Ṛgveda · Maṇḍala 8

Sūkta 101

Mitra, Varuṇa · Aryaman, Mitra, Varuṇa · Aśvins · Vāyu · Sūrya · Uṣas, Or A Praise Of The Sun’s Briliance · Pavamāna · Aditi · Jamadagni Bhārgava · 16 ṛks

Link
Devatā देवता
1-4: Mitra, Varuṇa; 5, 6: Aryaman, Mitra, Varuṇa; 7, 8: Aśvins; 9, 10: Vāyu; 11, 12: Sūrya; 13: Uṣas, Or A Praise Of The Sun’s Briliance; 14: Pavamāna; 15, 16: Aditi
Ṛṣi ऋषि
Jamadagni Bhārgava
Chandas छन्दस्
Bṛhatī, Satobṛhatī, Triṣṭubh, Gāyatrī
Metres by ṛk

1st set of styles virāḍbṛhatī (6, 7, 9, 11); paṅktiḥ (2, 4, 8); nicṛdbṛhatī (1); gāyatrī (3); svaraḍārcībṛhatī (5); svarāḍbṛhatī (10); bhurigbṛhatī (12); ārcībṛhatī (13); pādanicṛttriṣṭup (14); triṣṭup (15); virāṭtrisṭup (16)

2nd set of styles bṛhatī (1, 5, 7, 9, 11, 13); satobṛhatī (2, 4, 6, 8, 10, 12); triṣṭubh (14-16); gāyatrī (3)

  1. Ṛk 1

    ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता॑तये ।
    यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥

    ऋधग् इत्था स मर्त्यः शशमे देवतातये |
    यो नूनम् मित्रावरुणाव् अभिष्टय आचक्रे हव्यदातये ||

    ṛ́dhagitthā́ sá mártyaḥ śaśamé devátātaye ǀ
    yó nūnám mitrā́váruṇāvabhíṣṭaya ācakré havyádātaye ǁ

    ṛdhag itthā sa martyaḥ śaśame devatātaye |
    yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye ||

    ऋध॑क् । इ॒त्था । सः । मर्त्यः॑ । श॒श॒मे । दे॒वऽता॑तये ।
    यः । नू॒नम् । मि॒त्रावरु॑णौ । अ॒भिष्ट॑ये । आ॒ऽच॒क्रे । ह॒व्यऽदा॑तये ॥

    ऋधक् । इत्था । सः । मर्त्यः । शशमे । देवऽतातये ।
    यः । नूनम् । मित्रावरुणौ । अभिष्टये । आऽचक्रे । हव्यऽदातये ॥

    ṛ́dhak ǀ itthā́ ǀ sáḥ ǀ mártyaḥ ǀ śaśamé ǀ devá-tātaye ǀ
    yáḥ ǀ nūnám ǀ mitrā́váruṇau ǀ abhíṣṭaye ǀ ā-cakré ǀ havyá-dātaye ǁ

    ṛdhak ǀ itthā ǀ saḥ ǀ martyaḥ ǀ śaśame ǀ deva-tātaye ǀ
    yaḥ ǀ nūnam ǀ mitrāvaruṇau ǀ abhiṣṭaye ǀ ā-cakre ǀ havya-dātaye ǁ

    8.101.1 Aṣṭaka 6.7.6.0

  2. Ṛk 2

    वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।
    ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥

    वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा |
    ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ||

    várṣiṣṭhakṣatrā urucákṣasā nárā rā́jānā dīrghaśrúttamā ǀ
    tā́ bāhútā ná daṃsánā ratharyataḥ sākám sū́ryasya raśmíbhiḥ ǁ

    varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā |
    tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ ||

    वर्षि॑ष्ठऽक्षत्रौ । उ॒रु॒ऽचक्ष॑सा । नरा॑ । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा ।
    ता । बा॒हुता॑ । न । दं॒सना॑ । र॒थ॒र्य॒तः॒ । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥

    वर्षिष्ठऽक्षत्रौ । उरुऽचक्षसा । नरा । राजाना । दीर्घश्रुत्ऽतमा ।
    ता । बाहुता । न । दंसना । रथर्यतः । साकम् । सूर्यस्य । रश्मिऽभिः ॥

    várṣiṣṭha-kṣatrau ǀ uru-cákṣasā ǀ nárā ǀ rā́jānā ǀ dīrghaśrút-tamā ǀ
    tā́ ǀ bāhútā ǀ ná ǀ daṃsánā ǀ ratharyataḥ ǀ sākám ǀ sū́ryasya ǀ raśmí-bhiḥ ǁ

    varṣiṣṭha-kṣatrau ǀ uru-cakṣasā ǀ narā ǀ rājānā ǀ dīrghaśrut-tamā ǀ
    tā ǀ bāhutā ǀ na ǀ daṃsanā ǀ ratharyataḥ ǀ sākam ǀ sūryasya ǀ raśmi-bhiḥ ǁ

    8.101.2 Aṣṭaka 6.7.6.0

  3. Ṛk 3

    प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् ।
    अयः॑शीर्षा॒ मदे॑रघुः ॥

    प्र यो वाम् मित्रावरुणाजिरो दूतो अद्रवत् |
    अयःशीर्षा मदेरघुः ||

    prá yó vām mitrāvaruṇājiró dūtó ádravat ǀ
    áyaḥśīrṣā máderaghuḥ ǁ

    pra yo vām mitrāvaruṇājiro dūto adravat |
    ayaḥśīrṣā maderaghuḥ ||

    प्र । यः । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒जि॒रः । दू॒तः । अद्र॑वत् ।
    अयः॑ऽशीर्षा । मदे॑ऽरघुः ॥

    प्र । यः । वाम् । मित्रावरुणा । अजिरः । दूतः । अद्रवत् ।
    अयःऽशीर्षा । मदेऽरघुः ॥

    prá ǀ yáḥ ǀ vām ǀ mitrāvaruṇā ǀ ajiráḥ ǀ dūtáḥ ǀ ádravat ǀ
    áyaḥ-śīrṣā ǀ máde-raghuḥ ǁ

    pra ǀ yaḥ ǀ vām ǀ mitrāvaruṇā ǀ ajiraḥ ǀ dūtaḥ ǀ adravat ǀ
    ayaḥ-śīrṣā ǀ made-raghuḥ ǁ

    8.101.3 Aṣṭaka 6.7.6.0

  4. Ṛk 4

    न यः सं॒पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते ।
    तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतं ॥

    न यः सम्पृच्छे न पुनर् हवीतवे न संवादाय रमते |
    तस्मान् नो अद्य समृतेर् उरुष्यतम् बाहुभ्यां न उरुष्यतम् ||

    ná yáḥ sampṛ́cche ná púnarhávītave ná saṃvādā́ya rámate ǀ
    tásmānno adyá sámṛteruruṣyatam bāhúbhyām na uruṣyatam ǁ

    na yaḥ sampṛcche na punar havītave na saṃvādāya ramate |
    tasmān no adya samṛter uruṣyatam bāhubhyāṃ na uruṣyatam ||

    न । यः । स॒म्ऽपृच्छे॑ । न । पुनः॑ । हवी॑तवे । न । स॒म्ऽवा॒दाय॑ । रम॑ते ।
    तस्मा॑त् । नः॒ । अ॒द्य । सम्ऽऋ॑तेः । उ॒रु॒ष्य॒त॒म् । बा॒हुऽभ्या॑म् । नः॒ । उ॒रु॒ष्य॒त॒म् ॥

    न । यः । सम्ऽपृच्छे । न । पुनः । हवीतवे । न । सम्ऽवादाय । रमते ।
    तस्मात् । नः । अद्य । सम्ऽऋतेः । उरुष्यतम् । बाहुऽभ्याम् । नः । उरुष्यतम् ॥

    ná ǀ yáḥ ǀ sam-pṛ́cche ǀ ná ǀ púnaḥ ǀ hávītave ǀ ná ǀ sam-vādā́ya ǀ rámate ǀ
    tásmāt ǀ naḥ ǀ adyá ǀ sám-ṛteḥ ǀ uruṣyatam ǀ bāhú-bhyām ǀ naḥ ǀ uruṣyatam ǁ

    na ǀ yaḥ ǀ sam-pṛcche ǀ na ǀ punaḥ ǀ havītave ǀ na ǀ sam-vādāya ǀ ramate ǀ
    tasmāt ǀ naḥ ǀ adya ǀ sam-ṛteḥ ǀ uruṣyatam ǀ bāhu-bhyām ǀ naḥ ǀ uruṣyatam ǁ

    8.101.4 Aṣṭaka 6.7.6.0

  5. Ṛk 5

    प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो ।
    व॒रू॒थ्यं१॒॑ वरु॑णे॒ छंद्यं॒ वचः॑ स्तो॒त्रं राज॑सु गायत ॥

    प्र मित्राय प्रार्यम्णे सचथ्यम् ऋतावसो |
    वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत ||

    prá mitrā́ya prā́ryamṇé sacathyámṛtāvaso ǀ
    varūthyám váruṇe chándyam vácaḥ stotrám rā́jasu gāyata ǁ

    pra mitrāya prāryamṇe sacathyam ṛtāvaso |
    varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu gāyata ||

    प्र । मि॒त्राय॑ । प्र । अ॒र्य॒म्णे । स॒च॒थ्य॑म् । ऋ॒त॒व॒सो॒ इत्यृ॑तऽवसो ।
    व॒रू॒थ्य॑म् । वरु॑णे । छन्द्य॑म् । वचः॑ । स्तो॒त्रम् । राज॑ऽसु । गा॒य॒त॒ ॥

    प्र । मित्राय । प्र । अर्यम्णे । सचथ्यम् । ऋतवसो इत्यृतऽवसो ।
    वरूथ्यम् । वरुणे । छन्द्यम् । वचः । स्तोत्रम् । राजऽसु । गायत ॥

    prá ǀ mitrā́ya ǀ prá ǀ aryamṇé ǀ sacathyám ǀ ṛtavaso ítyṛta-vaso ǀ
    varūthyám ǀ váruṇe ǀ chándyam ǀ vácaḥ ǀ stotrám ǀ rā́ja-su ǀ gāyata ǁ

    pra ǀ mitrāya ǀ pra ǀ aryamṇe ǀ sacathyam ǀ ṛtavaso ityṛta-vaso ǀ
    varūthyam ǀ varuṇe ǀ chandyam ǀ vacaḥ ǀ stotram ǀ rāja-su ǀ gāyata ǁ

    8.101.5 Aṣṭaka 6.7.6.0

  6. Ṛk 6

    ते हि॑न्विरे अरु॒णं जेन्यं॒ वस्वेकं॑ पु॒त्रं ति॑सॄ॒णां ।
    ते धामा॑न्य॒मृता॒ मर्त्या॑ना॒मद॑ब्धा अ॒भि च॑क्षते ॥

    ते हिन्विरे अरुणं जेन्यं वस्व् एकम् पुत्रं तिसॄणाम् |
    ते धामान्य् अमृता मर्त्यानाम् अदब्धा अभि चक्षते ||

    té hinvire aruṇám jényam vásvékam putrám tisṝṇā́m ǀ
    té dhā́mānyamṛ́tā mártyānāmádabdhā abhí cakṣate ǁ

    te hinvire aruṇaṃ jenyaṃ vasv ekam putraṃ tisṝṇām |
    te dhāmāny amṛtā martyānām adabdhā abhi cakṣate ||

    ते । हि॒न्वि॒रे॒ । अ॒रु॒णम् । जेन्य॑म् । वसु॑ । एक॑म् । पु॒त्रम् । ति॒सॄ॒णाम् ।
    ते । धामा॑नि । अ॒मृताः॑ । मर्त्या॑नाम् । अद॑ब्धाः । अ॒भि । च॒क्ष॒ते॒ ॥

    ते । हिन्विरे । अरुणम् । जेन्यम् । वसु । एकम् । पुत्रम् । तिसॄणाम् ।
    ते । धामानि । अमृताः । मर्त्यानाम् । अदब्धाः । अभि । चक्षते ॥

    té ǀ hinvire ǀ aruṇám ǀ jényam ǀ vásu ǀ ékam ǀ putrám ǀ tisṝṇā́m ǀ
    té ǀ dhā́māni ǀ amṛ́tāḥ ǀ mártyānām ǀ ádabdhāḥ ǀ abhí ǀ cakṣate ǁ

    te ǀ hinvire ǀ aruṇam ǀ jenyam ǀ vasu ǀ ekam ǀ putram ǀ tisṝṇām ǀ
    te ǀ dhāmāni ǀ amṛtāḥ ǀ martyānām ǀ adabdhāḥ ǀ abhi ǀ cakṣate ǁ

    8.101.6 Aṣṭaka 6.7.7.0

  7. Ṛk 7

    आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा॑ ।
    उ॒भा या॑तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥

    आ मे वचांस्य् उद्यता द्युमत्तमानि कर्त्वा |
    उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ||

    ā́ me vácāṃsyúdyatā dyumáttamāni kártvā ǀ
    ubhā́ yātam nāsatyā sajóṣasā práti havyā́ni vītáye ǁ

    ā me vacāṃsy udyatā dyumattamāni kartvā |
    ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye ||

    आ । मे॒ । वचां॑सि । उत्ऽय॑ता । द्यु॒मत्ऽत॑मानि । कर्त्वा॑ ।
    उ॒भा । या॒त॒म् । ना॒स॒त्या॒ । स॒ऽजोष॑सा । प्रति॑ । ह॒व्यानि॑ । वी॒तये॑ ॥

    आ । मे । वचांसि । उत्ऽयता । द्युमत्ऽतमानि । कर्त्वा ।
    उभा । यातम् । नासत्या । सऽजोषसा । प्रति । हव्यानि । वीतये ॥

    ā́ ǀ me ǀ vácāṃsi ǀ út-yatā ǀ dyumát-tamāni ǀ kártvā ǀ
    ubhā́ ǀ yātam ǀ nāsatyā ǀ sa-jóṣasā ǀ práti ǀ havyā́ni ǀ vītáye ǁ

    ā ǀ me ǀ vacāṃsi ǀ ut-yatā ǀ dyumat-tamāni ǀ kartvā ǀ
    ubhā ǀ yātam ǀ nāsatyā ǀ sa-joṣasā ǀ prati ǀ havyāni ǀ vītaye ǁ

    8.101.7 Aṣṭaka 6.7.7.0

  8. Ṛk 8

    रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू ।
    प्राचीं॒ होत्रां॑ प्रति॒रंता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥

    रातिं यद् वाम् अरक्षसं हवामहे युवाभ्यां वाजिनीवसू |
    प्राचीं होत्राम् प्रतिरन्ताव् इतं नरा गृणाना जमदग्निना ||

    rātím yádvāmarakṣásam hávāmahe yuvā́bhyām vājinīvasū ǀ
    prā́cīm hótrām pratirántāvitam narā gṛṇānā́ jamádagninā ǁ

    rātiṃ yad vām arakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū |
    prācīṃ hotrām pratirantāv itaṃ narā gṛṇānā jamadagninā ||

    रा॒तिम् । यत् । वा॒म् । अ॒र॒क्षस॑म् । हवा॑महे । यु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
    प्राची॑म् । होत्रा॑म् । प्र॒ऽति॒रन्तौ॑ । इ॒त॒म् । न॒रा॒ । गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना ॥

    रातिम् । यत् । वाम् । अरक्षसम् । हवामहे । युवाभ्याम् । वाजिनीवसू इति वाजिनीऽवसू ।
    प्राचीम् । होत्राम् । प्रऽतिरन्तौ । इतम् । नरा । गृणाना । जमत्ऽअग्निना ॥

    rātím ǀ yát ǀ vām ǀ arakṣásam ǀ hávāmahe ǀ yuvā́bhyām ǀ vājinīvasū íti vājinī-vasū ǀ
    prā́cīm ǀ hótrām ǀ pra-tirántau ǀ itam ǀ narā ǀ gṛṇānā́ ǀ jamát-agninā ǁ

    rātim ǀ yat ǀ vām ǀ arakṣasam ǀ havāmahe ǀ yuvābhyām ǀ vājinīvasū iti vājinī-vasū ǀ
    prācīm ǀ hotrām ǀ pra-tirantau ǀ itam ǀ narā ǀ gṛṇānā ǀ jamat-agninā ǁ

    8.101.8 Aṣṭaka 6.7.7.0

  9. Ṛk 9

    आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः ।
    अं॒तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥

    आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः |
    अन्तः पवित्र उपरि श्रीणानो ऽयं शुक्रो अयामि ते ||

    ā́ no yajñám divispṛ́śam vā́yo yāhí sumánmabhiḥ ǀ
    antáḥ pavítra upári śrīṇānó’yám śukró ayāmi te ǁ

    ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ |
    antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te ||

    आ । नः॒ । य॒ज्ञम् । दि॒वि॒ऽस्पृश॑म् । वायो॒ इति॑ । या॒हि । सु॒मन्म॑ऽभिः ।
    अ॒न्तरिति॑ । प॒वित्रे॑ । उ॒परि॑ । श्री॒णा॒नः । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ॥

    आ । नः । यज्ञम् । दिविऽस्पृशम् । वायो इति । याहि । सुमन्मऽभिः ।
    अन्तरिति । पवित्रे । उपरि । श्रीणानः । अयम् । शुक्रः । अयामि । ते ॥

    ā́ ǀ naḥ ǀ yajñám ǀ divi-spṛ́śam ǀ vā́yo íti ǀ yāhí ǀ sumánma-bhiḥ ǀ
    antáríti ǀ pavítre ǀ upári ǀ śrīṇānáḥ ǀ ayám ǀ śukráḥ ǀ ayāmi ǀ te ǁ

    ā ǀ naḥ ǀ yajñam ǀ divi-spṛśam ǀ vāyo iti ǀ yāhi ǀ sumanma-bhiḥ ǀ
    antariti ǀ pavitre ǀ upari ǀ śrīṇānaḥ ǀ ayam ǀ śukraḥ ǀ ayāmi ǀ te ǁ

    8.101.9 Aṣṭaka 6.7.7.0

  10. Ṛk 10

    वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठैः॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ।
    अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरं ॥

    वेत्य् अध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये |
    अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ||

    vétyadhvaryúḥ pathíbhī rájiṣṭhaiḥ práti havyā́ni vītáye ǀ
    ádhā niyutva ubháyasya naḥ piba śúcim sómam gávāśiram ǁ

    vety adhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye |
    adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ gavāśiram ||

    वेति॑ । अ॒ध्व॒र्युः । प॒थिऽभिः॑ । रजि॑ष्ठैः । प्रति॑ । ह॒व्यानि॑ । वी॒तये॑ ।
    अध॑ । नि॒यु॒त्वः॒ । उ॒भय॑स्य । नः॒ । पि॒ब॒ । शुचि॑म् । सोम॑म् । गोऽआ॑शिरम् ॥

    वेति । अध्वर्युः । पथिऽभिः । रजिष्ठैः । प्रति । हव्यानि । वीतये ।
    अध । नियुत्वः । उभयस्य । नः । पिब । शुचिम् । सोमम् । गोऽआशिरम् ॥

    véti ǀ adhvaryúḥ ǀ pathí-bhiḥ ǀ rájiṣṭhaiḥ ǀ práti ǀ havyā́ni ǀ vītáye ǀ
    ádha ǀ niyutvaḥ ǀ ubháyasya ǀ naḥ ǀ piba ǀ śúcim ǀ sómam ǀ gó-āśiram ǁ

    veti ǀ adhvaryuḥ ǀ pathi-bhiḥ ǀ rajiṣṭhaiḥ ǀ prati ǀ havyāni ǀ vītaye ǀ
    adha ǀ niyutvaḥ ǀ ubhayasya ǀ naḥ ǀ piba ǀ śucim ǀ somam ǀ go-āśiram ǁ

    8.101.10 Aṣṭaka 6.7.7.0

  11. Ṛk 11

    बण्म॒हाँ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ अ॑सि ।
    म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥

    बण् महां असि सूर्य बऌ आदित्य महां असि |
    महस् ते सतो महिमा पनस्यते ऽद्धा देव महां असि ||

    báṇmahā́m̐ asi sūrya báḷāditya mahā́m̐ asi ǀ
    maháste sató mahimā́ panasyate’ddhā́ deva mahā́m̐ asi ǁ

    baṇ mahāṃ asi sūrya baḷ āditya mahāṃ asi |
    mahas te sato mahimā panasyate 'ddhā deva mahāṃ asi ||

    बट् । म॒हान् । अ॒सि॒ । सू॒र्य॒ । बट् । आ॒दि॒त्य॒ । म॒हान् । अ॒सि॒ ।
    म॒हः । ते॒ । स॒तः । म॒हि॒मा । प॒न॒स्य॒ते॒ । अ॒द्धा । दे॒व॒ । म॒हान् । अ॒सि॒ ॥

    बट् । महान् । असि । सूर्य । बट् । आदित्य । महान् । असि ।
    महः । ते । सतः । महिमा । पनस्यते । अद्धा । देव । महान् । असि ॥

    báṭ ǀ mahā́n ǀ asi ǀ sūrya ǀ báṭ ǀ āditya ǀ mahā́n ǀ asi ǀ
    maháḥ ǀ te ǀ satáḥ ǀ mahimā́ ǀ panasyate ǀ addhā́ ǀ deva ǀ mahā́n ǀ asi ǁ

    baṭ ǀ mahān ǀ asi ǀ sūrya ǀ baṭ ǀ āditya ǀ mahān ǀ asi ǀ
    mahaḥ ǀ te ǀ sataḥ ǀ mahimā ǀ panasyate ǀ addhā ǀ deva ǀ mahān ǀ asi ǁ

    8.101.11 Aṣṭaka 6.7.8.0

  12. Ṛk 12

    बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।
    म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यं ॥

    बट् सूर्य श्रवसा महां असि सत्रा देव महां असि |
    मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ||

    báṭ sūrya śrávasā mahā́m̐ asi satrā́ deva mahā́m̐ asi ǀ
    mahnā́ devā́nāmasuryáḥ puróhito vibhú jyótirádābhyam ǁ

    baṭ sūrya śravasā mahāṃ asi satrā deva mahāṃ asi |
    mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam ||

    बट् । सू॒र्य॒ । श्रव॑सा । म॒हान् । अ॒सि॒ । स॒त्रा । दे॒व॒ । म॒हान् । अ॒सि॒ ।
    म॒ह्ना । दे॒वाना॑म् । अ॒सु॒र्यः॑ । पु॒रःऽहि॑तः । वि॒ऽभु । ज्योतिः॑ । अदा॑भ्यम् ॥

    बट् । सूर्य । श्रवसा । महान् । असि । सत्रा । देव । महान् । असि ।
    मह्ना । देवानाम् । असुर्यः । पुरःऽहितः । विऽभु । ज्योतिः । अदाभ्यम् ॥

    báṭ ǀ sūrya ǀ śrávasā ǀ mahā́n ǀ asi ǀ satrā́ ǀ deva ǀ mahā́n ǀ asi ǀ
    mahnā́ ǀ devā́nām ǀ asuryáḥ ǀ puráḥ-hitaḥ ǀ vi-bhú ǀ jyótiḥ ǀ ádābhyam ǁ

    baṭ ǀ sūrya ǀ śravasā ǀ mahān ǀ asi ǀ satrā ǀ deva ǀ mahān ǀ asi ǀ
    mahnā ǀ devānām ǀ asuryaḥ ǀ puraḥ-hitaḥ ǀ vi-bhu ǀ jyotiḥ ǀ adābhyam ǁ

    8.101.12 Aṣṭaka 6.7.8.0

  13. Ṛk 13

    इ॒यं या नीच्य॒र्किणी॑ रू॒पा रोहि॑ण्या कृ॒ता ।
    चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्यं१॒॑तर्द॒शसु॑ बा॒हुषु॑ ॥

    इयं या नीच्य् अर्किणी रूपा रोहिण्या कृता |
    चित्रेव प्रत्य् अदर्श्य् आयत्य् अन्तर् दशसु बाहुषु ||

    iyám yā́ nī́cyarkíṇī rūpā́ róhiṇyā kṛtā́ ǀ
    citréva prátyadarśyāyatyántárdaśásu bāhúṣu ǁ

    iyaṃ yā nīcy arkiṇī rūpā rohiṇyā kṛtā |
    citreva praty adarśy āyaty antar daśasu bāhuṣu ||

    इ॒यम् । या । नीची॑ । अ॒र्किणी॑ । रू॒पा । रोहि॑ण्या । कृ॒ता ।
    चि॒त्राऽइ॑व । प्रति॑ । अ॒द॒र्शि॒ । आ॒ऽय॒ती । अ॒न्तः । द॒शऽसु॑ । बा॒हुषु॑ ॥

    इयम् । या । नीची । अर्किणी । रूपा । रोहिण्या । कृता ।
    चित्राऽइव । प्रति । अदर्शि । आऽयती । अन्तः । दशऽसु । बाहुषु ॥

    iyám ǀ yā́ ǀ nī́cī ǀ arkíṇī ǀ rūpā́ ǀ róhiṇyā ǀ kṛtā́ ǀ
    citrā́-iva ǀ práti ǀ adarśi ǀ ā-yatī́ ǀ antáḥ ǀ daśá-su ǀ bāhúṣu ǁ

    iyam ǀ yā ǀ nīcī ǀ arkiṇī ǀ rūpā ǀ rohiṇyā ǀ kṛtā ǀ
    citrā-iva ǀ prati ǀ adarśi ǀ ā-yatī ǀ antaḥ ǀ daśa-su ǀ bāhuṣu ǁ

    8.101.13 Aṣṭaka 6.7.8.0

  14. Ṛk 14

    प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॒॑न्या अ॒र्कम॒भितो॑ विविश्रे ।
    बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्वं॒तः पव॑मानो ह॒रित॒ आ वि॑वेश ॥

    प्रजा ह तिस्रो अत्यायम् ईयुर् न्य् अन्या अर्कम् अभितो विविश्रे |
    बृहद् ध तस्थौ भुवनेष्व् अन्तः पवमानो हरित आ विवेश ||

    prajā́ ha tisró atyā́yamīyurnyányā́ arkámabhíto viviśre ǀ
    bṛháddha tasthau bhúvaneṣvantáḥ pávamāno haríta ā́ viveśa ǁ

    prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre |
    bṛhad dha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa ||

    प्र॒ऽजाः । ह॒ । ति॒स्रः । अ॒ति॒ऽआय॑म् । ई॒युः॒ । नि । अ॒न्याः । अ॒र्कम् । अ॒भितः॑ । वि॒वि॒श्रे॒ ।
    बृ॒हत् । ह॒ । त॒स्थौ॒ । भुव॑नेषु । अ॒न्तरिति॑ । पव॑मानः । ह॒रितः॑ । आ । वि॒वे॒श॒ ॥

    प्रऽजाः । ह । तिस्रः । अतिऽआयम् । ईयुः । नि । अन्याः । अर्कम् । अभितः । विविश्रे ।
    बृहत् । ह । तस्थौ । भुवनेषु । अन्तरिति । पवमानः । हरितः । आ । विवेश ॥

    pra-jā́ḥ ǀ ha ǀ tisráḥ ǀ ati-ā́yam ǀ īyuḥ ǀ ní ǀ anyā́ḥ ǀ arkám ǀ abhítaḥ ǀ viviśre ǀ
    bṛhát ǀ ha ǀ tasthau ǀ bhúvaneṣu ǀ antáríti ǀ pávamānaḥ ǀ harítaḥ ǀ ā́ ǀ viveśa ǁ

    pra-jāḥ ǀ ha ǀ tisraḥ ǀ ati-āyam ǀ īyuḥ ǀ ni ǀ anyāḥ ǀ arkam ǀ abhitaḥ ǀ viviśre ǀ
    bṛhat ǀ ha ǀ tasthau ǀ bhuvaneṣu ǀ antariti ǀ pavamānaḥ ǀ haritaḥ ǀ ā ǀ viveśa ǁ

    8.101.14 Aṣṭaka 6.7.8.0

  15. Ṛk 15

    मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ ।
    प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥

    माता रुद्राणां दुहिता वसूनां स्वसादित्यानाम् अमृतस्य नाभिः |
    प्र नु वोचं चिकितुषे जनाय मा गाम् अनागाम् अदितिं वधिष्ट ||

    mātā́ rudrā́ṇām duhitā́ vásūnām svásādityā́nāmamṛ́tasya nā́bhiḥ ǀ
    prá nú vocam cikitúṣe jánāya mā́ gā́mánāgāmáditim vadhiṣṭa ǁ

    mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ |
    pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa ||

    मा॒ता । रु॒द्राणा॑म् । दु॒हि॒ता । वसू॑नाम् । स्वसा॑ । आ॒दि॒त्याना॑म् । अ॒मृत॑स्य । नाभिः॑ ।
    प्र । नु । वो॒च॒म् । चि॒कि॒तुषे॑ । जना॑य । मा । गाम् । अना॑गाम् । अदि॑तिम् । व॒धि॒ष्ट॒ ॥

    माता । रुद्राणाम् । दुहिता । वसूनाम् । स्वसा । आदित्यानाम् । अमृतस्य । नाभिः ।
    प्र । नु । वोचम् । चिकितुषे । जनाय । मा । गाम् । अनागाम् । अदितिम् । वधिष्ट ॥

    mātā́ ǀ rudrā́ṇām ǀ duhitā́ ǀ vásūnām ǀ svásā ǀ ādityā́nām ǀ amṛ́tasya ǀ nā́bhiḥ ǀ
    prá ǀ nú ǀ vocam ǀ cikitúṣe ǀ jánāya ǀ mā́ ǀ gā́m ǀ ánāgām ǀ áditim ǀ vadhiṣṭa ǁ

    mātā ǀ rudrāṇām ǀ duhitā ǀ vasūnām ǀ svasā ǀ ādityānām ǀ amṛtasya ǀ nābhiḥ ǀ
    pra ǀ nu ǀ vocam ǀ cikituṣe ǀ janāya ǀ mā ǀ gām ǀ anāgām ǀ aditim ǀ vadhiṣṭa ǁ

    8.101.15 Aṣṭaka 6.7.8.0

  16. Ṛk 16

    व॒चो॒विदं॒ वाच॑मुदी॒रयं॑तीं॒ विश्वा॑भिर्धी॒भिरु॑प॒तिष्ठ॑मानां ।
    दे॒वीं दे॒वेभ्यः॒ पर्ये॒युषीं॒ गामा मा॑वृक्त॒ मर्त्यो॑ द॒भ्रचे॑ताः ॥

    वचोविदं वाचम् उदीरयन्तीं विश्वाभिर् धीभिर् उपतिष्ठमानाम् |
    देवीं देवेभ्यः पर्य् एयुषीं गाम् आ मावृक्त मर्त्यो दभ्रचेताः ||

    vacovídam vā́camudīráyantīm víśvābhirdhībhírupatíṣṭhamānām ǀ
    devī́m devébhyaḥ páryeyúṣīm gā́mā́ māvṛkta mártyo dabhrácetāḥ ǁ

    vacovidaṃ vācam udīrayantīṃ viśvābhir dhībhir upatiṣṭhamānām |
    devīṃ devebhyaḥ pary eyuṣīṃ gām ā māvṛkta martyo dabhracetāḥ ||

    व॒चः॒ऽविद॑म् । वाच॑म् । उ॒त्ऽई॒रय॑न्तीम् । विश्वा॑भिः । धी॒भिः । उ॒प॒ऽतिष्ठ॑मानाम् ।
    दे॒वीम् । दे॒वेभ्यः॑ । परि॑ । आ॒ऽई॒युषी॑म् । गाम् । आ । मा॒ । अ॒वृ॒क्त॒ । मर्त्यः॑ । द॒भ्रऽचे॑ताः ॥

    वचःऽविदम् । वाचम् । उत्ऽईरयन्तीम् । विश्वाभिः । धीभिः । उपऽतिष्ठमानाम् ।
    देवीम् । देवेभ्यः । परि । आऽईयुषीम् । गाम् । आ । मा । अवृक्त । मर्त्यः । दभ्रऽचेताः ॥

    vacaḥ-vídam ǀ vā́cam ǀ ut-īráyantīm ǀ víśvābhiḥ ǀ dhībhíḥ ǀ upa-tíṣṭhamānām ǀ
    devī́m ǀ devébhyaḥ ǀ pári ǀ ā-īyúṣīm ǀ gā́m ǀ ā́ ǀ mā ǀ avṛkta ǀ mártyaḥ ǀ dabhrá-cetāḥ ǁ

    vacaḥ-vidam ǀ vācam ǀ ut-īrayantīm ǀ viśvābhiḥ ǀ dhībhiḥ ǀ upa-tiṣṭhamānām ǀ
    devīm ǀ devebhyaḥ ǀ pari ǀ ā-īyuṣīm ǀ gām ǀ ā ǀ mā ǀ avṛkta ǀ martyaḥ ǀ dabhra-cetāḥ ǁ

    8.101.16 Aṣṭaka 6.7.8.0

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.101 · Mitra, Varuṇa · Aryaman, Mitra, Varuṇa · Aśvins · Vāyu · Sūrya · Uṣas, Or A Praise Of The Sun’s Briliance · Pavamāna · Aditi

Interpretations

Sri Aurobindo

Ṛk 1

Richly so that mortal becomes passive for the extension in him of the godhead, who has called13 Mitra and Varuna into his being to possess it14 and give the offering.

Ṛk 2

Abundant is their force and wide their revealed vision; far of range in their inspired hearing, they are the Purushas, the Kings; they by action as with a crowd of arms guide the chariot (of the Delight) along with the rays of the Master of Illumination.

Ṛk 3

There is one who runs forward as your messenger, O Mitra and Varuna, iron-browed, impetuous in rapture.

Ṛk 4

He who taketh not delight in the questioning nor in the calling back nor in the converse, from him protect us in the shock, with your arms protect.

Ṛk 5

ye to Mitra and Aryaman a Word of force,15 O thou rich in the Truth, a supreme and rhythmed word to Varuna, a song of affirmation to the Kings.

Ṛk 6

They have set in movement a substance of being active and pleasurable, one child of the three; they immortal and unoppressed behold the Seats for mortal men.

Ṛk 7

The Words of my thought are in labour upward, full of illumination are the deeds that I shall do. Come then both of you one in comradeship to the offering, that it may go to its goal.

Ṛk 8

Now that we offer to you a delight16 free from the Rakshasas who detain, O Aswins rich in the plenty of substance, come bringing forward the Supreme Lady of the offering and protect her, O ye Purushas, ye whom the hymns of Jamadagni express.

Ṛk 9

To our sacrifice that reacheth to Heaven come, O Vayu, with perfect thoughts; for thee within the purifying sense this Soma with its upward motion was worked into this pure brightness.

Ṛk 10

The Master of the sacrificial substance comes by straightest paths to the offerings that they may go to their goal; now, O thou who yokest the steeds of Life, do thou drink in us of both, drink of the pure Soma and of that which is rich with the Rays.

Ṛk 11

Truly art thou the great, O Master of Illumination, truly art thou the great, O Son of Infinity; great art thou in thy being and a greatness is thy labour; verily, art thou the great.

Ṛk 12

Truly, O Surya, art thou vast in inspiration, ever, O god, art thou the great; by the greatness of the gods art thou the Mighty One, for they set thee in front, a pervading and unconquerable Light.

Ṛk 13

Lo, she who is here below and luminous with realization and shaped and ruddy-bright, here appeareth coming to us as one varied in hue between his ten arms.

Ṛk 14

They travelled with a motion that went beyond the three worlds of beings; others entered around that illumination. Vastly he stood within the worlds, purifying and resplendent he entered into [ ]

Ṛk 15

Mother of the Rudras is she, daughter of the Vasus, sisterof the Adityas, periphery of the Truth. Now do I speak to that man who hath the perception; hurt not the Light that is without stain of evil, the Infinite who divideth not.

Ṛk 16

The Light who knoweth the Words and sendeth for the Word, whom all the thoughts approach to serve, who, divine, has for the divine Powers gone abroad let not the mortal cleave away from him in the littleness of his understanding.