Ṛk 8.12.26
Saṃhitā
य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः ।
आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
यदा वृत्रं नदीवृतं शवसा वज्रिन्न् अवधीः |
आद् इत् ते हर्यता हरी ववक्षतुः ||
yadā́ vṛtrám nadīvṛ́tam śávasā vajrinnávadhīḥ ǀ
ā́dítte haryatā́ hárī vavakṣatuḥ ǁ
yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinn avadhīḥ |
ād it te haryatā harī vavakṣatuḥ ||
Padapāṭha
य॒दा । वृ॒त्रम् । न॒दी॒ऽवृत॑म् । शव॑सा । व॒ज्रि॒न् । अव॑धीः ।
आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥
यदा । वृत्रम् । नदीऽवृतम् । शवसा । वज्रिन् । अवधीः ।
आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥
yadā́ ǀ vṛtrám ǀ nadī-vṛ́tam ǀ śávasā ǀ vajrin ǀ ávadhīḥ ǀ
ā́t ǀ ít ǀ te ǀ haryatā́ ǀ hárī íti ǀ vavakṣatuḥ ǁ
yadā ǀ vṛtram ǀ nadī-vṛtam ǀ śavasā ǀ vajrin ǀ avadhīḥ ǀ
āt ǀ it ǀ te ǀ haryatā ǀ harī iti ǀ vavakṣatuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.012.26
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.06.01
- Maṇḍala · Anuvāka · Ṛk
- 08.02.170
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parvata Kāṇva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.