Sūkta 63
- Devatā देवता
- 1-11: Indra; 12: Indra, Devās
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Triṣṭubh
Metres by ṛk
1st set of styles virāḍanuṣṭup (1, 4, 7); virāḍgāyatrī (2, 3, 6); nicṛdgāyatrī (8, 9, 11); nicṛdanuṣṭup (5); gāyatrī (10); triṣṭup (12)
2nd set of styles gāyatrī (2, 3, 6, 8-11); anuṣṭubh (1, 4, 5, 7); triṣṭubh (12)
-
Ṛk 1
स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे ।
यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥स पूर्व्यो महानां वेनः क्रतुभिर् आनजे |
यस्य द्वारा मनुष् पिता देवेषु धिय आनजे ||sá pūrvyó mahā́nām venáḥ krátubhirānaje ǀ
yásya dvā́rā mánuṣpitā́ devéṣu dhíya ānajé ǁsa pūrvyo mahānāṃ venaḥ kratubhir ānaje |
yasya dvārā manuṣ pitā deveṣu dhiya ānaje ||सः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ ।
यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥सः । पूर्व्यः । महानाम् । वेनः । क्रतुऽभिः । आनजे ।
यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥sáḥ ǀ pūrvyáḥ ǀ mahā́nām ǀ venáḥ ǀ krátu-bhiḥ ǀ ānaje ǀ
yásya ǀ dvā́rā ǀ mánuḥ ǀ pitā́ ǀ devéṣu ǀ dhíyaḥ ǀ ānajé ǁsaḥ ǀ pūrvyaḥ ǀ mahānām ǀ venaḥ ǀ kratu-bhiḥ ǀ ānaje ǀ
yasya ǀ dvārā ǀ manuḥ ǀ pitā ǀ deveṣu ǀ dhiyaḥ ǀ ānaje ǁ8.63.1 Aṣṭaka 6.4.42.1Anuvāka 8.7.51
-
Ṛk 2
दि॒वो मानं॒ नोत्स॑द॒न्त्सोम॑पृष्ठासो॒ अद्र॑यः ।
उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥दिवो मानं नोत् सदन् सोमपृष्ठासो अद्रयः |
उक्था ब्रह्म च शंस्या ||divó mā́nam nótsadantsómapṛṣṭhāso ádrayaḥ ǀ
ukthā́ bráhma ca śáṃsyā ǁdivo mānaṃ not sadan somapṛṣṭhāso adrayaḥ |
ukthā brahma ca śaṃsyā ||दि॒वः । मान॑म् । न । उत् । स॒द॒न् । सोम॑ऽपृष्ठासः । अद्र॑यः ।
उ॒क्था । ब्रह्म॑ । च॒ । शंस्या॑ ॥दिवः । मानम् । न । उत् । सदन् । सोमऽपृष्ठासः । अद्रयः ।
उक्था । ब्रह्म । च । शंस्या ॥diváḥ ǀ mā́nam ǀ ná ǀ út ǀ sadan ǀ sóma-pṛṣṭhāsaḥ ǀ ádrayaḥ ǀ
ukthā́ ǀ bráhma ǀ ca ǀ śáṃsyā ǁdivaḥ ǀ mānam ǀ na ǀ ut ǀ sadan ǀ soma-pṛṣṭhāsaḥ ǀ adrayaḥ ǀ
ukthā ǀ brahma ǀ ca ǀ śaṃsyā ǁ8.63.2 Aṣṭaka 6.4.42.2Anuvāka 8.7.52
-
Ṛk 3
स वि॒द्वाँ अंगि॑रोभ्य॒ इंद्रो॒ गा अ॑वृणो॒दप॑ ।
स्तु॒षे तद॑स्य॒ पौंस्यं॑ ॥स विद्वां अङ्गिरोभ्य इन्द्रो गा अवृणोद् अप |
स्तुषे तद् अस्य पौंस्यम् ||sá vidvā́m̐ áṅgirobhya índro gā́ avṛṇodápa ǀ
stuṣé tádasya páuṃsyam ǁsa vidvāṃ aṅgirobhya indro gā avṛṇod apa |
stuṣe tad asya pauṃsyam ||सः । वि॒द्वान् । अङ्गि॑रःऽभ्यः । इन्द्रः॑ । गाः । अ॒वृ॒णो॒त् । अप॑ ।
स्तु॒षे । तत् । अ॒स्य॒ । पौंस्य॑म् ॥सः । विद्वान् । अङ्गिरःऽभ्यः । इन्द्रः । गाः । अवृणोत् । अप ।
स्तुषे । तत् । अस्य । पौंस्यम् ॥sáḥ ǀ vidvā́n ǀ áṅgiraḥ-bhyaḥ ǀ índraḥ ǀ gā́ḥ ǀ avṛṇot ǀ ápa ǀ
stuṣé ǀ tát ǀ asya ǀ páuṃsyam ǁsaḥ ǀ vidvān ǀ aṅgiraḥ-bhyaḥ ǀ indraḥ ǀ gāḥ ǀ avṛṇot ǀ apa ǀ
stuṣe ǀ tat ǀ asya ǀ pauṃsyam ǁ8.63.3 Aṣṭaka 6.4.42.3Anuvāka 8.7.53
-
Ṛk 4
स प्र॒त्नथा॑ कविवृ॒ध इंद्रो॑ वा॒कस्य॑ व॒क्षणिः॑ ।
शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा गं॒त्वव॑से ॥स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः |
शिवो अर्कस्य होमन्य् अस्मत्रा गन्त्व् अवसे ||sá pratnáthā kavivṛdhá índro vākásya vakṣáṇiḥ ǀ
śivó arkásya hómanyasmatrā́ gantvávase ǁsa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ |
śivo arkasya homany asmatrā gantv avase ||सः । प्र॒त्नऽथा॑ । क॒वि॒ऽवृ॒धः । इन्द्रः॑ । वा॒कस्य॑ । व॒क्षणिः॑ ।
शि॒वः । अ॒र्कस्य॑ । होम॑नि । अ॒स्म॒ऽत्रा । ग॒न्तु॒ । अव॑से ॥सः । प्रत्नऽथा । कविऽवृधः । इन्द्रः । वाकस्य । वक्षणिः ।
शिवः । अर्कस्य । होमनि । अस्मऽत्रा । गन्तु । अवसे ॥sáḥ ǀ pratná-thā ǀ kavi-vṛdháḥ ǀ índraḥ ǀ vākásya ǀ vakṣáṇiḥ ǀ
śiváḥ ǀ arkásya ǀ hómani ǀ asma-trā́ ǀ gantu ǀ ávase ǁsaḥ ǀ pratna-thā ǀ kavi-vṛdhaḥ ǀ indraḥ ǀ vākasya ǀ vakṣaṇiḥ ǀ
śivaḥ ǀ arkasya ǀ homani ǀ asma-trā ǀ gantu ǀ avase ǁ8.63.4 Aṣṭaka 6.4.42.4Anuvāka 8.7.54
-
Ṛk 5
आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः ।
श्वा॒त्रम॒र्का अ॑नूष॒तेंद्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥आद् ऊ नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः |
श्वात्रम् अर्का अनूषतेन्द्र गोत्रस्य दावने ||ā́dū nú te ánu krátum svā́hā várasya yájyavaḥ ǀ
śvātrámarkā́ anūṣaténdra gotrásya dāváne ǁād ū nu te anu kratuṃ svāhā varasya yajyavaḥ |
śvātram arkā anūṣatendra gotrasya dāvane ||आत् । ऊं॒ इति॑ । नु । ते॒ । अनु॑ । क्रतु॑म् । स्वाहा॑ । वर॑स्य । यज्य॑वः ।
श्वा॒त्रम् । अ॒र्काः । अ॒नू॒ष॒त॒ । इन्द्र॑ । गो॒त्रस्य॑ । दा॒वने॑ ॥आत् । ऊं इति । नु । ते । अनु । क्रतुम् । स्वाहा । वरस्य । यज्यवः ।
श्वात्रम् । अर्काः । अनूषत । इन्द्र । गोत्रस्य । दावने ॥ā́t ǀ ūṃ íti ǀ nú ǀ te ǀ ánu ǀ krátum ǀ svā́hā ǀ várasya ǀ yájyavaḥ ǀ
śvātrám ǀ arkā́ḥ ǀ anūṣata ǀ índra ǀ gotrásya ǀ dāváne ǁāt ǀ ūṃ iti ǀ nu ǀ te ǀ anu ǀ kratum ǀ svāhā ǀ varasya ǀ yajyavaḥ ǀ
śvātram ǀ arkāḥ ǀ anūṣata ǀ indra ǀ gotrasya ǀ dāvane ǁ8.63.5 Aṣṭaka 6.4.42.5Anuvāka 8.7.55
-
Ṛk 6
इंद्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च ।
यम॒र्का अ॑ध्व॒रं वि॒दुः ॥इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च |
यम् अर्का अध्वरं विदुः ||índre víśvāni vīryā́ kṛtā́ni kártvāni ca ǀ
yámarkā́ adhvarám vidúḥ ǁindre viśvāni vīryā kṛtāni kartvāni ca |
yam arkā adhvaraṃ viduḥ ||इन्द्रे॑ । विश्वा॑नि । वी॒र्या॑ । कृ॒तानि॑ । कर्त्वा॑नि । च॒ ।
यम् । अ॒र्काः । अ॒ध्व॒रम् । वि॒दुः ॥इन्द्रे । विश्वानि । वीर्या । कृतानि । कर्त्वानि । च ।
यम् । अर्काः । अध्वरम् । विदुः ॥índre ǀ víśvāni ǀ vīryā́ ǀ kṛtā́ni ǀ kártvāni ǀ ca ǀ
yám ǀ arkā́ḥ ǀ adhvarám ǀ vidúḥ ǁindre ǀ viśvāni ǀ vīryā ǀ kṛtāni ǀ kartvāni ǀ ca ǀ
yam ǀ arkāḥ ǀ adhvaram ǀ viduḥ ǁ8.63.6 Aṣṭaka 6.4.42.6Anuvāka 8.7.56
-
Ṛk 7
यत्पांच॑जन्यया वि॒शेंद्रे॒ घोषा॒ असृ॑क्षत ।
अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षयः॑ ॥यत् पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत |
अस्तृणाद् बर्हणा विपो ऽर्यो मानस्य स क्षयः ||yátpā́ñcajanyayā viśéndre ghóṣā ásṛkṣata ǀ
ástṛṇādbarháṇā vipó’ryó mā́nasya sá kṣáyaḥ ǁyat pāñcajanyayā viśendre ghoṣā asṛkṣata |
astṛṇād barhaṇā vipo 'ryo mānasya sa kṣayaḥ ||यत् । पाञ्च॑ऽजन्यया । वि॒शा । इन्द्रे॑ । घोषाः॑ । असृ॑क्षत ।
अस्तृ॑णात् । ब॒र्हणा॑ । वि॒पः । अ॒र्यः । मान॑स्य । सः । क्षयः॑ ॥यत् । पाञ्चऽजन्यया । विशा । इन्द्रे । घोषाः । असृक्षत ।
अस्तृणात् । बर्हणा । विपः । अर्यः । मानस्य । सः । क्षयः ॥yát ǀ pā́ñca-janyayā ǀ viśā́ ǀ índre ǀ ghóṣāḥ ǀ ásṛkṣata ǀ
ástṛṇāt ǀ barháṇā ǀ vipáḥ ǀ aryáḥ ǀ mā́nasya ǀ sáḥ ǀ kṣáyaḥ ǁyat ǀ pāñca-janyayā ǀ viśā ǀ indre ǀ ghoṣāḥ ǀ asṛkṣata ǀ
astṛṇāt ǀ barhaṇā ǀ vipaḥ ǀ aryaḥ ǀ mānasya ǀ saḥ ǀ kṣayaḥ ǁ8.63.7 Aṣṭaka 6.4.43.1Anuvāka 8.7.57
-
Ṛk 8
इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ ।
प्राव॑श्च॒क्रस्य॑ वर्त॒निं ॥इयम् उ ते अनुष्टुतिश् चकृषे तानि पौंस्या |
प्रावश् चक्रस्य वर्तनिम् ||iyámu te ánuṣṭutiścakṛṣé tā́ni páuṃsyā ǀ
prā́vaścakrásya vartaním ǁiyam u te anuṣṭutiś cakṛṣe tāni pauṃsyā |
prāvaś cakrasya vartanim ||इ॒यम् । ऊं॒ इति॑ । ते॒ । अनु॑ऽस्तुतिः । च॒कृ॒षे । तानि॑ । पौंस्या॑ ।
प्र । आ॒वः॒ । च॒क्रस्य॑ । व॒र्त॒निम् ॥इयम् । ऊं इति । ते । अनुऽस्तुतिः । चकृषे । तानि । पौंस्या ।
प्र । आवः । चक्रस्य । वर्तनिम् ॥iyám ǀ ūṃ íti ǀ te ǀ ánu-stutiḥ ǀ cakṛṣé ǀ tā́ni ǀ páuṃsyā ǀ
prá ǀ āvaḥ ǀ cakrásya ǀ vartaním ǁiyam ǀ ūṃ iti ǀ te ǀ anu-stutiḥ ǀ cakṛṣe ǀ tāni ǀ pauṃsyā ǀ
pra ǀ āvaḥ ǀ cakrasya ǀ vartanim ǁ8.63.8 Aṣṭaka 6.4.43.2Anuvāka 8.7.58
-
Ṛk 9
अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ ।
यवं॒ न प॒श्व आ द॑दे ॥अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे |
यवं न पश्व आ ददे ||asyá vṛ́ṣṇo vyódana urú kramiṣṭa jīváse ǀ
yávam ná paśvá ā́ dade ǁasya vṛṣṇo vyodana uru kramiṣṭa jīvase |
yavaṃ na paśva ā dade ||अ॒स्य । वृष्णः॑ । वि॒ऽओद॑ने । उ॒रु । क्र॒मि॒ष्ट॒ । जी॒वसे॑ ।
यव॑म् । न । प॒श्वः । आ । द॒दे॒ ॥अस्य । वृष्णः । विऽओदने । उरु । क्रमिष्ट । जीवसे ।
यवम् । न । पश्वः । आ । ददे ॥asyá ǀ vṛ́ṣṇaḥ ǀ vi-ódane ǀ urú ǀ kramiṣṭa ǀ jīváse ǀ
yávam ǀ ná ǀ paśváḥ ǀ ā́ ǀ dade ǁasya ǀ vṛṣṇaḥ ǀ vi-odane ǀ uru ǀ kramiṣṭa ǀ jīvase ǀ
yavam ǀ na ǀ paśvaḥ ǀ ā ǀ dade ǁ8.63.9 Aṣṭaka 6.4.43.3Anuvāka 8.7.59
-
Ṛk 10
तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः ।
स्याम॑ म॒रुत्व॑तो वृ॒धे ॥तद् दधाना अवस्यवो युष्माभिर् दक्षपितरः |
स्याम मरुत्वतो वृधे ||táddádhānā avasyávo yuṣmā́bhirdákṣapitaraḥ ǀ
syā́ma marútvato vṛdhé ǁtad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ |
syāma marutvato vṛdhe ||तत् । दधा॑नाः । अ॒व॒स्यवः॑ । यु॒ष्माभिः॑ । दक्ष॑ऽपितरः ।
स्याम॑ । म॒रुत्व॑तः । वृ॒धे ॥तत् । दधानाः । अवस्यवः । युष्माभिः । दक्षऽपितरः ।
स्याम । मरुत्वतः । वृधे ॥tát ǀ dádhānāḥ ǀ avasyávaḥ ǀ yuṣmā́bhiḥ ǀ dákṣa-pitaraḥ ǀ
syā́ma ǀ marútvataḥ ǀ vṛdhé ǁtat ǀ dadhānāḥ ǀ avasyavaḥ ǀ yuṣmābhiḥ ǀ dakṣa-pitaraḥ ǀ
syāma ǀ marutvataḥ ǀ vṛdhe ǁ8.63.10 Aṣṭaka 6.4.43.4Anuvāka 8.7.60
-
Ṛk 11
बळृ॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः ।
जेषा॑मेंद्र॒ त्वया॑ यु॒जा ॥बऌ ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः |
जेषामेन्द्र त्वया युजा ||báḷṛtvíyāya dhā́mna ṛ́kvabhiḥ śūra nonumaḥ ǀ
jéṣāmendra tváyā yujā́ ǁbaḷ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ |
jeṣāmendra tvayā yujā ||बट् । ऋ॒त्विया॑य । धाम्ने॑ । ऋक्व॑ऽभिः । शू॒र॒ । नो॒नु॒मः॒ ।
जेषा॑म । इ॒न्द्र॒ । त्वया॑ । यु॒जा ॥बट् । ऋत्वियाय । धाम्ने । ऋक्वऽभिः । शूर । नोनुमः ।
जेषाम । इन्द्र । त्वया । युजा ॥báṭ ǀ ṛtvíyāya ǀ dhā́mne ǀ ṛ́kva-bhiḥ ǀ śūra ǀ nonumaḥ ǀ
jéṣāma ǀ indra ǀ tváyā ǀ yujā́ ǁbaṭ ǀ ṛtviyāya ǀ dhāmne ǀ ṛkva-bhiḥ ǀ śūra ǀ nonumaḥ ǀ
jeṣāma ǀ indra ǀ tvayā ǀ yujā ǁ8.63.11 Aṣṭaka 6.4.43.5Anuvāka 8.7.61
-
Ṛk 12
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इंद्र॑ज्येष्ठा अ॒स्माँ अ॑वंतु दे॒वाः ॥अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः |
यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः ||asmé rudrā́ mehánā párvatāso vṛtrahátye bhárahūtau sajóṣāḥ ǀ
yáḥ śáṃsate stuvaté dhā́yi pajrá índrajyeṣṭhā asmā́m̐ avantu devā́ḥ ǁasme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ |
yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāṃ avantu devāḥ ||अ॒स्मे इति॑ । रु॒द्राः । मे॒हना॑ । पर्व॑तासः । वृ॒त्र॒ऽहत्ये॑ । भर॑ऽहूतौ । स॒ऽजोषाः॑ ।
यः । शंस॑ते । स्तु॒व॒ते । धायि॑ । प॒ज्रः । इन्द्र॑ऽज्येष्ठाः । अ॒स्मान् । अ॒व॒न्तु॒ । दे॒वाः ॥अस्मे इति । रुद्राः । मेहना । पर्वतासः । वृत्रऽहत्ये । भरऽहूतौ । सऽजोषाः ।
यः । शंसते । स्तुवते । धायि । पज्रः । इन्द्रऽज्येष्ठाः । अस्मान् । अवन्तु । देवाः ॥asmé íti ǀ rudrā́ḥ ǀ mehánā ǀ párvatāsaḥ ǀ vṛtra-hátye ǀ bhára-hūtau ǀ sa-jóṣāḥ ǀ
yáḥ ǀ śáṃsate ǀ stuvaté ǀ dhā́yi ǀ pajráḥ ǀ índra-jyeṣṭhāḥ ǀ asmā́n ǀ avantu ǀ devā́ḥ ǁasme iti ǀ rudrāḥ ǀ mehanā ǀ parvatāsaḥ ǀ vṛtra-hatye ǀ bhara-hūtau ǀ sa-joṣāḥ ǀ
yaḥ ǀ śaṃsate ǀ stuvate ǀ dhāyi ǀ pajraḥ ǀ indra-jyeṣṭhāḥ ǀ asmān ǀ avantu ǀ devāḥ ǁ8.63.12 Aṣṭaka 6.4.43.6Anuvāka 8.7.62
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.