Ṛk 8.12.30
Saṃhitā
य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः ।
आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
यदा सूर्यम् अमुं दिवि शुक्रं ज्योतिर् अधारयः |
आद् इत् ते विश्वा भुवनानि येमिरे ||
yadā́ sū́ryamamúm diví śukrám jyótirádhārayaḥ ǀ
ā́dítte víśvā bhúvanāni yemire ǁ
yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ |
ād it te viśvā bhuvanāni yemire ||
Padapāṭha
य॒दा । सूर्य॑म् । अ॒मुम् । दि॒वि । शु॒क्रम् । ज्योतिः॑ । अधा॑रयः ।
आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥
यदा । सूर्यम् । अमुम् । दिवि । शुक्रम् । ज्योतिः । अधारयः ।
आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥
yadā́ ǀ sū́ryam ǀ amúm ǀ diví ǀ śukrám ǀ jyótiḥ ǀ ádhārayaḥ ǀ
ā́t ǀ ít ǀ te ǀ víśvā ǀ bhúvanāni ǀ yemire ǁ
yadā ǀ sūryam ǀ amum ǀ divi ǀ śukram ǀ jyotiḥ ǀ adhārayaḥ ǀ
āt ǀ it ǀ te ǀ viśvā ǀ bhuvanāni ǀ yemire ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.012.30
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.06.05
- Maṇḍala · Anuvāka · Ṛk
- 08.02.174
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parvata Kāṇva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.