Ṛk 8.77.10
Saṃhitā
विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः ।
श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिंद्र॑ एमु॒षं ॥
विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः |
शतम् महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम् ||
víśvéttā́ víṣṇurā́bharadurukramástvéṣitaḥ ǀ
śatám mahiṣā́nkṣīrapākámodanám varāhámíndra emuṣám ǁ
viśvet tā viṣṇur ābharad urukramas tveṣitaḥ |
śatam mahiṣān kṣīrapākam odanaṃ varāham indra emuṣam ||
Padapāṭha
विश्वा॑ । इत् । ता । विष्णुः॑ । आ । अ॒भ॒र॒त् । उ॒रु॒ऽक्र॒मः । त्वाऽइ॑षितः ।
श॒तम् । म॒हि॒षान् । क्षी॒र॒ऽपा॒कम् । ओ॒द॒नम् । व॒रा॒हम् । इन्द्रः॑ । ए॒मु॒षम् ॥
विश्वा । इत् । ता । विष्णुः । आ । अभरत् । उरुऽक्रमः । त्वाऽइषितः ।
शतम् । महिषान् । क्षीरऽपाकम् । ओदनम् । वराहम् । इन्द्रः । एमुषम् ॥
víśvā ǀ ít ǀ tā́ ǀ víṣṇuḥ ǀ ā́ ǀ abharat ǀ uru-kramáḥ ǀ tvā́-iṣitaḥ ǀ
śatám ǀ mahiṣā́n ǀ kṣīra-pākám ǀ odanám ǀ varāhám ǀ índraḥ ǀ emuṣám ǁ
viśvā ǀ it ǀ tā ǀ viṣṇuḥ ǀ ā ǀ abharat ǀ uru-kramaḥ ǀ tvā-iṣitaḥ ǀ
śatam ǀ mahiṣān ǀ kṣīra-pākam ǀ odanam ǀ varāham ǀ indraḥ ǀ emuṣam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.077.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.30.05
- Maṇḍala · Anuvāka · Ṛk
- 08.08.119
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kurusuti Kāṇva
- Chandas छन्दस्
- Gāyatrī, Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.