Ṛk 8.12.13
Saṃhitā
यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रमं॒दुरा॒यवः॑ ।
घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥
यं विप्रा उक्थवाहसो ऽभिप्रमन्दुर् आयवः |
घृतं न पिप्य आसन्य् ऋतस्य यत् ||
yám víprā ukthávāhaso’bhipramandúrāyávaḥ ǀ
ghṛtám ná pipya āsányṛtásya yát ǁ
yaṃ viprā ukthavāhaso 'bhipramandur āyavaḥ |
ghṛtaṃ na pipya āsany ṛtasya yat ||
Padapāṭha
यम् । विप्राः॑ । उ॒क्थऽवा॑हसः । अ॒भि॒ऽप्र॒म॒न्दुः । आ॒यवः॑ ।
घृ॒तम् । न । पि॒प्ये॒ । आ॒सनि॑ । ऋ॒तस्य॑ । यत् ॥
यम् । विप्राः । उक्थऽवाहसः । अभिऽप्रमन्दुः । आयवः ।
घृतम् । न । पिप्ये । आसनि । ऋतस्य । यत् ॥
yám ǀ víprāḥ ǀ ukthá-vāhasaḥ ǀ abhi-pramandúḥ ǀ āyávaḥ ǀ
ghṛtám ǀ ná ǀ pipye ǀ āsáni ǀ ṛtásya ǀ yát ǁ
yam ǀ viprāḥ ǀ uktha-vāhasaḥ ǀ abhi-pramanduḥ ǀ āyavaḥ ǀ
ghṛtam ǀ na ǀ pipye ǀ āsani ǀ ṛtasya ǀ yat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.012.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.03.03
- Maṇḍala · Anuvāka · Ṛk
- 08.02.157
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parvata Kāṇva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.