Sūkta 44
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Virūpa Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 3, 4, 6, 10, 20-22, 25, 26); nicṛdgāyatrī (2, 5, 7, 8, 11, 14-17, 24); virāḍgāyatrī (9, 12, 13, 18, 28, 30); gāyatrī (pādanicṛdgāyatrī) (19, 23); yavamadhyāgāyatrī (27); kakummatīgāyatrī (29)
2nd set of styles gāyatrī
-
Ṛk 1
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिं ।
आस्मि॑न्ह॒व्या जु॑होतन ॥समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् |
आस्मिन् हव्या जुहोतन ||samídhāgním duvasyata ghṛtáirbodhayatā́tithim ǀ
ā́sminhavyā́ juhotana ǁsamidhāgniṃ duvasyata ghṛtair bodhayatātithim |
āsmin havyā juhotana ||स॒म्ऽइधा॑ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति॑थिम् ।
आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥सम्ऽइधा । अग्निम् । दुवस्यत । घृतैः । बोधयत । अतिथिम् ।
आ । अस्मिन् । हव्या । जुहोतन ॥sam-ídhā ǀ agním ǀ duvasyata ǀ ghṛtáiḥ ǀ bodhayata ǀ átithim ǀ
ā́ ǀ asmin ǀ havyā́ ǀ juhotana ǁsam-idhā ǀ agnim ǀ duvasyata ǀ ghṛtaiḥ ǀ bodhayata ǀ atithim ǀ
ā ǀ asmin ǀ havyā ǀ juhotana ǁ8.44.1 Aṣṭaka 6.3.36.1Anuvāka 8.6.34
-
Ṛk 2
अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना ।
प्रति॑ सू॒क्तानि॑ हर्य नः ॥अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना |
प्रति सूक्तानि हर्य नः ||ágne stómam juṣasva me várdhasvānéna mánmanā ǀ
práti sūktā́ni harya naḥ ǁagne stomaṃ juṣasva me vardhasvānena manmanā |
prati sūktāni harya naḥ ||अग्ने॑ । स्तोम॑म् । जु॒ष॒स्व॒ । मे॒ । वर्ध॑स्व । अ॒नेन॑ । मन्म॑ना ।
प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒ । नः॒ ॥अग्ने । स्तोमम् । जुषस्व । मे । वर्धस्व । अनेन । मन्मना ।
प्रति । सुऽउक्तानि । हर्य । नः ॥ágne ǀ stómam ǀ juṣasva ǀ me ǀ várdhasva ǀ anéna ǀ mánmanā ǀ
práti ǀ su-uktā́ni ǀ harya ǀ naḥ ǁagne ǀ stomam ǀ juṣasva ǀ me ǀ vardhasva ǀ anena ǀ manmanā ǀ
prati ǀ su-uktāni ǀ harya ǀ naḥ ǁ8.44.2 Aṣṭaka 6.3.36.2Anuvāka 8.6.35
-
Ṛk 3
अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे ।
दे॒वाँ आ सा॑दयादि॒ह ॥अग्निं दूतम् पुरो दधे हव्यवाहम् उप ब्रुवे |
देवां आ सादयाद् इह ||agním dūtám puró dadhe havyavā́hamúpa bruve ǀ
devā́m̐ ā́ sādayādihá ǁagniṃ dūtam puro dadhe havyavāham upa bruve |
devāṃ ā sādayād iha ||अ॒ग्निम् । दू॒तम् । पु॒रः । द॒धे॒ । ह॒व्य॒ऽवाह॑म् । उप॑ । ब्रु॒वे॒ ।
दे॒वान् । आ । सा॒द॒या॒त् । इ॒ह ॥अग्निम् । दूतम् । पुरः । दधे । हव्यऽवाहम् । उप । ब्रुवे ।
देवान् । आ । सादयात् । इह ॥agním ǀ dūtám ǀ puráḥ ǀ dadhe ǀ havya-vā́ham ǀ úpa ǀ bruve ǀ
devā́n ǀ ā́ ǀ sādayāt ǀ ihá ǁagnim ǀ dūtam ǀ puraḥ ǀ dadhe ǀ havya-vāham ǀ upa ǀ bruve ǀ
devān ǀ ā ǀ sādayāt ǀ iha ǁ8.44.3 Aṣṭaka 6.3.36.3Anuvāka 8.6.36
-
Ṛk 4
उत्ते॑ बृ॒हंतो॑ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः ।
अग्ने॑ शु॒क्रास॑ ईरते ॥उत् ते बृहन्तो अर्चयः समिधानस्य दीदिवः |
अग्ने शुक्रास ईरते ||útte bṛhánto arcáyaḥ samidhānásya dīdivaḥ ǀ
ágne śukrā́sa īrate ǁut te bṛhanto arcayaḥ samidhānasya dīdivaḥ |
agne śukrāsa īrate ||उत् । ते॒ । बृ॒हन्तः॑ । अ॒र्चयः॑ । स॒म्ऽइ॒धा॒नस्य॑ । दी॒दि॒ऽवः॒ ।
अग्ने॑ । शु॒क्रासः॑ । ई॒र॒ते॒ ॥उत् । ते । बृहन्तः । अर्चयः । सम्ऽइधानस्य । दीदिऽवः ।
अग्ने । शुक्रासः । ईरते ॥út ǀ te ǀ bṛhántaḥ ǀ arcáyaḥ ǀ sam-idhānásya ǀ dīdi-vaḥ ǀ
ágne ǀ śukrā́saḥ ǀ īrate ǁut ǀ te ǀ bṛhantaḥ ǀ arcayaḥ ǀ sam-idhānasya ǀ dīdi-vaḥ ǀ
agne ǀ śukrāsaḥ ǀ īrate ǁ8.44.4 Aṣṭaka 6.3.36.4Anuvāka 8.6.37
-
Ṛk 5
उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यंतु हर्यत ।
अग्ने॑ ह॒व्या जु॑षस्व नः ॥उप त्वा जुह्वो मम घृताचीर् यन्तु हर्यत |
अग्ने हव्या जुषस्व नः ||úpa tvā juhvó máma ghṛtā́cīryantu haryata ǀ
ágne havyā́ juṣasva naḥ ǁupa tvā juhvo mama ghṛtācīr yantu haryata |
agne havyā juṣasva naḥ ||उप॑ । त्वा॒ । जु॒ह्वः॑ । मम॑ । घृ॒ताचीः॑ । य॒न्तु॒ । ह॒र्य॒त॒ ।
अग्ने॑ । ह॒व्या । जु॒ष॒स्व॒ । नः॒ ॥उप । त्वा । जुह्वः । मम । घृताचीः । यन्तु । हर्यत ।
अग्ने । हव्या । जुषस्व । नः ॥úpa ǀ tvā ǀ juhváḥ ǀ máma ǀ ghṛtā́cīḥ ǀ yantu ǀ haryata ǀ
ágne ǀ havyā́ ǀ juṣasva ǀ naḥ ǁupa ǀ tvā ǀ juhvaḥ ǀ mama ǀ ghṛtācīḥ ǀ yantu ǀ haryata ǀ
agne ǀ havyā ǀ juṣasva ǀ naḥ ǁ8.44.5 Aṣṭaka 6.3.36.5Anuvāka 8.6.38
-
Ṛk 6
मं॒द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुं ।
अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥मन्द्रं होतारम् ऋत्विजं चित्रभानुं विभावसुम् |
अग्निम् ईळे स उ श्रवत् ||mandrám hótāramṛtvíjam citrábhānum vibhā́vasum ǀ
agnímīḷe sá u śravat ǁmandraṃ hotāram ṛtvijaṃ citrabhānuṃ vibhāvasum |
agnim īḷe sa u śravat ||म॒न्द्रम् । होता॑रम् । ऋ॒त्विज॑म् । चि॒त्रऽभा॑नुम् । वि॒भाऽव॑सुम् ।
अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति॑ । श्र॒व॒त् ॥मन्द्रम् । होतारम् । ऋत्विजम् । चित्रऽभानुम् । विभाऽवसुम् ।
अग्निम् । ईळे । सः । ऊं इति । श्रवत् ॥mandrám ǀ hótāram ǀ ṛtvíjam ǀ citrá-bhānum ǀ vibhā́-vasum ǀ
agním ǀ īḷe ǀ sáḥ ǀ ūṃ íti ǀ śravat ǁmandram ǀ hotāram ǀ ṛtvijam ǀ citra-bhānum ǀ vibhā-vasum ǀ
agnim ǀ īḷe ǀ saḥ ǀ ūṃ iti ǀ śravat ǁ8.44.6 Aṣṭaka 6.3.37.1Anuvāka 8.6.39
-
Ṛk 7
प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुं ।
अ॒ध्व॒राणा॑मभि॒श्रियं॑ ॥प्रत्नं होतारम् ईड्यं जुष्टम् अग्निं कविक्रतुम् |
अध्वराणाम् अभिश्रियम् ||pratnám hótāramī́ḍyam júṣṭamagním kavíkratum ǀ
adhvarā́ṇāmabhiśríyam ǁpratnaṃ hotāram īḍyaṃ juṣṭam agniṃ kavikratum |
adhvarāṇām abhiśriyam ||प्र॒त्नम् । होता॑रम् । ईड्य॑म् । जुष्ट॑म् । अ॒ग्निम् । क॒विऽक्र॑तुम् ।
अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रिय॑म् ॥प्रत्नम् । होतारम् । ईड्यम् । जुष्टम् । अग्निम् । कविऽक्रतुम् ।
अध्वराणाम् । अभिऽश्रियम् ॥pratnám ǀ hótāram ǀ ī́ḍyam ǀ júṣṭam ǀ agním ǀ kaví-kratum ǀ
adhvarā́ṇām ǀ abhi-śríyam ǁpratnam ǀ hotāram ǀ īḍyam ǀ juṣṭam ǀ agnim ǀ kavi-kratum ǀ
adhvarāṇām ǀ abhi-śriyam ǁ8.44.7 Aṣṭaka 6.3.37.2Anuvāka 8.6.40
-
Ṛk 8
जु॒षा॒णो अं॑गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् ।
अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥जुषाणो अङ्गिरस्तमेमा हव्यान्य् आनुषक् |
अग्ने यज्ञं नय ऋतुथा ||juṣāṇó aṅgirastamemā́ havyā́nyānuṣák ǀ
ágne yajñám naya ṛtuthā́ ǁjuṣāṇo aṅgirastamemā havyāny ānuṣak |
agne yajñaṃ naya ṛtuthā ||जु॒षा॒णः । अ॒ङ्गि॒रः॒ऽत॒म॒ । इ॒मा । ह॒व्यानि॑ । आ॒नु॒षक् ।
अग्ने॑ । य॒ज्ञम् । न॒य॒ । ऋ॒तु॒ऽथा ॥जुषाणः । अङ्गिरःऽतम । इमा । हव्यानि । आनुषक् ।
अग्ने । यज्ञम् । नय । ऋतुऽथा ॥juṣāṇáḥ ǀ aṅgiraḥ-tama ǀ imā́ ǀ havyā́ni ǀ ānuṣák ǀ
ágne ǀ yajñám ǀ naya ǀ ṛtu-thā́ ǁjuṣāṇaḥ ǀ aṅgiraḥ-tama ǀ imā ǀ havyāni ǀ ānuṣak ǀ
agne ǀ yajñam ǀ naya ǀ ṛtu-thā ǁ8.44.8 Aṣṭaka 6.3.37.3Anuvāka 8.6.41
-
Ṛk 9
स॒मि॒धा॒न उ॑ संत्य॒ शुक्र॑शोच इ॒हा व॑ह ।
चि॒कि॒त्वांदैव्यं॒ जनं॑ ॥समिधान उ सन्त्य शुक्रशोच इहा वह |
चिकित्वान् दैव्यं जनम् ||samidhāná u santya śúkraśoca ihā́ vaha ǀ
cikitvā́ndáivyam jánam ǁsamidhāna u santya śukraśoca ihā vaha |
cikitvān daivyaṃ janam ||स॒म्ऽइ॒धा॒नः । ऊं॒ इति॑ । स॒न्त्य॒ । शुक्र॑ऽशोचे । इ॒ह । आ । व॒ह॒ ।
चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥सम्ऽइधानः । ऊं इति । सन्त्य । शुक्रऽशोचे । इह । आ । वह ।
चिकित्वान् । दैव्यम् । जनम् ॥sam-idhānáḥ ǀ ūṃ íti ǀ santya ǀ śúkra-śoce ǀ ihá ǀ ā́ ǀ vaha ǀ
cikitvā́n ǀ dáivyam ǀ jánam ǁsam-idhānaḥ ǀ ūṃ iti ǀ santya ǀ śukra-śoce ǀ iha ǀ ā ǀ vaha ǀ
cikitvān ǀ daivyam ǀ janam ǁ8.44.9 Aṣṭaka 6.3.37.4Anuvāka 8.6.42
-
Ṛk 10
विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुं ।
य॒ज्ञानां॑ के॒तुमी॑महे ॥विप्रं होतारम् अद्रुहं धूमकेतुं विभावसुम् |
यज्ञानां केतुम् ईमहे ||vípram hótāramadrúham dhūmáketum vibhā́vasum ǀ
yajñā́nām ketúmīmahe ǁvipraṃ hotāram adruhaṃ dhūmaketuṃ vibhāvasum |
yajñānāṃ ketum īmahe ||विप्र॑म् । होता॑रम् । अ॒द्रुह॑म् । धू॒मऽके॑तुम् । वि॒भाऽव॑सुम् ।
य॒ज्ञाना॑म् । के॒तुम् । ई॒म॒हे॒ ॥विप्रम् । होतारम् । अद्रुहम् । धूमऽकेतुम् । विभाऽवसुम् ।
यज्ञानाम् । केतुम् । ईमहे ॥vípram ǀ hótāram ǀ adrúham ǀ dhūmá-ketum ǀ vibhā́-vasum ǀ
yajñā́nām ǀ ketúm ǀ īmahe ǁvipram ǀ hotāram ǀ adruham ǀ dhūma-ketum ǀ vibhā-vasum ǀ
yajñānām ǀ ketum ǀ īmahe ǁ8.44.10 Aṣṭaka 6.3.37.5Anuvāka 8.6.43
-
Ṛk 11
अग्ने॒ नि पा॑हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः ।
भिं॒धि द्वेषः॑ सहस्कृत ॥अग्ने नि पाहि नस् त्वम् प्रति ष्म देव रीषतः |
भिन्धि द्वेषः सहस्कृत ||ágne ní pāhi nastvám práti ṣma deva rī́ṣataḥ ǀ
bhindhí dvéṣaḥ sahaskṛta ǁagne ni pāhi nas tvam prati ṣma deva rīṣataḥ |
bhindhi dveṣaḥ sahaskṛta ||अग्ने॑ । नि । पा॒हि॒ । नः॒ । त्वम् । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः ।
भि॒न्धि । द्वेषः॑ । स॒हः॒ऽकृ॒त॒ ॥अग्ने । नि । पाहि । नः । त्वम् । प्रति । स्म । देव । रिषतः ।
भिन्धि । द्वेषः । सहःऽकृत ॥ágne ǀ ní ǀ pāhi ǀ naḥ ǀ tvám ǀ práti ǀ sma ǀ deva ǀ ríṣataḥ ǀ
bhindhí ǀ dvéṣaḥ ǀ sahaḥ-kṛta ǁagne ǀ ni ǀ pāhi ǀ naḥ ǀ tvam ǀ prati ǀ sma ǀ deva ǀ riṣataḥ ǀ
bhindhi ǀ dveṣaḥ ǀ sahaḥ-kṛta ǁ8.44.11 Aṣṭaka 6.3.38.1Anuvāka 8.6.44
-
Ṛk 12
अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुंभा॑नस्त॒न्वं१॒॑ स्वां ।
क॒विर्विप्रे॑ण वावृधे ॥अग्निः प्रत्नेन मन्मना शुम्भानस् तन्वं स्वाम् |
कविर् विप्रेण वावृधे ||agníḥ pratnéna mánmanā śúmbhānastanvám svā́m ǀ
kavírvípreṇa vāvṛdhe ǁagniḥ pratnena manmanā śumbhānas tanvaṃ svām |
kavir vipreṇa vāvṛdhe ||अ॒ग्निः । प्र॒त्नेन॑ । मन्म॑ना । शुम्भा॑नः । त॒न्व॑म् । स्वाम् ।
क॒विः । विप्रे॑ण । व॒वृ॒धे॒ ॥अग्निः । प्रत्नेन । मन्मना । शुम्भानः । तन्वम् । स्वाम् ।
कविः । विप्रेण । ववृधे ॥agníḥ ǀ pratnéna ǀ mánmanā ǀ śúmbhānaḥ ǀ tanvám ǀ svā́m ǀ
kavíḥ ǀ vípreṇa ǀ vavṛdhe ǁagniḥ ǀ pratnena ǀ manmanā ǀ śumbhānaḥ ǀ tanvam ǀ svām ǀ
kaviḥ ǀ vipreṇa ǀ vavṛdhe ǁ8.44.12 Aṣṭaka 6.3.38.2Anuvāka 8.6.45
-
Ṛk 13
ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषं ।
अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥ऊर्जो नपातम् आ हुवे ऽग्निम् पावकशोचिषम् |
अस्मिन् यज्ञे स्वध्वरे ||ūrjó nápātamā́ huve’gním pāvakáśociṣam ǀ
asmínyajñé svadhvaré ǁūrjo napātam ā huve 'gnim pāvakaśociṣam |
asmin yajñe svadhvare ||ऊ॒र्जः । नपा॑तम् । आ । हु॒वे॒ । अ॒ग्निम् । पा॒व॒कऽशो॑चिषम् ।
अ॒स्मिन् । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे ॥ऊर्जः । नपातम् । आ । हुवे । अग्निम् । पावकऽशोचिषम् ।
अस्मिन् । यज्ञे । सुऽअध्वरे ॥ūrjáḥ ǀ nápātam ǀ ā́ ǀ huve ǀ agním ǀ pāvaká-śociṣam ǀ
asmín ǀ yajñé ǀ su-adhvaré ǁūrjaḥ ǀ napātam ǀ ā ǀ huve ǀ agnim ǀ pāvaka-śociṣam ǀ
asmin ǀ yajñe ǀ su-adhvare ǁ8.44.13 Aṣṭaka 6.3.38.3Anuvāka 8.6.46
-
Ṛk 14
स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ ।
दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥स नो मित्रमहस् त्वम् अग्ने शुक्रेण शोचिषा |
देवैर् आ सत्सि बर्हिषि ||sá no mitramahastvámágne śukréṇa śocíṣā ǀ
deváirā́ satsi barhíṣi ǁsa no mitramahas tvam agne śukreṇa śociṣā |
devair ā satsi barhiṣi ||सः । नः॒ । मि॒त्र॒ऽम॒हः॒ । त्वम् । अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ ।
दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥सः । नः । मित्रऽमहः । त्वम् । अग्ने । शुक्रेण । शोचिषा ।
देवैः । आ । सत्सि । बर्हिषि ॥sáḥ ǀ naḥ ǀ mitra-mahaḥ ǀ tvám ǀ ágne ǀ śukréṇa ǀ śocíṣā ǀ
deváiḥ ǀ ā́ ǀ satsi ǀ barhíṣi ǁsaḥ ǀ naḥ ǀ mitra-mahaḥ ǀ tvam ǀ agne ǀ śukreṇa ǀ śociṣā ǀ
devaiḥ ǀ ā ǀ satsi ǀ barhiṣi ǁ8.44.14 Aṣṭaka 6.3.38.4Anuvāka 8.6.47
-
Ṛk 15
यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्तः॑ सप॒र्यति॑ ।
तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥यो अग्निं तन्वो दमे देवम् मर्तः सपर्यति |
तस्मा इद् दीदयद् वसु ||yó agním tanvó dáme devám mártaḥ saparyáti ǀ
tásmā íddīdayadvásu ǁyo agniṃ tanvo dame devam martaḥ saparyati |
tasmā id dīdayad vasu ||यः । अ॒ग्निम् । त॒न्वः॑ । दमे॑ । दे॒वम् । मर्तः॑ । स॒प॒र्यति॑ ।
तस्मै॑ । इत् । दी॒द॒य॒त् । वसु॑ ॥यः । अग्निम् । तन्वः । दमे । देवम् । मर्तः । सपर्यति ।
तस्मै । इत् । दीदयत् । वसु ॥yáḥ ǀ agním ǀ tanváḥ ǀ dáme ǀ devám ǀ mártaḥ ǀ saparyáti ǀ
tásmai ǀ ít ǀ dīdayat ǀ vásu ǁyaḥ ǀ agnim ǀ tanvaḥ ǀ dame ǀ devam ǀ martaḥ ǀ saparyati ǀ
tasmai ǀ it ǀ dīdayat ǀ vasu ǁ8.44.15 Aṣṭaka 6.3.38.5Anuvāka 8.6.48
-
Ṛk 16
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यं ।
अ॒पां रेतां॑सि जिन्वति ॥अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् |
अपां रेतांसि जिन्वति ||agnírmūrdhā́ diváḥ kakútpátiḥ pṛthivyā́ ayám ǀ
apā́m rétāṃsi jinvati ǁagnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam |
apāṃ retāṃsi jinvati ||अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः॑ । पृ॒थि॒व्याः । अ॒यम् ।
अ॒पाम् । रेतां॑सि । जि॒न्व॒ति॒ ॥अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् ।
अपाम् । रेतांसि । जिन्वति ॥agníḥ ǀ mūrdhā́ ǀ diváḥ ǀ kakút ǀ pátiḥ ǀ pṛthivyā́ḥ ǀ ayám ǀ
apā́m ǀ rétāṃsi ǀ jinvati ǁagniḥ ǀ mūrdhā ǀ divaḥ ǀ kakut ǀ patiḥ ǀ pṛthivyāḥ ǀ ayam ǀ
apām ǀ retāṃsi ǀ jinvati ǁ8.44.16 Aṣṭaka 6.3.39.1Anuvāka 8.6.49
-
Ṛk 17
उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राजं॑त ईरते ।
तव॒ ज्योतीं॑ष्य॒र्चयः॑ ॥उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते |
तव ज्योतींष्य् अर्चयः ||údagne śúcayastáva śukrā́ bhrā́janta īrate ǀ
táva jyótīṃṣyarcáyaḥ ǁud agne śucayas tava śukrā bhrājanta īrate |
tava jyotīṃṣy arcayaḥ ||उत् । अ॒ग्ने॒ । शुच॑यः । तव॑ । शु॒क्राः । भ्राज॑न्तः । ई॒र॒ते॒ ।
तव॑ । ज्योतीं॑षि । अ॒र्चयः॑ ॥उत् । अग्ने । शुचयः । तव । शुक्राः । भ्राजन्तः । ईरते ।
तव । ज्योतींषि । अर्चयः ॥út ǀ agne ǀ śúcayaḥ ǀ táva ǀ śukrā́ḥ ǀ bhrā́jantaḥ ǀ īrate ǀ
táva ǀ jyótīṃṣi ǀ arcáyaḥ ǁut ǀ agne ǀ śucayaḥ ǀ tava ǀ śukrāḥ ǀ bhrājantaḥ ǀ īrate ǀ
tava ǀ jyotīṃṣi ǀ arcayaḥ ǁ8.44.17 Aṣṭaka 6.3.39.2Anuvāka 8.6.50
-
Ṛk 18
ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः ।
स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः |
स्तोता स्यां तव शर्मणि ||ī́śiṣe vā́ryasya hí dātrásyāgne svárpatiḥ ǀ
stotā́ syām táva śármaṇi ǁīśiṣe vāryasya hi dātrasyāgne svarpatiḥ |
stotā syāṃ tava śarmaṇi ||ईशि॑षे । वार्य॑स्य । हि । दा॒त्रस्य॑ । अ॒ग्ने॒ । स्वः॑ऽपतिः ।
स्तो॒ता । स्या॒म् । तव॑ । शर्म॑णि ॥ईशिषे । वार्यस्य । हि । दात्रस्य । अग्ने । स्वःऽपतिः ।
स्तोता । स्याम् । तव । शर्मणि ॥ī́śiṣe ǀ vā́ryasya ǀ hí ǀ dātrásya ǀ agne ǀ sváḥ-patiḥ ǀ
stotā́ ǀ syām ǀ táva ǀ śármaṇi ǁīśiṣe ǀ vāryasya ǀ hi ǀ dātrasya ǀ agne ǀ svaḥ-patiḥ ǀ
stotā ǀ syām ǀ tava ǀ śarmaṇi ǁ8.44.18 Aṣṭaka 6.3.39.3Anuvāka 8.6.51
-
Ṛk 19
त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वंति॒ चित्ति॑भिः ।
त्वां व॑र्धंतु नो॒ गिरः॑ ॥त्वाम् अग्ने मनीषिणस् त्वां हिन्वन्ति चित्तिभिः |
त्वां वर्धन्तु नो गिरः ||tvā́magne manīṣíṇastvā́m hinvanti cíttibhiḥ ǀ
tvā́m vardhantu no gíraḥ ǁtvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ |
tvāṃ vardhantu no giraḥ ||त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति॑ऽभिः ।
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥त्वाम् । अग्ने । मनीषिणः । त्वाम् । हिन्वन्ति । चित्तिऽभिः ।
त्वाम् । वर्धन्तु । नः । गिरः ॥tvā́m ǀ agne ǀ manīṣíṇaḥ ǀ tvā́m ǀ hinvanti ǀ cítti-bhiḥ ǀ
tvā́m ǀ vardhantu ǀ naḥ ǀ gíraḥ ǁtvām ǀ agne ǀ manīṣiṇaḥ ǀ tvām ǀ hinvanti ǀ citti-bhiḥ ǀ
tvām ǀ vardhantu ǀ naḥ ǀ giraḥ ǁ8.44.19 Aṣṭaka 6.3.39.4Anuvāka 8.6.52
-
Ṛk 20
अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा॑ ।
अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥अदब्धस्य स्वधावतो दूतस्य रेभतः सदा |
अग्नेः सख्यं वृणीमहे ||ádabdhasya svadhā́vato dūtásya rébhataḥ sádā ǀ
agnéḥ sakhyám vṛṇīmahe ǁadabdhasya svadhāvato dūtasya rebhataḥ sadā |
agneḥ sakhyaṃ vṛṇīmahe ||अद॑ब्धस्य । स्व॒धाऽव॑तः । दू॒तस्य॑ । रेभ॑तः । सदा॑ ।
अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥अदब्धस्य । स्वधाऽवतः । दूतस्य । रेभतः । सदा ।
अग्नेः । सख्यम् । वृणीमहे ॥ádabdhasya ǀ svadhā́-vataḥ ǀ dūtásya ǀ rébhataḥ ǀ sádā ǀ
agnéḥ ǀ sakhyám ǀ vṛṇīmahe ǁadabdhasya ǀ svadhā-vataḥ ǀ dūtasya ǀ rebhataḥ ǀ sadā ǀ
agneḥ ǀ sakhyam ǀ vṛṇīmahe ǁ8.44.20 Aṣṭaka 6.3.39.5Anuvāka 8.6.53
-
Ṛk 21
अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः ।
शुची॑ रोचत॒ आहु॑तः ॥अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः |
शुची रोचत आहुतः ||agníḥ śúcivratatamaḥ śúcirvípraḥ śúciḥ kavíḥ ǀ
śúcī rocata ā́hutaḥ ǁagniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ |
śucī rocata āhutaḥ ||अ॒ग्निः । शुचि॑व्रतऽतमः । शुचिः॑ । विप्रः॑ । शुचिः॑ । क॒विः ।
शुचिः॑ । रो॒च॒ते॒ । आऽहु॑तः ॥अग्निः । शुचिव्रतऽतमः । शुचिः । विप्रः । शुचिः । कविः ।
शुचिः । रोचते । आऽहुतः ॥agníḥ ǀ śúcivrata-tamaḥ ǀ śúciḥ ǀ vípraḥ ǀ śúciḥ ǀ kavíḥ ǀ
śúciḥ ǀ rocate ǀ ā́-hutaḥ ǁagniḥ ǀ śucivrata-tamaḥ ǀ śuciḥ ǀ vipraḥ ǀ śuciḥ ǀ kaviḥ ǀ
śuciḥ ǀ rocate ǀ ā-hutaḥ ǁ8.44.21 Aṣṭaka 6.3.40.1Anuvāka 8.6.54
-
Ṛk 22
उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धंतु वि॒श्वहा॑ ।
अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा |
अग्ने सख्यस्य बोधि नः ||utá tvā dhītáyo máma gíro vardhantu viśváhā ǀ
ágne sakhyásya bodhi naḥ ǁuta tvā dhītayo mama giro vardhantu viśvahā |
agne sakhyasya bodhi naḥ ||उ॒त । त्वा॒ । धी॒तयः॑ । मम॑ । गिरः॑ । व॒र्ध॒न्तु॒ । वि॒श्वहा॑ ।
अग्ने॑ । स॒ख्यस्य॑ । बो॒धि॒ । नः॒ ॥उत । त्वा । धीतयः । मम । गिरः । वर्धन्तु । विश्वहा ।
अग्ने । सख्यस्य । बोधि । नः ॥utá ǀ tvā ǀ dhītáyaḥ ǀ máma ǀ gíraḥ ǀ vardhantu ǀ viśváhā ǀ
ágne ǀ sakhyásya ǀ bodhi ǀ naḥ ǁuta ǀ tvā ǀ dhītayaḥ ǀ mama ǀ giraḥ ǀ vardhantu ǀ viśvahā ǀ
agne ǀ sakhyasya ǀ bodhi ǀ naḥ ǁ8.44.22 Aṣṭaka 6.3.40.2Anuvāka 8.6.55
-
Ṛk 23
यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हं ।
स्युष्टे॑ स॒त्या इ॒हाशिषः॑ ॥यद् अग्ने स्याम् अहं त्वं त्वं वा घा स्या अहम् |
स्युष् टे सत्या इहाशिषः ||yádagne syā́mahám tvám tvám vā ghā syā́ ahám ǀ
syúṣṭe satyā́ ihā́śíṣaḥ ǁyad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham |
syuṣ ṭe satyā ihāśiṣaḥ ||यत् । अ॒ग्ने॒ । स्याम् । अ॒हम् । त्वम् । त्वम् । वा॒ । घ॒ । स्याः । अ॒हम् ।
स्युः । ते॒ । स॒त्याः । इ॒ह । आ॒ऽशिषः॑ ॥यत् । अग्ने । स्याम् । अहम् । त्वम् । त्वम् । वा । घ । स्याः । अहम् ।
स्युः । ते । सत्याः । इह । आऽशिषः ॥yát ǀ agne ǀ syā́m ǀ ahám ǀ tvám ǀ tvám ǀ vā ǀ gha ǀ syā́ḥ ǀ ahám ǀ
syúḥ ǀ te ǀ satyā́ḥ ǀ ihá ǀ ā-śíṣaḥ ǁyat ǀ agne ǀ syām ǀ aham ǀ tvam ǀ tvam ǀ vā ǀ gha ǀ syāḥ ǀ aham ǀ
syuḥ ǀ te ǀ satyāḥ ǀ iha ǀ ā-śiṣaḥ ǁ8.44.23 Aṣṭaka 6.3.40.3Anuvāka 8.6.56
-
Ṛk 24
वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः ।
स्याम॑ ते सुम॒तावपि॑ ॥वसुर् वसुपतिर् हि कम् अस्य् अग्ने विभावसुः |
स्याम ते सुमताव् अपि ||vásurvásupatirhí kamásyagne vibhā́vasuḥ ǀ
syā́ma te sumatā́vapi ǁvasur vasupatir hi kam asy agne vibhāvasuḥ |
syāma te sumatāv api ||वसुः॑ । वसु॑ऽपतिः । हि । क॒म् । असि॑ । अ॒ग्ने॒ । वि॒भाऽव॑सुः ।
स्याम॑ । ते॒ । सु॒ऽम॒तौ । अपि॑ ॥वसुः । वसुऽपतिः । हि । कम् । असि । अग्ने । विभाऽवसुः ।
स्याम । ते । सुऽमतौ । अपि ॥vásuḥ ǀ vásu-patiḥ ǀ hí ǀ kam ǀ ási ǀ agne ǀ vibhā́-vasuḥ ǀ
syā́ma ǀ te ǀ su-matáu ǀ ápi ǁvasuḥ ǀ vasu-patiḥ ǀ hi ǀ kam ǀ asi ǀ agne ǀ vibhā-vasuḥ ǀ
syāma ǀ te ǀ su-matau ǀ api ǁ8.44.24 Aṣṭaka 6.3.40.4Anuvāka 8.6.57
-
Ṛk 25
अग्ने॑ धृ॒तव्र॑ताय ते समु॒द्राये॑व॒ सिंध॑वः ।
गिरो॑ वा॒श्रास॑ ईरते ॥अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः |
गिरो वाश्रास ईरते ||ágne dhṛtávratāya te samudrā́yeva síndhavaḥ ǀ
gíro vāśrā́sa īrate ǁagne dhṛtavratāya te samudrāyeva sindhavaḥ |
giro vāśrāsa īrate ||अग्ने॑ । धृ॒तऽव्र॑ताय । ते॒ । स॒मु॒द्राय॑ऽइव । सिन्ध॑वः ।
गिरः॑ । वा॒श्रासः॑ । ई॒र॒ते॒ ॥अग्ने । धृतऽव्रताय । ते । समुद्रायऽइव । सिन्धवः ।
गिरः । वाश्रासः । ईरते ॥ágne ǀ dhṛtá-vratāya ǀ te ǀ samudrā́ya-iva ǀ síndhavaḥ ǀ
gíraḥ ǀ vāśrā́saḥ ǀ īrate ǁagne ǀ dhṛta-vratāya ǀ te ǀ samudrāya-iva ǀ sindhavaḥ ǀ
giraḥ ǀ vāśrāsaḥ ǀ īrate ǁ8.44.25 Aṣṭaka 6.3.40.5Anuvāka 8.6.58
-
Ṛk 26
युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सं ।
अ॒ग्निं शुं॑भामि॒ मन्म॑भिः ॥युवानं विश्पतिं कविं विश्वादम् पुरुवेपसम् |
अग्निं शुम्भामि मन्मभिः ||yúvānam viśpátim kavím viśvā́dam puruvépasam ǀ
agním śumbhāmi mánmabhiḥ ǁyuvānaṃ viśpatiṃ kaviṃ viśvādam puruvepasam |
agniṃ śumbhāmi manmabhiḥ ||युवा॑नम् । वि॒श्पति॑म् । क॒विम् । वि॒श्व॒ऽअद॑म् । पु॒रु॒ऽवेप॑सम् ।
अ॒ग्निम् । शु॒म्भा॒मि॒ । मन्म॑ऽभिः ॥युवानम् । विश्पतिम् । कविम् । विश्वऽअदम् । पुरुऽवेपसम् ।
अग्निम् । शुम्भामि । मन्मऽभिः ॥yúvānam ǀ viśpátim ǀ kavím ǀ viśva-ádam ǀ puru-vépasam ǀ
agním ǀ śumbhāmi ǀ mánma-bhiḥ ǁyuvānam ǀ viśpatim ǀ kavim ǀ viśva-adam ǀ puru-vepasam ǀ
agnim ǀ śumbhāmi ǀ manma-bhiḥ ǁ8.44.26 Aṣṭaka 6.3.41.1Anuvāka 8.6.59
-
Ṛk 27
य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मजं॑भाय वी॒ळवे॑ ।
स्तोमै॑रिषेमा॒ग्नये॑ ॥यज्ञानां रथ्ये वयं तिग्मजम्भाय वीऌअवे |
स्तोमैर् इषेमाग्नये ||yajñā́nām rathyé vayám tigmájambhāya vīḷáve ǀ
stómairiṣemāgnáye ǁyajñānāṃ rathye vayaṃ tigmajambhāya vīḷave |
stomair iṣemāgnaye ||य॒ज्ञाना॑म् । र॒थ्ये॑ । व॒यम् । ति॒ग्मऽज॑म्भाय । वी॒ळवे॑ ।
स्तोमैः॑ । इ॒षे॒म॒ । अ॒ग्नये॑ ॥यज्ञानाम् । रथ्ये । वयम् । तिग्मऽजम्भाय । वीळवे ।
स्तोमैः । इषेम । अग्नये ॥yajñā́nām ǀ rathyé ǀ vayám ǀ tigmá-jambhāya ǀ vīḷáve ǀ
stómaiḥ ǀ iṣema ǀ agnáye ǁyajñānām ǀ rathye ǀ vayam ǀ tigma-jambhāya ǀ vīḷave ǀ
stomaiḥ ǀ iṣema ǀ agnaye ǁ8.44.27 Aṣṭaka 6.3.41.2Anuvāka 8.6.60
-
Ṛk 28
अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू॑तु संत्य ।
तस्मै॑ पावक मृळय ॥अयम् अग्ने त्वे अपि जरिता भूतु सन्त्य |
तस्मै पावक मृऌअय ||ayámagne tvé ápi jaritā́ bhūtu santya ǀ
tásmai pāvaka mṛḷaya ǁayam agne tve api jaritā bhūtu santya |
tasmai pāvaka mṛḷaya ||अ॒यम् । अ॒ग्ने॒ । त्वे इति॑ । अपि॑ । ज॒रि॒ता । भू॒तु॒ । स॒न्त्य॒ ।
तस्मै॑ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥अयम् । अग्ने । त्वे इति । अपि । जरिता । भूतु । सन्त्य ।
तस्मै । पावक । मृळय ॥ayám ǀ agne ǀ tvé íti ǀ ápi ǀ jaritā́ ǀ bhūtu ǀ santya ǀ
tásmai ǀ pāvaka ǀ mṛḷaya ǁayam ǀ agne ǀ tve iti ǀ api ǀ jaritā ǀ bhūtu ǀ santya ǀ
tasmai ǀ pāvaka ǀ mṛḷaya ǁ8.44.28 Aṣṭaka 6.3.41.3Anuvāka 8.6.61
-
Ṛk 29
धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा॑ ।
अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥धीरो ह्य् अस्य् अद्मसद् विप्रो न जागृविः सदा |
अग्ने दीदयसि द्यवि ||dhī́ro hyásyadmasádvípro ná jā́gṛviḥ sádā ǀ
ágne dīdáyasi dyávi ǁdhīro hy asy admasad vipro na jāgṛviḥ sadā |
agne dīdayasi dyavi ||धीरः॑ । हि । असि॑ । अ॒द्म॒ऽसत् । विप्रः॑ । न । जागृ॑विः । सदा॑ ।
अग्ने॑ । दी॒दय॑सि । द्यवि॑ ॥धीरः । हि । असि । अद्मऽसत् । विप्रः । न । जागृविः । सदा ।
अग्ने । दीदयसि । द्यवि ॥dhī́raḥ ǀ hí ǀ ási ǀ adma-sát ǀ vípraḥ ǀ ná ǀ jā́gṛviḥ ǀ sádā ǀ
ágne ǀ dīdáyasi ǀ dyávi ǁdhīraḥ ǀ hi ǀ asi ǀ adma-sat ǀ vipraḥ ǀ na ǀ jāgṛviḥ ǀ sadā ǀ
agne ǀ dīdayasi ǀ dyavi ǁ8.44.29 Aṣṭaka 6.3.41.4Anuvāka 8.6.62
-
Ṛk 30
पु॒राग्ने॑ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे ।
प्र ण॒ आयु॑र्वसो तिर ॥पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे |
प्र ण आयुर् वसो तिर ||purā́gne duritébhyaḥ purā́ mṛdhrébhyaḥ kave ǀ
prá ṇa ā́yurvaso tira ǁpurāgne duritebhyaḥ purā mṛdhrebhyaḥ kave |
pra ṇa āyur vaso tira ||पु॒रा । अ॒ग्ने॒ । दुः॒ऽइ॒तेभ्यः॑ । पु॒रा । मृ॒ध्रेभ्यः॑ । क॒वे॒ ।
प्र । नः॒ । आयुः॑ । व॒सो॒ इति॑ । ति॒र॒ ॥पुरा । अग्ने । दुःऽइतेभ्यः । पुरा । मृध्रेभ्यः । कवे ।
प्र । नः । आयुः । वसो इति । तिर ॥purā́ ǀ agne ǀ duḥ-itébhyaḥ ǀ purā́ ǀ mṛdhrébhyaḥ ǀ kave ǀ
prá ǀ naḥ ǀ ā́yuḥ ǀ vaso íti ǀ tira ǁpurā ǀ agne ǀ duḥ-itebhyaḥ ǀ purā ǀ mṛdhrebhyaḥ ǀ kave ǀ
pra ǀ naḥ ǀ āyuḥ ǀ vaso iti ǀ tira ǁ8.44.30 Aṣṭaka 6.3.41.5Anuvāka 8.6.63
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.