    विद्वान् । अस्य । प्रऽशासनम् ॥

    havíḥ ǀ kṛṇudhvam ǀ ā́ ǀ gamat ǀ adhvaryúḥ ǀ vanate ǀ púnaríti ǀ
    vidvā́n ǀ asya ǀ pra-śā́sanam ǁ

    haviḥ ǀ kṛṇudhvam ǀ ā ǀ gamat ǀ adhvaryuḥ ǀ vanate ǀ punariti ǀ
    vidvān ǀ asya ǀ pra-śāsanam ǁ

    8.72.1 Aṣṭaka 6.5.14.1Anuvāka 8.8.31

  2. Ṛk 2

    नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ ।
    जु॒षा॒णो अ॑स्य स॒ख्यं ॥

    नि तिग्मम् अभ्य् अंशुं सीदद् धोता मनाव् अधि |
    जुषाणो अस्य सख्यम् ||

    ní tigmámabhyáṃśúm sī́daddhótā manā́vádhi ǀ
    juṣāṇó asya sakhyám ǁ

    ni tigmam abhy aṃśuṃ sīdad dhotā manāv adhi |
    juṣāṇo asya sakhyam ||

    नि । ति॒ग्मम् । अ॒भि । अं॒शुम् । सीद॑त् । होता॑ । म॒नौ । अधि॑ ।
    जु॒षा॒णः । अ॒स्य॒ । स॒ख्यम् ॥

    नि । तिग्मम् । अभि । अंशुम् । सीदत् । होता । मनौ । अधि ।
    जुषाणः । अस्य । सख्यम् ॥

    ní ǀ tigmám ǀ abhí ǀ aṃśúm ǀ sī́dat ǀ hótā ǀ manáu ǀ ádhi ǀ
    juṣāṇáḥ ǀ asya ǀ sakhyám ǁ

    ni ǀ tigmam ǀ abhi ǀ aṃśum ǀ sīdat ǀ hotā ǀ manau ǀ adhi ǀ
    juṣāṇaḥ ǀ asya ǀ sakhyam ǁ

    8.72.2 Aṣṭaka 6.5.14.2Anuvāka 8.8.32

  3. Ṛk 3

    अं॒तरि॑च्छंति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ ।
    गृ॒भ्णंति॑ जि॒ह्वया॑ स॒सं ॥

    अन्तर् इच्छन्ति तं जने रुद्रम् परो मनीषया |
    गृभ्णन्ति जिह्वया ससम् ||

    antáricchanti tám jáne rudrám paró manīṣáyā ǀ
    gṛbhṇánti jihváyā sasám ǁ

    antar icchanti taṃ jane rudram paro manīṣayā |
    gṛbhṇanti jihvayā sasam ||

    अ॒न्तः । इ॒च्छ॒न्ति॒ । तम् । जने॑ । रु॒द्रम् । प॒रः । म॒नी॒षया॑ ।
    गृ॒भ्णन्ति॑ । जि॒ह्वया॑ । स॒सम् ॥

    अन्तः । इच्छन्ति । तम् । जने । रुद्रम् । परः । मनीषया ।
    गृभ्णन्ति । जिह्वया । ससम् ॥

    antáḥ ǀ icchanti ǀ tám ǀ jáne ǀ rudrám ǀ paráḥ ǀ manīṣáyā ǀ
    gṛbhṇánti ǀ jihváyā ǀ sasám ǁ

    antaḥ ǀ icchanti ǀ tam ǀ jane ǀ rudram ǀ paraḥ ǀ manīṣayā ǀ
    gṛbhṇanti ǀ jihvayā ǀ sasam ǁ

    8.72.3 Aṣṭaka 6.5.14.3Anuvāka 8.8.33

  4. Ṛk 4

    जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वनं॑ ।
    दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥

    जाम्य् अतीतपे धनुर् वयोधा अरुहद् वनम् |
    दृषदं जिह्वयावधीत् ||

    jāmyátītape dhánurvayodhā́ aruhadvánam ǀ
    dṛṣádam jihváyā́vadhīt ǁ

    jāmy atītape dhanur vayodhā aruhad vanam |
    dṛṣadaṃ jihvayāvadhīt ||

    जा॒मि । अ॒ती॒त॒पे॒ । धनुः॑ । व॒यः॒ऽधाः । अ॒रु॒ह॒त् । वन॑म् ।
    दृ॒षद॑म् । जि॒ह्वया॑ । आ । अ॒व॒धी॒त् ॥

    जामि । अतीतपे । धनुः । वयःऽधाः । अरुहत् । वनम् ।
    दृषदम् । जिह्वया । आ । अवधीत् ॥

    jāmí ǀ atītape ǀ dhánuḥ ǀ vayaḥ-dhā́ḥ ǀ aruhat ǀ vánam ǀ
    dṛṣádam ǀ jihváyā ǀ ā́ ǀ avadhīt ǁ

    jāmi ǀ atītape ǀ dhanuḥ ǀ vayaḥ-dhāḥ ǀ aruhat ǀ vanam ǀ
    dṛṣadam ǀ jihvayā ǀ ā ǀ avadhīt ǁ

    8.72.4 Aṣṭaka 6.5.14.4Anuvāka 8.8.34

  5. Ṛk 5

    चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न विं॑दते ।
    वेति॒ स्तोत॑व अं॒ब्यं॑ ॥

    चरन् वत्सो रुशन्न् इह निदातारं न विन्दते |
    वेति स्तोतव अम्ब्यम् ||

    cáranvatsó rúśannihá nidātā́ram ná vindate ǀ
    véti stótava ambyám ǁ

    caran vatso ruśann iha nidātāraṃ na vindate |
    veti stotava ambyam ||

    चर॑न् । व॒त्सः । रुश॑न् । इ॒ह । नि॒ऽदा॒तार॑म् । न । वि॒न्द॒ते॒ ।
    वेति॑ । स्तोत॑वे । अ॒म्ब्य॑म् ॥

    चरन् । वत्सः । रुशन् । इह । निऽदातारम् । न । विन्दते ।
    वेति । स्तोतवे । अम्ब्यम् ॥

    cáran ǀ vatsáḥ ǀ rúśan ǀ ihá ǀ ni-dātā́ram ǀ ná ǀ vindate ǀ
    véti ǀ stótave ǀ ambyám ǁ

    caran ǀ vatsaḥ ǀ ruśan ǀ iha ǀ ni-dātāram ǀ na ǀ vindate ǀ
    veti ǀ stotave ǀ ambyam ǁ

    8.72.5 Aṣṭaka 6.5.14.5Anuvāka 8.8.35

  6. Ṛk 6

    उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हद् ।
    दा॒मा रथ॑स्य॒ ददृ॑शे ॥

    उतो न्व् अस्य यन् महद् अश्वावद् योजनम् बृहद् |
    दामा रथस्य ददृशे ||

    utó nvásya yánmahádáśvāvadyójanam bṛhád ǀ
    dāmā́ ráthasya dádṛśe ǁ

    uto nv asya yan mahad aśvāvad yojanam bṛhad |
    dāmā rathasya dadṛśe ||

    उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । म॒हत् । अश्व॑ऽवत् । योज॑नम् । बृ॒हत् ।
    दा॒मा । रथ॑स्य । ददृ॑शे ॥

    उतो इति । नु । अस्य । यत् । महत् । अश्वऽवत् । योजनम् । बृहत् ।
    दामा । रथस्य । ददृशे ॥

    utó íti ǀ nú ǀ asya ǀ yát ǀ mahát ǀ áśva-vat ǀ yójanam ǀ bṛhát ǀ
    dāmā́ ǀ ráthasya ǀ dádṛśe ǁ

    uto iti ǀ nu ǀ asya ǀ yat ǀ mahat ǀ aśva-vat ǀ yojanam ǀ bṛhat ǀ
    dāmā ǀ rathasya ǀ dadṛśe ǁ

    8.72.6 Aṣṭaka 6.5.15.1Anuvāka 8.8.36

  7. Ṛk 7

    दु॒हंति॑ स॒प्तैका॒मुप॒ द्वा पंच॑ सृजतः ।
    ती॒र्थे सिंधो॒रधि॑ स्व॒रे ॥

    दुहन्ति सप्तैकाम् उप द्वा पञ्च सृजतः |
    तीर्थे सिन्धोर् अधि स्वरे ||

    duhánti saptáikāmúpa dvā́ páñca sṛjataḥ ǀ
    tīrthé síndhorádhi svaré ǁ

    duhanti saptaikām upa dvā pañca sṛjataḥ |
    tīrthe sindhor adhi svare ||

    दु॒हन्ति॑ । स॒प्त । एका॑म् । उप॑ । द्वा । पञ्च॑ । सृ॒ज॒तः॒ ।
    ती॒र्थे । सिन्धोः॑ । अधि॑ । स्व॒रे ॥

    दुहन्ति । सप्त । एकाम् । उप । द्वा । पञ्च । सृजतः ।
    तीर्थे । सिन्धोः । अधि । स्वरे ॥

    duhánti ǀ saptá ǀ ékām ǀ úpa ǀ dvā́ ǀ páñca ǀ sṛjataḥ ǀ
    tīrthé ǀ síndhoḥ ǀ ádhi ǀ svaré ǁ

    duhanti ǀ sapta ǀ ekām ǀ upa ǀ dvā ǀ pañca ǀ sṛjataḥ ǀ
    tīrthe ǀ sindhoḥ ǀ adhi ǀ svare ǁ

    8.72.7 Aṣṭaka 6.5.15.2Anuvāka 8.8.37

  8. Ṛk 8

    आ द॒शभि॑र्वि॒वस्व॑त॒ इंद्रः॒ कोश॑मचुच्यवीत् ।
    खेद॑या त्रि॒वृता॑ दि॒वः ॥

    आ दशभिर् विवस्वत इन्द्रः कोशम् अचुच्यवीत् |
    खेदया त्रिवृता दिवः ||

    ā́ daśábhirvivásvata índraḥ kóśamacucyavīt ǀ
    khédayā trivṛ́tā diváḥ ǁ

    ā daśabhir vivasvata indraḥ kośam acucyavīt |
    khedayā trivṛtā divaḥ ||

    आ । द॒शऽभिः॑ । वि॒वस्व॑तः । इन्द्रः॑ । कोश॑म् । अ॒चु॒च्य॒वी॒त् ।
    खेद॑या । त्रि॒ऽवृता॑ । दि॒वः ॥

    आ । दशऽभिः । विवस्वतः । इन्द्रः । कोशम् । अचुच्यवीत् ।
    खेदया । त्रिऽवृता । दिवः ॥

    ā́ ǀ daśá-bhiḥ ǀ vivásvataḥ ǀ índraḥ ǀ kóśam ǀ acucyavīt ǀ
    khédayā ǀ tri-vṛ́tā ǀ diváḥ ǁ

    ā ǀ daśa-bhiḥ ǀ vivasvataḥ ǀ indraḥ ǀ kośam ǀ acucyavīt ǀ
    khedayā ǀ tri-vṛtā ǀ divaḥ ǁ

    8.72.8 Aṣṭaka 6.5.15.3Anuvāka 8.8.38

  9. Ṛk 9

    परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी ।
    मध्वा॒ होता॑रो अंजते ॥

    परि त्रिधातुर् अध्वरं जूर्णिर् एति नवीयसी |
    मध्वा होतारो अञ्जते ||

    pári tridhā́turadhvarám jūrṇíreti návīyasī ǀ
    mádhvā hótāro añjate ǁ

    pari tridhātur adhvaraṃ jūrṇir eti navīyasī |
    madhvā hotāro añjate ||

    परि॑ । त्रि॒ऽधातुः॑ । अ॒ध्व॒रम् । जू॒र्णिः । ए॒ति॒ । नवी॑यसी ।
    मध्वा॑ । होता॑रः । अ॒ञ्ज॒ते॒ ॥

    परि । त्रिऽधातुः । अध्वरम् । जूर्णिः । एति । नवीयसी ।
    मध्वा । होतारः । अञ्जते ॥

    pári ǀ tri-dhā́tuḥ ǀ adhvarám ǀ jūrṇíḥ ǀ eti ǀ návīyasī ǀ
    mádhvā ǀ hótāraḥ ǀ añjate ǁ

    pari ǀ tri-dhātuḥ ǀ adhvaram ǀ jūrṇiḥ ǀ eti ǀ navīyasī ǀ
    madhvā ǀ hotāraḥ ǀ añjate ǁ

    8.72.9 Aṣṭaka 6.5.15.4Anuvāka 8.8.39

  10. Ṛk 10

    सिं॒चंति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानं ।
    नी॒चीन॑बार॒मक्षि॑तं ॥

    सिञ्चन्ति नमसावतम् उच्चाचक्रम् परिज्मानम् |
    नीचीनबारम् अक्षितम् ||

    siñcánti námasāvatámuccā́cakram párijmānam ǀ
    nīcī́nabāramákṣitam ǁ

    siñcanti namasāvatam uccācakram parijmānam |
    nīcīnabāram akṣitam ||

    सि॒ञ्चन्ति॑ । नम॑सा । अ॒व॒तम् । उ॒च्चाऽच॑क्रम् । परि॑ऽज्मानम् ।
    नी॒चीन॑ऽबारम् । अक्षि॑तम् ॥

    सिञ्चन्ति । नमसा । अवतम् । उच्चाऽचक्रम् । परिऽज्मानम् ।
    नीचीनऽबारम् । अक्षितम् ॥

    siñcánti ǀ námasā ǀ avatám ǀ uccā́-cakram ǀ pári-jmānam ǀ
    nīcī́na-bāram ǀ ákṣitam ǁ

    siñcanti ǀ namasā ǀ avatam ǀ uccā-cakram ǀ pari-jmānam ǀ
    nīcīna-bāram ǀ akṣitam ǁ

    8.72.10 Aṣṭaka 6.5.15.5Anuvāka 8.8.40

  11. Ṛk 11

    अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ ।
    अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥

    अभ्यारम् इद् अद्रयो निषिक्तम् पुष्करे मधु |
    अवतस्य विसर्जने ||

    abhyā́ramídádrayo níṣiktam púṣkare mádhu ǀ
    avatásya visárjane ǁ

    abhyāram id adrayo niṣiktam puṣkare madhu |
    avatasya visarjane ||

    अ॒भि॒ऽआर॑म् । इत् । अद्र॑यः । निऽसि॑क्तम् । पुष्क॑रे । मधु॑ ।
    अ॒व॒तस्य॑ । वि॒ऽसर्ज॑ने ॥

    अभिऽआरम् । इत् । अद्रयः । निऽसिक्तम् । पुष्करे । मधु ।
    अवतस्य । विऽसर्जने ॥

    abhi-ā́ram ǀ ít ǀ ádrayaḥ ǀ ní-siktam ǀ púṣkare ǀ mádhu ǀ
    avatásya ǀ vi-sárjane ǁ

    abhi-āram ǀ it ǀ adrayaḥ ǀ ni-siktam ǀ puṣkare ǀ madhu ǀ
    avatasya ǀ vi-sarjane ǁ

    8.72.11 Aṣṭaka 6.5.16.1Anuvāka 8.8.41

  12. Ṛk 12

    गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ ।
    उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥

    गाव उपावतावतम् मही यज्ञस्य रप्सुदा |
    उभा कर्णा हिरण्यया ||

    gā́va úpāvatāvatám mahī́ yajñásya rapsúdā ǀ
    ubhā́ kárṇā hiraṇyáyā ǁ

    gāva upāvatāvatam mahī yajñasya rapsudā |
    ubhā karṇā hiraṇyayā ||

    गावः॑ । उप॑ । अ॒व॒त॒ । अ॒व॒तम् । म॒ही इति॑ । य॒ज्ञस्य॑ । र॒प्सुदा॑ ।
    उ॒भा । कर्णा॑ । हि॒र॒ण्यया॑ ॥

    गावः । उप । अवत । अवतम् । मही इति । यज्ञस्य । रप्सुदा ।
    उभा । कर्णा । हिरण्यया ॥

    gā́vaḥ ǀ úpa ǀ avata ǀ avatám ǀ mahī́ íti ǀ yajñásya ǀ rapsúdā ǀ
    ubhā́ ǀ kárṇā ǀ hiraṇyáyā ǁ

    gāvaḥ ǀ upa ǀ avata ǀ avatam ǀ mahī iti ǀ yajñasya ǀ rapsudā ǀ
    ubhā ǀ karṇā ǀ hiraṇyayā ǁ

    8.72.12 Aṣṭaka 6.5.16.2Anuvāka 8.8.42

  13. Ṛk 13

    आ सु॒ते सिं॑चत॒ श्रियं॒ रोद॑स्योरभि॒श्रियं॑ ।
    र॒सा द॑धीत वृष॒भं ॥

    आ सुते सिञ्चत श्रियं रोदस्योर् अभिश्रियम् |
    रसा दधीत वृषभम् ||

    ā́ suté siñcata śríyam ródasyorabhiśríyam ǀ
    rasā́ dadhīta vṛṣabhám ǁ

    ā sute siñcata śriyaṃ rodasyor abhiśriyam |
    rasā dadhīta vṛṣabham ||

    आ । सु॒ते । सि॒ञ्च॒त॒ । श्रिय॑म् । रोद॑स्योः । अ॒भि॒ऽश्रिय॑म् ।
    र॒सा । द॒धी॒त॒ । वृ॒ष॒भम् ॥

    आ । सुते । सिञ्चत । श्रियम् । रोदस्योः । अभिऽश्रियम् ।
    रसा । दधीत । वृषभम् ॥

    ā́ ǀ suté ǀ siñcata ǀ śríyam ǀ ródasyoḥ ǀ abhi-śríyam ǀ
    rasā́ ǀ dadhīta ǀ vṛṣabhám ǁ

    ā ǀ sute ǀ siñcata ǀ śriyam ǀ rodasyoḥ ǀ abhi-śriyam ǀ
    rasā ǀ dadhīta ǀ vṛṣabham ǁ

    8.72.13 Aṣṭaka 6.5.16.3Anuvāka 8.8.43

  14. Ṛk 14

    ते जा॑नत॒ स्वमो॒क्यं१॒॑ सं व॒त्सासो॒ न मा॒तृभिः॑ ।
    मि॒थो न॑संत जा॒मिभिः॑ ॥

    ते जानत स्वम् ओक्यं सं वत्सासो न मातृभिः |
    मिथो नसन्त जामिभिः ||

    té jānata svámokyám sám vatsā́so ná mātṛ́bhiḥ ǀ
    mithó nasanta jāmíbhiḥ ǁ

    te jānata svam okyaṃ saṃ vatsāso na mātṛbhiḥ |
    mitho nasanta jāmibhiḥ ||

    ते । जा॒न॒त॒ । स्वम् । ओ॒क्य॑म् । सम् । व॒त्सासः॑ । न । मा॒तृऽभिः॑ ।
    मि॒थः । न॒स॒न्त॒ । जा॒मिऽभिः॑ ॥

    ते । जानत । स्वम् । ओक्यम् । सम् । वत्सासः । न । मातृऽभिः ।
    मिथः । नसन्त । जामिऽभिः ॥

    té ǀ jānata ǀ svám ǀ okyám ǀ sám ǀ vatsā́saḥ ǀ ná ǀ mātṛ́-bhiḥ ǀ
    mitháḥ ǀ nasanta ǀ jāmí-bhiḥ ǁ

    te ǀ jānata ǀ svam ǀ okyam ǀ sam ǀ vatsāsaḥ ǀ na ǀ mātṛ-bhiḥ ǀ
    mithaḥ ǀ nasanta ǀ jāmi-bhiḥ ǁ

    8.72.14 Aṣṭaka 6.5.16.4Anuvāka 8.8.44

  15. Ṛk 15

    उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि ।
    इंद्रे॑ अ॒ग्ना नमः॒ स्वः॑ ॥

    उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि |
    इन्द्रे अग्ना नमः स्वः ||

    úpa srákveṣu bápsataḥ kṛṇvaté dharúṇam diví ǀ
    índre agnā́ námaḥ sváḥ ǁ

    upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi |
    indre agnā namaḥ svaḥ ||

    उप॑ । स्रक्वे॑षु । बप्स॑तः । कृ॒ण्व॒ते । ध॒रुण॑म् । दि॒वि ।
    इन्द्रे॑ । अ॒ग्ना । नमः॑ । स्वः॑ ॥

    उप । स्रक्वेषु । बप्सतः । कृण्वते । धरुणम् । दिवि ।
    इन्द्रे । अग्ना । नमः । स्वः ॥

    úpa ǀ srákveṣu ǀ bápsataḥ ǀ kṛṇvaté ǀ dharúṇam ǀ diví ǀ
    índre ǀ agnā́ ǀ námaḥ ǀ sváḥ ǁ

    upa ǀ srakveṣu ǀ bapsataḥ ǀ kṛṇvate ǀ dharuṇam ǀ divi ǀ
    indre ǀ agnā ǀ namaḥ ǀ svaḥ ǁ

    8.72.15 Aṣṭaka 6.5.16.5Anuvāka 8.8.45

  16. Ṛk 16

    अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः ।
    सूर्य॑स्य स॒प्त र॒श्मिभिः॑ ॥

    अधुक्षत् पिप्युषीम् इषम् ऊर्जं सप्तपदीम् अरिः |
    सूर्यस्य सप्त रश्मिभिः ||

    ádhukṣatpipyúṣīmíṣamū́rjam saptápadīmaríḥ ǀ
    sū́ryasya saptá raśmíbhiḥ ǁ

    adhukṣat pipyuṣīm iṣam ūrjaṃ saptapadīm ariḥ |
    sūryasya sapta raśmibhiḥ ||

    अधु॑क्षत् । पि॒प्युषी॑म् । इष॑म् । ऊर्ज॑म् । स॒प्तऽप॑दीम् । अ॒रिः ।
    सूर्य॑स्य । स॒प्त । र॒श्मिऽभिः॑ ॥

    अधुक्षत् । पिप्युषीम् । इषम् । ऊर्जम् । सप्तऽपदीम् । अरिः ।
    सूर्यस्य । सप्त । रश्मिऽभिः ॥

    ádhukṣat ǀ pipyúṣīm ǀ íṣam ǀ ū́rjam ǀ saptá-padīm ǀ aríḥ ǀ
    sū́ryasya ǀ saptá ǀ raśmí-bhiḥ ǁ

    adhukṣat ǀ pipyuṣīm ǀ iṣam ǀ ūrjam ǀ sapta-padīm ǀ ariḥ ǀ
    sūryasya ǀ sapta ǀ raśmi-bhiḥ ǁ

    8.72.16 Aṣṭaka 6.5.17.1Anuvāka 8.8.46

  17. Ṛk 17

    सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे ।
    तदातु॑रस्य भेष॒जं ॥

    सोमस्य मित्रावरुणोदिता सूर आ ददे |
    तद् आतुरस्य भेषजम् ||

    sómasya mitrāvaruṇóditā sū́ra ā́ dade ǀ
    tádā́turasya bheṣajám ǁ

    somasya mitrāvaruṇoditā sūra ā dade |
    tad āturasya bheṣajam ||

    सोम॑स्य । मि॒त्रा॒व॒रु॒णा॒ । उत्ऽइ॑ता । सूरे॑ । आ । द॒दे॒ ।
    तत् । आतु॑रस्य । भे॒ष॒जम् ॥

    सोमस्य । मित्रावरुणा । उत्ऽइता । सूरे । आ । ददे ।
    तत् । आतुरस्य । भेषजम् ॥

    sómasya ǀ mitrāvaruṇā ǀ út-itā ǀ sū́re ǀ ā́ ǀ dade ǀ
    tát ǀ ā́turasya ǀ bheṣajám ǁ

    somasya ǀ mitrāvaruṇā ǀ ut-itā ǀ sūre ǀ ā ǀ dade ǀ
    tat ǀ āturasya ǀ bheṣajam ǁ

    8.72.17 Aṣṭaka 6.5.17.2Anuvāka 8.8.47

  18. Ṛk 18

    उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्यं॑ ।
    परि॒ द्यां जि॒ह्वया॑तनत् ॥

    उतो न्व् अस्य यत् पदं हर्यतस्य निधान्यम् |
    परि द्यां जिह्वयातनत् ||

    utó nvásya yátpadám haryatásya nidhānyám ǀ
    pári dyā́m jihváyātanat ǁ

    uto nv asya yat padaṃ haryatasya nidhānyam |
    pari dyāṃ jihvayātanat ||

    उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । प॒दम् । ह॒र्य॒तस्य॑ । नि॒ऽधा॒न्य॑म् ।
    परि॑ । द्याम् । जि॒ह्वया॑ । अ॒त॒न॒त् ॥

    उतो इति । नु । अस्य । यत् । पदम् । हर्यतस्य । निऽधान्यम् ।
    परि । द्याम् । जिह्वया । अतनत् ॥

    utó íti ǀ nú ǀ asya ǀ yát ǀ padám ǀ haryatásya ǀ ni-dhānyám ǀ
    pári ǀ dyā́m ǀ jihváyā ǀ atanat ǁ

    uto iti ǀ nu ǀ asya ǀ yat ǀ padam ǀ haryatasya ǀ ni-dhānyam ǀ
    pari ǀ dyām ǀ jihvayā ǀ atanat ǁ

    8.72.18 Aṣṭaka 6.5.17.3Anuvāka 8.8.48

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.72 · Agni Or A Praise To Sacrifice

Interpretations

Sri Aurobindo

Ṛk 1

Do you make the offering, the priest of the pilgrim-rite has come and he conquers again, for he knows the commandment of the Fire. (369)

Ṛk 2

Let him sit within close to the keen burning ray, the priest of the call in thinking man, accepting the comradeship of the Fire. (369)

Ṛk 3

Within they wish him to be in a man the “terrible one”, beyond the thinking mind; by his tongue they seize the peace. (370)

Ṛk 4

High burnt the companion bow, a founder of the growth he climbed the woodland, he smote the rock with his tongue. (370)

Ṛk 5

He is the shining calf who wanders and finds none to bind him here, to one who lauds him he manifests the mother.19 (370)

Ṛk 6

And now is the great and vast yoking as if of the Horse, the rope of the chariot is seen. (370)

Ṛk 7

Seven milk the one, two let loose the five at the ford of the River upon the cry of the waters. (370)

Ṛk 8

By the ten of the sun Indra made fall the covering sheath of heaven with his triple mallet. (370)

Ṛk 9

A new adoration moves round the triple pilgrim-sacrifice, the priests of the call anoint with the honey-wine. (371)

Ṛk 10

With surrender they pour out the inexhaustible pervading well whose wheel is on high and its opening below. (371)

Ṛk 11

Close by are the stones and the honey-wine is poured in the lotus in the discharging of the well. (371)

Ṛk 12

O Ray-Cows, come to the well; here is the great wine-jar of the sacrifice, here are both the golden handles. (371)

Ṛk 13

Pour into the wine that is pressed, a joining splendour, the glory of earth and heaven; by the juice of the wine sustain the Bull. (371)

Ṛk 14

They know their own home; like calves with their mothers they met with each other as companions. (371)

Ṛk 15

In the jaws of the eater they made their foundation in heaven, their prostrations of surrender to Indra and the Fire made the Sun-world. (372)

Ṛk 16

The warrior milked out the seven-planed nourishing force and energy by the seven rays of the sun. (372)

Ṛk 17

O Mitra and Varuna, in the rising of the moon he received it on the sun; it is the healing draught for him who suffers. (372)

Ṛk 18

And now let him stretch out20 with his tongue of flame around heaven that plane of him in his full delight which is to be laid as a foundation. (372)