Ṛk 8.63.12
Saṃhitā
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इंद्र॑ज्येष्ठा अ॒स्माँ अ॑वंतु दे॒वाः ॥
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः |
यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः ||
asmé rudrā́ mehánā párvatāso vṛtrahátye bhárahūtau sajóṣāḥ ǀ
yáḥ śáṃsate stuvaté dhā́yi pajrá índrajyeṣṭhā asmā́m̐ avantu devā́ḥ ǁ
asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ |
yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāṃ avantu devāḥ ||
Padapāṭha
अ॒स्मे इति॑ । रु॒द्राः । मे॒हना॑ । पर्व॑तासः । वृ॒त्र॒ऽहत्ये॑ । भर॑ऽहूतौ । स॒ऽजोषाः॑ ।
यः । शंस॑ते । स्तु॒व॒ते । धायि॑ । प॒ज्रः । इन्द्र॑ऽज्येष्ठाः । अ॒स्मान् । अ॒व॒न्तु॒ । दे॒वाः ॥
अस्मे इति । रुद्राः । मेहना । पर्वतासः । वृत्रऽहत्ये । भरऽहूतौ । सऽजोषाः ।
यः । शंसते । स्तुवते । धायि । पज्रः । इन्द्रऽज्येष्ठाः । अस्मान् । अवन्तु । देवाः ॥
asmé íti ǀ rudrā́ḥ ǀ mehánā ǀ párvatāsaḥ ǀ vṛtra-hátye ǀ bhára-hūtau ǀ sa-jóṣāḥ ǀ
yáḥ ǀ śáṃsate ǀ stuvaté ǀ dhā́yi ǀ pajráḥ ǀ índra-jyeṣṭhāḥ ǀ asmā́n ǀ avantu ǀ devā́ḥ ǁ
asme iti ǀ rudrāḥ ǀ mehanā ǀ parvatāsaḥ ǀ vṛtra-hatye ǀ bhara-hūtau ǀ sa-joṣāḥ ǀ
yaḥ ǀ śaṃsate ǀ stuvate ǀ dhāyi ǀ pajraḥ ǀ indra-jyeṣṭhāḥ ǀ asmān ǀ avantu ǀ devāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.063.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.43.06
- Maṇḍala · Anuvāka · Ṛk
- 08.07.062
- Devatā देवता
- 1-11: Indra; 12: Indra, Devās
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.