Ṛgveda · Maṇḍala 8

Sūkta 12

Indra · Parvata Kāṇva · 33 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Parvata Kāṇva
Chandas छन्दस्
Uṣṇih
Metres by ṛk

1st set of styles uṣṇik (3-6, 10-12, 14, 17, 18, 22-24, 26-30); nicṛduṣṇik (1, 2, 8, 9, 15, 16, 20, 21, 25, 31, 32); virāḍārṣyuṣṇik (7, 13, 19); svarāḍārcyuṣnik (33)

2nd set of styles uṣṇih

  1. Ṛk 1

    य इं॑द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति ।
    येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥

    य इन्द्र सोमपातमो मदः शविष्ठ चेतति |
    येना हंसि न्य् अत्रिणं तम् ईमहे ||

    yá indra somapā́tamo mádaḥ śaviṣṭha cétati ǀ
    yénā háṃsi nyátríṇam támīmahe ǁ

    ya indra somapātamo madaḥ śaviṣṭha cetati |
    yenā haṃsi ny atriṇaṃ tam īmahe ||

    यः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति ।
    येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥

    यः । इन्द्र । सोमऽपातमः । मदः । शविष्ठ । चेतति ।
    येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥

    yáḥ ǀ indra ǀ soma-pā́tamaḥ ǀ mádaḥ ǀ śaviṣṭha ǀ cétati ǀ
    yéna ǀ háṃsi ǀ ní ǀ atríṇam ǀ tám ǀ īmahe ǁ

    yaḥ ǀ indra ǀ soma-pātamaḥ ǀ madaḥ ǀ śaviṣṭha ǀ cetati ǀ
    yena ǀ haṃsi ǀ ni ǀ atriṇam ǀ tam ǀ īmahe ǁ

    8.12.1 Aṣṭaka 6.1.1.1Anuvāka 8.2.145

  2. Ṛk 2

    येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पयं॑तं॒ स्व॑र्णरं ।
    येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥

    येना दशग्वम् अध्रिगुं वेपयन्तं स्वर्णरम् |
    येना समुद्रम् आविथा तम् ईमहे ||

    yénā dáśagvamádhrigum vepáyantam svárṇaram ǀ
    yénā samudrámā́vithā támīmahe ǁ

    yenā daśagvam adhriguṃ vepayantaṃ svarṇaram |
    yenā samudram āvithā tam īmahe ||

    येन॑ । दश॑ऽग्वम् । अध्रि॑ऽगुम् । वे॒पय॑न्तम् । स्वः॑ऽनरम् ।
    येन॑ । स॒मु॒द्रम् । आवि॑थ । तम् । ई॒म॒हे॒ ॥

    येन । दशऽग्वम् । अध्रिऽगुम् । वेपयन्तम् । स्वःऽनरम् ।
    येन । समुद्रम् । आविथ । तम् । ईमहे ॥

    yéna ǀ dáśa-gvam ǀ ádhri-gum ǀ vepáyantam ǀ sváḥ-naram ǀ
    yéna ǀ samudrám ǀ ā́vitha ǀ tám ǀ īmahe ǁ

    yena ǀ daśa-gvam ǀ adhri-gum ǀ vepayantam ǀ svaḥ-naram ǀ
    yena ǀ samudram ǀ āvitha ǀ tam ǀ īmahe ǁ

    8.12.2 Aṣṭaka 6.1.1.2Anuvāka 8.2.146

  3. Ṛk 3

    येन॒ सिंधुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दयः॑ ।
    पंथा॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥

    येन सिन्धुम् महीर् अपो रथां इव प्रचोदयः |
    पन्थाम् ऋतस्य यातवे तम् ईमहे ||

    yéna síndhum mahī́rapó ráthām̐ iva pracodáyaḥ ǀ
    pánthāmṛtásya yā́tave támīmahe ǁ

    yena sindhum mahīr apo rathāṃ iva pracodayaḥ |
    panthām ṛtasya yātave tam īmahe ||

    येन॑ । सिन्धु॑म् । म॒हीः । अ॒पः । रथा॑न्ऽइव । प्र॒ऽचो॒दयः॑ ।
    पन्था॑म् । ऋ॒तस्य॑ । यात॑वे । तम् । ई॒म॒हे॒ ॥

    येन । सिन्धुम् । महीः । अपः । रथान्ऽइव । प्रऽचोदयः ।
    पन्थाम् । ऋतस्य । यातवे । तम् । ईमहे ॥

    yéna ǀ síndhum ǀ mahī́ḥ ǀ apáḥ ǀ ráthān-iva ǀ pra-codáyaḥ ǀ
    pánthām ǀ ṛtásya ǀ yā́tave ǀ tám ǀ īmahe ǁ

    yena ǀ sindhum ǀ mahīḥ ǀ apaḥ ǀ rathān-iva ǀ pra-codayaḥ ǀ
    panthām ǀ ṛtasya ǀ yātave ǀ tam ǀ īmahe ǁ

    8.12.3 Aṣṭaka 6.1.1.3Anuvāka 8.2.147

  4. Ṛk 4

    इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः ।
    येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥

    इमं स्तोमम् अभिष्टये घृतं न पूतम् अद्रिवः |
    येना नु सद्य ओजसा ववक्षिथ ||

    imám stómamabhíṣṭaye ghṛtám ná pūtámadrivaḥ ǀ
    yénā nú sadyá ójasā vavákṣitha ǁ

    imaṃ stomam abhiṣṭaye ghṛtaṃ na pūtam adrivaḥ |
    yenā nu sadya ojasā vavakṣitha ||

    इ॒मम् । स्तोम॑म् । अ॒भिष्ट॑ये । घृ॒तम् । न । पू॒तम् । अ॒द्रि॒ऽवः॒ ।
    येन॑ । नु । स॒द्यः । ओज॑सा । व॒वक्षि॑थ ॥

    इमम् । स्तोमम् । अभिष्टये । घृतम् । न । पूतम् । अद्रिऽवः ।
    येन । नु । सद्यः । ओजसा । ववक्षिथ ॥

    imám ǀ stómam ǀ abhíṣṭaye ǀ ghṛtám ǀ ná ǀ pūtám ǀ adri-vaḥ ǀ
    yéna ǀ nú ǀ sadyáḥ ǀ ójasā ǀ vavákṣitha ǁ

    imam ǀ stomam ǀ abhiṣṭaye ǀ ghṛtam ǀ na ǀ pūtam ǀ adri-vaḥ ǀ
    yena ǀ nu ǀ sadyaḥ ǀ ojasā ǀ vavakṣitha ǁ

    8.12.4 Aṣṭaka 6.1.1.4Anuvāka 8.2.148

  5. Ṛk 5

    इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते ।
    इंद्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ ॥

    इमं जुषस्व गिर्वणः समुद्र इव पिन्वते |
    इन्द्र विश्वाभिर् ऊतिभिर् ववक्षिथ ||

    imám juṣasva girvaṇaḥ samudrá iva pinvate ǀ
    índra víśvābhirūtíbhirvavákṣitha ǁ

    imaṃ juṣasva girvaṇaḥ samudra iva pinvate |
    indra viśvābhir ūtibhir vavakṣitha ||

    इ॒मम् । जु॒ष॒स्व॒ । गि॒र्व॒णः॒ । स॒मु॒द्रःऽइ॑व । पि॒न्व॒ते॒ ।
    इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । व॒वक्षि॑थ ॥

    इमम् । जुषस्व । गिर्वणः । समुद्रःऽइव । पिन्वते ।
    इन्द्र । विश्वाभिः । ऊतिऽभिः । ववक्षिथ ॥

    imám ǀ juṣasva ǀ girvaṇaḥ ǀ samudráḥ-iva ǀ pinvate ǀ
    índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ vavákṣitha ǁ

    imam ǀ juṣasva ǀ girvaṇaḥ ǀ samudraḥ-iva ǀ pinvate ǀ
    indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ vavakṣitha ǁ

    8.12.5 Aṣṭaka 6.1.1.5Anuvāka 8.2.149

  6. Ṛk 6

    यो नो॑ दे॒वः प॑रा॒वतः॑ सखित्व॒नाय॑ माम॒हे ।
    दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥

    यो नो देवः परावतः सखित्वनाय मामहे |
    दिवो न वृष्टिम् प्रथयन् ववक्षिथ ||

    yó no deváḥ parāvátaḥ sakhitvanā́ya māmahé ǀ
    divó ná vṛṣṭím pratháyanvavákṣitha ǁ

    yo no devaḥ parāvataḥ sakhitvanāya māmahe |
    divo na vṛṣṭim prathayan vavakṣitha ||

    यः । नः॒ । दे॒वः । प॒रा॒ऽवतः॑ । स॒खि॒ऽत्व॒नाय॑ । म॒म॒हे ।
    दि॒वः । न । वृ॒ष्टिम् । प्र॒थय॑न् । व॒वक्षि॑थ ॥

    यः । नः । देवः । पराऽवतः । सखिऽत्वनाय । ममहे ।
    दिवः । न । वृष्टिम् । प्रथयन् । ववक्षिथ ॥

    yáḥ ǀ naḥ ǀ deváḥ ǀ parā-vátaḥ ǀ sakhi-tvanā́ya ǀ mamahé ǀ
    diváḥ ǀ ná ǀ vṛṣṭím ǀ pratháyan ǀ vavákṣitha ǁ

    yaḥ ǀ naḥ ǀ devaḥ ǀ parā-vataḥ ǀ sakhi-tvanāya ǀ mamahe ǀ
    divaḥ ǀ na ǀ vṛṣṭim ǀ prathayan ǀ vavakṣitha ǁ

    8.12.6 Aṣṭaka 6.1.2.1Anuvāka 8.2.150

  7. Ṛk 7

    व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः ।
    यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥

    ववक्षुर् अस्य केतवो उत वज्रो गभस्त्योः |
    यत् सूर्यो न रोदसी अवर्धयत् ||

    vavakṣúrasya ketávo utá vájro gábhastyoḥ ǀ
    yátsū́ryo ná ródasī ávardhayat ǁ

    vavakṣur asya ketavo uta vajro gabhastyoḥ |
    yat sūryo na rodasī avardhayat ||

    व॒व॒क्षुः । अ॒स्य॒ । के॒तवः॑ । उ॒त । वज्रः॑ । गभ॑स्त्योः ।
    यत् । सूर्यः॑ । न । रोद॑सी॒ इति॑ । अव॑र्धयत् ॥

    ववक्षुः । अस्य । केतवः । उत । वज्रः । गभस्त्योः ।
    यत् । सूर्यः । न । रोदसी इति । अवर्धयत् ॥

    vavakṣúḥ ǀ asya ǀ ketávaḥ ǀ utá ǀ vájraḥ ǀ gábhastyoḥ ǀ
    yát ǀ sū́ryaḥ ǀ ná ǀ ródasī íti ǀ ávardhayat ǁ

    vavakṣuḥ ǀ asya ǀ ketavaḥ ǀ uta ǀ vajraḥ ǀ gabhastyoḥ ǀ
    yat ǀ sūryaḥ ǀ na ǀ rodasī iti ǀ avardhayat ǁ

    8.12.7 Aṣṭaka 6.1.2.2Anuvāka 8.2.151

  8. Ṛk 8

    यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघः॑ ।
    आदित्त॑ इंद्रि॒यं महि॒ प्र वा॑वृधे ॥

    यदि प्रवृद्ध सत्पते सहस्रम् महिषां अघः |
    आद् इत् त इन्द्रियम् महि प्र वावृधे ||

    yádi pravṛddha satpate sahásram mahiṣā́m̐ ághaḥ ǀ
    ā́dítta indriyám máhi prá vāvṛdhe ǁ

    yadi pravṛddha satpate sahasram mahiṣāṃ aghaḥ |
    ād it ta indriyam mahi pra vāvṛdhe ||

    यदि॑ । प्र॒ऽवृ॒द्ध॒ । स॒त्ऽप॒ते॒ । स॒हस्र॑म् । म॒हि॒षान् । अघः॑ ।
    आत् । इत् । ते॒ । इ॒न्द्रि॒यम् । महि॑ । प्र । व॒वृ॒धे॒ ॥

    यदि । प्रऽवृद्ध । सत्ऽपते । सहस्रम् । महिषान् । अघः ।
    आत् । इत् । ते । इन्द्रियम् । महि । प्र । ववृधे ॥

    yádi ǀ pra-vṛddha ǀ sat-pate ǀ sahásram ǀ mahiṣā́n ǀ ághaḥ ǀ
    ā́t ǀ ít ǀ te ǀ indriyám ǀ máhi ǀ prá ǀ vavṛdhe ǁ

    yadi ǀ pra-vṛddha ǀ sat-pate ǀ sahasram ǀ mahiṣān ǀ aghaḥ ǀ
    āt ǀ it ǀ te ǀ indriyam ǀ mahi ǀ pra ǀ vavṛdhe ǁ

    8.12.8 Aṣṭaka 6.1.2.3Anuvāka 8.2.152

  9. Ṛk 9

    इंद्रः॒ सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति ।
    अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥

    इन्द्रः सूर्यस्य रश्मिभिर् न्य् अर्शसानम् ओषति |
    अग्निर् वनेव सासहिः प्र वावृधे ||

    índraḥ sū́ryasya raśmíbhirnyárśasānámoṣati ǀ
    agnírváneva sāsahíḥ prá vāvṛdhe ǁ

    indraḥ sūryasya raśmibhir ny arśasānam oṣati |
    agnir vaneva sāsahiḥ pra vāvṛdhe ||

    इन्द्रः॑ । सूर्य॑स्य । र॒श्मिऽभिः॑ । नि । अ॒र्श॒सा॒नम् । ओ॒ष॒ति॒ ।
    अ॒ग्निः । वना॑ऽइव । स॒स॒हिः । प्र । व॒वृ॒धे॒ ॥

    इन्द्रः । सूर्यस्य । रश्मिऽभिः । नि । अर्शसानम् । ओषति ।
    अग्निः । वनाऽइव । ससहिः । प्र । ववृधे ॥

    índraḥ ǀ sū́ryasya ǀ raśmí-bhiḥ ǀ ní ǀ arśasānám ǀ oṣati ǀ
    agníḥ ǀ vánā-iva ǀ sasahíḥ ǀ prá ǀ vavṛdhe ǁ

    indraḥ ǀ sūryasya ǀ raśmi-bhiḥ ǀ ni ǀ arśasānam ǀ oṣati ǀ
    agniḥ ǀ vanā-iva ǀ sasahiḥ ǀ pra ǀ vavṛdhe ǁ

    8.12.9 Aṣṭaka 6.1.2.4Anuvāka 8.2.153

  10. Ṛk 10

    इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी ।
    स॒प॒र्यंती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥

    इयं त ऋत्वियावती धीतिर् एति नवीयसी |
    सपर्यन्ती पुरुप्रिया मिमीत इत् ||

    iyám ta ṛtvíyāvatī dhītíreti návīyasī ǀ
    saparyántī purupriyā́ mímīta ít ǁ

    iyaṃ ta ṛtviyāvatī dhītir eti navīyasī |
    saparyantī purupriyā mimīta it ||

    इ॒यम् । ते॒ । ऋ॒त्विय॑ऽवती । धी॒तिः । ए॒ति॒ । नवी॑यसी ।
    स॒प॒र्यन्ती॑ । पु॒रु॒ऽप्रि॒या । मिमी॑ते । इत् ॥

    इयम् । ते । ऋत्वियऽवती । धीतिः । एति । नवीयसी ।
    सपर्यन्ती । पुरुऽप्रिया । मिमीते । इत् ॥

    iyám ǀ te ǀ ṛtvíya-vatī ǀ dhītíḥ ǀ eti ǀ návīyasī ǀ
    saparyántī ǀ puru-priyā́ ǀ mímīte ǀ ít ǁ

    iyam ǀ te ǀ ṛtviya-vatī ǀ dhītiḥ ǀ eti ǀ navīyasī ǀ
    saparyantī ǀ puru-priyā ǀ mimīte ǀ it ǁ

    8.12.10 Aṣṭaka 6.1.2.5Anuvāka 8.2.154

  11. Ṛk 11

    गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् ।
    स्तोमै॒रिंद्र॑स्य वावृधे॒ मिमी॑त॒ इत् ॥

    गर्भो यज्ञस्य देवयुः क्रतुम् पुनीत आनुषक् |
    स्तोमैर् इन्द्रस्य वावृधे मिमीत इत् ||

    gárbho yajñásya devayúḥ krátum punīta ānuṣák ǀ
    stómairíndrasya vāvṛdhe mímīta ít ǁ

    garbho yajñasya devayuḥ kratum punīta ānuṣak |
    stomair indrasya vāvṛdhe mimīta it ||

    गर्भः॑ । य॒ज्ञस्य॑ । दे॒व॒ऽयुः । क्रतु॑म् । पु॒नी॒ते॒ । आ॒नु॒षक् ।
    स्तोमैः॑ । इन्द्र॑स्य । व॒वृ॒धे॒ । मिमी॑ते । इत् ॥

    गर्भः । यज्ञस्य । देवऽयुः । क्रतुम् । पुनीते । आनुषक् ।
    स्तोमैः । इन्द्रस्य । ववृधे । मिमीते । इत् ॥

    gárbhaḥ ǀ yajñásya ǀ deva-yúḥ ǀ krátum ǀ punīte ǀ ānuṣák ǀ
    stómaiḥ ǀ índrasya ǀ vavṛdhe ǀ mímīte ǀ ít ǁ

    garbhaḥ ǀ yajñasya ǀ deva-yuḥ ǀ kratum ǀ punīte ǀ ānuṣak ǀ
    stomaiḥ ǀ indrasya ǀ vavṛdhe ǀ mimīte ǀ it ǁ

    8.12.11 Aṣṭaka 6.1.3.1Anuvāka 8.2.155

  12. Ṛk 12

    स॒निर्मि॒त्रस्य॑ पप्रथ॒ इंद्रः॒ सोम॑स्य पी॒तये॑ ।
    प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥

    सनिर् मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये |
    प्राची वाशीव सुन्वते मिमीत इत् ||

    sanírmitrásya papratha índraḥ sómasya pītáye ǀ
    prā́cī vā́śīva sunvaté mímīta ít ǁ

    sanir mitrasya papratha indraḥ somasya pītaye |
    prācī vāśīva sunvate mimīta it ||

    स॒निः । मि॒त्रस्य॑ । प॒प्र॒थे॒ । इन्द्रः॑ । सोम॑स्य । पी॒तये॑ ।
    प्राची॑ । वाशी॑ऽइव । सु॒न्व॒ते । मिमी॑ते । इत् ॥

    सनिः । मित्रस्य । पप्रथे । इन्द्रः । सोमस्य । पीतये ।
    प्राची । वाशीऽइव । सुन्वते । मिमीते । इत् ॥

    saníḥ ǀ mitrásya ǀ paprathe ǀ índraḥ ǀ sómasya ǀ pītáye ǀ
    prā́cī ǀ vā́śī-iva ǀ sunvaté ǀ mímīte ǀ ít ǁ

    saniḥ ǀ mitrasya ǀ paprathe ǀ indraḥ ǀ somasya ǀ pītaye ǀ
    prācī ǀ vāśī-iva ǀ sunvate ǀ mimīte ǀ it ǁ

    8.12.12 Aṣṭaka 6.1.3.2Anuvāka 8.2.156

  13. Ṛk 13

    यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रमं॒दुरा॒यवः॑ ।
    घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥

    यं विप्रा उक्थवाहसो ऽभिप्रमन्दुर् आयवः |
    घृतं न पिप्य आसन्य् ऋतस्य यत् ||

    yám víprā ukthávāhaso’bhipramandúrāyávaḥ ǀ
    ghṛtám ná pipya āsányṛtásya yát ǁ

    yaṃ viprā ukthavāhaso 'bhipramandur āyavaḥ |
    ghṛtaṃ na pipya āsany ṛtasya yat ||

    यम् । विप्राः॑ । उ॒क्थऽवा॑हसः । अ॒भि॒ऽप्र॒म॒न्दुः । आ॒यवः॑ ।
    घृ॒तम् । न । पि॒प्ये॒ । आ॒सनि॑ । ऋ॒तस्य॑ । यत् ॥

    यम् । विप्राः । उक्थऽवाहसः । अभिऽप्रमन्दुः । आयवः ।
    घृतम् । न । पिप्ये । आसनि । ऋतस्य । यत् ॥

    yám ǀ víprāḥ ǀ ukthá-vāhasaḥ ǀ abhi-pramandúḥ ǀ āyávaḥ ǀ
    ghṛtám ǀ ná ǀ pipye ǀ āsáni ǀ ṛtásya ǀ yát ǁ

    yam ǀ viprāḥ ǀ uktha-vāhasaḥ ǀ abhi-pramanduḥ ǀ āyavaḥ ǀ
    ghṛtam ǀ na ǀ pipye ǀ āsani ǀ ṛtasya ǀ yat ǁ

    8.12.13 Aṣṭaka 6.1.3.3Anuvāka 8.2.157

  14. Ṛk 14

    उ॒त स्व॒राजे॒ अदि॑तिः॒ स्तोम॒मिंद्रा॑य जीजनत् ।
    पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥

    उत स्वराजे अदिति स्तोमम् इन्द्राय जीजनत् |
    पुरुप्रशस्तम् ऊतय ऋतस्य यत् ||

    utá svarā́je áditiḥ stómamíndrāya jījanat ǀ
    purupraśastámūtáya ṛtásya yát ǁ

    uta svarāje aditi stomam indrāya jījanat |
    purupraśastam ūtaya ṛtasya yat ||

    उ॒त । स्व॒ऽराजे॑ । अदि॑तिः । स्तोम॑म् । इन्द्रा॑य । जी॒ज॒न॒त् ।
    पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ । ऋ॒तस्य॑ । यत् ॥

    उत । स्वऽराजे । अदितिः । स्तोमम् । इन्द्राय । जीजनत् ।
    पुरुऽप्रशस्तम् । ऊतये । ऋतस्य । यत् ॥

    utá ǀ sva-rā́je ǀ áditiḥ ǀ stómam ǀ índrāya ǀ jījanat ǀ
    puru-praśastám ǀ ūtáye ǀ ṛtásya ǀ yát ǁ

    uta ǀ sva-rāje ǀ aditiḥ ǀ stomam ǀ indrāya ǀ jījanat ǀ
    puru-praśastam ǀ ūtaye ǀ ṛtasya ǀ yat ǁ

    8.12.14 Aṣṭaka 6.1.3.4Anuvāka 8.2.158

  15. Ṛk 15

    अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये ।
    न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥

    अभि वह्नय ऊतये ऽनूषत प्रशस्तये |
    न देव विव्रता हरी ऋतस्य यत् ||

    abhí váhnaya ūtáyé’nūṣata práśastaye ǀ
    ná deva vívratā hárī ṛtásya yát ǁ

    abhi vahnaya ūtaye 'nūṣata praśastaye |
    na deva vivratā harī ṛtasya yat ||

    अ॒भि । वह्न॑यः । ऊ॒तये॑ । अनू॑षत । प्रऽश॑स्तये ।
    न । दे॒व॒ । विऽव्र॑ता । हरी॒ इति॑ । ऋ॒तस्य॑ । यत् ॥

    अभि । वह्नयः । ऊतये । अनूषत । प्रऽशस्तये ।
    न । देव । विऽव्रता । हरी इति । ऋतस्य । यत् ॥

    abhí ǀ váhnayaḥ ǀ ūtáye ǀ ánūṣata ǀ prá-śastaye ǀ
    ná ǀ deva ǀ ví-vratā ǀ hárī íti ǀ ṛtásya ǀ yát ǁ

    abhi ǀ vahnayaḥ ǀ ūtaye ǀ anūṣata ǀ pra-śastaye ǀ
    na ǀ deva ǀ vi-vratā ǀ harī iti ǀ ṛtasya ǀ yat ǁ

    8.12.15 Aṣṭaka 6.1.3.5Anuvāka 8.2.159

  16. Ṛk 16

    यत्सोम॑मिंद्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये ।
    यद्वा॑ म॒रुत्सु॒ मंद॑से॒ समिंदु॑भिः ॥

    यत् सोमम् इन्द्र विष्णवि यद् वा घ त्रित आप्त्ये |
    यद् वा मरुत्सु मन्दसे सम् इन्दुभिः ||

    yátsómamindra víṣṇavi yádvā gha tritá āptyé ǀ
    yádvā marútsu mándase sámíndubhiḥ ǁ

    yat somam indra viṣṇavi yad vā gha trita āptye |
    yad vā marutsu mandase sam indubhiḥ ||

    यत् । सोम॑म् । इ॒न्द्र॒ । विष्ण॑वि । यत् । वा॒ । घ॒ । त्रि॒ते । आ॒प्त्ये ।
    यत् । वा॒ । म॒रुत्ऽसु॑ । मन्द॑से । सम् । इन्दु॑ऽभिः ॥

    यत् । सोमम् । इन्द्र । विष्णवि । यत् । वा । घ । त्रिते । आप्त्ये ।
    यत् । वा । मरुत्ऽसु । मन्दसे । सम् । इन्दुऽभिः ॥

    yát ǀ sómam ǀ indra ǀ víṣṇavi ǀ yát ǀ vā ǀ gha ǀ trité ǀ āptyé ǀ
    yát ǀ vā ǀ marút-su ǀ mándase ǀ sám ǀ índu-bhiḥ ǁ

    yat ǀ somam ǀ indra ǀ viṣṇavi ǀ yat ǀ vā ǀ gha ǀ trite ǀ āptye ǀ
    yat ǀ vā ǀ marut-su ǀ mandase ǀ sam ǀ indu-bhiḥ ǁ

    8.12.16 Aṣṭaka 6.1.4.1Anuvāka 8.2.160

  17. Ṛk 17

    यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मंद॑से ।
    अ॒स्माक॒मित्सु॒ते र॑णा॒ समिंदु॑भिः ॥

    यद् वा शक्र परावति समुद्रे अधि मन्दसे |
    अस्माकम् इत् सुते रणा सम् इन्दुभिः ||

    yádvā śakra parāváti samudré ádhi mándase ǀ
    asmā́kamítsuté raṇā sámíndubhiḥ ǁ

    yad vā śakra parāvati samudre adhi mandase |
    asmākam it sute raṇā sam indubhiḥ ||

    यत् । वा॒ । श॒क्र॒ । प॒रा॒ऽवति॑ । स॒मु॒द्रे । अधि॑ । मन्द॑से ।
    अ॒स्माक॑म् । इत् । सु॒ते । र॒ण॒ । सम् । इन्दु॑ऽभिः ॥

    यत् । वा । शक्र । पराऽवति । समुद्रे । अधि । मन्दसे ।
    अस्माकम् । इत् । सुते । रण । सम् । इन्दुऽभिः ॥

    yát ǀ vā ǀ śakra ǀ parā-váti ǀ samudré ǀ ádhi ǀ mándase ǀ
    asmā́kam ǀ ít ǀ suté ǀ raṇa ǀ sám ǀ índu-bhiḥ ǁ

    yat ǀ vā ǀ śakra ǀ parā-vati ǀ samudre ǀ adhi ǀ mandase ǀ
    asmākam ǀ it ǀ sute ǀ raṇa ǀ sam ǀ indu-bhiḥ ǁ

    8.12.17 Aṣṭaka 6.1.4.2Anuvāka 8.2.161

  18. Ṛk 18

    यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते ।
    उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिंदु॑भिः ॥

    यद् वासि सुन्वतो वृधो यजमानस्य सत्पते |
    उक्थे वा यस्य रण्यसि सम् इन्दुभिः ||

    yádvā́si sunvató vṛdhó yájamānasya satpate ǀ
    ukthé vā yásya ráṇyasi sámíndubhiḥ ǁ

    yad vāsi sunvato vṛdho yajamānasya satpate |
    ukthe vā yasya raṇyasi sam indubhiḥ ||

    यत् । वा॒ । असि॑ । सु॒न्व॒तः । वृ॒धः । यज॑मानस्य । स॒त्ऽप॒ते॒ ।
    उ॒क्थे । वा॒ । यस्य॑ । रण्य॑सि । सम् । इन्दु॑ऽभिः ॥

    यत् । वा । असि । सुन्वतः । वृधः । यजमानस्य । सत्ऽपते ।
    उक्थे । वा । यस्य । रण्यसि । सम् । इन्दुऽभिः ॥

    yát ǀ vā ǀ ási ǀ sunvatáḥ ǀ vṛdháḥ ǀ yájamānasya ǀ sat-pate ǀ
    ukthé ǀ vā ǀ yásya ǀ ráṇyasi ǀ sám ǀ índu-bhiḥ ǁ

    yat ǀ vā ǀ asi ǀ sunvataḥ ǀ vṛdhaḥ ǀ yajamānasya ǀ sat-pate ǀ
    ukthe ǀ vā ǀ yasya ǀ raṇyasi ǀ sam ǀ indu-bhiḥ ǁ

    8.12.18 Aṣṭaka 6.1.4.3Anuvāka 8.2.162

  19. Ṛk 19

    दे॒वंदे॑वं॒ वोऽव॑स॒ इंद्र॑मिंद्रं गृणी॒षणि॑ ।
    अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥

    देवं-देवं वो ऽवस इन्द्रम्-इन्द्रं गृणीषणि |
    अधा यज्ञाय तुर्वणे व्य् आनशुः ||

    deváṃdevam vó’vasa índramindram gṛṇīṣáṇi ǀ
    ádhā yajñā́ya turváṇe vyā́naśuḥ ǁ

    devaṃ-devaṃ vo 'vasa indram-indraṃ gṛṇīṣaṇi |
    adhā yajñāya turvaṇe vy ānaśuḥ ||

    दे॒वम्ऽदे॑वम् । वः॒ । अव॑से । इन्द्र॑म्ऽइन्द्रम् । गृ॒णी॒षणि॑ ।
    अध॑ । य॒ज्ञाय॑ । तु॒र्वणे॑ । वि । आ॒न॒शुः॒ ॥

    देवम्ऽदेवम् । वः । अवसे । इन्द्रम्ऽइन्द्रम् । गृणीषणि ।
    अध । यज्ञाय । तुर्वणे । वि । आनशुः ॥

    devám-devam ǀ vaḥ ǀ ávase ǀ índram-indram ǀ gṛṇīṣáṇi ǀ
    ádha ǀ yajñā́ya ǀ turváṇe ǀ ví ǀ ānaśuḥ ǁ

    devam-devam ǀ vaḥ ǀ avase ǀ indram-indram ǀ gṛṇīṣaṇi ǀ
    adha ǀ yajñāya ǀ turvaṇe ǀ vi ǀ ānaśuḥ ǁ

    8.12.19 Aṣṭaka 6.1.4.4Anuvāka 8.2.163

  20. Ṛk 20

    य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मं ।
    होत्रा॑भि॒रिंद्रं॑ वावृधु॒र्व्या॑नशुः ॥

    यज्ञेभिर् यज्ञवाहसं सोमेभिः सोमपातमम् |
    होत्राभिर् इन्द्रं वावृधुर् व्य् आनशुः ||

    yajñébhiryajñávāhasam sómebhiḥ somapā́tamam ǀ
    hótrābhiríndram vāvṛdhurvyā́naśuḥ ǁ

    yajñebhir yajñavāhasaṃ somebhiḥ somapātamam |
    hotrābhir indraṃ vāvṛdhur vy ānaśuḥ ||

    य॒ज्ञेभिः॑ । य॒ज्ञऽवा॑हसम् । सोमे॑भिः । सो॒म॒ऽपात॑मम् ।
    होत्रा॑भिः । इन्द्र॑म् । व॒वृ॒धुः॒ । वि । आ॒न॒शुः॒ ॥

    यज्ञेभिः । यज्ञऽवाहसम् । सोमेभिः । सोमऽपातमम् ।
    होत्राभिः । इन्द्रम् । ववृधुः । वि । आनशुः ॥

    yajñébhiḥ ǀ yajñá-vāhasam ǀ sómebhiḥ ǀ soma-pā́tamam ǀ
    hótrābhiḥ ǀ índram ǀ vavṛdhuḥ ǀ ví ǀ ānaśuḥ ǁ

    yajñebhiḥ ǀ yajña-vāhasam ǀ somebhiḥ ǀ soma-pātamam ǀ
    hotrābhiḥ ǀ indram ǀ vavṛdhuḥ ǀ vi ǀ ānaśuḥ ǁ

    8.12.20 Aṣṭaka 6.1.4.5Anuvāka 8.2.164

  21. Ṛk 21

    म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।
    विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥

    महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः |
    विश्वा वसूनि दाशुषे व्य् आनशुः ||

    mahī́rasya práṇītayaḥ pūrvī́rutá práśastayaḥ ǀ
    víśvā vásūni dāśúṣe vyā́naśuḥ ǁ

    mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ |
    viśvā vasūni dāśuṣe vy ānaśuḥ ||

    म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः ।
    विश्वा॑ । वसू॑नि । दा॒शुषे॑ । वि । आ॒न॒शुः॒ ॥

    महीः । अस्य । प्रऽनीतयः । पूर्वीः । उत । प्रऽशस्तयः ।
    विश्वा । वसूनि । दाशुषे । वि । आनशुः ॥

    mahī́ḥ ǀ asya ǀ prá-nītayaḥ ǀ pūrvī́ḥ ǀ utá ǀ prá-śastayaḥ ǀ
    víśvā ǀ vásūni ǀ dāśúṣe ǀ ví ǀ ānaśuḥ ǁ

    mahīḥ ǀ asya ǀ pra-nītayaḥ ǀ pūrvīḥ ǀ uta ǀ pra-śastayaḥ ǀ
    viśvā ǀ vasūni ǀ dāśuṣe ǀ vi ǀ ānaśuḥ ǁ

    8.12.21 Aṣṭaka 6.1.5.1Anuvāka 8.2.165

  22. Ṛk 22

    इंद्रं॑ वृ॒त्राय॒ हंत॑वे दे॒वासो॑ दधिरे पु॒रः ।
    इंद्रं॒ वाणी॑रनूषता॒ समोज॑से ॥

    इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः |
    इन्द्रं वाणीर् अनूषता सम् ओजसे ||

    índram vṛtrā́ya hántave devā́so dadhire puráḥ ǀ
    índram vā́ṇīranūṣatā sámójase ǁ

    indraṃ vṛtrāya hantave devāso dadhire puraḥ |
    indraṃ vāṇīr anūṣatā sam ojase ||

    इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । दे॒वासः॑ । द॒धि॒रे॒ । पु॒रः ।
    इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ । सम् । ओज॑से ॥

    इन्द्रम् । वृत्राय । हन्तवे । देवासः । दधिरे । पुरः ।
    इन्द्रम् । वाणीः । अनूषत । सम् । ओजसे ॥

    índram ǀ vṛtrā́ya ǀ hántave ǀ devā́saḥ ǀ dadhire ǀ puráḥ ǀ
    índram ǀ vā́ṇīḥ ǀ anūṣata ǀ sám ǀ ójase ǁ

    indram ǀ vṛtrāya ǀ hantave ǀ devāsaḥ ǀ dadhire ǀ puraḥ ǀ
    indram ǀ vāṇīḥ ǀ anūṣata ǀ sam ǀ ojase ǁ

    8.12.22 Aṣṭaka 6.1.5.2Anuvāka 8.2.166

  23. Ṛk 23

    म॒हांतं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुतं॑ ।
    अ॒र्कैर॒भि प्र णो॑नुमः॒ समोज॑से ॥

    महान्तम् महिना वयं स्तोमेभिर् हवनश्रुतम् |
    अर्कैर् अभि प्र णोनुमः सम् ओजसे ||

    mahā́ntam mahinā́ vayám stómebhirhavanaśrútam ǀ
    arkáirabhí prá ṇonumaḥ sámójase ǁ

    mahāntam mahinā vayaṃ stomebhir havanaśrutam |
    arkair abhi pra ṇonumaḥ sam ojase ||

    म॒हान्त॑म् । म॒हि॒ना । व॒यम् । स्तोमे॑भिः । ह॒व॒न॒ऽश्रुत॑म् ।
    अ॒र्कैः । अ॒भि । प्र । नो॒नु॒मः॒ । सम् । ओज॑से ॥

    महान्तम् । महिना । वयम् । स्तोमेभिः । हवनऽश्रुतम् ।
    अर्कैः । अभि । प्र । नोनुमः । सम् । ओजसे ॥

    mahā́ntam ǀ mahinā́ ǀ vayám ǀ stómebhiḥ ǀ havana-śrútam ǀ
    arkáiḥ ǀ abhí ǀ prá ǀ nonumaḥ ǀ sám ǀ ójase ǁ

    mahāntam ǀ mahinā ǀ vayam ǀ stomebhiḥ ǀ havana-śrutam ǀ
    arkaiḥ ǀ abhi ǀ pra ǀ nonumaḥ ǀ sam ǀ ojase ǁ

    8.12.23 Aṣṭaka 6.1.5.3Anuvāka 8.2.167

  24. Ṛk 24

    न यं वि॑वि॒क्तो रोद॑सी॒ नांतरि॑क्षाणि व॒ज्रिणं॑ ।
    अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥

    न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् |
    अमाद् इद् अस्य तित्विषे सम् ओजसः ||

    ná yám viviktó ródasī nā́ntárikṣāṇi vajríṇam ǀ
    ámādídasya titviṣe sámójasaḥ ǁ

    na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam |
    amād id asya titviṣe sam ojasaḥ ||

    न । यम् । वि॒वि॒क्तः । रोद॑सी॒ इति॑ । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् ।
    अमा॑त् । इत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । सम् । ओज॑सः ॥

    न । यम् । विविक्तः । रोदसी इति । न । अन्तरिक्षाणि । वज्रिणम् ।
    अमात् । इत् । अस्य । तित्विषे । सम् । ओजसः ॥

    ná ǀ yám ǀ viviktáḥ ǀ ródasī íti ǀ ná ǀ antárikṣāṇi ǀ vajríṇam ǀ
    ámāt ǀ ít ǀ asya ǀ titviṣe ǀ sám ǀ ójasaḥ ǁ

    na ǀ yam ǀ viviktaḥ ǀ rodasī iti ǀ na ǀ antarikṣāṇi ǀ vajriṇam ǀ
    amāt ǀ it ǀ asya ǀ titviṣe ǀ sam ǀ ojasaḥ ǁ

    8.12.24 Aṣṭaka 6.1.5.4Anuvāka 8.2.168

  25. Ṛk 25

    यदिं॑द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः ।
    आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥

    यद् इन्द्र पृतनाज्ये देवास् त्वा दधिरे पुरः |
    आद् इत् ते हर्यता हरी ववक्षतुः ||

    yádindra pṛtanā́jye devā́stvā dadhiré puráḥ ǀ
    ā́dítte haryatā́ hárī vavakṣatuḥ ǁ

    yad indra pṛtanājye devās tvā dadhire puraḥ |
    ād it te haryatā harī vavakṣatuḥ ||

    यत् । इ॒न्द्र॒ । पृ॒त॒नाज्ये॑ । दे॒वाः । त्वा॒ । द॒धि॒रे । पु॒रः ।
    आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥

    यत् । इन्द्र । पृतनाज्ये । देवाः । त्वा । दधिरे । पुरः ।
    आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥

    yát ǀ indra ǀ pṛtanā́jye ǀ devā́ḥ ǀ tvā ǀ dadhiré ǀ puráḥ ǀ
    ā́t ǀ ít ǀ te ǀ haryatā́ ǀ hárī íti ǀ vavakṣatuḥ ǁ

    yat ǀ indra ǀ pṛtanājye ǀ devāḥ ǀ tvā ǀ dadhire ǀ puraḥ ǀ
    āt ǀ it ǀ te ǀ haryatā ǀ harī iti ǀ vavakṣatuḥ ǁ

    8.12.25 Aṣṭaka 6.1.5.5Anuvāka 8.2.169

  26. Ṛk 26

    य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः ।
    आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥

    यदा वृत्रं नदीवृतं शवसा वज्रिन्न् अवधीः |
    आद् इत् ते हर्यता हरी ववक्षतुः ||

    yadā́ vṛtrám nadīvṛ́tam śávasā vajrinnávadhīḥ ǀ
    ā́dítte haryatā́ hárī vavakṣatuḥ ǁ

    yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinn avadhīḥ |
    ād it te haryatā harī vavakṣatuḥ ||

    य॒दा । वृ॒त्रम् । न॒दी॒ऽवृत॑म् । शव॑सा । व॒ज्रि॒न् । अव॑धीः ।
    आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥

    यदा । वृत्रम् । नदीऽवृतम् । शवसा । वज्रिन् । अवधीः ।
    आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥

    yadā́ ǀ vṛtrám ǀ nadī-vṛ́tam ǀ śávasā ǀ vajrin ǀ ávadhīḥ ǀ
    ā́t ǀ ít ǀ te ǀ haryatā́ ǀ hárī íti ǀ vavakṣatuḥ ǁ

    yadā ǀ vṛtram ǀ nadī-vṛtam ǀ śavasā ǀ vajrin ǀ avadhīḥ ǀ
    āt ǀ it ǀ te ǀ haryatā ǀ harī iti ǀ vavakṣatuḥ ǁ

    8.12.26 Aṣṭaka 6.1.6.1Anuvāka 8.2.170

  27. Ṛk 27

    य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे ।
    आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥

    यदा ते विष्णुर् ओजसा त्रीणि पदा विचक्रमे |
    आद् इत् ते हर्यता हरी ववक्षतुः ||

    yadā́ te víṣṇurójasā trī́ṇi padā́ vicakramé ǀ
    ā́dítte haryatā́ hárī vavakṣatuḥ ǁ

    yadā te viṣṇur ojasā trīṇi padā vicakrame |
    ād it te haryatā harī vavakṣatuḥ ||

    य॒दा । ते॒ । विष्णुः॑ । ओज॑सा । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे ।
    आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥

    यदा । ते । विष्णुः । ओजसा । त्रीणि । पदा । विऽचक्रमे ।
    आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥

    yadā́ ǀ te ǀ víṣṇuḥ ǀ ójasā ǀ trī́ṇi ǀ padā́ ǀ vi-cakramé ǀ
    ā́t ǀ ít ǀ te ǀ haryatā́ ǀ hárī íti ǀ vavakṣatuḥ ǁ

    yadā ǀ te ǀ viṣṇuḥ ǀ ojasā ǀ trīṇi ǀ padā ǀ vi-cakrame ǀ
    āt ǀ it ǀ te ǀ haryatā ǀ harī iti ǀ vavakṣatuḥ ǁ

    8.12.27 Aṣṭaka 6.1.6.2Anuvāka 8.2.171

  28. Ṛk 28

    य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे ।
    आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥

    यदा ते हर्यता हरी वावृधाते दिवे-दिवे |
    आद् इत् ते विश्वा भुवनानि येमिरे ||

    yadā́ te haryatā́ hárī vāvṛdhā́te divédive ǀ
    ā́dítte víśvā bhúvanāni yemire ǁ

    yadā te haryatā harī vāvṛdhāte dive-dive |
    ād it te viśvā bhuvanāni yemire ||

    य॒दा । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒वृ॒धाते॒ इति॑ । दि॒वेऽदि॑वे ।
    आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥

    यदा । ते । हर्यता । हरी इति । ववृधाते इति । दिवेऽदिवे ।
    आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥

    yadā́ ǀ te ǀ haryatā́ ǀ hárī íti ǀ vavṛdhā́te íti ǀ divé-dive ǀ
    ā́t ǀ ít ǀ te ǀ víśvā ǀ bhúvanāni ǀ yemire ǁ

    yadā ǀ te ǀ haryatā ǀ harī iti ǀ vavṛdhāte iti ǀ dive-dive ǀ
    āt ǀ it ǀ te ǀ viśvā ǀ bhuvanāni ǀ yemire ǁ

    8.12.28 Aṣṭaka 6.1.6.3Anuvāka 8.2.172

  29. Ṛk 29

    य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिंद्र नियेमि॒रे ।
    आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥

    यदा ते मारुतीर् विशस् तुभ्यम् इन्द्र नियेमिरे |
    आद् इत् ते विश्वा भुवनानि येमिरे ||

    yadā́ te mā́rutīrvíśastúbhyamindra niyemiré ǀ
    ā́dítte víśvā bhúvanāni yemire ǁ

    yadā te mārutīr viśas tubhyam indra niyemire |
    ād it te viśvā bhuvanāni yemire ||

    य॒दा । ते॒ । मारु॑तीः । विशः॑ । तुभ्य॑म् । इ॒न्द्र॒ । नि॒ऽये॒मि॒रे ।
    आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥

    यदा । ते । मारुतीः । विशः । तुभ्यम् । इन्द्र । निऽयेमिरे ।
    आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥

    yadā́ ǀ te ǀ mā́rutīḥ ǀ víśaḥ ǀ túbhyam ǀ indra ǀ ni-yemiré ǀ
    ā́t ǀ ít ǀ te ǀ víśvā ǀ bhúvanāni ǀ yemire ǁ

    yadā ǀ te ǀ mārutīḥ ǀ viśaḥ ǀ tubhyam ǀ indra ǀ ni-yemire ǀ
    āt ǀ it ǀ te ǀ viśvā ǀ bhuvanāni ǀ yemire ǁ

    8.12.29 Aṣṭaka 6.1.6.4Anuvāka 8.2.173

  30. Ṛk 30

    य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः ।
    आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥

    यदा सूर्यम् अमुं दिवि शुक्रं ज्योतिर् अधारयः |
    आद् इत् ते विश्वा भुवनानि येमिरे ||

    yadā́ sū́ryamamúm diví śukrám jyótirádhārayaḥ ǀ
    ā́dítte víśvā bhúvanāni yemire ǁ

    yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ |
    ād it te viśvā bhuvanāni yemire ||

    य॒दा । सूर्य॑म् । अ॒मुम् । दि॒वि । शु॒क्रम् । ज्योतिः॑ । अधा॑रयः ।
    आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥

    यदा । सूर्यम् । अमुम् । दिवि । शुक्रम् । ज्योतिः । अधारयः ।
    आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥

    yadā́ ǀ sū́ryam ǀ amúm ǀ diví ǀ śukrám ǀ jyótiḥ ǀ ádhārayaḥ ǀ
    ā́t ǀ ít ǀ te ǀ víśvā ǀ bhúvanāni ǀ yemire ǁ

    yadā ǀ sūryam ǀ amum ǀ divi ǀ śukram ǀ jyotiḥ ǀ adhārayaḥ ǀ
    āt ǀ it ǀ te ǀ viśvā ǀ bhuvanāni ǀ yemire ǁ

    8.12.30 Aṣṭaka 6.1.6.5Anuvāka 8.2.174

  31. Ṛk 31

    इ॒मां त॑ इंद्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभिः॑ ।
    जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ॥

    इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः |
    जामिम् पदेव पिप्रतीम् प्राध्वरे ||

    imā́m ta indra suṣṭutím vípra iyarti dhītíbhiḥ ǀ
    jāmím padéva pípratīm prā́dhvaré ǁ

    imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ |
    jāmim padeva pipratīm prādhvare ||

    इ॒माम् । ते॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒तिम् । विप्रः॑ । इ॒य॒र्ति॒ । धी॒तिऽभिः॑ ।
    जा॒मिम् । प॒दाऽइ॑व । पिप्र॑तीम् । प्र । अ॒ध्व॒रे ॥

    इमाम् । ते । इन्द्र । सुऽस्तुतिम् । विप्रः । इयर्ति । धीतिऽभिः ।
    जामिम् । पदाऽइव । पिप्रतीम् । प्र । अध्वरे ॥

    imā́m ǀ te ǀ indra ǀ su-stutím ǀ vípraḥ ǀ iyarti ǀ dhītí-bhiḥ ǀ
    jāmím ǀ padā́-iva ǀ pípratīm ǀ prá ǀ adhvaré ǁ

    imām ǀ te ǀ indra ǀ su-stutim ǀ vipraḥ ǀ iyarti ǀ dhīti-bhiḥ ǀ
    jāmim ǀ padā-iva ǀ pipratīm ǀ pra ǀ adhvare ǁ

    8.12.31 Aṣṭaka 6.1.6.6Anuvāka 8.2.175

  32. Ṛk 32

    यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् ।
    नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥

    यद् अस्य धामनि प्रिये समीचीनासो अस्वरन् |
    नाभा यज्ञस्य दोहना प्राध्वरे ||

    yádasya dhā́mani priyé samīcīnā́so ásvaran ǀ
    nā́bhā yajñásya dohánā prā́dhvaré ǁ

    yad asya dhāmani priye samīcīnāso asvaran |
    nābhā yajñasya dohanā prādhvare ||

    यत् । अ॒स्य॒ । धाम॑नि । प्रि॒ये । स॒म्ऽई॒ची॒नासः॑ । अस्व॑रन् ।
    नाभा॑ । य॒ज्ञस्य॑ । दो॒हना॑ । प्र । अ॒ध्व॒रे ॥

    यत् । अस्य । धामनि । प्रिये । सम्ऽईचीनासः । अस्वरन् ।
    नाभा । यज्ञस्य । दोहना । प्र । अध्वरे ॥

    yát ǀ asya ǀ dhā́mani ǀ priyé ǀ sam-īcīnā́saḥ ǀ ásvaran ǀ
    nā́bhā ǀ yajñásya ǀ dohánā ǀ prá ǀ adhvaré ǁ

    yat ǀ asya ǀ dhāmani ǀ priye ǀ sam-īcīnāsaḥ ǀ asvaran ǀ
    nābhā ǀ yajñasya ǀ dohanā ǀ pra ǀ adhvare ǁ

    8.12.32 Aṣṭaka 6.1.6.7Anuvāka 8.2.176

  33. Ṛk 33

    सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिंद्र दद्धि नः ।
    होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ॥

    सुवीर्यं स्वश्व्यं सुगव्यम् इन्द्र दद्धि नः |
    होतेव पूर्वचित्तये प्राध्वरे ||

    suvī́ryam sváśvyam sugávyamindra daddhi naḥ ǀ
    hóteva pūrvácittaye prā́dhvaré ǁ

    suvīryaṃ svaśvyaṃ sugavyam indra daddhi naḥ |
    hoteva pūrvacittaye prādhvare ||

    सु॒ऽवीर्य॑म् । सु॒ऽअश्व्य॑म् । सु॒ऽगव्य॑म् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ ।
    होता॑ऽइव । पू॒र्वऽचि॑त्तये । प्र । अ॒ध्व॒रे ॥

    सुऽवीर्यम् । सुऽअश्व्यम् । सुऽगव्यम् । इन्द्र । दद्धि । नः ।
    होताऽइव । पूर्वऽचित्तये । प्र । अध्वरे ॥

    su-vī́ryam ǀ su-áśvyam ǀ su-gávyam ǀ indra ǀ daddhi ǀ naḥ ǀ
    hótā-iva ǀ pūrvá-cittaye ǀ prá ǀ adhvaré ǁ

    su-vīryam ǀ su-aśvyam ǀ su-gavyam ǀ indra ǀ daddhi ǀ naḥ ǀ
    hotā-iva ǀ pūrva-cittaye ǀ pra ǀ adhvare ǁ

    8.12.33 Aṣṭaka 6.1.6.8Anuvāka 8.2.177

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.12 · Indra

Interpretations

Sri Aurobindo

Ṛk 2

That rapture of the Soma we desire by which thou, O Indra, didst make to thrive the Might of Swar (or the Swar-soul, svarKaram), that rapture ten-rayed and making a light of knowledge or shaking the whole being with its force (daQagvaW vepayantam) by which thou didst foster the ocean; that Soma-intoxication by which thou didst drive forward the great waters (the seven rivers) like chariots to their sea, — that we desire that we may travel on the path of the truth, (panthDm rtasya yDtave tam nmahe). (SABCL, Vol. 10, p. 176)

Ṛk 3

That rapture of the Soma we desire by which thou, O Indra, didst make to thrive the Might of Swar (or the Swar-soul, svarKaram), that rapture ten-rayed and making a light of knowledge or shaking the whole being with its force (daQagvaW vepayantam) by which thou didst foster the ocean; that Soma-intoxication by which thou didst drive forward the great waters (the seven rivers) like chariots to their sea, - that we desire that we may travel on the path of the truth, (panthDm rtasya yDtave tam nmahe).