Sūkta 77
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kurusuti Kāṇva
- Chandas छन्दस्
- Gāyatrī, Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles gāyatrī (1-9); nicṛdbṛhatī (10); nicṛtpaṅkti (11)
2nd set of styles gāyatrī (1-9); bṛhatī (10); satobṛhatī (11)
-
Ṛk 1
ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तरं॑ ।
क उ॒ग्राः के ह॑ शृण्विरे ॥जज्ञानो नु शतक्रतुर् वि पृच्छद् इति मातरम् |
क उग्राः के ह शृण्विरे ||jajñānó nú śatákraturví pṛcchadíti mātáram ǀ
ká ugrā́ḥ ké ha śṛṇvire ǁjajñāno nu śatakratur vi pṛcchad iti mātaram |
ka ugrāḥ ke ha śṛṇvire ||ज॒ज्ञा॒नः । नु । श॒तऽक्र॑तुः । वि । पृ॒च्छ॒त् । इति॑ । मा॒तर॑म् ।
के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥जज्ञानः । नु । शतऽक्रतुः । वि । पृच्छत् । इति । मातरम् ।
के । उग्राः । के । ह । शृण्विरे ॥jajñānáḥ ǀ nú ǀ śatá-kratuḥ ǀ ví ǀ pṛcchat ǀ íti ǀ mātáram ǀ
ké ǀ ugrā́ḥ ǀ ké ǀ ha ǀ śṛṇvire ǁjajñānaḥ ǀ nu ǀ śata-kratuḥ ǀ vi ǀ pṛcchat ǀ iti ǀ mātaram ǀ
ke ǀ ugrāḥ ǀ ke ǀ ha ǀ śṛṇvire ǁ8.77.1 Aṣṭaka 6.5.29.1Anuvāka 8.8.110
-
Ṛk 2
आदीं॑ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुवं॑ ।
ते पु॑त्र संतु नि॒ष्टुरः॑ ॥आद् ईं शवस्य् अब्रवीद् और्णवाभम् अहीशुवम् |
ते पुत्र सन्तु निष्टुरः ||ā́dīm śavasyábravīdaurṇavābhámahīśúvam ǀ
té putra santu niṣṭúraḥ ǁād īṃ śavasy abravīd aurṇavābham ahīśuvam |
te putra santu niṣṭuraḥ ||आत् । ई॒म् । श॒व॒सी । अ॒ब्र॒वी॒त् । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् ।
ते । पु॒त्र॒ । स॒न्तु॒ । निः॒ऽतुरः॑ ॥आत् । ईम् । शवसी । अब्रवीत् । और्णऽवाभम् । अहीशुवम् ।
ते । पुत्र । सन्तु । निःऽतुरः ॥ā́t ǀ īm ǀ śavasī́ ǀ abravīt ǀ aurṇa-vābhám ǀ ahīśúvam ǀ
té ǀ putra ǀ santu ǀ niḥ-túraḥ ǁāt ǀ īm ǀ śavasī ǀ abravīt ǀ aurṇa-vābham ǀ ahīśuvam ǀ
te ǀ putra ǀ santu ǀ niḥ-turaḥ ǁ8.77.2 Aṣṭaka 6.5.29.2Anuvāka 8.8.111
-
Ṛk 3
समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या ।
प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥सम् इत् तान् वृत्रहाखिदत् खे अरां इव खेदया |
प्रवृद्धो दस्युहाभवत् ||sámíttā́nvṛtrahā́khidatkhé arā́m̐ iva khédayā ǀ
právṛddho dasyuhā́bhavat ǁsam it tān vṛtrahākhidat khe arāṃ iva khedayā |
pravṛddho dasyuhābhavat ||सम् । इत् । तान् । वृ॒त्र॒ऽहा । अ॒खि॒द॒त् । खे । अ॒रान्ऽइ॑व । खेद॑या ।
प्रऽवृ॑द्धः । द॒स्यु॒ऽहा । अ॒भ॒व॒त् ॥सम् । इत् । तान् । वृत्रऽहा । अखिदत् । खे । अरान्ऽइव । खेदया ।
प्रऽवृद्धः । दस्युऽहा । अभवत् ॥sám ǀ ít ǀ tā́n ǀ vṛtra-hā́ ǀ akhidat ǀ khé ǀ arā́n-iva ǀ khédayā ǀ
prá-vṛddhaḥ ǀ dasyu-hā́ ǀ abhavat ǁsam ǀ it ǀ tān ǀ vṛtra-hā ǀ akhidat ǀ khe ǀ arān-iva ǀ khedayā ǀ
pra-vṛddhaḥ ǀ dasyu-hā ǀ abhavat ǁ8.77.3 Aṣṭaka 6.5.29.3Anuvāka 8.8.112
-
Ṛk 4
एक॑या प्रति॒धापि॑बत्सा॒कं सरां॑सि त्रिं॒शतं॑ ।
इंद्रः॒ सोम॑स्य काणु॒का ॥एकया प्रतिधापिबत् साकं सरांसि त्रिंशतम् |
इन्द्रः सोमस्य काणुका ||ékayā pratidhā́pibatsākám sárāṃsi triṃśátam ǀ
índraḥ sómasya kāṇukā́ ǁekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam |
indraḥ somasya kāṇukā ||एक॑या । प्र॒ति॒ऽधा । अ॒पि॒ब॒त् । सा॒कम् । सरां॑सि । त्रिं॒शत॑म् ।
इन्द्रः॑ । सोम॑स्य । का॒णु॒का ॥एकया । प्रतिऽधा । अपिबत् । साकम् । सरांसि । त्रिंशतम् ।
इन्द्रः । सोमस्य । काणुका ॥ékayā ǀ prati-dhā́ ǀ apibat ǀ sākám ǀ sárāṃsi ǀ triṃśátam ǀ
índraḥ ǀ sómasya ǀ kāṇukā́ ǁekayā ǀ prati-dhā ǀ apibat ǀ sākam ǀ sarāṃsi ǀ triṃśatam ǀ
indraḥ ǀ somasya ǀ kāṇukā ǁ8.77.4 Aṣṭaka 6.5.29.4Anuvāka 8.8.113
-
Ṛk 5
अ॒भि गं॑ध॒र्वम॑तृणदबु॒ध्नेषु॒ रज॒स्स्वा ।
इंद्रो॑ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥अभि गन्धर्वम् अतृणद् अबुध्नेषु रजस्स्व् आ |
इन्द्रो ब्रह्मभ्य इद् वृधे ||abhí gandharvámatṛṇadabudhnéṣu rájassvā́ ǀ
índro brahmábhya ídvṛdhé ǁabhi gandharvam atṛṇad abudhneṣu rajassv ā |
indro brahmabhya id vṛdhe ||अ॒भि । ग॒न्ध॒र्वम् । अ॒तृ॒ण॒त् । अ॒बु॒ध्नेषु॑ । रजः॑ऽसु । आ ।
इन्द्रः॑ । ब्र॒ह्मऽभ्यः॑ । इत् । वृ॒धे ॥अभि । गन्धर्वम् । अतृणत् । अबुध्नेषु । रजःऽसु । आ ।
इन्द्रः । ब्रह्मऽभ्यः । इत् । वृधे ॥abhí ǀ gandharvám ǀ atṛṇat ǀ abudhnéṣu ǀ rájaḥ-su ǀ ā́ ǀ
índraḥ ǀ brahmá-bhyaḥ ǀ ít ǀ vṛdhé ǁabhi ǀ gandharvam ǀ atṛṇat ǀ abudhneṣu ǀ rajaḥ-su ǀ ā ǀ
indraḥ ǀ brahma-bhyaḥ ǀ it ǀ vṛdhe ǁ8.77.5 Aṣṭaka 6.5.29.5Anuvāka 8.8.114
-
Ṛk 6
निरा॑विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो॑द॒नं ।
इंद्रो॑ बुं॒दं स्वा॑ततं ॥निर् आविध्यद् गिरिभ्य आ धारयत् पक्वम् ओदनम् |
इन्द्रो बुन्दं स्वाततम् ||nírāvidhyadgiríbhya ā́ dhāráyatpakvámodanám ǀ
índro bundám svā́tatam ǁnir āvidhyad giribhya ā dhārayat pakvam odanam |
indro bundaṃ svātatam ||निः । अ॒वि॒ध्य॒त् । गि॒रिऽभ्यः॑ । आ । धा॒रय॑त् । प॒क्वम् । ओ॒द॒नम् ।
इन्द्रः॑ । बु॒न्दम् । सुऽआ॑ततम् ॥निः । अविध्यत् । गिरिऽभ्यः । आ । धारयत् । पक्वम् । ओदनम् ।
इन्द्रः । बुन्दम् । सुऽआततम् ॥níḥ ǀ avidhyat ǀ girí-bhyaḥ ǀ ā́ ǀ dhāráyat ǀ pakvám ǀ odanám ǀ
índraḥ ǀ bundám ǀ sú-ātatam ǁniḥ ǀ avidhyat ǀ giri-bhyaḥ ǀ ā ǀ dhārayat ǀ pakvam ǀ odanam ǀ
indraḥ ǀ bundam ǀ su-ātatam ǁ8.77.6 Aṣṭaka 6.5.30.1Anuvāka 8.8.115
-
Ṛk 7
श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् ।
यमिं॑द्र चकृ॒षे युजं॑ ॥शतब्रध्न इषुस् तव सहस्रपर्ण एक इत् |
यम् इन्द्र चकृषे युजम् ||śatábradhna íṣustáva sahásraparṇa éka ít ǀ
yámindra cakṛṣé yújam ǁśatabradhna iṣus tava sahasraparṇa eka it |
yam indra cakṛṣe yujam ||श॒तऽब्र॑ध्नः । इषुः॑ । तव॑ । स॒हस्र॑ऽपर्णः । एकः॑ । इत् ।
यम् । इ॒न्द्र॒ । च॒कृ॒षे । युज॑म् ॥शतऽब्रध्नः । इषुः । तव । सहस्रऽपर्णः । एकः । इत् ।
यम् । इन्द्र । चकृषे । युजम् ॥śatá-bradhnaḥ ǀ íṣuḥ ǀ táva ǀ sahásra-parṇaḥ ǀ ékaḥ ǀ ít ǀ
yám ǀ indra ǀ cakṛṣé ǀ yújam ǁśata-bradhnaḥ ǀ iṣuḥ ǀ tava ǀ sahasra-parṇaḥ ǀ ekaḥ ǀ it ǀ
yam ǀ indra ǀ cakṛṣe ǀ yujam ǁ8.77.7 Aṣṭaka 6.5.30.2Anuvāka 8.8.116
-
Ṛk 8
तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे ।
स॒द्यो जा॒त ऋ॑भुष्ठिर ॥तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे |
सद्यो जात ऋभुष्ठिर ||téna stotṛ́bhya ā́ bhara nṛ́bhyo nā́ribhyo áttave ǀ
sadyó jātá ṛbhuṣṭhira ǁtena stotṛbhya ā bhara nṛbhyo nāribhyo attave |
sadyo jāta ṛbhuṣṭhira ||तेन॑ । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ । नृऽभ्यः॑ । नारि॑ऽभ्यः । अत्त॑वे ।
स॒द्यः । जा॒तः । ऋ॒भु॒ऽस्थि॒र॒ ॥तेन । स्तोतृऽभ्यः । आ । भर । नृऽभ्यः । नारिऽभ्यः । अत्तवे ।
सद्यः । जातः । ऋभुऽस्थिर ॥téna ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǀ nṛ́-bhyaḥ ǀ nā́ri-bhyaḥ ǀ áttave ǀ
sadyáḥ ǀ jātáḥ ǀ ṛbhu-sthira ǁtena ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǀ nṛ-bhyaḥ ǀ nāri-bhyaḥ ǀ attave ǀ
sadyaḥ ǀ jātaḥ ǀ ṛbhu-sthira ǁ8.77.8 Aṣṭaka 6.5.30.3Anuvāka 8.8.117
-
Ṛk 9
ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी॑णसा ।
हृ॒दा वी॒ड्व॑धारयः ॥एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा |
हृदा वीड्व् अधारयः ||etā́ cyautnā́ni te kṛtā́ várṣiṣṭhāni párīṇasā ǀ
hṛdā́ vīḍvádhārayaḥ ǁetā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā |
hṛdā vīḍv adhārayaḥ ||ए॒ता । च्यौ॒त्नानि॑ । ते॒ । कृ॒ता । वर्षि॑ष्ठानि । परी॑णसा ।
हृ॒दा । वी॒ळु । अ॒धा॒र॒यः॒ ॥एता । च्यौत्नानि । ते । कृता । वर्षिष्ठानि । परीणसा ।
हृदा । वीळु । अधारयः ॥etā́ ǀ cyautnā́ni ǀ te ǀ kṛtā́ ǀ várṣiṣṭhāni ǀ párīṇasā ǀ
hṛdā́ ǀ vīḷú ǀ adhārayaḥ ǁetā ǀ cyautnāni ǀ te ǀ kṛtā ǀ varṣiṣṭhāni ǀ parīṇasā ǀ
hṛdā ǀ vīḷu ǀ adhārayaḥ ǁ8.77.9 Aṣṭaka 6.5.30.4Anuvāka 8.8.118
-
Ṛk 10
विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः ।
श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिंद्र॑ एमु॒षं ॥विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः |
शतम् महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम् ||víśvéttā́ víṣṇurā́bharadurukramástvéṣitaḥ ǀ
śatám mahiṣā́nkṣīrapākámodanám varāhámíndra emuṣám ǁviśvet tā viṣṇur ābharad urukramas tveṣitaḥ |
śatam mahiṣān kṣīrapākam odanaṃ varāham indra emuṣam ||विश्वा॑ । इत् । ता । विष्णुः॑ । आ । अ॒भ॒र॒त् । उ॒रु॒ऽक्र॒मः । त्वाऽइ॑षितः ।
श॒तम् । म॒हि॒षान् । क्षी॒र॒ऽपा॒कम् । ओ॒द॒नम् । व॒रा॒हम् । इन्द्रः॑ । ए॒मु॒षम् ॥विश्वा । इत् । ता । विष्णुः । आ । अभरत् । उरुऽक्रमः । त्वाऽइषितः ।
शतम् । महिषान् । क्षीरऽपाकम् । ओदनम् । वराहम् । इन्द्रः । एमुषम् ॥víśvā ǀ ít ǀ tā́ ǀ víṣṇuḥ ǀ ā́ ǀ abharat ǀ uru-kramáḥ ǀ tvā́-iṣitaḥ ǀ
śatám ǀ mahiṣā́n ǀ kṣīra-pākám ǀ odanám ǀ varāhám ǀ índraḥ ǀ emuṣám ǁviśvā ǀ it ǀ tā ǀ viṣṇuḥ ǀ ā ǀ abharat ǀ uru-kramaḥ ǀ tvā-iṣitaḥ ǀ
śatam ǀ mahiṣān ǀ kṣīra-pākam ǀ odanam ǀ varāham ǀ indraḥ ǀ emuṣam ǁ8.77.10 Aṣṭaka 6.5.30.5Anuvāka 8.8.119
-
Ṛk 11
तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनुः॑ सा॒धुर्बुं॒दो हि॑र॒ण्ययः॑ ।
उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥तुविक्षं ते सुकृतं सूमयं धनुः साधुर् बुन्दो हिरण्ययः |
उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिद् ऋदूवृधा ||tuvikṣám te súkṛtam sūmáyam dhánuḥ sādhúrbundó hiraṇyáyaḥ ǀ
ubhā́ te bāhū́ ráṇyā súsaṃskṛta ṛdūpé cidṛdūvṛ́dhā ǁtuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhur bundo hiraṇyayaḥ |
ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā ||तु॒वि॒ऽक्षम् । ते॒ । सुऽकृ॑तम् । सु॒ऽमय॑म् । धनुः॑ । सा॒धुः । बु॒न्दः । हि॒र॒ण्ययः॑ ।
उ॒भा । ते॒ । बा॒हू इति॑ । रण्या॑ । सुऽसं॑स्कृता । ऋ॒दु॒ऽपे । चि॒त् । ऋ॒दु॒ऽवृधा॑ ॥तुविऽक्षम् । ते । सुऽकृतम् । सुऽमयम् । धनुः । साधुः । बुन्दः । हिरण्ययः ।
उभा । ते । बाहू इति । रण्या । सुऽसंस्कृता । ऋदुऽपे । चित् । ऋदुऽवृधा ॥tuvi-kṣám ǀ te ǀ sú-kṛtam ǀ su-máyam ǀ dhánuḥ ǀ sādhúḥ ǀ bundáḥ ǀ hiraṇyáyaḥ ǀ
ubhā́ ǀ te ǀ bāhū́ íti ǀ ráṇyā ǀ sú-saṃskṛtā ǀ ṛdu-pé ǀ cit ǀ ṛdu-vṛ́dhā ǁtuvi-kṣam ǀ te ǀ su-kṛtam ǀ su-mayam ǀ dhanuḥ ǀ sādhuḥ ǀ bundaḥ ǀ hiraṇyayaḥ ǀ
ubhā ǀ te ǀ bāhū iti ǀ raṇyā ǀ su-saṃskṛtā ǀ ṛdu-pe ǀ cit ǀ ṛdu-vṛdhā ǁ8.77.11 Aṣṭaka 6.5.30.6Anuvāka 8.8.120
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.