Sūkta 25
- Devatā देवता
- 1, 2, 4-9, 11, 15, 17, 20, 22-24: Mitra, Varuṇa; 3: Aditi, Mitra, Varuṇa; 10: Aditi, Maruts; 12: Viṣṇu, Sindhu; 13: Aryaman, Mitra, Varuṇa; 14: Aśvins, Indra, Maruts, Mitra, Viṣṇu, Sindhu; 16: Mitra, Varuṇa, Sūrya; 18, 19, 21: Sūrya
- Ṛṣi ऋषि
- Viśvamanas Vaiyaśva
- Chandas छन्दस्
- Uṣṇih, Uṣṇiggarbhā
Metres by ṛk
1st set of styles virāḍuṣnik (3, 10, 13-16, 20-22); nicṛduṣṇik (1, 2, 5-9, 19); uṣṇik (4, 11, 12, 24); pādanicṛduṣṇik (17, 18); ārcyuṣṇik (23)
2nd set of styles uṣṇih (1-22, 24); uṣṇiggarbhā (23)
-
Ṛk 1
ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ ।
ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया |
ऋतावाना यजसे पूतदक्षसा ||tā́ vām víśvasya gopā́ devā́ devéṣu yajñíyā ǀ
ṛtā́vānā yajase pūtádakṣasā ǁtā vāṃ viśvasya gopā devā deveṣu yajñiyā |
ṛtāvānā yajase pūtadakṣasā ||ता । वा॒म् । विश्व॑स्य । गो॒पा । दे॒वा । दे॒वेषु॑ । य॒ज्ञिया॑ ।
ऋ॒तऽवा॑ना । य॒ज॒से॒ । पू॒तऽद॑क्षसा ॥ता । वाम् । विश्वस्य । गोपा । देवा । देवेषु । यज्ञिया ।
ऋतऽवाना । यजसे । पूतऽदक्षसा ॥tā́ ǀ vām ǀ víśvasya ǀ gopā́ ǀ devā́ ǀ devéṣu ǀ yajñíyā ǀ
ṛtá-vānā ǀ yajase ǀ pūtá-dakṣasā ǁtā ǀ vām ǀ viśvasya ǀ gopā ǀ devā ǀ deveṣu ǀ yajñiyā ǀ
ṛta-vānā ǀ yajase ǀ pūta-dakṣasā ǁ8.25.1 Aṣṭaka 6.2.21.1Anuvāka 8.4.97
-
Ṛk 2
मि॒त्रा तना॒ न र॒थ्या॒३॒॑ वरु॑णो॒ यश्च॑ सु॒क्रतुः॑ ।
स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ॥मित्रा तना न रथ्या वरुणो यश् च सुक्रतुः |
सनात् सुजाता तनया धृतव्रता ||mitrā́ tánā ná rathyā́ váruṇo yáśca sukrátuḥ ǀ
sanā́tsujātā́ tánayā dhṛtávratā ǁmitrā tanā na rathyā varuṇo yaś ca sukratuḥ |
sanāt sujātā tanayā dhṛtavratā ||मि॒त्रा । तना॑ । न । र॒थ्या॑ । वरु॑णः । यः । च॒ । सु॒ऽक्रतुः॑ ।
स॒नात् । सु॒ऽजा॒ता । तन॑या । धृ॒तऽव्र॑ता ॥मित्रा । तना । न । रथ्या । वरुणः । यः । च । सुऽक्रतुः ।
सनात् । सुऽजाता । तनया । धृतऽव्रता ॥mitrā́ ǀ tánā ǀ ná ǀ rathyā́ ǀ váruṇaḥ ǀ yáḥ ǀ ca ǀ su-krátuḥ ǀ
sanā́t ǀ su-jātā́ ǀ tánayā ǀ dhṛtá-vratā ǁmitrā ǀ tanā ǀ na ǀ rathyā ǀ varuṇaḥ ǀ yaḥ ǀ ca ǀ su-kratuḥ ǀ
sanāt ǀ su-jātā ǀ tanayā ǀ dhṛta-vratā ǁ8.25.2 Aṣṭaka 6.2.21.2Anuvāka 8.4.98
-
Ṛk 3
ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा ।
म॒ही ज॑जा॒नादि॑तिर्ऋ॒ताव॑री ॥ता माता विश्ववेदसासुर्याय प्रमहसा |
मही जजानादितिर् ऋतावरी ||tā́ mātā́ viśvávedasāsuryā́ya prámahasā ǀ
mahī́ jajānā́ditirṛtā́varī ǁtā mātā viśvavedasāsuryāya pramahasā |
mahī jajānāditir ṛtāvarī ||ता । मा॒ता । वि॒श्वऽवे॑दसा । अ॒सु॒र्या॑य । प्रऽम॑हसा ।
म॒ही । ज॒जा॒न॒ । अदि॑तिः । ऋ॒तऽव॑री ॥ता । माता । विश्वऽवेदसा । असुर्याय । प्रऽमहसा ।
मही । जजान । अदितिः । ऋतऽवरी ॥tā́ ǀ mātā́ ǀ viśvá-vedasā ǀ asuryā́ya ǀ prá-mahasā ǀ
mahī́ ǀ jajāna ǀ áditiḥ ǀ ṛtá-varī ǁtā ǀ mātā ǀ viśva-vedasā ǀ asuryāya ǀ pra-mahasā ǀ
mahī ǀ jajāna ǀ aditiḥ ǀ ṛta-varī ǁ8.25.3 Aṣṭaka 6.2.21.3Anuvāka 8.4.99
-
Ṛk 4
म॒हांता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा ।
ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥महान्ता मित्रावरुणा सम्राजा देवाव् असुरा |
ऋतावानाव् ऋतम् आ घोषतो बृहत् ||mahā́ntā mitrā́váruṇā samrā́jā devā́vásurā ǀ
ṛtā́vānāvṛtámā́ ghoṣato bṛhát ǁmahāntā mitrāvaruṇā samrājā devāv asurā |
ṛtāvānāv ṛtam ā ghoṣato bṛhat ||म॒हान्ता॑ । मि॒त्रावरु॑णा । स॒म्ऽराजा॑ । दे॒वौ । असु॑रा ।
ऋ॒तऽवा॑नौ । ऋ॒तम् । आ । घो॒ष॒तः॒ । बृ॒हत् ॥महान्ता । मित्रावरुणा । सम्ऽराजा । देवौ । असुरा ।
ऋतऽवानौ । ऋतम् । आ । घोषतः । बृहत् ॥mahā́ntā ǀ mitrā́váruṇā ǀ sam-rā́jā ǀ deváu ǀ ásurā ǀ
ṛtá-vānau ǀ ṛtám ǀ ā́ ǀ ghoṣataḥ ǀ bṛhát ǁmahāntā ǀ mitrāvaruṇā ǀ sam-rājā ǀ devau ǀ asurā ǀ
ṛta-vānau ǀ ṛtam ǀ ā ǀ ghoṣataḥ ǀ bṛhat ǁ8.25.4 Aṣṭaka 6.2.21.4Anuvāka 8.4.100
-
Ṛk 5
नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑ ।
सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः ॥नपाता शवसो महः सूनू दक्षस्य सुक्रतू |
सृप्रदानू इषो वास्त्व् अधि क्षितः ||nápātā śávaso maháḥ sūnū́ dákṣasya sukrátū ǀ
sṛprádānū iṣó vā́stvádhi kṣitaḥ ǁnapātā śavaso mahaḥ sūnū dakṣasya sukratū |
sṛpradānū iṣo vāstv adhi kṣitaḥ ||नपा॑ता । शव॑सः । म॒हः । सू॒नू इति॑ । दक्ष॑स्य । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ ।
सृ॒प्रदा॑नू॒ इति॑ सृ॒प्रऽदा॑नू । इ॒षः । वास्तु॑ । अधि॑ । क्षि॒तः॒ ॥नपाता । शवसः । महः । सूनू इति । दक्षस्य । सुक्रतू इति सुऽक्रतू ।
सृप्रदानू इति सृप्रऽदानू । इषः । वास्तु । अधि । क्षितः ॥nápātā ǀ śávasaḥ ǀ maháḥ ǀ sūnū́ íti ǀ dákṣasya ǀ sukrátū íti su-krátū ǀ
sṛprádānū íti sṛprá-dānū ǀ iṣáḥ ǀ vā́stu ǀ ádhi ǀ kṣitaḥ ǁnapātā ǀ śavasaḥ ǀ mahaḥ ǀ sūnū iti ǀ dakṣasya ǀ sukratū iti su-kratū ǀ
sṛpradānū iti sṛpra-dānū ǀ iṣaḥ ǀ vāstu ǀ adhi ǀ kṣitaḥ ǁ8.25.5 Aṣṭaka 6.2.21.5Anuvāka 8.4.101
-
Ṛk 6
सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिषः॑ ।
नभ॑स्वती॒रा वां॑ चरंतु वृ॒ष्टयः॑ ॥सं या दानूनि येमथुर् दिव्याः पार्थिवीर् इषः |
नभस्वतीर् आ वां चरन्तु वृष्टयः ||sám yā́ dā́nūni yemáthurdivyā́ḥ pā́rthivīríṣaḥ ǀ
nábhasvatīrā́ vām carantu vṛṣṭáyaḥ ǁsaṃ yā dānūni yemathur divyāḥ pārthivīr iṣaḥ |
nabhasvatīr ā vāṃ carantu vṛṣṭayaḥ ||सम् । या । दानू॑नि । ये॒मथुः॑ । दि॒व्याः । पार्थि॑वीः । इषः॑ ।
नभ॑स्वतीः । आ । वा॒म् । च॒र॒न्तु॒ । वृ॒ष्टयः॑ ॥सम् । या । दानूनि । येमथुः । दिव्याः । पार्थिवीः । इषः ।
नभस्वतीः । आ । वाम् । चरन्तु । वृष्टयः ॥sám ǀ yā́ ǀ dā́nūni ǀ yemáthuḥ ǀ divyā́ḥ ǀ pā́rthivīḥ ǀ íṣaḥ ǀ
nábhasvatīḥ ǀ ā́ ǀ vām ǀ carantu ǀ vṛṣṭáyaḥ ǁsam ǀ yā ǀ dānūni ǀ yemathuḥ ǀ divyāḥ ǀ pārthivīḥ ǀ iṣaḥ ǀ
nabhasvatīḥ ǀ ā ǀ vām ǀ carantu ǀ vṛṣṭayaḥ ǁ8.25.6 Aṣṭaka 6.2.22.1Anuvāka 8.4.102
-
Ṛk 7
अधि॒ या बृ॑ह॒तो दि॒वो॒३॒॑ऽभि यू॒थेव॒ पश्य॑तः ।
ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता ॥अधि या बृहतो दिवो ऽभि यूथेव पश्यतः |
ऋतावाना सम्राजा नमसे हिता ||ádhi yā́ bṛható divó’bhí yūthéva páśyataḥ ǀ
ṛtā́vānā samrā́jā námase hitā́ ǁadhi yā bṛhato divo 'bhi yūtheva paśyataḥ |
ṛtāvānā samrājā namase hitā ||अधि॑ । या । बृ॒ह॒तः । दि॒वः । अ॒भि । यू॒थाऽइ॑व । पश्य॑तः ।
ऋ॒तऽवा॑ना । स॒म्ऽराजा॑ । नम॑से । हि॒ता ॥अधि । या । बृहतः । दिवः । अभि । यूथाऽइव । पश्यतः ।
ऋतऽवाना । सम्ऽराजा । नमसे । हिता ॥ádhi ǀ yā́ ǀ bṛhatáḥ ǀ diváḥ ǀ abhí ǀ yūthā́-iva ǀ páśyataḥ ǀ
ṛtá-vānā ǀ sam-rā́jā ǀ námase ǀ hitā́ ǁadhi ǀ yā ǀ bṛhataḥ ǀ divaḥ ǀ abhi ǀ yūthā-iva ǀ paśyataḥ ǀ
ṛta-vānā ǀ sam-rājā ǀ namase ǀ hitā ǁ8.25.7 Aṣṭaka 6.2.22.2Anuvāka 8.4.103
-
Ṛk 8
ऋ॒तावा॑ना॒ नि षे॑दतुः॒ साम्रा॑ज्याय सु॒क्रतू॑ ।
धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः ॥ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू |
धृतव्रता क्षत्रिया क्षत्रम् आशतुः ||ṛtā́vānā ní ṣedatuḥ sā́mrājyāya sukrátū ǀ
dhṛtávratā kṣatríyā kṣatrámāśatuḥ ǁṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū |
dhṛtavratā kṣatriyā kṣatram āśatuḥ ||ऋ॒तऽवा॑ना । नि । से॒द॒तुः॒ । साम्ऽरा॑ज्याय । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ ।
धृ॒तऽव्र॑ता । क्ष॒त्रिया॑ । क्ष॒त्रम् । आ॒श॒तुः॒ ॥ऋतऽवाना । नि । सेदतुः । साम्ऽराज्याय । सुक्रतू इति सुऽक्रतू ।
धृतऽव्रता । क्षत्रिया । क्षत्रम् । आशतुः ॥ṛtá-vānā ǀ ní ǀ sedatuḥ ǀ sā́m-rājyāya ǀ sukrátū íti su-krátū ǀ
dhṛtá-vratā ǀ kṣatríyā ǀ kṣatrám ǀ āśatuḥ ǁṛta-vānā ǀ ni ǀ sedatuḥ ǀ sām-rājyāya ǀ sukratū iti su-kratū ǀ
dhṛta-vratā ǀ kṣatriyā ǀ kṣatram ǀ āśatuḥ ǁ8.25.8 Aṣṭaka 6.2.22.3Anuvāka 8.4.104
-
Ṛk 9
अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा ।
नि चि॑न्मि॒षंता॑ निचि॒रा नि चि॑क्यतुः ॥अक्ष्णश् चिद् गातुवित्तरानुल्बणेन चक्षसा |
नि चिन् मिषन्ता निचिरा नि चिक्यतुः ||akṣṇáścidgātuvíttarānulbaṇéna cákṣasā ǀ
ní cinmiṣántā nicirā́ ní cikyatuḥ ǁakṣṇaś cid gātuvittarānulbaṇena cakṣasā |
ni cin miṣantā nicirā ni cikyatuḥ ||अ॒क्ष्णः । चि॒त् । गा॒तु॒वित्ऽत॑रा । अ॒नु॒ल्ब॒णेन॑ । चक्ष॑सा ।
नि । चि॒त् । मि॒षन्ता॑ । नि॒ऽचि॒रा । नि । चि॒क्य॒तुः॒ ॥अक्ष्णः । चित् । गातुवित्ऽतरा । अनुल्बणेन । चक्षसा ।
नि । चित् । मिषन्ता । निऽचिरा । नि । चिक्यतुः ॥akṣṇáḥ ǀ cit ǀ gātuvít-tarā ǀ anulbaṇéna ǀ cákṣasā ǀ
ní ǀ cit ǀ miṣántā ǀ ni-cirā́ ǀ ní ǀ cikyatuḥ ǁakṣṇaḥ ǀ cit ǀ gātuvit-tarā ǀ anulbaṇena ǀ cakṣasā ǀ
ni ǀ cit ǀ miṣantā ǀ ni-cirā ǀ ni ǀ cikyatuḥ ǁ8.25.9 Aṣṭaka 6.2.22.4Anuvāka 8.4.105
-
Ṛk 10
उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या ।
उ॒रु॒ष्यंतु॑ म॒रुतो॑ वृ॒द्धश॑वसः ॥उत नो देव्य् अदितिर् उरुष्यतां नासत्या |
उरुष्यन्तु मरुतो वृद्धशवसः ||utá no devyáditiruruṣyátām nā́satyā ǀ
uruṣyántu marúto vṛddháśavasaḥ ǁuta no devy aditir uruṣyatāṃ nāsatyā |
uruṣyantu maruto vṛddhaśavasaḥ ||उ॒त । नः॒ । दे॒वी । अदि॑तिः । उ॒रु॒ष्यता॑म् । नास॑त्या ।
उ॒रु॒ष्यन्तु॑ । म॒रुतः॑ । वृ॒द्धऽश॑वसः ॥उत । नः । देवी । अदितिः । उरुष्यताम् । नासत्या ।
उरुष्यन्तु । मरुतः । वृद्धऽशवसः ॥utá ǀ naḥ ǀ devī́ ǀ áditiḥ ǀ uruṣyátām ǀ nā́satyā ǀ
uruṣyántu ǀ marútaḥ ǀ vṛddhá-śavasaḥ ǁuta ǀ naḥ ǀ devī ǀ aditiḥ ǀ uruṣyatām ǀ nāsatyā ǀ
uruṣyantu ǀ marutaḥ ǀ vṛddha-śavasaḥ ǁ8.25.10 Aṣṭaka 6.2.22.5Anuvāka 8.4.106
-
Ṛk 11
ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः ।
अरि॑ष्यंतो॒ नि पा॒युभिः॑ सचेमहि ॥ते नो नावम् उरुष्यत दिवा नक्तं सुदानवः |
अरिष्यन्तो नि पायुभिः सचेमहि ||té no nāvámuruṣyata dívā náktam sudānavaḥ ǀ
áriṣyanto ní pāyúbhiḥ sacemahi ǁte no nāvam uruṣyata divā naktaṃ sudānavaḥ |
ariṣyanto ni pāyubhiḥ sacemahi ||ते । नः॒ । ना॒वम् । उ॒रु॒ष्य॒त॒ । दिवा॑ । नक्त॑म् । सु॒ऽदा॒न॒वः॒ ।
अरि॑ष्यन्तः । नि । पा॒युऽभिः॑ । स॒चे॒म॒हि॒ ॥ते । नः । नावम् । उरुष्यत । दिवा । नक्तम् । सुऽदानवः ।
अरिष्यन्तः । नि । पायुऽभिः । सचेमहि ॥té ǀ naḥ ǀ nāvám ǀ uruṣyata ǀ dívā ǀ náktam ǀ su-dānavaḥ ǀ
áriṣyantaḥ ǀ ní ǀ pāyú-bhiḥ ǀ sacemahi ǁte ǀ naḥ ǀ nāvam ǀ uruṣyata ǀ divā ǀ naktam ǀ su-dānavaḥ ǀ
ariṣyantaḥ ǀ ni ǀ pāyu-bhiḥ ǀ sacemahi ǁ8.25.11 Aṣṭaka 6.2.23.1Anuvāka 8.4.107
-
Ṛk 12
अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यंतः सु॒दान॑वे ।
श्रु॒धि स्व॑यावन्त्सिंधो पू॒र्वचि॑त्तये ॥अघ्नते विष्णवे वयम् अरिष्यन्तः सुदानवे |
श्रुधि स्वयावन् सिन्धो पूर्वचित्तये ||ághnate víṣṇave vayámáriṣyantaḥ sudā́nave ǀ
śrudhí svayāvantsindho pūrvácittaye ǁaghnate viṣṇave vayam ariṣyantaḥ sudānave |
śrudhi svayāvan sindho pūrvacittaye ||अघ्न॑ते । विष्ण॑वे । व॒यम् । अरि॑ष्यन्तः । सु॒ऽदान॑वे ।
श्रु॒धि । स्व॒ऽया॒व॒न् । सि॒न्धो॒ इति॑ । पू॒र्वऽचि॑त्तये ॥अघ्नते । विष्णवे । वयम् । अरिष्यन्तः । सुऽदानवे ।
श्रुधि । स्वऽयावन् । सिन्धो इति । पूर्वऽचित्तये ॥ághnate ǀ víṣṇave ǀ vayám ǀ áriṣyantaḥ ǀ su-dā́nave ǀ
śrudhí ǀ sva-yāvan ǀ sindho íti ǀ pūrvá-cittaye ǁaghnate ǀ viṣṇave ǀ vayam ǀ ariṣyantaḥ ǀ su-dānave ǀ
śrudhi ǀ sva-yāvan ǀ sindho iti ǀ pūrva-cittaye ǁ8.25.12 Aṣṭaka 6.2.23.2Anuvāka 8.4.108
-
Ṛk 13
तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्यं॑ ।
मि॒त्रो यत्पांति॒ वरु॑णो॒ यद॑र्य॒मा ॥तद् वार्यं वृणीमहे वरिष्ठं गोपयत्यम् |
मित्रो यत् पान्ति वरुणो यद् अर्यमा ||tádvā́ryam vṛṇīmahe váriṣṭham gopayátyam ǀ
mitró yátpā́nti váruṇo yádaryamā́ ǁtad vāryaṃ vṛṇīmahe variṣṭhaṃ gopayatyam |
mitro yat pānti varuṇo yad aryamā ||तत् । वार्य॑म् । वृ॒णी॒म॒हे॒ । वरि॑ष्ठम् । गो॒प॒यत्य॑म् ।
मि॒त्रः । यत् । पान्ति॑ । वरु॑णः । यत् । अ॒र्य॒मा ॥तत् । वार्यम् । वृणीमहे । वरिष्ठम् । गोपयत्यम् ।
मित्रः । यत् । पान्ति । वरुणः । यत् । अर्यमा ॥tát ǀ vā́ryam ǀ vṛṇīmahe ǀ váriṣṭham ǀ gopayátyam ǀ
mitráḥ ǀ yát ǀ pā́nti ǀ váruṇaḥ ǀ yát ǀ aryamā́ ǁtat ǀ vāryam ǀ vṛṇīmahe ǀ variṣṭham ǀ gopayatyam ǀ
mitraḥ ǀ yat ǀ pānti ǀ varuṇaḥ ǀ yat ǀ aryamā ǁ8.25.13 Aṣṭaka 6.2.23.3Anuvāka 8.4.109
-
Ṛk 14
उ॒त नः॒ सिंधु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑ ।
इंद्रो॒ विष्णु॑र्मी॒ढ्वांसः॑ स॒जोष॑सः ॥उत नः सिन्धुर् अपां तन् मरुतस् तद् अश्विना |
इन्द्रो विष्णुर् मीढ्वांसः सजोषसः ||utá naḥ síndhurapā́m tánmarútastádaśvínā ǀ
índro víṣṇurmīḍhvā́ṃsaḥ sajóṣasaḥ ǁuta naḥ sindhur apāṃ tan marutas tad aśvinā |
indro viṣṇur mīḍhvāṃsaḥ sajoṣasaḥ ||उ॒त । नः॒ । सिन्धुः॑ । अ॒पाम् । तत् । म॒रुतः॑ । तत् । अ॒श्विना॑ ।
इन्द्रः॑ । विष्णुः॑ । मी॒ढ्वांसः॑ । स॒ऽजोष॑सः ॥उत । नः । सिन्धुः । अपाम् । तत् । मरुतः । तत् । अश्विना ।
इन्द्रः । विष्णुः । मीढ्वांसः । सऽजोषसः ॥utá ǀ naḥ ǀ síndhuḥ ǀ apā́m ǀ tát ǀ marútaḥ ǀ tát ǀ aśvínā ǀ
índraḥ ǀ víṣṇuḥ ǀ mīḍhvā́ṃsaḥ ǀ sa-jóṣasaḥ ǁuta ǀ naḥ ǀ sindhuḥ ǀ apām ǀ tat ǀ marutaḥ ǀ tat ǀ aśvinā ǀ
indraḥ ǀ viṣṇuḥ ǀ mīḍhvāṃsaḥ ǀ sa-joṣasaḥ ǁ8.25.14 Aṣṭaka 6.2.23.4Anuvāka 8.4.110
-
Ṛk 15
ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् ।
ति॒ग्मं न क्षोदः॑ प्रति॒घ्नंति॒ भूर्ण॑यः ॥ते हि ष्मा वनुषो नरो ऽभिमातिं कयस्य चित् |
तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ||té hí ṣmā vanúṣo náro’bhímātim káyasya cit ǀ
tigmám ná kṣódaḥ pratighnánti bhū́rṇayaḥ ǁte hi ṣmā vanuṣo naro 'bhimātiṃ kayasya cit |
tigmaṃ na kṣodaḥ pratighnanti bhūrṇayaḥ ||ते । हि । स्म॒ । व॒नुषः॑ । नरः॑ । अ॒भिऽमा॑तिम् । कय॑स्य । चि॒त् ।
ति॒ग्मम् । न । क्षोदः॑ । प्र॒ति॒ऽघ्नन्ति॑ । भूर्ण॑यः ॥ते । हि । स्म । वनुषः । नरः । अभिऽमातिम् । कयस्य । चित् ।
तिग्मम् । न । क्षोदः । प्रतिऽघ्नन्ति । भूर्णयः ॥té ǀ hí ǀ sma ǀ vanúṣaḥ ǀ náraḥ ǀ abhí-mātim ǀ káyasya ǀ cit ǀ
tigmám ǀ ná ǀ kṣódaḥ ǀ prati-ghnánti ǀ bhū́rṇayaḥ ǁte ǀ hi ǀ sma ǀ vanuṣaḥ ǀ naraḥ ǀ abhi-mātim ǀ kayasya ǀ cit ǀ
tigmam ǀ na ǀ kṣodaḥ ǀ prati-ghnanti ǀ bhūrṇayaḥ ǁ8.25.15 Aṣṭaka 6.2.23.5Anuvāka 8.4.111
-
Ṛk 16
अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पतिः॑ ।
तस्य॑ व्र॒तान्यनु॑ वश्चरामसि ॥अयम् एक इत्था पुरूरु चष्टे वि विश्पतिः |
तस्य व्रतान्य् अनु वश् चरामसि ||ayáméka itthā́ purū́rú caṣṭe ví viśpátiḥ ǀ
tásya vratā́nyánu vaścarāmasi ǁayam eka itthā purūru caṣṭe vi viśpatiḥ |
tasya vratāny anu vaś carāmasi ||अ॒यम् । एकः॑ । इ॒त्था । पु॒रु । उ॒रु । च॒ष्टे॒ । वि । वि॒श्पतिः॑ ।
तस्य॑ । व्र॒तानि॑ । अनु॑ । वः॒ । च॒रा॒म॒सि॒ ॥अयम् । एकः । इत्था । पुरु । उरु । चष्टे । वि । विश्पतिः ।
तस्य । व्रतानि । अनु । वः । चरामसि ॥ayám ǀ ékaḥ ǀ itthā́ ǀ purú ǀ urú ǀ caṣṭe ǀ ví ǀ viśpátiḥ ǀ
tásya ǀ vratā́ni ǀ ánu ǀ vaḥ ǀ carāmasi ǁayam ǀ ekaḥ ǀ itthā ǀ puru ǀ uru ǀ caṣṭe ǀ vi ǀ viśpatiḥ ǀ
tasya ǀ vratāni ǀ anu ǀ vaḥ ǀ carāmasi ǁ8.25.16 Aṣṭaka 6.2.24.1Anuvāka 8.4.112
-
Ṛk 17
अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम ।
मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ॥अनु पूर्वाण्य् ओक्या साम्राज्यस्य सश्चिम |
मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ||ánu pū́rvāṇyokyā́ sāmrājyásya saścima ǀ
mitrásya vratā́ váruṇasya dīrghaśrút ǁanu pūrvāṇy okyā sāmrājyasya saścima |
mitrasya vratā varuṇasya dīrghaśrut ||अनु॑ । पूर्वा॑णि । ओ॒क्या॑ । सा॒म्ऽरा॒ज्यस्य॑ । स॒श्चि॒म॒ ।
मि॒त्रस्य॑ । व्र॒ता । वरु॑णस्य । दी॒र्घ॒ऽश्रुत् ॥अनु । पूर्वाणि । ओक्या । साम्ऽराज्यस्य । सश्चिम ।
मित्रस्य । व्रता । वरुणस्य । दीर्घऽश्रुत् ॥ánu ǀ pū́rvāṇi ǀ okyā́ ǀ sām-rājyásya ǀ saścima ǀ
mitrásya ǀ vratā́ ǀ váruṇasya ǀ dīrgha-śrút ǁanu ǀ pūrvāṇi ǀ okyā ǀ sām-rājyasya ǀ saścima ǀ
mitrasya ǀ vratā ǀ varuṇasya ǀ dīrgha-śrut ǁ8.25.17 Aṣṭaka 6.2.24.2Anuvāka 8.4.113
-
Ṛk 18
परि॒ यो र॒श्मिना॑ दि॒वोऽंता॑न्म॒मे पृ॑थि॒व्याः ।
उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ॥परि यो रश्मिना दिवो ऽन्तान् ममे पृथिव्याः |
उभे आ पप्रौ रोदसी महित्वा ||pári yó raśmínā divó’ntānmamé pṛthivyā́ḥ ǀ
ubhé ā́ paprau ródasī mahitvā́ ǁpari yo raśminā divo 'ntān mame pṛthivyāḥ |
ubhe ā paprau rodasī mahitvā ||परि॑ । यः । र॒श्मिना॑ । दि॒वः । अन्ता॑न् । म॒मे । पृ॒थि॒व्याः ।
उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ॥परि । यः । रश्मिना । दिवः । अन्तान् । ममे । पृथिव्याः ।
उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ॥pári ǀ yáḥ ǀ raśmínā ǀ diváḥ ǀ ántān ǀ mamé ǀ pṛthivyā́ḥ ǀ
ubhé íti ǀ ā́ ǀ paprau ǀ ródasī íti ǀ mahi-tvā́ ǁpari ǀ yaḥ ǀ raśminā ǀ divaḥ ǀ antān ǀ mame ǀ pṛthivyāḥ ǀ
ubhe iti ǀ ā ǀ paprau ǀ rodasī iti ǀ mahi-tvā ǁ8.25.18 Aṣṭaka 6.2.24.3Anuvāka 8.4.114
-
Ṛk 19
उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्यः॑ ।
अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ॥उद् उ ष्य शरणे दिवो ज्योतिर् अयंस्त सूर्यः |
अग्निर् न शुक्रः समिधान आहुतः ||údu ṣyá śaraṇé divó jyótirayaṃsta sū́ryaḥ ǀ
agnírná śukráḥ samidhāná ā́hutaḥ ǁud u ṣya śaraṇe divo jyotir ayaṃsta sūryaḥ |
agnir na śukraḥ samidhāna āhutaḥ ||उत् । ऊं॒ इति॑ । स्यः । श॒र॒णे । दि॒वः । ज्योतिः॑ । अ॒यं॒स्त॒ । सूर्यः॑ ।
अ॒ग्निः । न । शु॒क्रः । स॒म्ऽइ॒धा॒नः । आऽहु॑तः ॥उत् । ऊं इति । स्यः । शरणे । दिवः । ज्योतिः । अयंस्त । सूर्यः ।
अग्निः । न । शुक्रः । सम्ऽइधानः । आऽहुतः ॥út ǀ ūṃ íti ǀ syáḥ ǀ śaraṇé ǀ diváḥ ǀ jyótiḥ ǀ ayaṃsta ǀ sū́ryaḥ ǀ
agníḥ ǀ ná ǀ śukráḥ ǀ sam-idhānáḥ ǀ ā́-hutaḥ ǁut ǀ ūṃ iti ǀ syaḥ ǀ śaraṇe ǀ divaḥ ǀ jyotiḥ ǀ ayaṃsta ǀ sūryaḥ ǀ
agniḥ ǀ na ǀ śukraḥ ǀ sam-idhānaḥ ǀ ā-hutaḥ ǁ8.25.19 Aṣṭaka 6.2.24.4Anuvāka 8.4.115
-
Ṛk 20
वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः ।
ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः |
ईशे हि पित्वो ऽविषस्य दावने ||váco dīrgháprasadmanī́śe vā́jasya gómataḥ ǀ
ī́śe hí pitvó’viṣásya dāváne ǁvaco dīrghaprasadmanīśe vājasya gomataḥ |
īśe hi pitvo 'viṣasya dāvane ||वचः॑ । दी॒र्घऽप्र॑सद्मनि । ईशे॑ । वाज॑स्य । गोऽम॑तः ।
ईशे॑ । हि । पि॒त्वः । अ॒वि॒षस्य॑ । दा॒वने॑ ॥वचः । दीर्घऽप्रसद्मनि । ईशे । वाजस्य । गोऽमतः ।
ईशे । हि । पित्वः । अविषस्य । दावने ॥vácaḥ ǀ dīrghá-prasadmani ǀ ī́śe ǀ vā́jasya ǀ gó-mataḥ ǀ
ī́śe ǀ hí ǀ pitváḥ ǀ aviṣásya ǀ dāváne ǁvacaḥ ǀ dīrgha-prasadmani ǀ īśe ǀ vājasya ǀ go-mataḥ ǀ
īśe ǀ hi ǀ pitvaḥ ǀ aviṣasya ǀ dāvane ǁ8.25.20 Aṣṭaka 6.2.24.5Anuvāka 8.4.116
-
Ṛk 21
तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे ।
भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑ ॥तत् सूर्यं रोदसी उभे दोषा वस्तोर् उप ब्रुवे |
भोजेष्व् अस्मां अभ्य् उच् चरा सदा ||tátsū́ryam ródasī ubhé doṣā́ vástorúpa bruve ǀ
bhojéṣvasmā́m̐ abhyúccarā sádā ǁtat sūryaṃ rodasī ubhe doṣā vastor upa bruve |
bhojeṣv asmāṃ abhy uc carā sadā ||तत् । सूर्य॑म् । रोद॑सी॒ इति॑ । उ॒भे इति॑ । दो॒षा । वस्तोः॑ । उप॑ । ब्रु॒वे॒ ।
भो॒जेषु॑ । अ॒स्मान् । अ॒भि । उत् । च॒र॒ । सदा॑ ॥तत् । सूर्यम् । रोदसी इति । उभे इति । दोषा । वस्तोः । उप । ब्रुवे ।
भोजेषु । अस्मान् । अभि । उत् । चर । सदा ॥tát ǀ sū́ryam ǀ ródasī íti ǀ ubhé íti ǀ doṣā́ ǀ vástoḥ ǀ úpa ǀ bruve ǀ
bhojéṣu ǀ asmā́n ǀ abhí ǀ út ǀ cara ǀ sádā ǁtat ǀ sūryam ǀ rodasī iti ǀ ubhe iti ǀ doṣā ǀ vastoḥ ǀ upa ǀ bruve ǀ
bhojeṣu ǀ asmān ǀ abhi ǀ ut ǀ cara ǀ sadā ǁ8.25.21 Aṣṭaka 6.2.25.1Anuvāka 8.4.117
-
Ṛk 22
ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे ।
रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि ॥ऋज्रम् उक्षण्यायने रजतं हरयाणे |
रथं युक्तम् असनाम सुषामणि ||ṛjrámukṣaṇyā́yane rajatám hárayāṇe ǀ
rátham yuktámasanāma suṣā́maṇi ǁṛjram ukṣaṇyāyane rajataṃ harayāṇe |
rathaṃ yuktam asanāma suṣāmaṇi ||ऋ॒ज्रम् । उ॒क्ष॒ण्याय॑ने । र॒ज॒तम् । हर॑याणे ।
रथ॑म् । यु॒क्तम् । अ॒स॒ना॒म॒ । सु॒ऽसाम॑नि ॥ऋज्रम् । उक्षण्यायने । रजतम् । हरयाणे ।
रथम् । युक्तम् । असनाम । सुऽसामनि ॥ṛjrám ǀ ukṣaṇyā́yane ǀ rajatám ǀ hárayāṇe ǀ
rátham ǀ yuktám ǀ asanāma ǀ su-sā́mani ǁṛjram ǀ ukṣaṇyāyane ǀ rajatam ǀ harayāṇe ǀ
ratham ǀ yuktam ǀ asanāma ǀ su-sāmani ǁ8.25.22 Aṣṭaka 6.2.25.2Anuvāka 8.4.118
-
Ṛk 23
ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना ।
उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥ता मे अश्व्यानां हरीणां नितोशना |
उतो नु कृत्व्यानां नृवाहसा ||tā́ me áśvyānām hárīṇām nitóśanā ǀ
utó nú kṛ́tvyānām nṛvā́hasā ǁtā me aśvyānāṃ harīṇāṃ nitośanā |
uto nu kṛtvyānāṃ nṛvāhasā ||ता । मे॒ । अश्व्या॑नाम् । हरी॑णाम् । नि॒ऽतोश॑ना ।
उ॒तो इति॑ । नु । कृत्व्या॑नाम् । नृ॒ऽवाह॑सा ॥ता । मे । अश्व्यानाम् । हरीणाम् । निऽतोशना ।
उतो इति । नु । कृत्व्यानाम् । नृऽवाहसा ॥tā́ ǀ me ǀ áśvyānām ǀ hárīṇām ǀ ni-tóśanā ǀ
utó íti ǀ nú ǀ kṛ́tvyānām ǀ nṛ-vā́hasā ǁtā ǀ me ǀ aśvyānām ǀ harīṇām ǀ ni-tośanā ǀ
uto iti ǀ nu ǀ kṛtvyānām ǀ nṛ-vāhasā ǁ8.25.23 Aṣṭaka 6.2.25.3Anuvāka 8.4.119
-
Ṛk 24
स्मद॑भीशू॒ कशा॑वंता॒ विप्रा॒ नवि॑ष्ठया म॒ती ।
म॒हो वा॒जिना॒वर्वं॑ता॒ सचा॑सनं ॥स्मदभीशू कशावन्ता विप्रा नविष्ठया मती |
महो वाजिनाव् अर्वन्ता सचासनम् ||smádabhīśū káśāvantā víprā náviṣṭhayā matī́ ǀ
mahó vājínāvárvantā sácāsanam ǁsmadabhīśū kaśāvantā viprā naviṣṭhayā matī |
maho vājināv arvantā sacāsanam ||स्मद॑भीशू॒ इति॒ स्मत्ऽअ॑भीशू । कशा॑ऽवन्ता । विप्रा॑ । नवि॑ष्ठया । म॒ती ।
म॒हः । वा॒जिनौ॑ । अर्व॑न्ता । सचा॑ । अ॒स॒न॒म् ॥स्मदभीशू इति स्मत्ऽअभीशू । कशाऽवन्ता । विप्रा । नविष्ठया । मती ।
महः । वाजिनौ । अर्वन्ता । सचा । असनम् ॥smádabhīśū íti smát-abhīśū ǀ káśā-vantā ǀ víprā ǀ náviṣṭhayā ǀ matī́ ǀ
maháḥ ǀ vājínau ǀ árvantā ǀ sácā ǀ asanam ǁsmadabhīśū iti smat-abhīśū ǀ kaśā-vantā ǀ viprā ǀ naviṣṭhayā ǀ matī ǀ
mahaḥ ǀ vājinau ǀ arvantā ǀ sacā ǀ asanam ǁ8.25.24 Aṣṭaka 6.2.25.4Anuvāka 8.4.120
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.