Ṛgveda · Maṇḍala 8

Sūkta 2

Indra · Vibhindu’s Dānastuti · 1-40: Medhātithi Kāṇva; Priyamedha Āṅgirasa; 41, 42: Medhātithi Kāṇva · 42 ṛks

Link
Devatā देवता
1-40: Indra; 41, 42: Vibhindu’s Dānastuti
Ṛṣi ऋषि
1-40: Medhātithi Kāṇva; Priyamedha Āṅgirasa; 41, 42: Medhātithi Kāṇva
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Metres by ṛk

1st set of styles ārṣīgāyatrī (1-3, 5, 6, 9, 11, 12, 14, 16-18, 22, 27, 29, 31, 33, 35, 37-39); nicṛdārṣīgāyatrī (4, 13, 15, 19-21, 23-26, 30, 32, 36, 42); virāḍārṣīgāyatrī (7, 8, 10, 34, 40); nicṛdanuṣṭup (28); gāyatrī (pādanicṛdgāyatrī) (41)

2nd set of styles gāyatrī (1-27, 29-42); anuṣṭubh (28)

  1. Ṛk 1

    इ॒दं व॑सो सु॒तमंधः॒ पिबा॒ सुपू॑र्णमु॒दरं॑ ।
    अना॑भयिन्ररि॒मा ते॑ ॥

    इदं वसो सुतम् अन्धः पिबा सुपूर्णम् उदरम् |
    अनाभयिन् ररिमा ते ||

    idám vaso sutámándhaḥ píbā súpūrṇamudáram ǀ
    ánābhayinrarimā́ te ǁ

    idaṃ vaso sutam andhaḥ pibā supūrṇam udaram |
    anābhayin rarimā te ||

    इ॒दम् । व॒सो॒ इति॑ । सु॒तम् । अन्धः॑ । पिब॑ । सुऽपू॑र्णम् । उ॒दर॑म् ।
    अना॑भयिन् । र॒रि॒म । ते॒ ॥

    इदम् । वसो इति । सुतम् । अन्धः । पिब । सुऽपूर्णम् । उदरम् ।
    अनाभयिन् । ररिम । ते ॥

    idám ǀ vaso íti ǀ sutám ǀ ándhaḥ ǀ píba ǀ sú-pūrṇam ǀ udáram ǀ
    ánābhayin ǀ rarimá ǀ te ǁ

    idam ǀ vaso iti ǀ sutam ǀ andhaḥ ǀ piba ǀ su-pūrṇam ǀ udaram ǀ
    anābhayin ǀ rarima ǀ te ǁ

    8.2.1 Aṣṭaka 5.7.17.1Anuvāka 8.1.35

  2. Ṛk 2

    नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारैः॒ परि॑पूतः ।
    अश्वो॒ न नि॒क्तो न॒दीषु॑ ॥

    नृभिर् धूतः सुतो अश्नैर् अव्यो वारैः परिपूतः |
    अश्वो न निक्तो नदीषु ||

    nṛ́bhirdhūtáḥ sutó áśnairávyo vā́raiḥ páripūtaḥ ǀ
    áśvo ná niktó nadī́ṣu ǁ

    nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ |
    aśvo na nikto nadīṣu ||

    नृऽभिः॑ । धू॒तः । सु॒तः । अश्नैः॑ । अव्यः॑ । वारैः॑ । परि॑ऽपूतः ।
    अश्वः॑ । न । नि॒क्तः । न॒दीषु॑ ॥

    नृऽभिः । धूतः । सुतः । अश्नैः । अव्यः । वारैः । परिऽपूतः ।
    अश्वः । न । निक्तः । नदीषु ॥

    nṛ́-bhiḥ ǀ dhūtáḥ ǀ sutáḥ ǀ áśnaiḥ ǀ ávyaḥ ǀ vā́raiḥ ǀ pári-pūtaḥ ǀ
    áśvaḥ ǀ ná ǀ niktáḥ ǀ nadī́ṣu ǁ

    nṛ-bhiḥ ǀ dhūtaḥ ǀ sutaḥ ǀ aśnaiḥ ǀ avyaḥ ǀ vāraiḥ ǀ pari-pūtaḥ ǀ
    aśvaḥ ǀ na ǀ niktaḥ ǀ nadīṣu ǁ

    8.2.2 Aṣṭaka 5.7.17.2Anuvāka 8.1.36

  3. Ṛk 3

    तं ते॒ यवं॒ यथा॒ गोभिः॑ स्वा॒दुम॑कर्म श्री॒णंतः॑ ।
    इंद्र॑ त्वा॒स्मिन्त्स॑ध॒मादे॑ ॥

    तं ते यवं यथा गोभिः स्वादुम् अकर्म श्रीणन्तः |
    इन्द्र त्वास्मिन् सधमादे ||

    tám te yávam yáthā góbhiḥ svādúmakarma śrīṇántaḥ ǀ
    índra tvāsmíntsadhamā́de ǁ

    taṃ te yavaṃ yathā gobhiḥ svādum akarma śrīṇantaḥ |
    indra tvāsmin sadhamāde ||

    तम् । ते॒ । यव॑म् । यथा॑ । गोभिः॑ । स्वा॒दुम् । अ॒क॒र्म॒ । श्री॒णन्तः॑ ।
    इन्द्र॑ । त्वा॒ । अ॒स्मिन् । स॒ध॒ऽमादे॑ ॥

    तम् । ते । यवम् । यथा । गोभिः । स्वादुम् । अकर्म । श्रीणन्तः ।
    इन्द्र । त्वा । अस्मिन् । सधऽमादे ॥

    tám ǀ te ǀ yávam ǀ yáthā ǀ góbhiḥ ǀ svādúm ǀ akarma ǀ śrīṇántaḥ ǀ
    índra ǀ tvā ǀ asmín ǀ sadha-mā́de ǁ

    tam ǀ te ǀ yavam ǀ yathā ǀ gobhiḥ ǀ svādum ǀ akarma ǀ śrīṇantaḥ ǀ
    indra ǀ tvā ǀ asmin ǀ sadha-māde ǁ

    8.2.3 Aṣṭaka 5.7.17.3Anuvāka 8.1.37

  4. Ṛk 4

    इंद्र॒ इत्सो॑म॒पा एक॒ इंद्रः॑ सुत॒पा वि॒श्वायुः॑ ।
    अं॒तर्दे॒वान्मर्त्यां॑श्च ॥

    इन्द्र इत् सोमपा एक इन्द्रः सुतपा विश्वायुः |
    अन्तर् देवान् मर्त्यांश् च ||

    índra ítsomapā́ éka índraḥ sutapā́ viśvā́yuḥ ǀ
    antárdevā́nmártyāṃśca ǁ

    indra it somapā eka indraḥ sutapā viśvāyuḥ |
    antar devān martyāṃś ca ||

    इन्द्रः॑ । इत् । सो॒म॒ऽपाः । एकः॑ । इन्द्रः॑ । सु॒त॒ऽपाः । वि॒श्वऽआ॑युः ।
    अ॒न्तः । दे॒वान् । मर्त्या॑न् । च॒ ॥

    इन्द्रः । इत् । सोमऽपाः । एकः । इन्द्रः । सुतऽपाः । विश्वऽआयुः ।
    अन्तः । देवान् । मर्त्यान् । च ॥

    índraḥ ǀ ít ǀ soma-pā́ḥ ǀ ékaḥ ǀ índraḥ ǀ suta-pā́ḥ ǀ viśvá-āyuḥ ǀ
    antáḥ ǀ devā́n ǀ mártyān ǀ ca ǁ

    indraḥ ǀ it ǀ soma-pāḥ ǀ ekaḥ ǀ indraḥ ǀ suta-pāḥ ǀ viśva-āyuḥ ǀ
    antaḥ ǀ devān ǀ martyān ǀ ca ǁ

    8.2.4 Aṣṭaka 5.7.17.4Anuvāka 8.1.38

  5. Ṛk 5

    न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सं ।
    अ॒प॒स्पृ॒ण्व॒ते सु॒हार्दं॑ ॥

    न यं शुक्रो न दुराशीर् न तृप्रा उरुव्यचसम् |
    अपस्पृण्वते सुहार्दम् ||

    ná yám śukró ná dúrāśīrná tṛprā́ uruvyácasam ǀ
    apaspṛṇvaté suhā́rdam ǁ

    na yaṃ śukro na durāśīr na tṛprā uruvyacasam |
    apaspṛṇvate suhārdam ||

    न । यम् । शु॒क्रः । न । दुःऽआ॑शीः । न । तृ॒प्राः । उ॒रु॒ऽव्यच॑सम् ।
    अ॒प॒ऽस्पृ॒ण्व॒ते । सु॒ऽहार्द॑म् ॥

    न । यम् । शुक्रः । न । दुःऽआशीः । न । तृप्राः । उरुऽव्यचसम् ।
    अपऽस्पृण्वते । सुऽहार्दम् ॥

    ná ǀ yám ǀ śukráḥ ǀ ná ǀ dúḥ-āśīḥ ǀ ná ǀ tṛprā́ḥ ǀ uru-vyácasam ǀ
    apa-spṛṇvaté ǀ su-hā́rdam ǁ

    na ǀ yam ǀ śukraḥ ǀ na ǀ duḥ-āśīḥ ǀ na ǀ tṛprāḥ ǀ uru-vyacasam ǀ
    apa-spṛṇvate ǀ su-hārdam ǁ

    8.2.5 Aṣṭaka 5.7.17.5Anuvāka 8.1.39

  6. Ṛk 6

    गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गयं॑ते ।
    अ॒भि॒त्सरं॑ति धे॒नुभिः॑ ॥

    गोभिर् यद् ईम् अन्ये अस्मन् मृगं न व्रा मृगयन्ते |
    अभित्सरन्ति धेनुभिः ||

    góbhiryádīmanyé asmánmṛgám ná vrā́ mṛgáyante ǀ
    abhitsáranti dhenúbhiḥ ǁ

    gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante |
    abhitsaranti dhenubhiḥ ||

    गोभिः॑ । यत् । ई॒म् । अ॒न्ये । अ॒स्मत् । मृ॒गम् । न । व्राः । मृ॒गय॑न्ते ।
    अ॒भि॒ऽत्सर॑न्ति । धे॒नुऽभिः॑ ॥

    गोभिः । यत् । ईम् । अन्ये । अस्मत् । मृगम् । न । व्राः । मृगयन्ते ।
    अभिऽत्सरन्ति । धेनुऽभिः ॥

    góbhiḥ ǀ yát ǀ īm ǀ anyé ǀ asmát ǀ mṛgám ǀ ná ǀ vrā́ḥ ǀ mṛgáyante ǀ
    abhi-tsáranti ǀ dhenú-bhiḥ ǁ

    gobhiḥ ǀ yat ǀ īm ǀ anye ǀ asmat ǀ mṛgam ǀ na ǀ vrāḥ ǀ mṛgayante ǀ
    abhi-tsaranti ǀ dhenu-bhiḥ ǁ

    8.2.6 Aṣṭaka 5.7.18.1Anuvāka 8.1.40

  7. Ṛk 7

    त्रय॒ इंद्र॑स्य॒ सोमाः॑ सु॒तासः॑ संतु दे॒वस्य॑ ।
    स्वे क्षये॑ सुत॒पाव्नः॑ ॥

    त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य |
    स्वे क्षये सुतपाव्नः ||

    tráya índrasya sómāḥ sutā́saḥ santu devásya ǀ
    své kṣáye sutapā́vnaḥ ǁ

    traya indrasya somāḥ sutāsaḥ santu devasya |
    sve kṣaye sutapāvnaḥ ||

    त्रयः॑ । इन्द्र॑स्य । सोमाः॑ । सु॒तासः॑ । स॒न्तु॒ । दे॒वस्य॑ ।
    स्वे । क्षये॑ । सु॒त॒ऽपाव्नः॑ ॥

    त्रयः । इन्द्रस्य । सोमाः । सुतासः । सन्तु । देवस्य ।
    स्वे । क्षये । सुतऽपाव्नः ॥

    tráyaḥ ǀ índrasya ǀ sómāḥ ǀ sutā́saḥ ǀ santu ǀ devásya ǀ
    své ǀ kṣáye ǀ suta-pā́vnaḥ ǁ

    trayaḥ ǀ indrasya ǀ somāḥ ǀ sutāsaḥ ǀ santu ǀ devasya ǀ
    sve ǀ kṣaye ǀ suta-pāvnaḥ ǁ

    8.2.7 Aṣṭaka 5.7.18.2Anuvāka 8.1.41

  8. Ṛk 8

    त्रयः॒ कोशा॑सः श्चोतंति ति॒स्रश्च॒म्वः१॒॑ सुपू॑र्णाः ।
    स॒मा॒ने अधि॒ भार्म॑न् ॥

    त्रयः कोशास श्चोतन्ति तिस्रश् चम्वः सुपूर्णाः |
    समाने अधि भार्मन् ||

    tráyaḥ kóśāsaḥ ścotanti tisráścamváḥ súpūrṇāḥ ǀ
    samāné ádhi bhā́rman ǁ

    trayaḥ kośāsa ścotanti tisraś camvaḥ supūrṇāḥ |
    samāne adhi bhārman ||

    त्रयः॑ । कोशा॑सः । श्चो॒त॒न्ति॒ । ति॒स्रः । च॒म्वः॑ । सुऽपू॑र्णाः ।
    स॒मा॒ने । अधि॑ । भार्म॑न् ॥

    त्रयः । कोशासः । श्चोतन्ति । तिस्रः । चम्वः । सुऽपूर्णाः ।
    समाने । अधि । भार्मन् ॥

    tráyaḥ ǀ kóśāsaḥ ǀ ścotanti ǀ tisráḥ ǀ camváḥ ǀ sú-pūrṇāḥ ǀ
    samāné ǀ ádhi ǀ bhā́rman ǁ

    trayaḥ ǀ kośāsaḥ ǀ ścotanti ǀ tisraḥ ǀ camvaḥ ǀ su-pūrṇāḥ ǀ
    samāne ǀ adhi ǀ bhārman ǁ

    8.2.8 Aṣṭaka 5.7.18.3Anuvāka 8.1.42

  9. Ṛk 9

    शुचि॑रसि पुरुनिः॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः ।
    द॒ध्ना मंदि॑ष्ठः॒ शूर॑स्य ॥

    शुचिर् असि पुरुनिष्ठाः क्षीरैर् मध्यत आशीर्तः |
    दध्ना मन्दिष्ठः शूरस्य ||

    śúcirasi puruniḥṣṭhā́ḥ kṣīráirmadhyatá ā́śīrtaḥ ǀ
    dadhnā́ mándiṣṭhaḥ śū́rasya ǁ

    śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ |
    dadhnā mandiṣṭhaḥ śūrasya ||

    शुचिः॑ । अ॒सि॒ । पु॒रु॒निः॒ऽस्थाः । क्षी॒रैः । म॒ध्य॒तः । आऽशी॑र्तः ।
    द॒ध्ना । मन्दि॑ष्ठः । शूर॑स्य ॥

    शुचिः । असि । पुरुनिःऽस्थाः । क्षीरैः । मध्यतः । आऽशीर्तः ।
    दध्ना । मन्दिष्ठः । शूरस्य ॥

    śúciḥ ǀ asi ǀ puruniḥ-sthā́ḥ ǀ kṣīráiḥ ǀ madhyatáḥ ǀ ā́-śīrtaḥ ǀ
    dadhnā́ ǀ mándiṣṭhaḥ ǀ śū́rasya ǁ

    śuciḥ ǀ asi ǀ puruniḥ-sthāḥ ǀ kṣīraiḥ ǀ madhyataḥ ǀ ā-śīrtaḥ ǀ
    dadhnā ǀ mandiṣṭhaḥ ǀ śūrasya ǁ

    8.2.9 Aṣṭaka 5.7.18.4Anuvāka 8.1.43

  10. Ṛk 10

    इ॒मे त॑ इंद्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तासः॑ ।
    शु॒क्रा आ॒शिरं॑ याचंते ॥

    इमे त इन्द्र सोमास् तीव्रा अस्मे सुतासः |
    शुक्रा आशिरं याचन्ते ||

    imé ta indra sómāstīvrā́ asmé sutā́saḥ ǀ
    śukrā́ āśíram yācante ǁ

    ime ta indra somās tīvrā asme sutāsaḥ |
    śukrā āśiraṃ yācante ||

    इ॒मे । ते॒ । इ॒न्द्र॒ । सोमाः॑ । ती॒व्राः । अ॒स्मे इति॑ । सु॒तासः॑ ।
    शु॒क्राः । आ॒ऽशिर॑म् । या॒च॒न्ते॒ ॥

    इमे । ते । इन्द्र । सोमाः । तीव्राः । अस्मे इति । सुतासः ।
    शुक्राः । आऽशिरम् । याचन्ते ॥

    imé ǀ te ǀ indra ǀ sómāḥ ǀ tīvrā́ḥ ǀ asmé íti ǀ sutā́saḥ ǀ
    śukrā́ḥ ǀ ā-śíram ǀ yācante ǁ

    ime ǀ te ǀ indra ǀ somāḥ ǀ tīvrāḥ ǀ asme iti ǀ sutāsaḥ ǀ
    śukrāḥ ǀ ā-śiram ǀ yācante ǁ

    8.2.10 Aṣṭaka 5.7.18.5Anuvāka 8.1.44

  11. Ṛk 11

    ताँ आ॒शिरं॑ पुरो॒ळाश॒मिंद्रे॒मं सोमं॑ श्रीणीहि ।
    रे॒वंतं॒ हि त्वा॑ शृ॒णोमि॑ ॥

    तां आशिरम् पुरोऌआशम् इन्द्रेमं सोमं श्रीणीहि |
    रेवन्तं हि त्वा शृणोमि ||

    tā́m̐ āśíram puroḷā́śamíndremám sómam śrīṇīhi ǀ
    revántam hí tvā śṛṇómi ǁ

    tāṃ āśiram puroḷāśam indremaṃ somaṃ śrīṇīhi |
    revantaṃ hi tvā śṛṇomi ||

    तान् । आ॒ऽशिर॑म् । पु॒रो॒ळाश॑म् । इन्द्र॑ । इ॒मम् । सोम॑म् । श्री॒णी॒हि॒ ।
    रे॒वन्त॑म् । हि । त्वा॒ । शृ॒णोमि॑ ॥

    तान् । आऽशिरम् । पुरोळाशम् । इन्द्र । इमम् । सोमम् । श्रीणीहि ।
    रेवन्तम् । हि । त्वा । शृणोमि ॥

    tā́n ǀ ā-śíram ǀ puroḷā́śam ǀ índra ǀ imám ǀ sómam ǀ śrīṇīhi ǀ
    revántam ǀ hí ǀ tvā ǀ śṛṇómi ǁ

    tān ǀ ā-śiram ǀ puroḷāśam ǀ indra ǀ imam ǀ somam ǀ śrīṇīhi ǀ
    revantam ǀ hi ǀ tvā ǀ śṛṇomi ǁ

    8.2.11 Aṣṭaka 5.7.19.1Anuvāka 8.1.45

  12. Ṛk 12

    हृ॒त्सु पी॒तासो॑ युध्यंते दु॒र्मदा॑सो॒ न सुरा॑यां ।
    ऊध॒र्न न॒ग्ना ज॑रंते ॥

    हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् |
    ऊधर् न नग्ना जरन्ते ||

    hṛtsú pītā́so yudhyante durmádāso ná súrāyām ǀ
    ū́dharná nagnā́ jarante ǁ

    hṛtsu pītāso yudhyante durmadāso na surāyām |
    ūdhar na nagnā jarante ||

    हृ॒त्ऽसु । पी॒तासः॑ । यु॒ध्य॒न्ते॒ । दुः॒ऽमदा॑सः । न । सुरा॑याम् ।
    ऊधः॑ । न । न॒ग्नाः । ज॒र॒न्ते॒ ॥

    हृत्ऽसु । पीतासः । युध्यन्ते । दुःऽमदासः । न । सुरायाम् ।
    ऊधः । न । नग्नाः । जरन्ते ॥

    hṛt-sú ǀ pītā́saḥ ǀ yudhyante ǀ duḥ-mádāsaḥ ǀ ná ǀ súrāyām ǀ
    ū́dhaḥ ǀ ná ǀ nagnā́ḥ ǀ jarante ǁ

    hṛt-su ǀ pītāsaḥ ǀ yudhyante ǀ duḥ-madāsaḥ ǀ na ǀ surāyām ǀ
    ūdhaḥ ǀ na ǀ nagnāḥ ǀ jarante ǁ

    8.2.12 Aṣṭaka 5.7.19.2Anuvāka 8.1.46

  13. Ṛk 13

    रे॒वाँ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ ।
    प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥

    रेवां इद् रेवत स्तोता स्यात् त्वावतो मघोनः |
    प्रेद् उ हरिवः श्रुतस्य ||

    revā́m̐ ídrevátaḥ stotā́ syā́ttvā́vato maghónaḥ ǀ
    prédu harivaḥ śrutásya ǁ

    revāṃ id revata stotā syāt tvāvato maghonaḥ |
    pred u harivaḥ śrutasya ||

    रे॒वान् । इत् । रे॒वतः॑ । स्तो॒ता । स्यात् । त्वाऽव॑तः । म॒घोनः॑ ।
    प्र । इत् । ऊं॒ इति॑ । ह॒रि॒ऽवः॒ । श्रु॒तस्य॑ ॥

    रेवान् । इत् । रेवतः । स्तोता । स्यात् । त्वाऽवतः । मघोनः ।
    प्र । इत् । ऊं इति । हरिऽवः । श्रुतस्य ॥

    revā́n ǀ ít ǀ revátaḥ ǀ stotā́ ǀ syā́t ǀ tvā́-vataḥ ǀ maghónaḥ ǀ
    prá ǀ ít ǀ ūṃ íti ǀ hari-vaḥ ǀ śrutásya ǁ

    revān ǀ it ǀ revataḥ ǀ stotā ǀ syāt ǀ tvā-vataḥ ǀ maghonaḥ ǀ
    pra ǀ it ǀ ūṃ iti ǀ hari-vaḥ ǀ śrutasya ǁ

    8.2.13 Aṣṭaka 5.7.19.3Anuvāka 8.1.47

  14. Ṛk 14

    उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत ।
    न गा॑य॒त्रं गी॒यमा॑नं ॥

    उक्थं चन शस्यमानम् अगोर् अरिर् आ चिकेत |
    न गायत्रं गीयमानम् ||

    ukthám caná śasyámānamágorarírā́ ciketa ǀ
    ná gāyatrám gīyámānam ǁ

    ukthaṃ cana śasyamānam agor arir ā ciketa |
    na gāyatraṃ gīyamānam ||

    उ॒क्थम् । च॒न । श॒स्यमा॑नम् । अगोः॑ । अ॒रिः । आ । चि॒के॒त॒ ।
    न । गा॒य॒त्रम् । गी॒यमा॑नम् ॥

    उक्थम् । चन । शस्यमानम् । अगोः । अरिः । आ । चिकेत ।
    न । गायत्रम् । गीयमानम् ॥

    ukthám ǀ caná ǀ śasyámānam ǀ ágoḥ ǀ aríḥ ǀ ā́ ǀ ciketa ǀ
    ná ǀ gāyatrám ǀ gīyámānam ǁ

    uktham ǀ cana ǀ śasyamānam ǀ agoḥ ǀ ariḥ ǀ ā ǀ ciketa ǀ
    na ǀ gāyatram ǀ gīyamānam ǁ

    8.2.14 Aṣṭaka 5.7.19.4Anuvāka 8.1.48

  15. Ṛk 15

    मा न॑ इंद्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा॑ दाः ।
    शिक्षा॑ शचीवः॒ शची॑भिः ॥

    मा न इन्द्र पीयत्नवे मा शर्धते परा दाः |
    शिक्षा शचीवः शचीभिः ||

    mā́ na indra pīyatnáve mā́ śárdhate párā dāḥ ǀ
    śíkṣā śacīvaḥ śácībhiḥ ǁ

    mā na indra pīyatnave mā śardhate parā dāḥ |
    śikṣā śacīvaḥ śacībhiḥ ||

    मा । नः॒ । इ॒न्द्र॒ । पी॒य॒त्नवे॑ । मा । शर्ध॑ते । परा॑ । दाः॒ ।
    शिक्ष॑ । श॒ची॒ऽवः॒ । शची॑भिः ॥

    मा । नः । इन्द्र । पीयत्नवे । मा । शर्धते । परा । दाः ।
    शिक्ष । शचीऽवः । शचीभिः ॥

    mā́ ǀ naḥ ǀ indra ǀ pīyatnáve ǀ mā́ ǀ śárdhate ǀ párā ǀ dāḥ ǀ
    śíkṣa ǀ śacī-vaḥ ǀ śácībhiḥ ǁ

    mā ǀ naḥ ǀ indra ǀ pīyatnave ǀ mā ǀ śardhate ǀ parā ǀ dāḥ ǀ
    śikṣa ǀ śacī-vaḥ ǀ śacībhiḥ ǁ

    8.2.15 Aṣṭaka 5.7.19.5Anuvāka 8.1.49

  16. Ṛk 16

    व॒यमु॑ त्वा त॒दिद॑र्था॒ इंद्र॑ त्वा॒यंतः॒ सखा॑यः ।
    कण्वा॑ उ॒क्थेभि॑र्जरंते ॥

    वयम् उ त्वा तदिदर्था इन्द्र त्वायन्तः सखायः |
    कण्वा उक्थेभिर् जरन्ते ||

    vayámu tvā tadídarthā índra tvāyántaḥ sákhāyaḥ ǀ
    káṇvā ukthébhirjarante ǁ

    vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ |
    kaṇvā ukthebhir jarante ||

    व॒यम् । ऊं॒ इति॑ । त्वा॒ । त॒दित्ऽअ॑र्थाः । इन्द्र॑ । त्वा॒ऽयन्तः॑ । सखा॑यः ।
    कण्वाः॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ ॥

    वयम् । ऊं इति । त्वा । तदित्ऽअर्थाः । इन्द्र । त्वाऽयन्तः । सखायः ।
    कण्वाः । उक्थेभिः । जरन्ते ॥

    vayám ǀ ūṃ íti ǀ tvā ǀ tadít-arthāḥ ǀ índra ǀ tvā-yántaḥ ǀ sákhāyaḥ ǀ
    káṇvāḥ ǀ ukthébhiḥ ǀ jarante ǁ

    vayam ǀ ūṃ iti ǀ tvā ǀ tadit-arthāḥ ǀ indra ǀ tvā-yantaḥ ǀ sakhāyaḥ ǀ
    kaṇvāḥ ǀ ukthebhiḥ ǀ jarante ǁ

    8.2.16 Aṣṭaka 5.7.20.1Anuvāka 8.1.50

  17. Ṛk 17

    न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ ।
    तवेदु॒ स्तोमं॑ चिकेत ॥

    न घेम् अन्यद् आ पपन वज्रिन्न् अपसो नविष्टौ |
    तवेद् उ स्तोमं चिकेत ||

    ná ghemanyádā́ papana vájrinnapáso náviṣṭau ǀ
    távédu stómam ciketa ǁ

    na ghem anyad ā papana vajrinn apaso naviṣṭau |
    taved u stomaṃ ciketa ||

    न । घ॒ । ई॒म् । अ॒न्यत् । आ । प॒प॒न॒ । वज्रि॑न् । अ॒पसः॑ । नवि॑ष्टौ ।
    तव॑ । इत् । ऊं॒ इति॑ । स्तोम॑म् । चि॒के॒त॒ ॥

    न । घ । ईम् । अन्यत् । आ । पपन । वज्रिन् । अपसः । नविष्टौ ।
    तव । इत् । ऊं इति । स्तोमम् । चिकेत ॥

    ná ǀ gha ǀ īm ǀ anyát ǀ ā́ ǀ papana ǀ vájrin ǀ apásaḥ ǀ náviṣṭau ǀ
    táva ǀ ít ǀ ūṃ íti ǀ stómam ǀ ciketa ǁ

    na ǀ gha ǀ īm ǀ anyat ǀ ā ǀ papana ǀ vajrin ǀ apasaḥ ǀ naviṣṭau ǀ
    tava ǀ it ǀ ūṃ iti ǀ stomam ǀ ciketa ǁ

    8.2.17 Aṣṭaka 5.7.20.2Anuvāka 8.1.51

  18. Ṛk 18

    इ॒च्छंति॑ दे॒वाः सु॒न्वंतं॒ न स्वप्ना॑य स्पृहयंति ।
    यंति॑ प्र॒माद॒मतं॑द्राः ॥

    इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति |
    यन्ति प्रमादम् अतन्द्राः ||

    icchánti devā́ḥ sunvántam ná svápnāya spṛhayanti ǀ
    yánti pramā́damátandrāḥ ǁ

    icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti |
    yanti pramādam atandrāḥ ||

    इ॒च्छन्ति॑ । दे॒वाः । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ ।
    यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्राः ॥

    इच्छन्ति । देवाः । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति ।
    यन्ति । प्रऽमादम् । अतन्द्राः ॥

    icchánti ǀ devā́ḥ ǀ sunvántam ǀ ná ǀ svápnāya ǀ spṛhayanti ǀ
    yánti ǀ pra-mā́dam ǀ átandrāḥ ǁ

    icchanti ǀ devāḥ ǀ sunvantam ǀ na ǀ svapnāya ǀ spṛhayanti ǀ
    yanti ǀ pra-mādam ǀ atandrāḥ ǁ

    8.2.18 Aṣṭaka 5.7.20.3Anuvāka 8.1.52

  19. Ṛk 19

    ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् ।
    म॒हाँ इ॑व॒ युव॑जानिः ॥

    ओ षु प्र याहि वाजेभिर् मा हृणीथा अभ्य् अस्मान् |
    महां इव युवजानिः ||

    ó ṣú prá yāhi vā́jebhirmā́ hṛṇīthā abhyásmā́n ǀ
    mahā́m̐ iva yúvajāniḥ ǁ

    o ṣu pra yāhi vājebhir mā hṛṇīthā abhy asmān |
    mahāṃ iva yuvajāniḥ ||

    ओ इति॑ । सु । प्र । या॒हि॒ । वाजे॑भिः । मा । हृ॒णी॒थाः॒ । अ॒भि । अ॒स्मान् ।
    म॒हान्ऽइ॑व । युव॑ऽजानिः ॥

    ओ इति । सु । प्र । याहि । वाजेभिः । मा । हृणीथाः । अभि । अस्मान् ।
    महान्ऽइव । युवऽजानिः ॥

    ó íti ǀ sú ǀ prá ǀ yāhi ǀ vā́jebhiḥ ǀ mā́ ǀ hṛṇīthāḥ ǀ abhí ǀ asmā́n ǀ
    mahā́n-iva ǀ yúva-jāniḥ ǁ

    o iti ǀ su ǀ pra ǀ yāhi ǀ vājebhiḥ ǀ mā ǀ hṛṇīthāḥ ǀ abhi ǀ asmān ǀ
    mahān-iva ǀ yuva-jāniḥ ǁ

    8.2.19 Aṣṭaka 5.7.20.4Anuvāka 8.1.53

  20. Ṛk 20

    मो ष्व१॒॑द्य दु॒र्हणा॑वांत्सा॒यं क॑रदा॒रे अ॒स्मत् ।
    अ॒श्री॒र इ॑व॒ जामा॑ता ॥

    मो ष्व् अद्य दुर्हणावान् सायं करद् आरे अस्मत् |
    अश्रीर इव जामाता ||

    mó ṣvádyá durháṇāvāntsāyám karadāré asmát ǀ
    aśrīrá iva jā́mātā ǁ

    mo ṣv adya durhaṇāvān sāyaṃ karad āre asmat |
    aśrīra iva jāmātā ||

    मो इति॑ । सु । अ॒द्य । दुः॒ऽहना॑वान् । सा॒यम् । क॒र॒त् । आ॒रे । अ॒स्मत् ।
    अ॒श्री॒रःऽइ॑व । जामा॑ता ॥

    मो इति । सु । अद्य । दुःऽहनावान् । सायम् । करत् । आरे । अस्मत् ।
    अश्रीरःऽइव । जामाता ॥

    mó íti ǀ sú ǀ adyá ǀ duḥ-hánāvān ǀ sāyám ǀ karat ǀ āré ǀ asmát ǀ
    aśrīráḥ-iva ǀ jā́mātā ǁ

    mo iti ǀ su ǀ adya ǀ duḥ-hanāvān ǀ sāyam ǀ karat ǀ āre ǀ asmat ǀ
    aśrīraḥ-iva ǀ jāmātā ǁ

    8.2.20 Aṣṭaka 5.7.20.5Anuvāka 8.1.54

  21. Ṛk 21

    वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिं ।
    त्रि॒षु जा॒तस्य॒ मनां॑सि ॥

    विद्मा ह्य् अस्य वीरस्य भूरिदावरीं सुमतिम् |
    त्रिषु जातस्य मनांसि ||

    vidmā́ hyásya vīrásya bhūridā́varīm sumatím ǀ
    triṣú jātásya mánāṃsi ǁ

    vidmā hy asya vīrasya bhūridāvarīṃ sumatim |
    triṣu jātasya manāṃsi ||

    वि॒द्म । हि । अ॒स्य॒ । वी॒रस्य॑ । भू॒रि॒ऽदाव॑रीम् । सु॒ऽम॒तिम् ।
    त्रि॒षु । जा॒तस्य॑ । मनां॑सि ॥

    विद्म । हि । अस्य । वीरस्य । भूरिऽदावरीम् । सुऽमतिम् ।
    त्रिषु । जातस्य । मनांसि ॥

    vidmá ǀ hí ǀ asya ǀ vīrásya ǀ bhūri-dā́varīm ǀ su-matím ǀ
    triṣú ǀ jātásya ǀ mánāṃsi ǁ

    vidma ǀ hi ǀ asya ǀ vīrasya ǀ bhūri-dāvarīm ǀ su-matim ǀ
    triṣu ǀ jātasya ǀ manāṃsi ǁ

    8.2.21 Aṣṭaka 5.7.21.1Anuvāka 8.1.55

  22. Ṛk 22

    आ तू षिं॑च॒ कण्व॑मंतं॒ न घा॑ विद्म शवसा॒नात् ।
    य॒शस्त॑रं श॒तमू॑तेः ॥

    आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् |
    यशस्तरं शतमूतेः ||

    ā́ tū́ ṣiñca káṇvamantam ná ghā vidma śavasānā́t ǀ
    yaśástaram śatámūteḥ ǁ

    ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt |
    yaśastaraṃ śatamūteḥ ||

    आ । तु । सि॒ञ्च॒ । कण्व॑ऽमन्तम् । न । घ॒ । वि॒द्म॒ । श॒व॒सा॒नात् ।
    य॒शःऽत॑रम् । श॒तम्ऽऊ॑तेः ॥

    आ । तु । सिञ्च । कण्वऽमन्तम् । न । घ । विद्म । शवसानात् ।
    यशःऽतरम् । शतम्ऽऊतेः ॥

    ā́ ǀ tú ǀ siñca ǀ káṇva-mantam ǀ ná ǀ gha ǀ vidma ǀ śavasānā́t ǀ
    yaśáḥ-taram ǀ śatám-ūteḥ ǁ

    ā ǀ tu ǀ siñca ǀ kaṇva-mantam ǀ na ǀ gha ǀ vidma ǀ śavasānāt ǀ
    yaśaḥ-taram ǀ śatam-ūteḥ ǁ

    8.2.22 Aṣṭaka 5.7.21.2Anuvāka 8.1.56

  23. Ṛk 23

    ज्येष्ठे॑न सोत॒रिंद्रा॑य॒ सोमं॑ वी॒राय॑ श॒क्राय॑ ।
    भरा॒ पिब॒न्नर्या॑य ॥

    ज्येष्ठेन सोतर् इन्द्राय सोमं वीराय शक्राय |
    भरा पिबन् नर्याय ||

    jyéṣṭhena sotaríndrāya sómam vīrā́ya śakrā́ya ǀ
    bhárā píbannáryāya ǁ

    jyeṣṭhena sotar indrāya somaṃ vīrāya śakrāya |
    bharā piban naryāya ||

    ज्येष्ठे॑न । सो॒तः॒ । इन्द्रा॑य । सोम॑म् । वी॒राय॑ । श॒क्राय॑ ।
    भर॑ । पिब॑त् । नर्या॑य ॥

    ज्येष्ठेन । सोतः । इन्द्राय । सोमम् । वीराय । शक्राय ।
    भर । पिबत् । नर्याय ॥

    jyéṣṭhena ǀ sotaḥ ǀ índrāya ǀ sómam ǀ vīrā́ya ǀ śakrā́ya ǀ
    bhára ǀ píbat ǀ náryāya ǁ

    jyeṣṭhena ǀ sotaḥ ǀ indrāya ǀ somam ǀ vīrāya ǀ śakrāya ǀ
    bhara ǀ pibat ǀ naryāya ǁ

    8.2.23 Aṣṭaka 5.7.21.3Anuvāka 8.1.57

  24. Ṛk 24

    यो वेदि॑ष्ठो अव्य॒थिष्वश्वा॑वंतं जरि॒तृभ्यः॑ ।
    वाजं॑ स्तो॒तृभ्यो॒ गोमं॑तं ॥

    यो वेदिष्ठो अव्यथिष्व् अश्वावन्तं जरितृभ्यः |
    वाजं स्तोतृभ्यो गोमन्तम् ||

    yó védiṣṭho avyathíṣváśvāvantam jaritṛ́bhyaḥ ǀ
    vā́jam stotṛ́bhyo gómantam ǁ

    yo vediṣṭho avyathiṣv aśvāvantaṃ jaritṛbhyaḥ |
    vājaṃ stotṛbhyo gomantam ||

    यः । वेदि॑ष्ठः । अ॒व्य॒थिषु॑ । अश्व॑ऽवन्तम् । ज॒रि॒तृऽभ्यः॑ ।
    वाज॑म् । स्तो॒तृऽभ्यः॑ । गोऽम॑न्तम् ॥

    यः । वेदिष्ठः । अव्यथिषु । अश्वऽवन्तम् । जरितृऽभ्यः ।
    वाजम् । स्तोतृऽभ्यः । गोऽमन्तम् ॥

    yáḥ ǀ védiṣṭhaḥ ǀ avyathíṣu ǀ áśva-vantam ǀ jaritṛ́-bhyaḥ ǀ
    vā́jam ǀ stotṛ́-bhyaḥ ǀ gó-mantam ǁ

    yaḥ ǀ vediṣṭhaḥ ǀ avyathiṣu ǀ aśva-vantam ǀ jaritṛ-bhyaḥ ǀ
    vājam ǀ stotṛ-bhyaḥ ǀ go-mantam ǁ

    8.2.24 Aṣṭaka 5.7.21.4Anuvāka 8.1.58

  25. Ṛk 25

    पन्यं॑पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य ।
    सोमं॑ वी॒राय॒ शूरा॑य ॥

    पन्यम्-पन्यम् इत् सोतार आ धावत मद्याय |
    सोमं वीराय शूराय ||

    pányampanyamítsotāra ā́ dhāvata mádyāya ǀ
    sómam vīrā́ya śū́rāya ǁ

    panyam-panyam it sotāra ā dhāvata madyāya |
    somaṃ vīrāya śūrāya ||

    पन्य॑म्ऽपन्यम् । इत् । सो॒ता॒रः॒ । आ । धा॒व॒त॒ । मद्या॑य ।
    सोम॑म् । वी॒राय॑ । शूरा॑य ॥

    पन्यम्ऽपन्यम् । इत् । सोतारः । आ । धावत । मद्याय ।
    सोमम् । वीराय । शूराय ॥

    pányam-panyam ǀ ít ǀ sotāraḥ ǀ ā́ ǀ dhāvata ǀ mádyāya ǀ
    sómam ǀ vīrā́ya ǀ śū́rāya ǁ

    panyam-panyam ǀ it ǀ sotāraḥ ǀ ā ǀ dhāvata ǀ madyāya ǀ
    somam ǀ vīrāya ǀ śūrāya ǁ

    8.2.25 Aṣṭaka 5.7.21.5Anuvāka 8.1.59

  26. Ṛk 26

    पाता॑ वृत्र॒हा सु॒तमा घा॑ गम॒न्नारे अ॒स्मत् ।
    नि य॑मते श॒तमू॑तिः ॥

    पाता वृत्रहा सुतम् आ घा गमन् नारे अस्मत् |
    नि यमते शतमूतिः ||

    pā́tā vṛtrahā́ sutámā́ ghā gamannā́ré asmát ǀ
    ní yamate śatámūtiḥ ǁ

    pātā vṛtrahā sutam ā ghā gaman nāre asmat |
    ni yamate śatamūtiḥ ||

    पाता॑ । वृ॒त्र॒ऽहा । सु॒तम् । आ । घ॒ । ग॒म॒त् । न । आ॒रे । अ॒स्मत् ।
    नि । य॒म॒ते॒ । श॒तम्ऽऊ॑तिः ॥

    पाता । वृत्रऽहा । सुतम् । आ । घ । गमत् । न । आरे । अस्मत् ।
    नि । यमते । शतम्ऽऊतिः ॥

    pā́tā ǀ vṛtra-hā́ ǀ sutám ǀ ā́ ǀ gha ǀ gamat ǀ ná ǀ āré ǀ asmát ǀ
    ní ǀ yamate ǀ śatám-ūtiḥ ǁ

    pātā ǀ vṛtra-hā ǀ sutam ǀ ā ǀ gha ǀ gamat ǀ na ǀ āre ǀ asmat ǀ
    ni ǀ yamate ǀ śatam-ūtiḥ ǁ

    8.2.26 Aṣṭaka 5.7.22.1Anuvāka 8.1.60

  27. Ṛk 27

    एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षतः॒ सखा॑यं ।
    गी॒र्भिः श्रु॒तं गिर्व॑णसं ॥

    एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् |
    गीर्भिः श्रुतं गिर्वणसम् ||

    éhá hárī brahmayújā śagmā́ vakṣataḥ sákhāyam ǀ
    gīrbhíḥ śrutám gírvaṇasam ǁ

    eha harī brahmayujā śagmā vakṣataḥ sakhāyam |
    gīrbhiḥ śrutaṃ girvaṇasam ||

    आ । इ॒ह । हरी॒ इति॑ । ब्र॒ह्म॒ऽयुजा॑ । श॒ग्मा । व॒क्ष॒तः॒ । सखा॑यम् ।
    गीः॒ऽभिः । श्रु॒तम् । गिर्व॑णसम् ॥

    आ । इह । हरी इति । ब्रह्मऽयुजा । शग्मा । वक्षतः । सखायम् ।
    गीःऽभिः । श्रुतम् । गिर्वणसम् ॥

    ā́ ǀ ihá ǀ hárī íti ǀ brahma-yújā ǀ śagmā́ ǀ vakṣataḥ ǀ sákhāyam ǀ
    gīḥ-bhíḥ ǀ śrutám ǀ gírvaṇasam ǁ

    ā ǀ iha ǀ harī iti ǀ brahma-yujā ǀ śagmā ǀ vakṣataḥ ǀ sakhāyam ǀ
    gīḥ-bhiḥ ǀ śrutam ǀ girvaṇasam ǁ

    8.2.27 Aṣṭaka 5.7.22.2Anuvāka 8.1.61

  28. Ṛk 28

    स्वा॒दवः॒ सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि ।
    शिप्रि॒न्नृषी॑वः॒ शची॑वो॒ नायमच्छा॑ सध॒मादं॑ ॥

    स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि |
    शिप्रिन्न् ऋषीवः शचीवो नायम् अच्छा सधमादम् ||

    svādávaḥ sómā ā́ yāhi śrītā́ḥ sómā ā́ yāhi ǀ
    śíprinnṛ́ṣīvaḥ śácīvo nā́yámácchā sadhamā́dam ǁ

    svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi |
    śiprinn ṛṣīvaḥ śacīvo nāyam acchā sadhamādam ||

    स्वा॒दवः॑ । सोमाः॑ । आ । या॒हि॒ । श्री॒ताः । सोमाः॑ । आ । या॒हि॒ ।
    शिप्रि॑न् । ऋषि॑ऽवः । शची॑ऽवः । न । अ॒यम् । अच्छ॑ । स॒ध॒ऽमाद॑म् ॥

    स्वादवः । सोमाः । आ । याहि । श्रीताः । सोमाः । आ । याहि ।
    शिप्रिन् । ऋषिऽवः । शचीऽवः । न । अयम् । अच्छ । सधऽमादम् ॥

    svādávaḥ ǀ sómāḥ ǀ ā́ ǀ yāhi ǀ śrītā́ḥ ǀ sómāḥ ǀ ā́ ǀ yāhi ǀ
    śíprin ǀ ṛ́ṣi-vaḥ ǀ śácī-vaḥ ǀ ná ǀ ayám ǀ áccha ǀ sadha-mā́dam ǁ

    svādavaḥ ǀ somāḥ ǀ ā ǀ yāhi ǀ śrītāḥ ǀ somāḥ ǀ ā ǀ yāhi ǀ
    śiprin ǀ ṛṣi-vaḥ ǀ śacī-vaḥ ǀ na ǀ ayam ǀ accha ǀ sadha-mādam ǁ

    8.2.28 Aṣṭaka 5.7.22.3Anuvāka 8.1.62

  29. Ṛk 29

    स्तुत॑श्च॒ यास्त्वा॒ वर्धं॑ति म॒हे राध॑से नृ॒म्णाय॑ ।
    इंद्र॑ का॒रिणं॑ वृ॒धंतः॑ ॥

    स्तुतश् च यास् त्वा वर्धन्ति महे राधसे नृम्णाय |
    इन्द्र कारिणं वृधन्तः ||

    stútaśca yā́stvā várdhanti mahé rā́dhase nṛmṇā́ya ǀ
    índra kāríṇam vṛdhántaḥ ǁ

    stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya |
    indra kāriṇaṃ vṛdhantaḥ ||

    स्तुतः॑ । च॒ । याः । त्वा॒ । वर्ध॑न्ति । म॒हे । राध॑से । नृ॒म्णाय॑ ।
    इन्द्र॑ । का॒रिण॑म् । वृ॒धन्तः॑ ॥

    स्तुतः । च । याः । त्वा । वर्धन्ति । महे । राधसे । नृम्णाय ।
    इन्द्र । कारिणम् । वृधन्तः ॥

    stútaḥ ǀ ca ǀ yā́ḥ ǀ tvā ǀ várdhanti ǀ mahé ǀ rā́dhase ǀ nṛmṇā́ya ǀ
    índra ǀ kāríṇam ǀ vṛdhántaḥ ǁ

    stutaḥ ǀ ca ǀ yāḥ ǀ tvā ǀ vardhanti ǀ mahe ǀ rādhase ǀ nṛmṇāya ǀ
    indra ǀ kāriṇam ǀ vṛdhantaḥ ǁ

    8.2.29 Aṣṭaka 5.7.22.4Anuvāka 8.1.63

  30. Ṛk 30

    गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ ।
    स॒त्रा द॑धि॒रे शवां॑सि ॥

    गिरश् च यास् ते गिर्वाह उक्था च तुभ्यं तानि |
    सत्रा दधिरे शवांसि ||

    gíraśca yā́ste girvāha ukthā́ ca túbhyam tā́ni ǀ
    satrā́ dadhiré śávāṃsi ǁ

    giraś ca yās te girvāha ukthā ca tubhyaṃ tāni |
    satrā dadhire śavāṃsi ||

    गिरः॑ । च॒ । याः । ते॒ । गि॒र्वा॒हः॒ । उ॒क्था । च॒ । तुभ्य॑म् । तानि॑ ।
    स॒त्रा । द॒धि॒रे॒ । शवां॑सि ॥

    गिरः । च । याः । ते । गिर्वाहः । उक्था । च । तुभ्यम् । तानि ।
    सत्रा । दधिरे । शवांसि ॥

    gíraḥ ǀ ca ǀ yā́ḥ ǀ te ǀ girvāhaḥ ǀ ukthā́ ǀ ca ǀ túbhyam ǀ tā́ni ǀ
    satrā́ ǀ dadhire ǀ śávāṃsi ǁ

    giraḥ ǀ ca ǀ yāḥ ǀ te ǀ girvāhaḥ ǀ ukthā ǀ ca ǀ tubhyam ǀ tāni ǀ
    satrā ǀ dadhire ǀ śavāṃsi ǁ

    8.2.30 Aṣṭaka 5.7.22.5Anuvāka 8.1.64

  31. Ṛk 31

    ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः ।
    स॒नादमृ॑क्तो दयते ॥

    एवेद् एष तुविकूर्मिर् वाजां एको वज्रहस्तः |
    सनाद् अमृक्तो दयते ||

    evédeṣá tuvikūrmírvā́jām̐ éko vájrahastaḥ ǀ
    sanā́dámṛkto dayate ǁ

    eved eṣa tuvikūrmir vājāṃ eko vajrahastaḥ |
    sanād amṛkto dayate ||

    ए॒व । इत् । ए॒षः । तु॒वि॒ऽकू॒र्मिः । वाजा॑न् । एकः॑ । वज्र॑ऽहस्तः ।
    स॒नात् । अमृ॑क्तः । द॒य॒ते॒ ॥

    एव । इत् । एषः । तुविऽकूर्मिः । वाजान् । एकः । वज्रऽहस्तः ।
    सनात् । अमृक्तः । दयते ॥

    evá ǀ ít ǀ eṣáḥ ǀ tuvi-kūrmíḥ ǀ vā́jān ǀ ékaḥ ǀ vájra-hastaḥ ǀ
    sanā́t ǀ ámṛktaḥ ǀ dayate ǁ

    eva ǀ it ǀ eṣaḥ ǀ tuvi-kūrmiḥ ǀ vājān ǀ ekaḥ ǀ vajra-hastaḥ ǀ
    sanāt ǀ amṛktaḥ ǀ dayate ǁ

    8.2.31 Aṣṭaka 5.7.23.1Anuvāka 8.1.65

  32. Ṛk 32

    हंता॑ वृ॒त्रं दक्षि॑णे॒नेंद्रः॑ पु॒रू पु॑रुहू॒तः ।
    म॒हान्म॒हीभिः॒ शची॑भिः ॥

    हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः |
    महान् महीभिः शचीभिः ||

    hántā vṛtrám dákṣiṇenéndraḥ purū́ puruhūtáḥ ǀ
    mahā́nmahī́bhiḥ śácībhiḥ ǁ

    hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ |
    mahān mahībhiḥ śacībhiḥ ||

    हन्ता॑ । वृ॒त्रम् । दक्षि॑णेन । इन्द्रः॑ । पु॒रु । पु॒रु॒ऽहू॒तः ।
    म॒हान् । म॒हीभिः॑ । शची॑भिः ॥

    हन्ता । वृत्रम् । दक्षिणेन । इन्द्रः । पुरु । पुरुऽहूतः ।
    महान् । महीभिः । शचीभिः ॥

    hántā ǀ vṛtrám ǀ dákṣiṇena ǀ índraḥ ǀ purú ǀ puru-hūtáḥ ǀ
    mahā́n ǀ mahī́bhiḥ ǀ śácībhiḥ ǁ

    hantā ǀ vṛtram ǀ dakṣiṇena ǀ indraḥ ǀ puru ǀ puru-hūtaḥ ǀ
    mahān ǀ mahībhiḥ ǀ śacībhiḥ ǁ

    8.2.32 Aṣṭaka 5.7.23.2Anuvāka 8.1.66

  33. Ṛk 33

    यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च ।
    अनु॒ घेन्मं॒दी म॒घोनः॑ ॥

    यस्मिन् विश्वाश् चर्षणय उत च्यौत्ना ज्रयांसि च |
    अनु घेन् मन्दी मघोनः ||

    yásminvíśvāścarṣaṇáya utá cyautnā́ jráyāṃsi ca ǀ
    ánu ghénmandī́ maghónaḥ ǁ

    yasmin viśvāś carṣaṇaya uta cyautnā jrayāṃsi ca |
    anu ghen mandī maghonaḥ ||

    यस्मि॑न् । विश्वाः॑ । च॒र्ष॒णयः॑ । उ॒त । च्यौ॒त्ना । ज्रयां॑सि । च॒ ।
    अनु॑ । घ॒ । इत् । म॒न्दी । म॒घोनः॑ ॥

    यस्मिन् । विश्वाः । चर्षणयः । उत । च्यौत्ना । ज्रयांसि । च ।
    अनु । घ । इत् । मन्दी । मघोनः ॥

    yásmin ǀ víśvāḥ ǀ carṣaṇáyaḥ ǀ utá ǀ cyautnā́ ǀ jráyāṃsi ǀ ca ǀ
    ánu ǀ gha ǀ ít ǀ mandī́ ǀ maghónaḥ ǁ

    yasmin ǀ viśvāḥ ǀ carṣaṇayaḥ ǀ uta ǀ cyautnā ǀ jrayāṃsi ǀ ca ǀ
    anu ǀ gha ǀ it ǀ mandī ǀ maghonaḥ ǁ

    8.2.33 Aṣṭaka 5.7.23.3Anuvāka 8.1.67

  34. Ṛk 34

    ए॒ष ए॒तानि॑ चका॒रेंद्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे ।
    वा॒ज॒दावा॑ म॒घोनां॑ ॥

    एष एतानि चकारेन्द्रो विश्वा यो ऽति शृण्वे |
    वाजदावा मघोनाम् ||

    eṣá etā́ni cakāréndro víśvā yó’ti śṛṇvé ǀ
    vājadā́vā maghónām ǁ

    eṣa etāni cakārendro viśvā yo 'ti śṛṇve |
    vājadāvā maghonām ||

    ए॒षः । ए॒तानि॑ । च॒का॒र॒ । इन्द्रः॑ । विश्वा॑ । यः । अति॑ । शृ॒ण्वे ।
    वा॒ज॒ऽदावा॑ । म॒घोना॑म् ॥

    एषः । एतानि । चकार । इन्द्रः । विश्वा । यः । अति । शृण्वे ।
    वाजऽदावा । मघोनाम् ॥

    eṣáḥ ǀ etā́ni ǀ cakāra ǀ índraḥ ǀ víśvā ǀ yáḥ ǀ áti ǀ śṛṇvé ǀ
    vāja-dā́vā ǀ maghónām ǁ

    eṣaḥ ǀ etāni ǀ cakāra ǀ indraḥ ǀ viśvā ǀ yaḥ ǀ ati ǀ śṛṇve ǀ
    vāja-dāvā ǀ maghonām ǁ

    8.2.34 Aṣṭaka 5.7.23.4Anuvāka 8.1.68

  35. Ṛk 35

    प्रभ॑र्ता॒ रथं॑ ग॒व्यंत॑मपा॒काच्चि॒द्यमव॑ति ।
    इ॒नो वसु॒ स हि वोळ्हा॑ ॥

    प्रभर्ता रथं गव्यन्तम् अपाकाच् चिद् यम् अवति |
    इनो वसु स हि वोऌहा ||

    prábhartā rátham gavyántamapākā́ccidyámávati ǀ
    inó vásu sá hí vóḷhā ǁ

    prabhartā rathaṃ gavyantam apākāc cid yam avati |
    ino vasu sa hi voḷhā ||

    प्रऽभ॑र्ता । रथ॑म् । ग॒व्यन्त॑म् । अ॒पा॒कात् । चि॒त् । यम् । अव॑ति ।
    इ॒नः । वसु॑ । सः । हि । वोळ्हा॑ ॥

    प्रऽभर्ता । रथम् । गव्यन्तम् । अपाकात् । चित् । यम् । अवति ।
    इनः । वसु । सः । हि । वोळ्हा ॥

    prá-bhartā ǀ rátham ǀ gavyántam ǀ apākā́t ǀ cit ǀ yám ǀ ávati ǀ
    ináḥ ǀ vásu ǀ sáḥ ǀ hí ǀ vóḷhā ǁ

    pra-bhartā ǀ ratham ǀ gavyantam ǀ apākāt ǀ cit ǀ yam ǀ avati ǀ
    inaḥ ǀ vasu ǀ saḥ ǀ hi ǀ voḷhā ǁ

    8.2.35 Aṣṭaka 5.7.23.5Anuvāka 8.1.69

  36. Ṛk 36

    सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हंता॑ वृ॒त्रं नृभिः॒ शूरः॑ ।
    स॒त्यो॑ऽवि॒ता वि॒धंतं॑ ॥

    सनिता विप्रो अर्वद्भिर् हन्ता वृत्रं नृभिः शूरः |
    सत्यो ऽविता विधन्तम् ||

    sánitā vípro árvadbhirhántā vṛtrám nṛ́bhiḥ śū́raḥ ǀ
    satyó’vitā́ vidhántam ǁ

    sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ |
    satyo 'vitā vidhantam ||

    सनि॑ता । विप्रः॑ । अर्व॑त्ऽभिः । हन्ता॑ । वृ॒त्रम् । नृऽभिः॑ । शूरः॑ ।
    स॒त्यः । अ॒वि॒ता । वि॒धन्त॑म् ॥

    सनिता । विप्रः । अर्वत्ऽभिः । हन्ता । वृत्रम् । नृऽभिः । शूरः ।
    सत्यः । अविता । विधन्तम् ॥

    sánitā ǀ vípraḥ ǀ árvat-bhiḥ ǀ hántā ǀ vṛtrám ǀ nṛ́-bhiḥ ǀ śū́raḥ ǀ
    satyáḥ ǀ avitā́ ǀ vidhántam ǁ

    sanitā ǀ vipraḥ ǀ arvat-bhiḥ ǀ hantā ǀ vṛtram ǀ nṛ-bhiḥ ǀ śūraḥ ǀ
    satyaḥ ǀ avitā ǀ vidhantam ǁ

    8.2.36 Aṣṭaka 5.7.24.1Anuvāka 8.1.70

  37. Ṛk 37

    यज॑ध्वैनं प्रियमेधा॒ इंद्रं॑ स॒त्राचा॒ मन॑सा ।
    यो भूत्सोमैः॑ स॒त्यम॑द्वा ॥

    यजध्वैनम् प्रियमेधा इन्द्रं सत्राचा मनसा |
    यो भूत् सोमैः सत्यमद्वा ||

    yájadhvainam priyamedhā índram satrā́cā mánasā ǀ
    yó bhū́tsómaiḥ satyámadvā ǁ

    yajadhvainam priyamedhā indraṃ satrācā manasā |
    yo bhūt somaiḥ satyamadvā ||

    यज॑ध्व । ए॒न॒म् । प्रि॒य॒ऽमे॒धाः॒ । इन्द्र॑म् । स॒त्राचा॑ । मन॑सा ।
    यः । भूत् । सोमैः॑ । स॒त्यऽम॑द्वा ॥

    यजध्व । एनम् । प्रियऽमेधाः । इन्द्रम् । सत्राचा । मनसा ।
    यः । भूत् । सोमैः । सत्यऽमद्वा ॥

    yájadhva ǀ enam ǀ priya-medhāḥ ǀ índram ǀ satrā́cā ǀ mánasā ǀ
    yáḥ ǀ bhū́t ǀ sómaiḥ ǀ satyá-madvā ǁ

    yajadhva ǀ enam ǀ priya-medhāḥ ǀ indram ǀ satrācā ǀ manasā ǀ
    yaḥ ǀ bhūt ǀ somaiḥ ǀ satya-madvā ǁ

    8.2.37 Aṣṭaka 5.7.24.2Anuvāka 8.1.71

  38. Ṛk 38

    गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मानं॑ ।
    कण्वा॑सो गा॒त वा॒जिनं॑ ॥

    गाथश्रवसं सत्पतिं श्रवस्कामम् पुरुत्मानम् |
    कण्वासो गात वाजिनम् ||

    gātháśravasam sátpatim śrávaskāmam purutmā́nam ǀ
    káṇvāso gātá vājínam ǁ

    gāthaśravasaṃ satpatiṃ śravaskāmam purutmānam |
    kaṇvāso gāta vājinam ||

    गा॒थऽश्र॑वसम् । सत्ऽप॑तिम् । श्रवः॑ऽकामम् । पु॒रु॒ऽत्मान॑म् ।
    कण्वा॑सः । गा॒त । वा॒जिन॑म् ॥

    गाथऽश्रवसम् । सत्ऽपतिम् । श्रवःऽकामम् । पुरुऽत्मानम् ।
    कण्वासः । गात । वाजिनम् ॥

    gāthá-śravasam ǀ sát-patim ǀ śrávaḥ-kāmam ǀ puru-tmā́nam ǀ
    káṇvāsaḥ ǀ gātá ǀ vājínam ǁ

    gātha-śravasam ǀ sat-patim ǀ śravaḥ-kāmam ǀ puru-tmānam ǀ
    kaṇvāsaḥ ǀ gāta ǀ vājinam ǁ

    8.2.38 Aṣṭaka 5.7.24.3Anuvāka 8.1.72

  39. Ṛk 39

    य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्यः॒ शची॑वान् ।
    ये अ॑स्मि॒न्काम॒मश्रि॑यन् ॥

    य ऋते चिद् गास् पदेभ्यो दात् सखा नृभ्यः शचीवान् |
    ये अस्मिन् कामम् अश्रियन् ||

    yá ṛté cidgā́spadébhyo dā́tsákhā nṛ́bhyaḥ śácīvān ǀ
    yé asminkā́mamáśriyan ǁ

    ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān |
    ye asmin kāmam aśriyan ||

    यः । ऋ॒ते । चि॒त् । गाः । प॒देभ्यः॑ । दात् । सखा॑ । नृऽभ्यः॑ । शची॑ऽवान् ।
    ये । अ॒स्मि॒न् । काम॑म् । अश्रि॑यन् ॥

    यः । ऋते । चित् । गाः । पदेभ्यः । दात् । सखा । नृऽभ्यः । शचीऽवान् ।
    ये । अस्मिन् । कामम् । अश्रियन् ॥

    yáḥ ǀ ṛté ǀ cit ǀ gā́ḥ ǀ padébhyaḥ ǀ dā́t ǀ sákhā ǀ nṛ́-bhyaḥ ǀ śácī-vān ǀ
    yé ǀ asmin ǀ kā́mam ǀ áśriyan ǁ

    yaḥ ǀ ṛte ǀ cit ǀ gāḥ ǀ padebhyaḥ ǀ dāt ǀ sakhā ǀ nṛ-bhyaḥ ǀ śacī-vān ǀ
    ye ǀ asmin ǀ kāmam ǀ aśriyan ǁ

    8.2.39 Aṣṭaka 5.7.24.4Anuvāka 8.1.73

  40. Ṛk 40

    इ॒त्था धीवं॑तमद्रिवः का॒ण्वं मेध्या॑तिथिं ।
    मे॒षो भू॒तो॒३॒॑ऽभि यन्नयः॑ ॥

    इत्था धीवन्तम् अद्रिवः काण्वम् मेध्यातिथिम् |
    मेषो भूतो ऽभि यन्न् अयः ||

    itthā́ dhī́vantamadrivaḥ kāṇvám médhyātithim ǀ
    meṣó bhūtó’bhí yánnáyaḥ ǁ

    itthā dhīvantam adrivaḥ kāṇvam medhyātithim |
    meṣo bhūto 'bhi yann ayaḥ ||

    इ॒त्था । धीऽव॑न्तम् । अ॒द्रि॒ऽवः॒ । का॒ण्वम् । मेध्य॑ऽअतिथिम् ।
    मे॒षः । भू॒तः । अ॒भि । यन् । अयः॑ ॥

    इत्था । धीऽवन्तम् । अद्रिऽवः । काण्वम् । मेध्यऽअतिथिम् ।
    मेषः । भूतः । अभि । यन् । अयः ॥

    itthā́ ǀ dhī́-vantam ǀ adri-vaḥ ǀ kāṇvám ǀ médhya-atithim ǀ
    meṣáḥ ǀ bhūtáḥ ǀ abhí ǀ yán ǀ áyaḥ ǁ

    itthā ǀ dhī-vantam ǀ adri-vaḥ ǀ kāṇvam ǀ medhya-atithim ǀ
    meṣaḥ ǀ bhūtaḥ ǀ abhi ǀ yan ǀ ayaḥ ǁ

    8.2.40 Aṣṭaka 5.7.24.5Anuvāka 8.1.74

  41. Ṛk 41

    शिक्षा॑ विभिंदो अस्मै च॒त्वार्य॒युता॒ दद॑त् ।
    अ॒ष्टा प॒रः स॒हस्रा॑ ॥

    शिक्षा विभिन्दो अस्मै चत्वार्य् अयुता ददत् |
    अष्टा परः सहस्रा ||

    śíkṣā vibhindo asmai catvā́ryayútā dádat ǀ
    aṣṭā́ paráḥ sahásrā ǁ

    śikṣā vibhindo asmai catvāry ayutā dadat |
    aṣṭā paraḥ sahasrā ||

    शिक्ष॑ । वि॒भि॒न्दो॒ इति॑ विऽभिन्दो । अ॒स्मै॒ । च॒त्वारि॑ । अ॒युता॑ । दद॑त् ।
    अ॒ष्ट । प॒रः । स॒हस्रा॑ ॥

    शिक्ष । विभिन्दो इति विऽभिन्दो । अस्मै । चत्वारि । अयुता । ददत् ।
    अष्ट । परः । सहस्रा ॥

    śíkṣa ǀ vibhindo íti vi-bhindo ǀ asmai ǀ catvā́ri ǀ ayútā ǀ dádat ǀ
    aṣṭá ǀ paráḥ ǀ sahásrā ǁ

    śikṣa ǀ vibhindo iti vi-bhindo ǀ asmai ǀ catvāri ǀ ayutā ǀ dadat ǀ
    aṣṭa ǀ paraḥ ǀ sahasrā ǁ

    8.2.41 Aṣṭaka 5.7.24.6Anuvāka 8.1.75

  42. Ṛk 42

    उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ ।
    ज॒नि॒त्व॒नाय॑ मामहे ॥

    उत सु त्ये पयोवृधा माकी रणस्य नप्त्या |
    जनित्वनाय मामहे ||

    utá sú tyé payovṛ́dhā mākī́ ráṇasya naptyā́ ǀ
    janitvanā́ya māmahe ǁ

    uta su tye payovṛdhā mākī raṇasya naptyā |
    janitvanāya māmahe ||

    उ॒त । सु । त्ये इति॑ । प॒यः॒ऽवृधा॑ । मा॒की इति॑ । रण॑स्य । न॒प्त्या॑ ।
    ज॒नि॒ऽत्व॒नाय॑ । म॒म॒हे॒ ॥

    उत । सु । त्ये इति । पयःऽवृधा । माकी इति । रणस्य । नप्त्या ।
    जनिऽत्वनाय । ममहे ॥

    utá ǀ sú ǀ tyé íti ǀ payaḥ-vṛ́dhā ǀ mākī́ íti ǀ ráṇasya ǀ naptyā́ ǀ
    jani-tvanā́ya ǀ mamahe ǁ

    uta ǀ su ǀ tye iti ǀ payaḥ-vṛdhā ǀ mākī iti ǀ raṇasya ǀ naptyā ǀ
    jani-tvanāya ǀ mamahe ǁ

    8.2.42 Aṣṭaka 5.7.24.7Anuvāka 8.1.76

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.2 · Indra · Vibhindu’s Dānastuti

Interpretations

Ralph T. H. Griffith

Ṛk 1

HERE is the Soma juice expressed; O Vasu, drink till thou art full: Undaunted God, we give it thee.

Ṛk 2

Washed by the men, pressed out with stones, strained through the filter made of wool, ’Tis like a courser bathed in stream.

Ṛk 3

This juice have we made sweet for thee like barley, blending it with milk. Indra, I call thee to our feast.

Ṛk 4

Beloved of all, Indra alone drinks up the flowing Soma juice Among the Gods and mortal men.

Ṛk 5

The Friend, whom not the brilliant-hued, the badly-mixt or bitter draught, Repels, the far-extending God;

Ṛk 6

While other men than we with milk chase him as hunters chase a deer, And with their kine inveigle him.

Ṛk 7

For him, for Indra, for the God, be pressed three draughts of Soma juice In the juice-drinker's own abode.

Ṛk 8

Three reservoirs exude their drops, filled are three beakers to the brim, All for one offering to the God.

Ṛk 9

Pure art thou, set in many a place, and blended in the midst with milk And curd, to cheer the Hero best.

Ṛk 10

Here, Indra, are thy Soma-draughts pressed out by us, the strong, the pure: They crave admixture of the milk.

Ṛk 11

O Indra, pour in milk, prepare the cake, and mix the Soma-draught. I hear them say that thou art rich.

Ṛk 12

Quaffed juices fight within the breast. The drunken praise not by their wine, The naked praise not when it rains.

Ṛk 13

Rich be the praiser of one rich, munificent and famed like thee: High rank be his, O Lord of Bays.

Ṛk 14

Foe of the man who adds no milk, he heeds not any chanted hymn Or holy psalm that may he sung.

Ṛk 15

Give us not, Indra, as a prey unto the scornful or the proud: Help, Mighty One, with power and might.

Ṛk 16

This, even this, O Indra, we implore. as thy devoted friends, The Kaṇvas praise thee with their hymns.

Ṛk 17

Naught else, O Thunderer, have I praised in the skilled singer's eulogy: On thy land only have I thought.

Ṛk 18

The Gods seek him who presses out the Soma; they desire not sleep They punish sloth unweariedly.

Ṛk 19

Come hither swift with gifts of wealth - be not thou angry with us-like A great man with a youthful bride.

Ṛk 20

Let him not, wrathful with us, spend the evening far from us to-day, Like some unpleasant son-in-law.

Ṛk 21

For well we know this Hero's love, most liberal of the boons he gives, His plans whom the three worlds display.

Ṛk 22

Pour forth the gift which Kaṇvas bring, for none more glorious do we know Than the Strong Lord with countless aids.

Ṛk 23

O presser, offer Soma first to Indra, Hero, Śakra, him The Friend of man, that he may drink;

Ṛk 24

Who, in untroubled ways, is best provider, for his worshippers. Of strength in horses and in kine.

Ṛk 25

Pressers, for him blend Soma juice, each draught most excellent, for him The Brave, the Hero, for his joy.

Ṛk 26

The Vṛtra-slayer drinks the juice. May he who gives a hundred aids Approach, nor stay afar from us.

Ṛk 27

May the strong Bay Steeds, yoked by prayer, bring hither unto us our Friend, Lover of Song, renowned by songs.

Ṛk 28

Sweet are the Soma juices, come! Blent are the Soma juices, come! Ṛṣi-like, mighty, fair of cheek, come hither quickly to the feast.

Ṛk 29

And lauds which strengthen thee for great bounty and valour, and exalt Indra who doeth glorious deeds,

Ṛk 30

And songs to thee who lovest song, and all those hymns addressed to thee- These evermore confirm thy might.

Ṛk 31

Thus he, sole doer of great deeds whose hand holds thunder, gives us strength, He who hath never been subdued.

Ṛk 32

Vṛtra he slays with his right hand, even Indra, great with mighty power, And much-invoked in many a place.

Ṛk 33

He upon whom all men depend, all regions, all achievements, he Takes pleasure in our wealthy chiefs.

Ṛk 34

All this hath he accomplished, yea, Indra, most gloriously renowned, Who gives our wealthy princes strength.

Ṛk 35

Who drives his chariot seeking spoil, from afar, to him he loves: For swift is he to bring men wealth.

Ṛk 36

The Sage who, winning spoil with steeds, slays Vṛtra, Hero with the men, His servant's faithful succourer.

Ṛk 37

O Priyamedhas, worship with collected mind this Indra whom The Soma hath full well inspired.

Ṛk 38

Ye Kaṇvas, sing the Mighty One, Lord of the Brave, who loves renown, All-present, glorified by song.

Ṛk 39

Strong Friend, who, with no trace of feet, restores the cattle to the men, Who rest their wish and hope on him.

Ṛk 40

Shaped as a Ram, Stone-hurler I once thou camest hither to the son Of Kaṇva, wise Medhyātithi.

Ṛk 41

Vibhindu, thou hast helped this man, giving him thousands four times ten, And afterward eight thousand more.