Sūkta 74
- Devatā देवता
- 1-12: Agni; 13-15: Śrutarvan Ārkṣya’s Dānastuti
- Ṛṣi ऋषि
- Gopavana Ātreya
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdgāyatrī (5, 6, 8, 9, 12); virāḍanuṣṭup (4, 13-15); nicṛdanuṣṭup (1, 10); gāyatrī (2, 11); virāḍgāyatrī (3); pādanicṛdanuṣṭup (7)
2nd set of styles gāyatrī (2, 3, 5, 6, 8, 9, 11, 12); anuṣṭubh (1, 4, 7, 10, 13-15)
-
Ṛk 1
वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यंतः॑ पुरुप्रि॒यं ।
अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम् |
अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ||viśóviśo vo átithim vājayántaḥ purupriyám ǀ
agním vo dúryam vácaḥ stuṣé śūṣásya mánmabhiḥ ǁviśo-viśo vo atithiṃ vājayantaḥ purupriyam |
agniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ ||वि॒शःऽवि॑शः । वः॒ । अति॑थिम् । वा॒ज॒ऽयन्तः॑ । पु॒रु॒ऽप्रि॒यम् ।
अ॒ग्निम् । वः॒ । दुर्य॑म् । वचः॑ । स्तु॒षे । शू॒षस्य॑ । मन्म॑ऽभिः ॥विशःऽविशः । वः । अतिथिम् । वाजऽयन्तः । पुरुऽप्रियम् ।
अग्निम् । वः । दुर्यम् । वचः । स्तुषे । शूषस्य । मन्मऽभिः ॥viśáḥ-viśaḥ ǀ vaḥ ǀ átithim ǀ vāja-yántaḥ ǀ puru-priyám ǀ
agním ǀ vaḥ ǀ dúryam ǀ vácaḥ ǀ stuṣé ǀ śūṣásya ǀ mánma-bhiḥ ǁviśaḥ-viśaḥ ǀ vaḥ ǀ atithim ǀ vāja-yantaḥ ǀ puru-priyam ǀ
agnim ǀ vaḥ ǀ duryam ǀ vacaḥ ǀ stuṣe ǀ śūṣasya ǀ manma-bhiḥ ǁ8.74.1 Aṣṭaka 6.5.21.1Anuvāka 8.8.67
-
Ṛk 2
यं जना॑सो ह॒विष्मं॑तो मि॒त्रं न स॒र्पिरा॑सुतिं ।
प्र॒शंसं॑ति॒ प्रश॑स्तिभिः ॥यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् |
प्रशंसन्ति प्रशस्तिभिः ||yám jánāso havíṣmanto mitrám ná sarpírāsutim ǀ
praśáṃsanti práśastibhiḥ ǁyaṃ janāso haviṣmanto mitraṃ na sarpirāsutim |
praśaṃsanti praśastibhiḥ ||यम् । जना॑सः । ह॒विष्म॑न्तः । मि॒त्रम् । न । स॒र्पिःऽआ॑सुतिम् ।
प्र॒ऽशंस॑न्ति । प्रश॑स्तिऽभिः ॥यम् । जनासः । हविष्मन्तः । मित्रम् । न । सर्पिःऽआसुतिम् ।
प्रऽशंसन्ति । प्रशस्तिऽभिः ॥yám ǀ jánāsaḥ ǀ havíṣmantaḥ ǀ mitrám ǀ ná ǀ sarpíḥ-āsutim ǀ
pra-śáṃsanti ǀ práśasti-bhiḥ ǁyam ǀ janāsaḥ ǀ haviṣmantaḥ ǀ mitram ǀ na ǀ sarpiḥ-āsutim ǀ
pra-śaṃsanti ǀ praśasti-bhiḥ ǁ8.74.2 Aṣṭaka 6.5.21.2Anuvāka 8.8.68
-
Ṛk 3
पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता ।
ह॒व्यान्यैर॑यद्दि॒वि ॥पन्यांसं जातवेदसं यो देवतात्य् उद्यता |
हव्यान्य् ऐरयद् दिवि ||pányāṃsam jātávedasam yó devátātyúdyatā ǀ
havyā́nyáirayaddiví ǁpanyāṃsaṃ jātavedasaṃ yo devatāty udyatā |
havyāny airayad divi ||पन्यां॑सम् । जा॒तऽवे॑दसम् । यः । दे॒वऽता॑ति । उत्ऽय॑ता ।
ह॒व्यानि॑ । ऐर॑यत् । दि॒वि ॥पन्यांसम् । जातऽवेदसम् । यः । देवऽताति । उत्ऽयता ।
हव्यानि । ऐरयत् । दिवि ॥pányāṃsam ǀ jātá-vedasam ǀ yáḥ ǀ devá-tāti ǀ út-yatā ǀ
havyā́ni ǀ áirayat ǀ diví ǁpanyāṃsam ǀ jāta-vedasam ǀ yaḥ ǀ deva-tāti ǀ ut-yatā ǀ
havyāni ǀ airayat ǀ divi ǁ8.74.3 Aṣṭaka 6.5.21.3Anuvāka 8.8.69
-
Ṛk 4
आग॑न्म वृत्र॒हंत॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वं ।
यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥आगन्म वृत्रहन्तमं ज्येष्ठम् अग्निम् आनवम् |
यस्य श्रुतर्वा बृहन्न् आर्क्षो अनीक एधते ||ā́ganma vṛtrahántamam jyéṣṭhamagnímā́navam ǀ
yásya śrutárvā bṛhánnārkṣó ánīka édhate ǁāganma vṛtrahantamaṃ jyeṣṭham agnim ānavam |
yasya śrutarvā bṛhann ārkṣo anīka edhate ||आ । अ॒ग॒न्म॒ । वृ॒त्र॒हन्ऽत॑मम् । ज्येष्ठ॑म् । अ॒ग्निम् । आन॑वम् ।
यस्य॑ । श्रु॒तर्वा॑ । बृ॒हन् । आ॒र्क्षः । अनी॑के । एध॑ते ॥आ । अगन्म । वृत्रहन्ऽतमम् । ज्येष्ठम् । अग्निम् । आनवम् ।
यस्य । श्रुतर्वा । बृहन् । आर्क्षः । अनीके । एधते ॥ā́ ǀ aganma ǀ vṛtrahán-tamam ǀ jyéṣṭham ǀ agním ǀ ā́navam ǀ
yásya ǀ śrutárvā ǀ bṛhán ǀ ārkṣáḥ ǀ ánīke ǀ édhate ǁā ǀ aganma ǀ vṛtrahan-tamam ǀ jyeṣṭham ǀ agnim ǀ ānavam ǀ
yasya ǀ śrutarvā ǀ bṛhan ǀ ārkṣaḥ ǀ anīke ǀ edhate ǁ8.74.4 Aṣṭaka 6.5.21.4Anuvāka 8.8.70
-
Ṛk 5
अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तं ।
घृ॒ताह॑वन॒मीड्यं॑ ॥अमृतं जातवेदसं तिरस् तमांसि दर्शतम् |
घृताहवनम् ईड्यम् ||amṛ́tam jātávedasam tirástámāṃsi darśatám ǀ
ghṛtā́havanamī́ḍyam ǁamṛtaṃ jātavedasaṃ tiras tamāṃsi darśatam |
ghṛtāhavanam īḍyam ||अ॒मृत॑म् । जा॒तऽवे॑दसम् । ति॒रः । तमां॑सि । द॒र्श॒तम् ।
घृ॒तऽआ॑हवनम् । ईड्य॑म् ॥अमृतम् । जातऽवेदसम् । तिरः । तमांसि । दर्शतम् ।
घृतऽआहवनम् । ईड्यम् ॥amṛ́tam ǀ jātá-vedasam ǀ tiráḥ ǀ támāṃsi ǀ darśatám ǀ
ghṛtá-āhavanam ǀ ī́ḍyam ǁamṛtam ǀ jāta-vedasam ǀ tiraḥ ǀ tamāṃsi ǀ darśatam ǀ
ghṛta-āhavanam ǀ īḍyam ǁ8.74.5 Aṣṭaka 6.5.21.5Anuvāka 8.8.71
-
Ṛk 6
स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते ।
जुह्वा॑नासो य॒तस्रु॑चः ॥सबाधो यं जना इमे ऽग्निं हव्येभिर् ईऌअते |
जुह्वानासो यतस्रुचः ||sabā́dho yám jánā imé’gním havyébhirī́ḷate ǀ
júhvānāso yatásrucaḥ ǁsabādho yaṃ janā ime 'gniṃ havyebhir īḷate |
juhvānāso yatasrucaḥ ||स॒ऽबाधः॑ । यम् । जनाः॑ । इ॒मे । अ॒ग्निम् । ह॒व्येभिः॑ । ईळ॑ते ।
जुह्वा॑नासः । य॒तऽस्रु॑चः ॥सऽबाधः । यम् । जनाः । इमे । अग्निम् । हव्येभिः । ईळते ।
जुह्वानासः । यतऽस्रुचः ॥sa-bā́dhaḥ ǀ yám ǀ jánāḥ ǀ imé ǀ agním ǀ havyébhiḥ ǀ ī́ḷate ǀ
júhvānāsaḥ ǀ yatá-srucaḥ ǁsa-bādhaḥ ǀ yam ǀ janāḥ ǀ ime ǀ agnim ǀ havyebhiḥ ǀ īḷate ǀ
juhvānāsaḥ ǀ yata-srucaḥ ǁ8.74.6 Aṣṭaka 6.5.22.1Anuvāka 8.8.72
-
Ṛk 7
इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा ।
मंद्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥इयं ते नव्यसी मतिर् अग्ने अधाय्य् अस्मद् आ |
मन्द्र सुजात सुक्रतो ऽमूर दस्मातिथे ||iyám te návyasī matírágne ádhāyyasmádā́ ǀ
mándra sújāta súkrató’mūra dásmā́tithe ǁiyaṃ te navyasī matir agne adhāyy asmad ā |
mandra sujāta sukrato 'mūra dasmātithe ||इ॒यम् । ते॒ । नव्य॑सी । म॒तिः । अग्ने॑ । अधा॑यि । अ॒स्मत् । आ ।
मन्द्र॑ । सुऽजा॑त । सुक्र॑तो॒ इति॒ सुऽक्र॑तो । अमू॑र । दस्म॑ । अति॑थे ॥इयम् । ते । नव्यसी । मतिः । अग्ने । अधायि । अस्मत् । आ ।
मन्द्र । सुऽजात । सुक्रतो इति सुऽक्रतो । अमूर । दस्म । अतिथे ॥iyám ǀ te ǀ návyasī ǀ matíḥ ǀ ágne ǀ ádhāyi ǀ asmát ǀ ā́ ǀ
mándra ǀ sú-jāta ǀ súkrato íti sú-krato ǀ ámūra ǀ dásma ǀ átithe ǁiyam ǀ te ǀ navyasī ǀ matiḥ ǀ agne ǀ adhāyi ǀ asmat ǀ ā ǀ
mandra ǀ su-jāta ǀ sukrato iti su-krato ǀ amūra ǀ dasma ǀ atithe ǁ8.74.7 Aṣṭaka 6.5.22.2Anuvāka 8.8.73
-
Ṛk 8
सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या ।
तया॑ वर्धस्व॒ सुष्टु॑तः ॥सा ते अग्ने शन्तमा चनिष्ठा भवतु प्रिया |
तया वर्धस्व सुष्टुतः ||sā́ te agne śáṃtamā cániṣṭhā bhavatu priyā́ ǀ
táyā vardhasva súṣṭutaḥ ǁsā te agne śantamā caniṣṭhā bhavatu priyā |
tayā vardhasva suṣṭutaḥ ||सा । ते॒ । अ॒ग्ने॒ । शम्ऽत॑मा । चनि॑ष्ठा । भ॒व॒तु॒ । प्रि॒या ।
तया॑ । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥सा । ते । अग्ने । शम्ऽतमा । चनिष्ठा । भवतु । प्रिया ।
तया । वर्धस्व । सुऽस्तुतः ॥sā́ ǀ te ǀ agne ǀ śám-tamā ǀ cániṣṭhā ǀ bhavatu ǀ priyā́ ǀ
táyā ǀ vardhasva ǀ sú-stutaḥ ǁsā ǀ te ǀ agne ǀ śam-tamā ǀ caniṣṭhā ǀ bhavatu ǀ priyā ǀ
tayā ǀ vardhasva ǀ su-stutaḥ ǁ8.74.8 Aṣṭaka 6.5.22.3Anuvāka 8.8.74
-
Ṛk 9
सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रवः॑ ।
दधी॑त वृत्र॒तूर्ये॑ ॥सा द्युम्नैर् द्युम्निनी बृहद् उपोप श्रवसि श्रवः |
दधीत वृत्रतूर्ये ||sā́ dyumnáirdyumnínī bṛhádúpopa śrávasi śrávaḥ ǀ
dádhīta vṛtratū́rye ǁsā dyumnair dyumninī bṛhad upopa śravasi śravaḥ |
dadhīta vṛtratūrye ||सा । द्यु॒म्नैः । द्यु॒म्निनी॑ । बृ॒हत् । उप॑ऽउप । श्रव॑सि । श्रवः॑ ।
दधी॑त । वृ॒त्र॒ऽतूर्ये॑ ॥सा । द्युम्नैः । द्युम्निनी । बृहत् । उपऽउप । श्रवसि । श्रवः ।
दधीत । वृत्रऽतूर्ये ॥sā́ ǀ dyumnáiḥ ǀ dyumnínī ǀ bṛhát ǀ úpa-upa ǀ śrávasi ǀ śrávaḥ ǀ
dádhīta ǀ vṛtra-tū́rye ǁsā ǀ dyumnaiḥ ǀ dyumninī ǀ bṛhat ǀ upa-upa ǀ śravasi ǀ śravaḥ ǀ
dadhīta ǀ vṛtra-tūrye ǁ8.74.9 Aṣṭaka 6.5.22.4Anuvāka 8.8.75
-
Ṛk 10
अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिंद्रं॒ न सत्प॑तिं ।
यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्यं॑पन्यं च कृ॒ष्टयः॑ ॥अश्वम् इद् गां रथप्रां त्वेषम् इन्द्रं न सत्पतिम् |
यस्य श्रवांसि तूर्वथ पन्यम्-पन्यं च कृष्टयः ||áśvamídgā́m rathaprā́m tveṣámíndram ná sátpatim ǀ
yásya śrávāṃsi tū́rvatha pányampanyam ca kṛṣṭáyaḥ ǁaśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim |
yasya śravāṃsi tūrvatha panyam-panyaṃ ca kṛṣṭayaḥ ||अश्व॑म् । इत् । गाम् । र॒थ॒ऽप्राम् । त्वे॒षम् । इन्द्र॑म् । न । सत्ऽप॑तिम् ।
यस्य॑ । श्रवां॑सि । तूर्व॑थ । पन्य॑म्ऽपन्यम् । च॒ । कृ॒ष्टयः॑ ॥अश्वम् । इत् । गाम् । रथऽप्राम् । त्वेषम् । इन्द्रम् । न । सत्ऽपतिम् ।
यस्य । श्रवांसि । तूर्वथ । पन्यम्ऽपन्यम् । च । कृष्टयः ॥áśvam ǀ ít ǀ gā́m ǀ ratha-prā́m ǀ tveṣám ǀ índram ǀ ná ǀ sát-patim ǀ
yásya ǀ śrávāṃsi ǀ tū́rvatha ǀ pányam-panyam ǀ ca ǀ kṛṣṭáyaḥ ǁaśvam ǀ it ǀ gām ǀ ratha-prām ǀ tveṣam ǀ indram ǀ na ǀ sat-patim ǀ
yasya ǀ śravāṃsi ǀ tūrvatha ǀ panyam-panyam ǀ ca ǀ kṛṣṭayaḥ ǁ8.74.10 Aṣṭaka 6.5.22.5Anuvāka 8.8.76
-
Ṛk 11
यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अंगिरः ।
स पा॑वक श्रुधी॒ हवं॑ ॥यं त्वा गोपवनो गिरा चनिष्ठद् अग्ने अङ्गिरः |
स पावक श्रुधी हवम् ||yám tvā gopávano girā́ cániṣṭhadagne aṅgiraḥ ǀ
sá pāvaka śrudhī hávam ǁyaṃ tvā gopavano girā caniṣṭhad agne aṅgiraḥ |
sa pāvaka śrudhī havam ||यम् । त्वा॒ । गो॒पव॑नः । गि॒रा । चनि॑ष्ठत् । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ ।
सः । पा॒व॒क॒ । श्रु॒धि॒ । हव॑म् ॥यम् । त्वा । गोपवनः । गिरा । चनिष्ठत् । अग्ने । अङ्गिरः ।
सः । पावक । श्रुधि । हवम् ॥yám ǀ tvā ǀ gopávanaḥ ǀ girā́ ǀ cániṣṭhat ǀ agne ǀ aṅgiraḥ ǀ
sáḥ ǀ pāvaka ǀ śrudhi ǀ hávam ǁyam ǀ tvā ǀ gopavanaḥ ǀ girā ǀ caniṣṭhat ǀ agne ǀ aṅgiraḥ ǀ
saḥ ǀ pāvaka ǀ śrudhi ǀ havam ǁ8.74.11 Aṣṭaka 6.5.23.1Anuvāka 8.8.77
-
Ṛk 12
यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये ।
स बो॑धि वृत्र॒तूर्ये॑ ॥यं त्वा जनास ईऌअते सबाधो वाजसातये |
स बोधि वृत्रतूर्ये ||yám tvā jánāsa ī́ḷate sabā́dho vā́jasātaye ǀ
sá bodhi vṛtratū́rye ǁyaṃ tvā janāsa īḷate sabādho vājasātaye |
sa bodhi vṛtratūrye ||यम् । त्वा॒ । जना॑सः । ईळ॑ते । स॒ऽबाधः॑ । वाज॑ऽसातये ।
सः । बो॒धि॒ । वृ॒त्र॒ऽतूर्ये॑ ॥यम् । त्वा । जनासः । ईळते । सऽबाधः । वाजऽसातये ।
सः । बोधि । वृत्रऽतूर्ये ॥yám ǀ tvā ǀ jánāsaḥ ǀ ī́ḷate ǀ sa-bā́dhaḥ ǀ vā́ja-sātaye ǀ
sáḥ ǀ bodhi ǀ vṛtra-tū́rye ǁyam ǀ tvā ǀ janāsaḥ ǀ īḷate ǀ sa-bādhaḥ ǀ vāja-sātaye ǀ
saḥ ǀ bodhi ǀ vṛtra-tūrye ǁ8.74.12 Aṣṭaka 6.5.23.2Anuvāka 8.8.78
-
Ṛk 13
अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ ।
शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णां ॥अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति |
शर्धांसीव स्तुकाविनाम् मृक्षा शीर्षा चतुर्णाम् ||ahám huvāná ārkṣé śrutárvaṇi madacyúti ǀ
śárdhāṃsīva stukāvínām mṛkṣā́ śīrṣā́ caturṇā́m ǁahaṃ huvāna ārkṣe śrutarvaṇi madacyuti |
śardhāṃsīva stukāvinām mṛkṣā śīrṣā caturṇām ||अ॒हम् । हु॒वा॒नः । आ॒र्क्षे । श्रु॒तर्व॑णि । म॒द॒ऽच्युति॑ ।
शर्धां॑सिऽइव । स्तु॒का॒ऽविना॑म् । मृ॒क्षा । शी॒र्षा । च॒तु॒र्णाम् ॥अहम् । हुवानः । आर्क्षे । श्रुतर्वणि । मदऽच्युति ।
शर्धांसिऽइव । स्तुकाऽविनाम् । मृक्षा । शीर्षा । चतुर्णाम् ॥ahám ǀ huvānáḥ ǀ ārkṣé ǀ śrutárvaṇi ǀ mada-cyúti ǀ
śárdhāṃsi-iva ǀ stukā-vínām ǀ mṛkṣā́ ǀ śīrṣā́ ǀ caturṇā́m ǁaham ǀ huvānaḥ ǀ ārkṣe ǀ śrutarvaṇi ǀ mada-cyuti ǀ
śardhāṃsi-iva ǀ stukā-vinām ǀ mṛkṣā ǀ śīrṣā ǀ caturṇām ǁ8.74.13 Aṣṭaka 6.5.23.3Anuvāka 8.8.79
-
Ṛk 14
मां च॒त्वार॑ आ॒शवः॒ शवि॑ष्ठस्य द्रवि॒त्नवः॑ ।
सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्यं॑ ॥मां चत्वार आशवः शविष्ठस्य द्रवित्नवः |
सुरथासो अभि प्रयो वक्षन् वयो न तुग्र्यम् ||mā́m catvā́ra āśávaḥ śáviṣṭhasya dravitnávaḥ ǀ
suráthāso abhí práyo vákṣanváyo ná túgryam ǁmāṃ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ |
surathāso abhi prayo vakṣan vayo na tugryam ||माम् । च॒त्वारः॑ । आ॒शवः॑ । शवि॑ष्ठस्य । द्र॒वि॒त्नवः॑ ।
सु॒ऽरथा॑सः । अ॒भि । प्रयः॑ । वक्ष॑न् । वयः॑ । न । तुग्र्य॑म् ॥माम् । चत्वारः । आशवः । शविष्ठस्य । द्रवित्नवः ।
सुऽरथासः । अभि । प्रयः । वक्षन् । वयः । न । तुग्र्यम् ॥mā́m ǀ catvā́raḥ ǀ āśávaḥ ǀ śáviṣṭhasya ǀ dravitnávaḥ ǀ
su-ráthāsaḥ ǀ abhí ǀ práyaḥ ǀ vákṣan ǀ váyaḥ ǀ ná ǀ túgryam ǁmām ǀ catvāraḥ ǀ āśavaḥ ǀ śaviṣṭhasya ǀ dravitnavaḥ ǀ
su-rathāsaḥ ǀ abhi ǀ prayaḥ ǀ vakṣan ǀ vayaḥ ǀ na ǀ tugryam ǁ8.74.14 Aṣṭaka 6.5.23.4Anuvāka 8.8.80
-
Ṛk 15
स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशं ।
नेमा॑पो अश्व॒दात॑रः॒ शवि॑ष्ठादस्ति॒ मर्त्यः॑ ॥सत्यम् इत् त्वा महेनदि परुष्ण्य् अव देदिशम् |
नेम् आपो अश्वदातरः शविष्ठाद् अस्ति मर्त्यः ||satyámíttvā mahenadi páruṣṇyáva dediśam ǀ
némāpo aśvadā́taraḥ śáviṣṭhādasti mártyaḥ ǁsatyam it tvā mahenadi paruṣṇy ava dediśam |
nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ ||स॒त्यम् । इत् । त्वा॒ । म॒हे॒ऽन॒दि॒ । परु॑ष्णि । अव॑ । दे॒दि॒श॒म् ।
न । ई॒म् । आ॒पः॒ । अ॒श्व॒ऽदात॑रः । शवि॑ष्ठात् । अ॒स्ति॒ । मर्त्यः॑ ॥सत्यम् । इत् । त्वा । महेऽनदि । परुष्णि । अव । देदिशम् ।
न । ईम् । आपः । अश्वऽदातरः । शविष्ठात् । अस्ति । मर्त्यः ॥satyám ǀ ít ǀ tvā ǀ mahe-nadi ǀ páruṣṇi ǀ áva ǀ dediśam ǀ
ná ǀ īm ǀ āpaḥ ǀ aśva-dā́taraḥ ǀ śáviṣṭhāt ǀ asti ǀ mártyaḥ ǁsatyam ǀ it ǀ tvā ǀ mahe-nadi ǀ paruṣṇi ǀ ava ǀ dediśam ǀ
na ǀ īm ǀ āpaḥ ǀ aśva-dātaraḥ ǀ śaviṣṭhāt ǀ asti ǀ martyaḥ ǁ8.74.15 Aṣṭaka 6.5.23.5Anuvāka 8.8.81
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.