Ṛgveda · Maṇḍala 8 · Sūkta 2

Ṛk 8.2.42

Indra · Vibhindu’s Dānastuti · 1-40: Medhātithi Kāṇva; Priyamedha Āṅgirasa; 41, 42: Medhātithi Kāṇva

The whole sūkta Link

Saṃhitā

उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ ।
ज॒नि॒त्व॒नाय॑ मामहे ॥

उत सु त्ये पयोवृधा माकी रणस्य नप्त्या |
जनित्वनाय मामहे ||

utá sú tyé payovṛ́dhā mākī́ ráṇasya naptyā́ ǀ
janitvanā́ya māmahe ǁ

uta su tye payovṛdhā mākī raṇasya naptyā |
janitvanāya māmahe ||

Padapāṭha

उ॒त । सु । त्ये इति॑ । प॒यः॒ऽवृधा॑ । मा॒की इति॑ । रण॑स्य । न॒प्त्या॑ ।
ज॒नि॒ऽत्व॒नाय॑ । म॒म॒हे॒ ॥

उत । सु । त्ये इति । पयःऽवृधा । माकी इति । रणस्य । नप्त्या ।
जनिऽत्वनाय । ममहे ॥

utá ǀ sú ǀ tyé íti ǀ payaḥ-vṛ́dhā ǀ mākī́ íti ǀ ráṇasya ǀ naptyā́ ǀ
jani-tvanā́ya ǀ mamahe ǁ

uta ǀ su ǀ tye iti ǀ payaḥ-vṛdhā ǀ mākī iti ǀ raṇasya ǀ naptyā ǀ
jani-tvanāya ǀ mamahe ǁ

References

Maṇḍala · Sūkta · Ṛk
08.002.42
Aṣṭaka · Adhyāya · Varga · Ṛk
5.7.24.07
Maṇḍala · Anuvāka · Ṛk
08.01.076
Devatā देवता
1-40: Indra; 41, 42: Vibhindu’s Dānastuti
Ṛṣi ऋषि
1-40: Medhātithi Kāṇva; Priyamedha Āṅgirasa; 41, 42: Medhātithi Kāṇva
Chandas छन्दस्
Gāyatrī, Anuṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.2.42

Interpretations

Sāyaṇa

पिबासुतस्येति चतुर्विंशत्यृचं तृतीयं सूक्तम् काण्वस्य मेधातिथेरार्षम् अयुजो बृहत्योयुजः सतोबृहत्यः एकविंश्यनुष्टुप् द्वाविंशी- त्रयोविंश्यौ गायत्र्यौ चतुर्विंशीबृहती एताश्चतस्रः कुरुयाणस्यपुत्रस्य पाकस्थामनाम्नोराज्ञोदानस्तुतिप्रतिपादिकाः अतस्तद्देवताकाः शिष्टाएन्द्मः तथाचानुक्रान्तम्-पिबचतुर्विशतिर्मेध्यातिथिः प्रागाथं त्वनुष्टुप् गायत्र्यौ बृहतीचान्त्याः कौरयाणस्य पाकस्थाम्नोदानस्तु- तिरिति । महाव्रते निष्केवल्ये बार्हततृचाशीतौ दानस्तुतीर्विनेदंसूक्तं सप्तम्यष्टम्ययोश्चोद्धारः तथैवपञ्चमारण्यकेसूत्रितम्-पिबासुतस्यर- सिनइतिविंशतेः सप्तमींचाष्टमींचोद्धरतीति । ज्योतिष्टोमे निष्केवल्ये आद्योरथंतरसामप्रगाथः शंसनीयः सूत्र्यतेहि-पिबासुतस्यरसिन- इतिसामप्रगाथइति । चातुर्विंशिकेहनि निष्केवल्येप्ययंप्रगाथः सूत्र्यतेहि-उक्तोरथन्तरस्यउभयंश्रृणवच्चनइतिबृहतइति । एवमन्यत्रापि यदि रथन्तरं पृष्ठं भवति तत्र सर्वत्रायं प्रगाथोद्रष्टव्यः पञ्चमेहनिप्रउगशस्त्रेपि पिबासुतस्येत्ययमैन्द्रः प्रगाथः सूत्रितञ्च-पिबासुतस्यरसिनो- देवंवोवसइति ।