Ṛgveda · Maṇḍala 8

Sūkta 16

Indra · Irimbiṭhi Kāṇva · 12 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Irimbiṭhi Kāṇva
Chandas छन्दस्
Gāyatrī
Metres by ṛk

1st set of styles nicṛdgāyatrī (2-7); gāyatrī (1, 9-12); virāḍgāyatrī (8)

2nd set of styles gāyatrī

  1. Ṛk 1

    प्र स॒म्राजं॑ चर्षणी॒नामिंद्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः ।
    नरं॑ नृ॒षाहं॒ मंहि॑ष्ठं ॥

    प्र सम्राजं चर्षणीनाम् इन्द्रं स्तोता नव्यं गीर्भिः |
    नरं नृषाहम् मंहिष्ठम् ||

    prá samrā́jam carṣaṇīnā́míndram stotā návyam gīrbhíḥ ǀ
    náram nṛṣā́ham máṃhiṣṭham ǁ

    pra samrājaṃ carṣaṇīnām indraṃ stotā navyaṃ gīrbhiḥ |
    naraṃ nṛṣāham maṃhiṣṭham ||

    प्र । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । स्तो॒त॒ । नव्य॑म् । गीः॒ऽभिः ।
    नर॑म् । नृ॒ऽसह॑म् । मंहि॑ष्ठम् ॥

    प्र । सम्ऽराजम् । चर्षणीनाम् । इन्द्रम् । स्तोत । नव्यम् । गीःऽभिः ।
    नरम् । नृऽसहम् । मंहिष्ठम् ॥

    prá ǀ sam-rā́jam ǀ carṣaṇīnā́m ǀ índram ǀ stota ǀ návyam ǀ gīḥ-bhíḥ ǀ
    náram ǀ nṛ-sáham ǀ máṃhiṣṭham ǁ

    pra ǀ sam-rājam ǀ carṣaṇīnām ǀ indram ǀ stota ǀ navyam ǀ gīḥ-bhiḥ ǀ
    naram ǀ nṛ-saham ǀ maṃhiṣṭham ǁ

    8.16.1 Aṣṭaka 6.1.20.1Anuvāka 8.3.62

  2. Ṛk 2

    यस्मि॑न्नु॒क्थानि॒ रण्यं॑ति॒ विश्वा॑नि च श्रव॒स्या॑ ।
    अ॒पामवो॒ न स॑मु॒द्रे ॥

    यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्या |
    अपाम् अवो न समुद्रे ||

    yásminnukthā́ni ráṇyanti víśvāni ca śravasyā́ ǀ
    apā́mávo ná samudré ǁ

    yasminn ukthāni raṇyanti viśvāni ca śravasyā |
    apām avo na samudre ||

    यस्मि॑न् । उ॒क्थानि॑ । रण्य॑न्ति । विश्वा॑नि । च॒ । श्र॒व॒स्या॑ ।
    अ॒पाम् । अवः॑ । न । स॒मु॒द्रे ॥

    यस्मिन् । उक्थानि । रण्यन्ति । विश्वानि । च । श्रवस्या ।
    अपाम् । अवः । न । समुद्रे ॥

    yásmin ǀ ukthā́ni ǀ ráṇyanti ǀ víśvāni ǀ ca ǀ śravasyā́ ǀ
    apā́m ǀ ávaḥ ǀ ná ǀ samudré ǁ

    yasmin ǀ ukthāni ǀ raṇyanti ǀ viśvāni ǀ ca ǀ śravasyā ǀ
    apām ǀ avaḥ ǀ na ǀ samudre ǁ

    8.16.2 Aṣṭaka 6.1.20.2Anuvāka 8.3.63

  3. Ṛk 3

    तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुं ।
    म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥

    तं सुष्टुत्या विवासे ज्येष्ठराजम् भरे कृत्नुम् |
    महो वाजिनं सनिभ्यः ||

    tám suṣṭutyā́ vivāse jyeṣṭharā́jam bháre kṛtnúm ǀ
    mahó vājínam saníbhyaḥ ǁ

    taṃ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum |
    maho vājinaṃ sanibhyaḥ ||

    तम् । सु॒ऽस्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् ।
    म॒हः । वा॒जिन॑म् । स॒निऽभ्यः॑ ॥

    तम् । सुऽस्तुत्या । आ । विवासे । ज्येष्ठऽराजम् । भरे । कृत्नुम् ।
    महः । वाजिनम् । सनिऽभ्यः ॥

    tám ǀ su-stutyā́ ǀ ā́ ǀ vivāse ǀ jyeṣṭha-rā́jam ǀ bháre ǀ kṛtnúm ǀ
    maháḥ ǀ vājínam ǀ saní-bhyaḥ ǁ

    tam ǀ su-stutyā ǀ ā ǀ vivāse ǀ jyeṣṭha-rājam ǀ bhare ǀ kṛtnum ǀ
    mahaḥ ǀ vājinam ǀ sani-bhyaḥ ǁ

    8.16.3 Aṣṭaka 6.1.20.3Anuvāka 8.3.64

  4. Ṛk 4

    यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः ।
    ह॒र्षु॒मंतः॒ शूर॑सातौ ॥

    यस्यानूना गभीरा मदा उरवस् तरुत्राः |
    हर्षुमन्तः शूरसातौ ||

    yásyā́nūnā gabhīrā́ mádā urávastárutrāḥ ǀ
    harṣumántaḥ śū́rasātau ǁ

    yasyānūnā gabhīrā madā uravas tarutrāḥ |
    harṣumantaḥ śūrasātau ||

    यस्य॑ । अनू॑नाः । ग॒भी॒राः । मदाः॑ । उ॒रवः॑ । तरु॑त्राः ।
    ह॒र्षु॒ऽमन्तः॑ । शूर॑ऽसातौ ॥

    यस्य । अनूनाः । गभीराः । मदाः । उरवः । तरुत्राः ।
    हर्षुऽमन्तः । शूरऽसातौ ॥

    yásya ǀ ánūnāḥ ǀ gabhīrā́ḥ ǀ mádāḥ ǀ urávaḥ ǀ tárutrāḥ ǀ
    harṣu-mántaḥ ǀ śū́ra-sātau ǁ

    yasya ǀ anūnāḥ ǀ gabhīrāḥ ǀ madāḥ ǀ uravaḥ ǀ tarutrāḥ ǀ
    harṣu-mantaḥ ǀ śūra-sātau ǁ

    8.16.4 Aṣṭaka 6.1.20.4Anuvāka 8.3.65

  5. Ṛk 5

    तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवंते ।
    येषा॒मिंद्र॒स्ते ज॑यंति ॥

    तम् इद् धनेषु हितेष्व् अधिवाकाय हवन्ते |
    येषाम् इन्द्रस् ते जयन्ति ||

    támíddháneṣu hitéṣvadhivākā́ya havante ǀ
    yéṣāmíndrasté jayanti ǁ

    tam id dhaneṣu hiteṣv adhivākāya havante |
    yeṣām indras te jayanti ||

    तम् । इत् । धने॑षु । हि॒तेषु॑ । अ॒धि॒ऽवा॒काय॑ । ह॒व॒न्ते॒ ।
    येषा॑म् । इन्द्रः॑ । ते । ज॒य॒न्ति॒ ॥

    तम् । इत् । धनेषु । हितेषु । अधिऽवाकाय । हवन्ते ।
    येषाम् । इन्द्रः । ते । जयन्ति ॥

    tám ǀ ít ǀ dháneṣu ǀ hitéṣu ǀ adhi-vākā́ya ǀ havante ǀ
    yéṣām ǀ índraḥ ǀ té ǀ jayanti ǁ

    tam ǀ it ǀ dhaneṣu ǀ hiteṣu ǀ adhi-vākāya ǀ havante ǀ
    yeṣām ǀ indraḥ ǀ te ǀ jayanti ǁ

    8.16.5 Aṣṭaka 6.1.20.5Anuvāka 8.3.66

  6. Ṛk 6

    तमिच्च्यौ॒त्नैरार्यं॑ति॒ तं कृ॒तेभि॑श्चर्ष॒णयः॑ ।
    ए॒ष इंद्रो॑ वरिव॒स्कृत् ॥

    तम् इच् च्यौत्नैर् आर्यन्ति तं कृतेभिश् चर्षणयः |
    एष इन्द्रो वरिवस्कृत् ||

    támíccyautnáirā́ryanti tám kṛtébhiścarṣaṇáyaḥ ǀ
    eṣá índro varivaskṛ́t ǁ

    tam ic cyautnair āryanti taṃ kṛtebhiś carṣaṇayaḥ |
    eṣa indro varivaskṛt ||

    तम् । इत् । च्यौ॒त्नैः । आर्य॑न्ति । तम् । कृ॒तेभिः॑ । च॒र्ष॒णयः॑ ।
    ए॒षः । इन्द्रः॑ । व॒रि॒वः॒ऽकृत् ॥

    तम् । इत् । च्यौत्नैः । आर्यन्ति । तम् । कृतेभिः । चर्षणयः ।
    एषः । इन्द्रः । वरिवःऽकृत् ॥

    tám ǀ ít ǀ cyautnáiḥ ǀ ā́ryanti ǀ tám ǀ kṛtébhiḥ ǀ carṣaṇáyaḥ ǀ
    eṣáḥ ǀ índraḥ ǀ varivaḥ-kṛ́t ǁ

    tam ǀ it ǀ cyautnaiḥ ǀ āryanti ǀ tam ǀ kṛtebhiḥ ǀ carṣaṇayaḥ ǀ
    eṣaḥ ǀ indraḥ ǀ varivaḥ-kṛt ǁ

    8.16.6 Aṣṭaka 6.1.20.6Anuvāka 8.3.67

  7. Ṛk 7

    इंद्रो॑ ब्र॒ह्मेंद्र॒ ऋषि॒रिंद्रः॑ पु॒रू पु॑रुहू॒तः ।
    म॒हान्म॒हीभिः॒ शची॑भिः ॥

    इन्द्रो ब्रह्मेन्द्र ऋषिर् इन्द्रः पुरू पुरुहूतः |
    महान् महीभिः शचीभिः ||

    índro brahméndra ṛ́ṣiríndraḥ purū́ puruhūtáḥ ǀ
    mahā́nmahī́bhiḥ śácībhiḥ ǁ

    indro brahmendra ṛṣir indraḥ purū puruhūtaḥ |
    mahān mahībhiḥ śacībhiḥ ||

    इन्द्रः॑ । ब्र॒ह्मा । इन्द्रः॑ । ऋषिः॑ । इन्द्रः॑ । पु॒रु । पु॒रु॒ऽहू॒तः ।
    म॒हान् । म॒हीभिः॑ । शची॑भिः ॥

    इन्द्रः । ब्रह्मा । इन्द्रः । ऋषिः । इन्द्रः । पुरु । पुरुऽहूतः ।
    महान् । महीभिः । शचीभिः ॥

    índraḥ ǀ brahmā́ ǀ índraḥ ǀ ṛ́ṣiḥ ǀ índraḥ ǀ purú ǀ puru-hūtáḥ ǀ
    mahā́n ǀ mahī́bhiḥ ǀ śácībhiḥ ǁ

    indraḥ ǀ brahmā ǀ indraḥ ǀ ṛṣiḥ ǀ indraḥ ǀ puru ǀ puru-hūtaḥ ǀ
    mahān ǀ mahībhiḥ ǀ śacībhiḥ ǁ

    8.16.7 Aṣṭaka 6.1.21.1Anuvāka 8.3.68

  8. Ṛk 8

    स स्तोम्यः॒ स हव्यः॑ स॒त्यः सत्वा॑ तुविकू॒र्मिः ।
    एक॑श्चि॒त्सन्न॒भिभू॑तिः ॥

    स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः |
    एकश् चित् सन्न् अभिभूतिः ||

    sá stómyaḥ sá hávyaḥ satyáḥ sátvā tuvikūrmíḥ ǀ
    ékaścitsánnabhíbhūtiḥ ǁ

    sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ |
    ekaś cit sann abhibhūtiḥ ||

    सः । स्तोम्यः॑ । सः । हव्यः॑ । स॒त्यः । सत्वा॑ । तु॒वि॒ऽकू॒र्मिः ।
    एकः॑ । चि॒त् । सन् । अ॒भिऽभू॑तिः ॥

    सः । स्तोम्यः । सः । हव्यः । सत्यः । सत्वा । तुविऽकूर्मिः ।
    एकः । चित् । सन् । अभिऽभूतिः ॥

    sáḥ ǀ stómyaḥ ǀ sáḥ ǀ hávyaḥ ǀ satyáḥ ǀ sátvā ǀ tuvi-kūrmíḥ ǀ
    ékaḥ ǀ cit ǀ sán ǀ abhí-bhūtiḥ ǁ

    saḥ ǀ stomyaḥ ǀ saḥ ǀ havyaḥ ǀ satyaḥ ǀ satvā ǀ tuvi-kūrmiḥ ǀ
    ekaḥ ǀ cit ǀ san ǀ abhi-bhūtiḥ ǁ

    8.16.8 Aṣṭaka 6.1.21.2Anuvāka 8.3.69

  9. Ṛk 9

    तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णयः॑ ।
    इंद्रं॑ वर्धंति क्षि॒तयः॑ ॥

    तम् अर्केभिस् तं सामभिस् तं गायत्रैश् चर्षणयः |
    इन्द्रं वर्धन्ति क्षितयः ||

    támarkébhistám sā́mabhistám gāyatráiścarṣaṇáyaḥ ǀ
    índram vardhanti kṣitáyaḥ ǁ

    tam arkebhis taṃ sāmabhis taṃ gāyatraiś carṣaṇayaḥ |
    indraṃ vardhanti kṣitayaḥ ||

    तम् । अ॒र्केभिः॑ । तम् । साम॑ऽभिः । तम् । गा॒य॒त्रैः । च॒र्ष॒णयः॑ ।
    इन्द्र॑म् । व॒र्ध॒न्ति॒ । क्षि॒तयः॑ ॥

    तम् । अर्केभिः । तम् । सामऽभिः । तम् । गायत्रैः । चर्षणयः ।
    इन्द्रम् । वर्धन्ति । क्षितयः ॥

    tám ǀ arkébhiḥ ǀ tám ǀ sā́ma-bhiḥ ǀ tám ǀ gāyatráiḥ ǀ carṣaṇáyaḥ ǀ
    índram ǀ vardhanti ǀ kṣitáyaḥ ǁ

    tam ǀ arkebhiḥ ǀ tam ǀ sāma-bhiḥ ǀ tam ǀ gāyatraiḥ ǀ carṣaṇayaḥ ǀ
    indram ǀ vardhanti ǀ kṣitayaḥ ǁ

    8.16.9 Aṣṭaka 6.1.21.3Anuvāka 8.3.70

  10. Ṛk 10

    प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योतिः॑ स॒मत्सु॑ ।
    सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥

    प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु |
    सासह्वांसं युधामित्रान् ||

    praṇetā́ram vásyo ácchā kártāram jyótiḥ samátsu ǀ
    sāsahvā́ṃsam yudhā́mítrān ǁ

    praṇetāraṃ vasyo acchā kartāraṃ jyotiḥ samatsu |
    sāsahvāṃsaṃ yudhāmitrān ||

    प्र॒ऽने॒तार॑म् । वस्यः॑ । अच्छ॑ । कर्ता॑रम् । ज्योतिः॑ । स॒मत्ऽसु॑ ।
    स॒स॒ह्वांस॑म् । यु॒धा । अ॒मित्रा॑न् ॥

    प्रऽनेतारम् । वस्यः । अच्छ । कर्तारम् । ज्योतिः । समत्ऽसु ।
    ससह्वांसम् । युधा । अमित्रान् ॥

    pra-netā́ram ǀ vásyaḥ ǀ áccha ǀ kártāram ǀ jyótiḥ ǀ samát-su ǀ
    sasahvā́ṃsam ǀ yudhā́ ǀ amítrān ǁ

    pra-netāram ǀ vasyaḥ ǀ accha ǀ kartāram ǀ jyotiḥ ǀ samat-su ǀ
    sasahvāṃsam ǀ yudhā ǀ amitrān ǁ

    8.16.10 Aṣṭaka 6.1.21.4Anuvāka 8.3.71

  11. Ṛk 11

    स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः ।
    इंद्रो॒ विश्वा॒ अति॒ द्विषः॑ ॥

    स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः |
    इन्द्रो विश्वा अति द्विषः ||

    sá naḥ pápriḥ pārayāti svastí nāvā́ puruhūtáḥ ǀ
    índro víśvā áti dvíṣaḥ ǁ

    sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ |
    indro viśvā ati dviṣaḥ ||

    सः । नः॒ । पप्रिः॑ । पा॒र॒या॒ति॒ । स्व॒स्ति । ना॒वा । पु॒रु॒ऽहू॒तः ।
    इन्द्रः॑ । विश्वा॑ । अति॑ । द्विषः॑ ॥

    सः । नः । पप्रिः । पारयाति । स्वस्ति । नावा । पुरुऽहूतः ।
    इन्द्रः । विश्वा । अति । द्विषः ॥

    sáḥ ǀ naḥ ǀ pápriḥ ǀ pārayāti ǀ svastí ǀ nāvā́ ǀ puru-hūtáḥ ǀ
    índraḥ ǀ víśvā ǀ áti ǀ dvíṣaḥ ǁ

    saḥ ǀ naḥ ǀ papriḥ ǀ pārayāti ǀ svasti ǀ nāvā ǀ puru-hūtaḥ ǀ
    indraḥ ǀ viśvā ǀ ati ǀ dviṣaḥ ǁ

    8.16.11 Aṣṭaka 6.1.21.5Anuvāka 8.3.72

  12. Ṛk 12

    स त्वं न॑ इंद्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ ।
    अच्छा॑ च नः सु॒म्नं ने॑षि ॥

    स त्वं न इन्द्र वाजेभिर् दशस्या च गातुया च |
    अच्छा च नः सुम्नं नेषि ||

    sá tvám na indra vā́jebhirdaśasyā́ ca gātuyā́ ca ǀ
    ácchā ca naḥ sumnám neṣi ǁ

    sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca |
    acchā ca naḥ sumnaṃ neṣi ||

    सः । त्वम् । नः॒ । इ॒न्द्र॒ । वाजे॑भिः । द॒श॒स्य । च॒ । गा॒तु॒ऽय । च॒ ।
    अच्छ॑ । च॒ । नः॒ । सु॒म्नम् । ने॒षि॒ ॥

    सः । त्वम् । नः । इन्द्र । वाजेभिः । दशस्य । च । गातुऽय । च ।
    अच्छ । च । नः । सुम्नम् । नेषि ॥

    sáḥ ǀ tvám ǀ naḥ ǀ indra ǀ vā́jebhiḥ ǀ daśasyá ǀ ca ǀ gātu-yá ǀ ca ǀ
    áccha ǀ ca ǀ naḥ ǀ sumnám ǀ neṣi ǁ

    saḥ ǀ tvam ǀ naḥ ǀ indra ǀ vājebhiḥ ǀ daśasya ǀ ca ǀ gātu-ya ǀ ca ǀ
    accha ǀ ca ǀ naḥ ǀ sumnam ǀ neṣi ǁ

    8.16.12 Aṣṭaka 6.1.21.6Anuvāka 8.3.73

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.16 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

PRAISE Indra whom our songs must laud, sole Sovran of mankind, the Chief Most liberal who controlleth men.

Ṛk 2

In whom the hymns of praise delight, and all the glory-giving songs. Like the floods' longing for the sea.

Ṛk 3

Him I invite with eulogy, best King, effective in the fight, Strong for the gain of mighty spoil.

Ṛk 4

Whose perfect ecstasies are wide, profound, victorious, and give joy in the field where heroes win.

Ṛk 5

Him, when the spoils of war are staked, men call to be their advocate: They who have Indra win the day.

Ṛk 6

Men honour him with stirring songs and magnify with solemn rites: Indra is he who giveth case.

Ṛk 7

Indra is priest and Ṛṣi, he is much invoked by many men, And mighty by his mighty powers.

Ṛk 8

Meet to be lauded and invoked, true Hero with his deeds of might, Victorious even when alone.

Ṛk 9

The men, the people magnify that Indra with their Slina. songs, With hymns and sacred eulogies

Ṛk 10

Him who advances them to wealth, sends light to lead them in the war, And quells their foemen in the fray.

Ṛk 11

May he, the saviour much-invoked, may Indra bear us in a ship Safely beyond all enemies.