Sūkta 91
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Apāla Ātreyī
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles virāḍanuṣṭup (5, 6); svarāḍārcīpaṅkti (1); paṅktiḥ (2); nicṛdanuṣṭup (3); anuṣṭup (4); pādanicṛdanuṣṭup (7)
2nd set of styles anuṣṭubh (3-7); paṅkti (1, 2)
-
Ṛk 1
क॒न्या॒३॒॑ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् ।
अस्तं॒ भरं॑त्यब्रवी॒दिंद्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥कन्या वार् अवायती सोमम् अपि स्रुताविदत् |
अस्तम् भरन्त्य् अब्रवीद् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ||kanyā́ vā́ravāyatī́ sómamápi srutā́vidat ǀ
ástam bhárantyabravīdíndrāya sunavai tvā śakrā́ya sunavai tvā ǁkanyā vār avāyatī somam api srutāvidat |
astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā ||क॒न्या॑ । वाः । अ॒व॒ऽय॒ती । सोम॑म् । अपि॑ । स्रु॒ता । अ॒वि॒द॒त् ।
अस्त॑म् । भर॑न्ती । अ॒ब्र॒वी॒त् । इन्द्रा॑य । सु॒न॒वै॒ । त्वा॒ । श॒क्राय॑ । सु॒न॒वै॒ । त्वा॒ ॥कन्या । वाः । अवऽयती । सोमम् । अपि । स्रुता । अविदत् ।
अस्तम् । भरन्ती । अब्रवीत् । इन्द्राय । सुनवै । त्वा । शक्राय । सुनवै । त्वा ॥kanyā́ ǀ vā́ḥ ǀ ava-yatī́ ǀ sómam ǀ ápi ǀ srutā́ ǀ avidat ǀ
ástam ǀ bhárantī ǀ abravīt ǀ índrāya ǀ sunavai ǀ tvā ǀ śakrā́ya ǀ sunavai ǀ tvā ǁkanyā ǀ vāḥ ǀ ava-yatī ǀ somam ǀ api ǀ srutā ǀ avidat ǀ
astam ǀ bharantī ǀ abravīt ǀ indrāya ǀ sunavai ǀ tvā ǀ śakrāya ǀ sunavai ǀ tvā ǁ8.91.1 Aṣṭaka 6.6.14.1Anuvāka 8.9.76
-
Ṛk 2
अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् ।
इ॒मं जंभ॑सुतं पिब धा॒नावं॑तं करं॒भिण॑मपू॒पवं॑तमु॒क्थिनं॑ ॥असौ य एषि वीरको गृहं-गृहं विचाकशद् |
इमं जम्भसुतम् पिब धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ||asáu yá éṣi vīrakó gṛháṃgṛham vicā́kaśad ǀ
imám jámbhasutam piba dhānā́vantam karambhíṇamapūpávantamukthínam ǁasau ya eṣi vīrako gṛhaṃ-gṛhaṃ vicākaśad |
imaṃ jambhasutam piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam ||अ॒सौ । यः । एषि॑ । वी॒र॒कः । गृ॒हम्ऽगृ॑हम् । वि॒ऽचाक॑शत् ।
इ॒मम् । जम्भ॑ऽसुतम् । पि॒ब॒ । धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ॥असौ । यः । एषि । वीरकः । गृहम्ऽगृहम् । विऽचाकशत् ।
इमम् । जम्भऽसुतम् । पिब । धानाऽवन्तम् । करम्भिणम् । अपूपऽवन्तम् । उक्थिनम् ॥asáu ǀ yáḥ ǀ éṣi ǀ vīrakáḥ ǀ gṛhám-gṛham ǀ vi-cā́kaśat ǀ
imám ǀ jámbha-sutam ǀ piba ǀ dhānā́-vantam ǀ karambhíṇam ǀ apūpá-vantam ǀ ukthínam ǁasau ǀ yaḥ ǀ eṣi ǀ vīrakaḥ ǀ gṛham-gṛham ǀ vi-cākaśat ǀ
imam ǀ jambha-sutam ǀ piba ǀ dhānā-vantam ǀ karambhiṇam ǀ apūpa-vantam ǀ ukthinam ǁ8.91.2 Aṣṭaka 6.6.14.2Anuvāka 8.9.77
-
Ṛk 3
आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि ।
शनै॑रिव शन॒कैरि॒वेंद्रा॑येंदो॒ परि॑ स्रव ॥आ चन त्वा चिकित्सामो ऽधि चन त्वा नेमसि |
शनैर् इव शनकैर् इवेन्द्रायेन्दो परि स्रव ||ā́ caná tvā cikitsāmó’dhi caná tvā némasi ǀ
śánairiva śanakáirivéndrāyendo pári srava ǁā cana tvā cikitsāmo 'dhi cana tvā nemasi |
śanair iva śanakair ivendrāyendo pari srava ||आ । च॒न । त्वा॒ । चि॒कि॒त्सा॒मः॒ । अधि॑ । च॒न । त्वा॒ । न । इ॒म॒सि॒ ।
शनैः॑ऽइव । श॒न॒कैःऽइ॑व । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥आ । चन । त्वा । चिकित्सामः । अधि । चन । त्वा । न । इमसि ।
शनैःऽइव । शनकैःऽइव । इन्द्राय । इन्दो इति । परि । स्रव ॥ā́ ǀ caná ǀ tvā ǀ cikitsāmaḥ ǀ ádhi ǀ caná ǀ tvā ǀ ná ǀ imasi ǀ
śánaiḥ-iva ǀ śanakáiḥ-iva ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁā ǀ cana ǀ tvā ǀ cikitsāmaḥ ǀ adhi ǀ cana ǀ tvā ǀ na ǀ imasi ǀ
śanaiḥ-iva ǀ śanakaiḥ-iva ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ8.91.3 Aṣṭaka 6.6.14.3Anuvāka 8.9.78
-
Ṛk 4
कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् ।
कु॒वित्प॑ति॒द्विषो॑ य॒तीरिंद्रे॑ण सं॒गमा॑महै ॥कुविच् छकत् कुवित् करत् कुविन् नो वस्यसस् करत् |
कुवित् पतिद्विषो यतीर् इन्द्रेण संगमामहै ||kuvícchákatkuvítkáratkuvínno vásyasaskárat ǀ
kuvítpatidvíṣo yatī́ríndreṇa saṃgámāmahai ǁkuvic chakat kuvit karat kuvin no vasyasas karat |
kuvit patidviṣo yatīr indreṇa saṃgamāmahai ||कु॒वित् । शक॑त् । कु॒वित् । कर॑त् । कु॒वित् । नः॒ । वस्य॑सः । कर॑त् ।
कु॒वित् । प॒ति॒ऽद्विषः॑ । य॒तीः । इन्द्रे॑ण । स॒म्ऽगमा॑महै ॥कुवित् । शकत् । कुवित् । करत् । कुवित् । नः । वस्यसः । करत् ।
कुवित् । पतिऽद्विषः । यतीः । इन्द्रेण । सम्ऽगमामहै ॥kuvít ǀ śákat ǀ kuvít ǀ kárat ǀ kuvít ǀ naḥ ǀ vásyasaḥ ǀ kárat ǀ
kuvít ǀ pati-dvíṣaḥ ǀ yatī́ḥ ǀ índreṇa ǀ sam-gámāmahai ǁkuvit ǀ śakat ǀ kuvit ǀ karat ǀ kuvit ǀ naḥ ǀ vasyasaḥ ǀ karat ǀ
kuvit ǀ pati-dviṣaḥ ǀ yatīḥ ǀ indreṇa ǀ sam-gamāmahai ǁ8.91.4 Aṣṭaka 6.6.14.4Anuvāka 8.9.79
-
Ṛk 5
इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानीं॑द्र॒ वि रो॑हय ।
शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय |
शिरस् ततस्योर्वराम् आद् इदम् म उपोदरे ||imā́ni trī́ṇi viṣṭápā tā́nīndra ví rohaya ǀ
śírastatásyorvárāmā́didám ma úpodáre ǁimāni trīṇi viṣṭapā tānīndra vi rohaya |
śiras tatasyorvarām ād idam ma upodare ||इ॒मानि॑ । त्रीणि॑ । वि॒ष्टपा॑ । तानि॑ । इ॒न्द्र॒ । वि । रो॒ह॒य॒ ।
शिरः॑ । त॒तस्य॑ । उ॒र्वरा॑म् । आत् । इ॒दम् । मे॒ । उप॑ । उ॒दरे॑ ॥इमानि । त्रीणि । विष्टपा । तानि । इन्द्र । वि । रोहय ।
शिरः । ततस्य । उर्वराम् । आत् । इदम् । मे । उप । उदरे ॥imā́ni ǀ trī́ṇi ǀ viṣṭápā ǀ tā́ni ǀ indra ǀ ví ǀ rohaya ǀ
śíraḥ ǀ tatásya ǀ urvárām ǀ ā́t ǀ idám ǀ me ǀ úpa ǀ udáre ǁimāni ǀ trīṇi ǀ viṣṭapā ǀ tāni ǀ indra ǀ vi ǀ rohaya ǀ
śiraḥ ǀ tatasya ǀ urvarām ǀ āt ǀ idam ǀ me ǀ upa ǀ udare ǁ8.91.5 Aṣṭaka 6.6.14.5Anuvāka 8.9.80
-
Ṛk 6
अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ ।
अथो॑ त॒तस्य॒ यच्छिरः॒ सर्वा॒ ता रो॑म॒शा कृ॑धि ॥असौ च या न उर्वराद् इमां तन्वम् मम |
अथो ततस्य यच् छिरः सर्वा ता रोमशा कृधि ||asáu ca yā́ na urvárā́dimā́m tanvám máma ǀ
átho tatásya yácchíraḥ sárvā tā́ romaśā́ kṛdhi ǁasau ca yā na urvarād imāṃ tanvam mama |
atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi ||अ॒सौ । च॒ । या । नः॒ । उ॒र्वरा॑ । आत् । इ॒माम् । त॒न्व॑म् । मम॑ ।
अथो॒ इति॑ । त॒तस्य॑ । यत् । शिरः॑ । सर्वा॑ । ता । रो॒म॒शा । कृ॒धि॒ ॥असौ । च । या । नः । उर्वरा । आत् । इमाम् । तन्वम् । मम ।
अथो इति । ततस्य । यत् । शिरः । सर्वा । ता । रोमशा । कृधि ॥asáu ǀ ca ǀ yā́ ǀ naḥ ǀ urvárā ǀ ā́t ǀ imā́m ǀ tanvám ǀ máma ǀ
átho íti ǀ tatásya ǀ yát ǀ śíraḥ ǀ sárvā ǀ tā́ ǀ romaśā́ ǀ kṛdhi ǁasau ǀ ca ǀ yā ǀ naḥ ǀ urvarā ǀ āt ǀ imām ǀ tanvam ǀ mama ǀ
atho iti ǀ tatasya ǀ yat ǀ śiraḥ ǀ sarvā ǀ tā ǀ romaśā ǀ kṛdhi ǁ8.91.6 Aṣṭaka 6.6.14.6Anuvāka 8.9.81
-
Ṛk 7
खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो ।
अ॒पा॒लामिं॑द्र॒ त्रिष्पू॒त्व्यकृ॑णोः॒ सूर्य॑त्वचं ॥खे रथस्य खे ऽनसः खे युगस्य शतक्रतो |
अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोः सूर्यत्वचम् ||khé ráthasya khé’nasaḥ khé yugásya śatakrato ǀ
apālā́mindra tríṣpūtvyákṛṇoḥ sū́ryatvacam ǁkhe rathasya khe 'nasaḥ khe yugasya śatakrato |
apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam ||खे । रथ॑स्य । खे । अन॑सः । खे । यु॒गस्य॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
अ॒पा॒लाम् । इ॒न्द्र॒ । त्रिः । पू॒त्वी । अकृ॑णोः । सूर्य॑ऽत्वचम् ॥खे । रथस्य । खे । अनसः । खे । युगस्य । शतक्रतो इति शतऽक्रतो ।
अपालाम् । इन्द्र । त्रिः । पूत्वी । अकृणोः । सूर्यऽत्वचम् ॥khé ǀ ráthasya ǀ khé ǀ ánasaḥ ǀ khé ǀ yugásya ǀ śatakrato íti śata-krato ǀ
apālā́m ǀ indra ǀ tríḥ ǀ pūtvī́ ǀ ákṛṇoḥ ǀ sū́rya-tvacam ǁkhe ǀ rathasya ǀ khe ǀ anasaḥ ǀ khe ǀ yugasya ǀ śatakrato iti śata-krato ǀ
apālām ǀ indra ǀ triḥ ǀ pūtvī ǀ akṛṇoḥ ǀ sūrya-tvacam ǁ8.91.7 Aṣṭaka 6.6.14.7Anuvāka 8.9.82
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.