Ṛk 8.2.6
Saṃhitā
गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गयं॑ते ।
अ॒भि॒त्सरं॑ति धे॒नुभिः॑ ॥
गोभिर् यद् ईम् अन्ये अस्मन् मृगं न व्रा मृगयन्ते |
अभित्सरन्ति धेनुभिः ||
góbhiryádīmanyé asmánmṛgám ná vrā́ mṛgáyante ǀ
abhitsáranti dhenúbhiḥ ǁ
gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante |
abhitsaranti dhenubhiḥ ||
Padapāṭha
गोभिः॑ । यत् । ई॒म् । अ॒न्ये । अ॒स्मत् । मृ॒गम् । न । व्राः । मृ॒गय॑न्ते ।
अ॒भि॒ऽत्सर॑न्ति । धे॒नुऽभिः॑ ॥
गोभिः । यत् । ईम् । अन्ये । अस्मत् । मृगम् । न । व्राः । मृगयन्ते ।
अभिऽत्सरन्ति । धेनुऽभिः ॥
góbhiḥ ǀ yát ǀ īm ǀ anyé ǀ asmát ǀ mṛgám ǀ ná ǀ vrā́ḥ ǀ mṛgáyante ǀ
abhi-tsáranti ǀ dhenú-bhiḥ ǁ
gobhiḥ ǀ yat ǀ īm ǀ anye ǀ asmat ǀ mṛgam ǀ na ǀ vrāḥ ǀ mṛgayante ǀ
abhi-tsaranti ǀ dhenu-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.002.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.7.18.01
- Maṇḍala · Anuvāka · Ṛk
- 08.01.040
- Devatā देवता
- 1-40: Indra; 41, 42: Vibhindu’s Dānastuti
- Ṛṣi ऋषि
- 1-40: Medhātithi Kāṇva; Priyamedha Āṅgirasa; 41, 42: Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.