Sūkta 19
- Devatā देवता
- 1-33: Agni; 34, 35: Ādityās; 36, 37: Trasadasyu’s Dānastuti
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Satobṛhatī, Kakubh, Kakubh Alternating With Satobṛhatī, Dvipadā Virāj, Uṣṇih, Paṅkti
Metres by ṛk
1st set of styles nicṛduṣṇik (1, 3, 15, 21, 23, 28, 32); nicṛtpaṅkti (4, 6, 12, 16, 20, 31); virāṭpaṅkti (2, 22, 29, 37); kakubuṣṇik (5, 19, 30); pādanicṛduṣṇik (7, 9, 34); virāḍuṣnik (11, 17, 36); pādanicṛtpaṅkti (18, 33); svarāḍārcīpaṅkti (24, 25); bhurigārcīpaṅkti (8); sataḥpaṅkti (10); purauṣṇik (13); paṅktiḥ (14); ārcīsvarāḍuṣṇik (26); ārcyuṣṇik (27); svarāḍbṛhatī (35)
2nd set of styles satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20, 22, 24, 26, 29, 31, 33, 35); kakubh (3, 5, 7, 9, 11, 13, 15, 17, 19, 21, 23, 25, 28, 30, 32, 36); kakubh alternating with satobṛhatī (1); dvipadā virāj (27); uṣṇih (34); paṅkti (37)
-
Ṛk 1
तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे ।
दे॒व॒त्रा ह॒व्यमोहि॑रे ॥तं गूर्धया स्वर्णरं देवासो देवम् अरतिं दधन्विरे |
देवत्रा हव्यम् ओहिरे ||tám gūrdhayā svárṇaram devā́so devámaratím dadhanvire ǀ
devatrā́ havyámóhire ǁtaṃ gūrdhayā svarṇaraṃ devāso devam aratiṃ dadhanvire |
devatrā havyam ohire ||तम् । गू॒र्ध॒य॒ । स्वः॑ऽनरम् । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । द॒ध॒न्वि॒रे॒ ।
दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒रे॒ ॥तम् । गूर्धय । स्वःऽनरम् । देवासः । देवम् । अरतिम् । दधन्विरे ।
देवऽत्रा । हव्यम् । आ । ऊहिरे ॥tám ǀ gūrdhaya ǀ sváḥ-naram ǀ devā́saḥ ǀ devám ǀ aratím ǀ dadhanvire ǀ
deva-trā́ ǀ havyám ǀ ā́ ǀ ūhire ǁtam ǀ gūrdhaya ǀ svaḥ-naram ǀ devāsaḥ ǀ devam ǀ aratim ǀ dadhanvire ǀ
deva-trā ǀ havyam ǀ ā ǀ ūhire ǁ8.19.1 Aṣṭaka 6.1.29.1Anuvāka 8.3.111
-
Ṛk 2
विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व यं॒तुरं॑ ।
अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्यं॑ ॥विभूतरातिं विप्र चित्रशोचिषम् अग्निम् ईऌइष्व यन्तुरम् |
अस्य मेधस्य सोम्यस्य सोभरे प्रेम् अध्वराय पूर्व्यम् ||víbhūtarātim vipra citráśociṣamagnímīḷiṣva yantúram ǀ
asyá médhasya somyásya sobhare prémadhvarā́ya pū́rvyam ǁvibhūtarātiṃ vipra citraśociṣam agnim īḷiṣva yanturam |
asya medhasya somyasya sobhare prem adhvarāya pūrvyam ||विभू॑तऽरातिम् । वि॒प्र॒ । चि॒त्रऽशो॑चिषम् । अ॒ग्निम् । ई॒ळि॒ष्व॒ । य॒न्तुर॑म् ।
अ॒स्य । मेध॑स्य । सो॒म्यस्य॑ । सो॒भ॒रे॒ । प्र । ई॒म् । अ॒ध्व॒राय॑ । पूर्व्य॑म् ॥विभूतऽरातिम् । विप्र । चित्रऽशोचिषम् । अग्निम् । ईळिष्व । यन्तुरम् ।
अस्य । मेधस्य । सोम्यस्य । सोभरे । प्र । ईम् । अध्वराय । पूर्व्यम् ॥víbhūta-rātim ǀ vipra ǀ citrá-śociṣam ǀ agním ǀ īḷiṣva ǀ yantúram ǀ
asyá ǀ médhasya ǀ somyásya ǀ sobhare ǀ prá ǀ īm ǀ adhvarā́ya ǀ pū́rvyam ǁvibhūta-rātim ǀ vipra ǀ citra-śociṣam ǀ agnim ǀ īḷiṣva ǀ yanturam ǀ
asya ǀ medhasya ǀ somyasya ǀ sobhare ǀ pra ǀ īm ǀ adhvarāya ǀ pūrvyam ǁ8.19.2 Aṣṭaka 6.1.29.2Anuvāka 8.3.112
-
Ṛk 3
यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यं ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुं॑ ॥यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारम् अमर्त्यम् |
अस्य यज्ञस्य सुक्रतुम् ||yájiṣṭham tvā vavṛmahe devám devatrā́ hótāramámartyam ǀ
asyá yajñásya sukrátum ǁyajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāram amartyam |
asya yajñasya sukratum ||यजि॑ष्ठम् । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । दे॒व॒ऽत्रा । होता॑रम् । अम॑र्त्यम् ।
अ॒स्य । य॒ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥यजिष्ठम् । त्वा । ववृमहे । देवम् । देवऽत्रा । होतारम् । अमर्त्यम् ।
अस्य । यज्ञस्य । सुऽक्रतुम् ॥yájiṣṭham ǀ tvā ǀ vavṛmahe ǀ devám ǀ deva-trā́ ǀ hótāram ǀ ámartyam ǀ
asyá ǀ yajñásya ǀ su-krátum ǁyajiṣṭham ǀ tvā ǀ vavṛmahe ǀ devam ǀ deva-trā ǀ hotāram ǀ amartyam ǀ
asya ǀ yajñasya ǀ su-kratum ǁ8.19.3 Aṣṭaka 6.1.29.3Anuvāka 8.3.113
-
Ṛk 4
ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषं ।
स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥ऊर्जो नपातं सुभगं सुदीदितिम् अग्निं श्रेष्ठशोचिषम् |
स नो मित्रस्य वरुणस्य सो अपाम् आ सुम्नं यक्षते दिवि ||ūrjó nápātam subhágam sudī́ditimagním śréṣṭhaśociṣam ǀ
sá no mitrásya váruṇasya só apā́mā́ sumnám yakṣate diví ǁūrjo napātaṃ subhagaṃ sudīditim agniṃ śreṣṭhaśociṣam |
sa no mitrasya varuṇasya so apām ā sumnaṃ yakṣate divi ||ऊ॒र्जः । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । अ॒ग्निम् । श्रेष्ठ॑ऽशोचिषम् ।
सः । नः॒ । मि॒त्रस्य॑ । वरु॑णस्य । सः । अ॒पाम् । आ । सु॒म्नम् । य॒क्ष॒ते॒ । दि॒वि ॥ऊर्जः । नपातम् । सुऽभगम् । सुऽदीदितिम् । अग्निम् । श्रेष्ठऽशोचिषम् ।
सः । नः । मित्रस्य । वरुणस्य । सः । अपाम् । आ । सुम्नम् । यक्षते । दिवि ॥ūrjáḥ ǀ nápātam ǀ su-bhágam ǀ su-dī́ditim ǀ agním ǀ śréṣṭha-śociṣam ǀ
sáḥ ǀ naḥ ǀ mitrásya ǀ váruṇasya ǀ sáḥ ǀ apā́m ǀ ā́ ǀ sumnám ǀ yakṣate ǀ diví ǁūrjaḥ ǀ napātam ǀ su-bhagam ǀ su-dīditim ǀ agnim ǀ śreṣṭha-śociṣam ǀ
saḥ ǀ naḥ ǀ mitrasya ǀ varuṇasya ǀ saḥ ǀ apām ǀ ā ǀ sumnam ǀ yakṣate ǀ divi ǁ8.19.4 Aṣṭaka 6.1.29.4Anuvāka 8.3.114
-
Ṛk 5
यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ ।
यो नम॑सा स्वध्व॒रः ॥यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये |
यो नमसा स्वध्वरः ||yáḥ samídhā yá ā́hutī yó védena dadā́śa márto agnáye ǀ
yó námasā svadhvaráḥ ǁyaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye |
yo namasā svadhvaraḥ ||यः । स॒म्ऽइधा॑ । यः । आऽहु॑ती । यः । वेदे॑न । द॒दाश॑ । मर्तः॑ । अ॒ग्नये॑ ।
यः । नम॑सा । सु॒ऽअ॒ध्व॒रः ॥यः । सम्ऽइधा । यः । आऽहुती । यः । वेदेन । ददाश । मर्तः । अग्नये ।
यः । नमसा । सुऽअध्वरः ॥yáḥ ǀ sam-ídhā ǀ yáḥ ǀ ā́-hutī ǀ yáḥ ǀ védena ǀ dadā́śa ǀ mártaḥ ǀ agnáye ǀ
yáḥ ǀ námasā ǀ su-adhvaráḥ ǁyaḥ ǀ sam-idhā ǀ yaḥ ǀ ā-hutī ǀ yaḥ ǀ vedena ǀ dadāśa ǀ martaḥ ǀ agnaye ǀ
yaḥ ǀ namasā ǀ su-adhvaraḥ ǁ8.19.5 Aṣṭaka 6.1.29.5Anuvāka 8.3.115
-
Ṛk 6
तस्येदर्वं॑तो रंहयंत आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ ।
न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥तस्येद् अर्वन्तो रंहयन्त आशवस् तस्य द्युम्नितमं यशः |
न तम् अंहो देवकृतं कुतश् चन न मर्त्यकृतं नशत् ||tásyédárvanto raṃhayanta āśávastásya dyumnítamam yáśaḥ ǀ
ná támáṃho devákṛtam kútaścaná ná mártyakṛtam naśat ǁtasyed arvanto raṃhayanta āśavas tasya dyumnitamaṃ yaśaḥ |
na tam aṃho devakṛtaṃ kutaś cana na martyakṛtaṃ naśat ||तस्य॑ । इत् । अर्व॑न्तः । रं॒ह॒य॒न्ते॒ । आ॒शवः॑ । तस्य॑ । द्यु॒म्निऽत॑मम् । यशः॑ ।
न । तम् । अंहः॑ । दे॒वऽकृ॑तम् । कुतः॑ । च॒न । न । मर्त्य॑ऽकृतम् । न॒श॒त् ॥तस्य । इत् । अर्वन्तः । रंहयन्ते । आशवः । तस्य । द्युम्निऽतमम् । यशः ।
न । तम् । अंहः । देवऽकृतम् । कुतः । चन । न । मर्त्यऽकृतम् । नशत् ॥tásya ǀ ít ǀ árvantaḥ ǀ raṃhayante ǀ āśávaḥ ǀ tásya ǀ dyumní-tamam ǀ yáśaḥ ǀ
ná ǀ tám ǀ áṃhaḥ ǀ devá-kṛtam ǀ kútaḥ ǀ caná ǀ ná ǀ mártya-kṛtam ǀ naśat ǁtasya ǀ it ǀ arvantaḥ ǀ raṃhayante ǀ āśavaḥ ǀ tasya ǀ dyumni-tamam ǀ yaśaḥ ǀ
na ǀ tam ǀ aṃhaḥ ǀ deva-kṛtam ǀ kutaḥ ǀ cana ǀ na ǀ martya-kṛtam ǀ naśat ǁ8.19.6 Aṣṭaka 6.1.30.1Anuvāka 8.3.116
-
Ṛk 7
स्व॒ग्नयो॑ वो अ॒ग्निभिः॒ स्याम॑ सूनो सहस ऊर्जां पते ।
सु॒वीर॒स्त्वम॑स्म॒युः ॥स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जाम् पते |
सुवीरस् त्वम् अस्मयुः ||svagnáyo vo agníbhiḥ syā́ma sūno sahasa ūrjām pate ǀ
suvī́rastvámasmayúḥ ǁsvagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate |
suvīras tvam asmayuḥ ||सु॒ऽअ॒ग्नयः॑ । वः॒ । अ॒ग्निऽभिः॑ । स्याम॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । ऊ॒र्जा॒म् । प॒ते॒ ।
सु॒ऽवीरः॑ । त्वम् । अ॒स्म॒ऽयुः ॥सुऽअग्नयः । वः । अग्निऽभिः । स्याम । सूनो इति । सहसः । ऊर्जाम् । पते ।
सुऽवीरः । त्वम् । अस्मऽयुः ॥su-agnáyaḥ ǀ vaḥ ǀ agní-bhiḥ ǀ syā́ma ǀ sūno íti ǀ sahasaḥ ǀ ūrjām ǀ pate ǀ
su-vī́raḥ ǀ tvám ǀ asma-yúḥ ǁsu-agnayaḥ ǀ vaḥ ǀ agni-bhiḥ ǀ syāma ǀ sūno iti ǀ sahasaḥ ǀ ūrjām ǀ pate ǀ
su-vīraḥ ǀ tvam ǀ asma-yuḥ ǁ8.19.7 Aṣṭaka 6.1.30.2Anuvāka 8.3.117
-
Ṛk 8
प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्यः॑ ।
त्वे क्षेमा॑सो॒ अपि॑ संति सा॒धव॒स्त्वं राजा॑ रयी॒णां ॥प्रशंसमानो अतिथिर् न मित्रियो ऽग्नी रथो न वेद्यः |
त्वे क्षेमासो अपि सन्ति साधवस् त्वं राजा रयीणाम् ||praśáṃsamāno átithirná mitríyo’gnī́ rátho ná védyaḥ ǀ
tvé kṣémāso ápi santi sādhávastvám rā́jā rayīṇā́m ǁpraśaṃsamāno atithir na mitriyo 'gnī ratho na vedyaḥ |
tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām ||प्र॒ऽशंस॑मानः । अति॑थिः । न । मि॒त्रियः॑ । अ॒ग्निः । रथः॑ । न । वेद्यः॑ ।
त्वे इति॑ । क्षेमा॑सः । अपि॑ । स॒न्ति॒ । सा॒धवः॑ । त्वम् । राजा॑ । र॒यी॒णाम् ॥प्रऽशंसमानः । अतिथिः । न । मित्रियः । अग्निः । रथः । न । वेद्यः ।
त्वे इति । क्षेमासः । अपि । सन्ति । साधवः । त्वम् । राजा । रयीणाम् ॥pra-śáṃsamānaḥ ǀ átithiḥ ǀ ná ǀ mitríyaḥ ǀ agníḥ ǀ ráthaḥ ǀ ná ǀ védyaḥ ǀ
tvé íti ǀ kṣémāsaḥ ǀ ápi ǀ santi ǀ sādhávaḥ ǀ tvám ǀ rā́jā ǀ rayīṇā́m ǁpra-śaṃsamānaḥ ǀ atithiḥ ǀ na ǀ mitriyaḥ ǀ agniḥ ǀ rathaḥ ǀ na ǀ vedyaḥ ǀ
tve iti ǀ kṣemāsaḥ ǀ api ǀ santi ǀ sādhavaḥ ǀ tvam ǀ rājā ǀ rayīṇām ǁ8.19.8 Aṣṭaka 6.1.30.3Anuvāka 8.3.118
-
Ṛk 9
सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्तः॑ सुभग॒ स प्र॒शंस्यः॑ ।
स धी॒भिर॑स्तु॒ सनि॑ता ॥सो अद्धा दाश्वध्वरो ऽग्ने मर्तः सुभग स प्रशंस्यः |
स धीभिर् अस्तु सनिता ||só addhā́ dāśvádhvaró’gne mártaḥ subhaga sá praśáṃsyaḥ ǀ
sá dhībhírastu sánitā ǁso addhā dāśvadhvaro 'gne martaḥ subhaga sa praśaṃsyaḥ |
sa dhībhir astu sanitā ||सः । अ॒द्धा । दा॒शुऽअ॑ध्वरः । अग्ने॑ । मर्तः॑ । सु॒ऽभ॒ग॒ । सः । प्र॒ऽशंस्यः॑ ।
सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता ॥सः । अद्धा । दाशुऽअध्वरः । अग्ने । मर्तः । सुऽभग । सः । प्रऽशंस्यः ।
सः । धीभिः । अस्तु । सनिता ॥sáḥ ǀ addhā́ ǀ dāśú-adhvaraḥ ǀ ágne ǀ mártaḥ ǀ su-bhaga ǀ sáḥ ǀ pra-śáṃsyaḥ ǀ
sáḥ ǀ dhībhíḥ ǀ astu ǀ sánitā ǁsaḥ ǀ addhā ǀ dāśu-adhvaraḥ ǀ agne ǀ martaḥ ǀ su-bhaga ǀ saḥ ǀ pra-śaṃsyaḥ ǀ
saḥ ǀ dhībhiḥ ǀ astu ǀ sanitā ǁ8.19.9 Aṣṭaka 6.1.30.4Anuvāka 8.3.119
-
Ṛk 10
यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑रः॒ स सा॑धते ।
सो अर्व॑द्भिः॒ सनि॑ता॒ स वि॑प॒न्युभिः॒ स शूरैः॒ सनि॑ता कृ॒तं ॥यस्य त्वम् ऊर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते |
सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ||yásya tvámūrdhvó adhvarā́ya tíṣṭhasi kṣayádvīraḥ sá sādhate ǀ
só árvadbhiḥ sánitā sá vipanyúbhiḥ sá śū́raiḥ sánitā kṛtám ǁyasya tvam ūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate |
so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam ||यस्य॑ । त्वम् । ऊ॒र्ध्वः । अ॒ध्व॒राय॑ । तिष्ठ॑सि । क्ष॒यत्ऽवी॑रः । सः । सा॒ध॒ते॒ ।
सः । अर्व॑त्ऽभिः । सनि॑ता । सः । वि॒प॒न्युऽभिः॑ । सः । शूरैः॑ । सनि॑ता । कृ॒तम् ॥यस्य । त्वम् । ऊर्ध्वः । अध्वराय । तिष्ठसि । क्षयत्ऽवीरः । सः । साधते ।
सः । अर्वत्ऽभिः । सनिता । सः । विपन्युऽभिः । सः । शूरैः । सनिता । कृतम् ॥yásya ǀ tvám ǀ ūrdhváḥ ǀ adhvarā́ya ǀ tíṣṭhasi ǀ kṣayát-vīraḥ ǀ sáḥ ǀ sādhate ǀ
sáḥ ǀ árvat-bhiḥ ǀ sánitā ǀ sáḥ ǀ vipanyú-bhiḥ ǀ sáḥ ǀ śū́raiḥ ǀ sánitā ǀ kṛtám ǁyasya ǀ tvam ǀ ūrdhvaḥ ǀ adhvarāya ǀ tiṣṭhasi ǀ kṣayat-vīraḥ ǀ saḥ ǀ sādhate ǀ
saḥ ǀ arvat-bhiḥ ǀ sanitā ǀ saḥ ǀ vipanyu-bhiḥ ǀ saḥ ǀ śūraiḥ ǀ sanitā ǀ kṛtam ǁ8.19.10 Aṣṭaka 6.1.30.5Anuvāka 8.3.120
-
Ṛk 11
यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः ।
ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ॥यस्याग्निर् वपुर् गृहे स्तोमं चनो दधीत विश्ववार्यः |
हव्या वा वेविषद् विषः ||yásyāgnírvápurgṛhé stómam cáno dádhīta viśvávāryaḥ ǀ
havyā́ vā véviṣadvíṣaḥ ǁyasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ |
havyā vā veviṣad viṣaḥ ||यस्य॑ । अ॒ग्निः । वपुः॑ । गृ॒हे । स्तोम॑म् । चनः॑ । दधी॑त । वि॒श्वऽवा॑र्यः ।
ह॒व्या । वा॒ । वेवि॑षत् । विषः॑ ॥यस्य । अग्निः । वपुः । गृहे । स्तोमम् । चनः । दधीत । विश्वऽवार्यः ।
हव्या । वा । वेविषत् । विषः ॥yásya ǀ agníḥ ǀ vápuḥ ǀ gṛhé ǀ stómam ǀ cánaḥ ǀ dádhīta ǀ viśvá-vāryaḥ ǀ
havyā́ ǀ vā ǀ véviṣat ǀ víṣaḥ ǁyasya ǀ agniḥ ǀ vapuḥ ǀ gṛhe ǀ stomam ǀ canaḥ ǀ dadhīta ǀ viśva-vāryaḥ ǀ
havyā ǀ vā ǀ veviṣat ǀ viṣaḥ ǁ8.19.11 Aṣṭaka 6.1.31.1Anuvāka 8.3.121
-
Ṛk 12
विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ ।
अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वचः॑ ॥विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु |
अवोदेवम् उपरिमर्त्यं कृधि वसो विविदुषो वचः ||víprasya vā stuvatáḥ sahaso yaho makṣū́tamasya rātíṣu ǀ
avódevamupárimartyam kṛdhi váso vividúṣo vácaḥ ǁviprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu |
avodevam uparimartyaṃ kṛdhi vaso vividuṣo vacaḥ ||विप्र॑स्य । वा॒ । स्तु॒व॒तः । स॒ह॒सः॒ । य॒हो॒ इति॑ । म॒क्षुऽत॑मस्य । रा॒तिषु॑ ।
अ॒वःऽदे॑वम् । उ॒परि॑ऽमर्त्यम् । कृ॒धि॒ । वसो॒ इति॑ । वि॒वि॒दुषः॑ । वचः॑ ॥विप्रस्य । वा । स्तुवतः । सहसः । यहो इति । मक्षुऽतमस्य । रातिषु ।
अवःऽदेवम् । उपरिऽमर्त्यम् । कृधि । वसो इति । विविदुषः । वचः ॥víprasya ǀ vā ǀ stuvatáḥ ǀ sahasaḥ ǀ yaho íti ǀ makṣú-tamasya ǀ rātíṣu ǀ
aváḥ-devam ǀ upári-martyam ǀ kṛdhi ǀ váso íti ǀ vividúṣaḥ ǀ vácaḥ ǁviprasya ǀ vā ǀ stuvataḥ ǀ sahasaḥ ǀ yaho iti ǀ makṣu-tamasya ǀ rātiṣu ǀ
avaḥ-devam ǀ upari-martyam ǀ kṛdhi ǀ vaso iti ǀ vividuṣaḥ ǀ vacaḥ ǁ8.19.12 Aṣṭaka 6.1.31.2Anuvāka 8.3.122
-
Ṛk 13
यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति ।
गि॒रा वा॑जि॒रशो॑चिषं ॥यो अग्निं हव्यदातिभिर् नमोभिर् वा सुदक्षम् आविवासति |
गिरा वाजिरशोचिषम् ||yó agním havyádātibhirnámobhirvā sudákṣamāvívāsati ǀ
girā́ vājiráśociṣam ǁyo agniṃ havyadātibhir namobhir vā sudakṣam āvivāsati |
girā vājiraśociṣam ||यः । अ॒ग्निम् । ह॒व्यदा॑तिऽभिः । नमः॑ऽभिः । वा॒ । सु॒ऽदक्ष॑म् । आ॒ऽविवा॑सति ।
गि॒रा । वा॒ । अ॒जि॒रऽशो॑चिषम् ॥यः । अग्निम् । हव्यदातिऽभिः । नमःऽभिः । वा । सुऽदक्षम् । आऽविवासति ।
गिरा । वा । अजिरऽशोचिषम् ॥yáḥ ǀ agním ǀ havyádāti-bhiḥ ǀ námaḥ-bhiḥ ǀ vā ǀ su-dákṣam ǀ ā-vívāsati ǀ
girā́ ǀ vā ǀ ajirá-śociṣam ǁyaḥ ǀ agnim ǀ havyadāti-bhiḥ ǀ namaḥ-bhiḥ ǀ vā ǀ su-dakṣam ǀ ā-vivāsati ǀ
girā ǀ vā ǀ ajira-śociṣam ǁ8.19.13 Aṣṭaka 6.1.31.3Anuvāka 8.3.123
-
Ṛk 14
स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्यः॑ ।
विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥समिधा यो निशिती दाशद् अदितिं धामभिर् अस्य मर्त्यः |
विश्वेत् स धीभिः सुभगो जनां अति द्युम्नैर् उद्न इव तारिषत् ||samídhā yó níśitī dā́śadáditim dhā́mabhirasya mártyaḥ ǀ
víśvétsá dhībhíḥ subhágo jánām̐ áti dyumnáirudná iva tāriṣat ǁsamidhā yo niśitī dāśad aditiṃ dhāmabhir asya martyaḥ |
viśvet sa dhībhiḥ subhago janāṃ ati dyumnair udna iva tāriṣat ||स॒म्ऽइधा॑ । यः । निऽशि॑ती । दाश॑त् । अदि॑तिम् । धाम॑ऽभिः । अ॒स्य॒ । मर्त्यः॑ ।
विश्वा॑ । इत् । सः । धी॒भिः । सु॒ऽभगः॑ । जना॑न् । अति॑ । द्यु॒म्नैः । उ॒द्नःऽइ॑व । ता॒रि॒ष॒त् ॥सम्ऽइधा । यः । निऽशिती । दाशत् । अदितिम् । धामऽभिः । अस्य । मर्त्यः ।
विश्वा । इत् । सः । धीभिः । सुऽभगः । जनान् । अति । द्युम्नैः । उद्नःऽइव । तारिषत् ॥sam-ídhā ǀ yáḥ ǀ ní-śitī ǀ dā́śat ǀ áditim ǀ dhā́ma-bhiḥ ǀ asya ǀ mártyaḥ ǀ
víśvā ǀ ít ǀ sáḥ ǀ dhībhíḥ ǀ su-bhágaḥ ǀ jánān ǀ áti ǀ dyumnáiḥ ǀ udnáḥ-iva ǀ tāriṣat ǁsam-idhā ǀ yaḥ ǀ ni-śitī ǀ dāśat ǀ aditim ǀ dhāma-bhiḥ ǀ asya ǀ martyaḥ ǀ
viśvā ǀ it ǀ saḥ ǀ dhībhiḥ ǀ su-bhagaḥ ǀ janān ǀ ati ǀ dyumnaiḥ ǀ udnaḥ-iva ǀ tāriṣat ǁ8.19.14 Aṣṭaka 6.1.31.4Anuvāka 8.3.124
-
Ṛk 15
तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिणं॑ ।
म॒न्युं जन॑स्य दू॒ढ्यः॑ ॥तद् अग्ने द्युम्नम् आ भर यत् सासहत् सदने कं चिद् अत्रिणम् |
मन्युं जनस्य दूढ्यः ||tádagne dyumnámā́ bhara yátsāsáhatsádane kám cidatríṇam ǀ
manyúm jánasya dūḍhyáḥ ǁtad agne dyumnam ā bhara yat sāsahat sadane kaṃ cid atriṇam |
manyuṃ janasya dūḍhyaḥ ||तत् । अ॒ग्ने॒ । द्यु॒म्नम् । आ । भ॒र॒ । यत् । स॒सह॑त् । सद॑ने । कम् । चि॒त् । अ॒त्रिण॑म् ।
म॒न्युम् । जन॑स्य । दुः॒ऽध्यः॑ ॥तत् । अग्ने । द्युम्नम् । आ । भर । यत् । ससहत् । सदने । कम् । चित् । अत्रिणम् ।
मन्युम् । जनस्य । दुःऽध्यः ॥tát ǀ agne ǀ dyumnám ǀ ā́ ǀ bhara ǀ yát ǀ sasáhat ǀ sádane ǀ kám ǀ cit ǀ atríṇam ǀ
manyúm ǀ jánasya ǀ duḥ-dhyáḥ ǁtat ǀ agne ǀ dyumnam ǀ ā ǀ bhara ǀ yat ǀ sasahat ǀ sadane ǀ kam ǀ cit ǀ atriṇam ǀ
manyum ǀ janasya ǀ duḥ-dhyaḥ ǁ8.19.15 Aṣṭaka 6.1.31.5Anuvāka 8.3.125
-
Ṛk 16
येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भगः॑ ।
व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इंद्र॑त्वोता विधेमहि ॥येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः |
वयं तत् ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ||yéna cáṣṭe váruṇo mitró aryamā́ yéna nā́satyā bhágaḥ ǀ
vayám tátte śávasā gātuvíttamā índratvotā vidhemahi ǁyena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ |
vayaṃ tat te śavasā gātuvittamā indratvotā vidhemahi ||येन॑ । चष्टे॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । येन॑ । नास॑त्या । भगः॑ ।
व॒यम् । तत् । ते॒ । शव॑सा । गा॒तु॒वित्ऽत॑माः । इन्द्र॑त्वाऽऊताः । वि॒धे॒म॒हि॒ ॥येन । चष्टे । वरुणः । मित्रः । अर्यमा । येन । नासत्या । भगः ।
वयम् । तत् । ते । शवसा । गातुवित्ऽतमाः । इन्द्रत्वाऽऊताः । विधेमहि ॥yéna ǀ cáṣṭe ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ yéna ǀ nā́satyā ǀ bhágaḥ ǀ
vayám ǀ tát ǀ te ǀ śávasā ǀ gātuvít-tamāḥ ǀ índratvā-ūtāḥ ǀ vidhemahi ǁyena ǀ caṣṭe ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ yena ǀ nāsatyā ǀ bhagaḥ ǀ
vayam ǀ tat ǀ te ǀ śavasā ǀ gātuvit-tamāḥ ǀ indratvā-ūtāḥ ǀ vidhemahi ǁ8.19.16 Aṣṭaka 6.1.32.1Anuvāka 8.3.126
-
Ṛk 17
ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सं ।
विप्रा॑सो देव सु॒क्रतुं॑ ॥ते घेद् अग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् |
विप्रासो देव सुक्रतुम् ||té ghédagne svādhyó yé tvā vipra nidadhiré nṛcákṣasam ǀ
víprāso deva sukrátum ǁte ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam |
viprāso deva sukratum ||ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः॑ । ये । त्वा॒ । वि॒प्र॒ । नि॒ऽद॒धि॒रे । नृ॒ऽचक्ष॑सम् ।
विप्रा॑सः । दे॒व॒ । सु॒ऽक्रतु॑म् ॥ते । घ । इत् । अग्ने । सुऽआध्यः । ये । त्वा । विप्र । निऽदधिरे । नृऽचक्षसम् ।
विप्रासः । देव । सुऽक्रतुम् ॥té ǀ gha ǀ ít ǀ agne ǀ su-ādhyáḥ ǀ yé ǀ tvā ǀ vipra ǀ ni-dadhiré ǀ nṛ-cákṣasam ǀ
víprāsaḥ ǀ deva ǀ su-krátum ǁte ǀ gha ǀ it ǀ agne ǀ su-ādhyaḥ ǀ ye ǀ tvā ǀ vipra ǀ ni-dadhire ǀ nṛ-cakṣasam ǀ
viprāsaḥ ǀ deva ǀ su-kratum ǁ8.19.17 Aṣṭaka 6.1.32.2Anuvāka 8.3.127
-
Ṛk 18
त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि ।
त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥त इद् वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि |
त इद् वाजेभिर् जिग्युर् महद् धनं ये त्वे कामं न्येरिरे ||tá ídvédim subhaga tá ā́hutim té sótum cakrire diví ǀ
tá ídvā́jebhirjigyurmaháddhánam yé tvé kā́mam nyeriré ǁta id vediṃ subhaga ta āhutiṃ te sotuṃ cakrire divi |
ta id vājebhir jigyur mahad dhanaṃ ye tve kāmaṃ nyerire ||ते । इत् । वेदि॑म् । सु॒ऽभ॒ग॒ । ते । आऽहु॑तिम् । ते । सोतु॑म् । च॒क्रि॒रे॒ । दि॒वि ।
ते । इत् । वाजे॑भिः । जि॒ग्युः॒ । म॒हत् । धन॑म् । ये । त्वे इति॑ । काम॑म् । नि॒ऽए॒रि॒रे ॥ते । इत् । वेदिम् । सुऽभग । ते । आऽहुतिम् । ते । सोतुम् । चक्रिरे । दिवि ।
ते । इत् । वाजेभिः । जिग्युः । महत् । धनम् । ये । त्वे इति । कामम् । निऽएरिरे ॥té ǀ ít ǀ védim ǀ su-bhaga ǀ té ǀ ā́-hutim ǀ té ǀ sótum ǀ cakrire ǀ diví ǀ
té ǀ ít ǀ vā́jebhiḥ ǀ jigyuḥ ǀ mahát ǀ dhánam ǀ yé ǀ tvé íti ǀ kā́mam ǀ ni-eriré ǁte ǀ it ǀ vedim ǀ su-bhaga ǀ te ǀ ā-hutim ǀ te ǀ sotum ǀ cakrire ǀ divi ǀ
te ǀ it ǀ vājebhiḥ ǀ jigyuḥ ǀ mahat ǀ dhanam ǀ ye ǀ tve iti ǀ kāmam ǀ ni-erire ǁ8.19.18 Aṣṭaka 6.1.32.3Anuvāka 8.3.128
-
Ṛk 19
भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः ।
भ॒द्रा उ॒त प्रश॑स्तयः ॥भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः |
भद्रा उत प्रशस्तयः ||bhadró no agnírā́huto bhadrā́ rātíḥ subhaga bhadró adhvaráḥ ǀ
bhadrā́ utá práśastayaḥ ǁbhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ |
bhadrā uta praśastayaḥ ||भ॒द्रः । नः॒ । अ॒ग्निः । आऽहु॑तः । भ॒द्रा । रा॒तिः । सु॒ऽभ॒ग॒ । भ॒द्रः । अ॒ध्व॒रः ।
भ॒द्राः । उ॒त । प्रऽश॑स्तयः ॥भद्रः । नः । अग्निः । आऽहुतः । भद्रा । रातिः । सुऽभग । भद्रः । अध्वरः ।
भद्राः । उत । प्रऽशस्तयः ॥bhadráḥ ǀ naḥ ǀ agníḥ ǀ ā́-hutaḥ ǀ bhadrā́ ǀ rātíḥ ǀ su-bhaga ǀ bhadráḥ ǀ adhvaráḥ ǀ
bhadrā́ḥ ǀ utá ǀ prá-śastayaḥ ǁbhadraḥ ǀ naḥ ǀ agniḥ ǀ ā-hutaḥ ǀ bhadrā ǀ rātiḥ ǀ su-bhaga ǀ bhadraḥ ǀ adhvaraḥ ǀ
bhadrāḥ ǀ uta ǀ pra-śastayaḥ ǁ8.19.19 Aṣṭaka 6.1.32.4Anuvāka 8.3.129
-
Ṛk 20
भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सहः॑ ।
अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥भद्रम् मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः |
अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ||bhadrám mánaḥ kṛṇuṣva vṛtratū́rye yénā samátsu sāsáhaḥ ǀ
áva sthirā́ tanuhi bhū́ri śárdhatām vanémā te abhíṣṭibhiḥ ǁbhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ |
ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ ||भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ । येन॑ । स॒मत्ऽसु॑ । स॒सहः॑ ।
अव॑ । स्थि॒रा । त॒नु॒हि॒ । भूरि॑ । शर्ध॑ताम् । व॒नेम॑ । ते॒ । अ॒भिष्टि॑ऽभिः ॥भद्रम् । मनः । कृणुष्व । वृत्रऽतूर्ये । येन । समत्ऽसु । ससहः ।
अव । स्थिरा । तनुहि । भूरि । शर्धताम् । वनेम । ते । अभिष्टिऽभिः ॥bhadrám ǀ mánaḥ ǀ kṛṇuṣva ǀ vṛtra-tū́rye ǀ yéna ǀ samát-su ǀ sasáhaḥ ǀ
áva ǀ sthirā́ ǀ tanuhi ǀ bhū́ri ǀ śárdhatām ǀ vanéma ǀ te ǀ abhíṣṭi-bhiḥ ǁbhadram ǀ manaḥ ǀ kṛṇuṣva ǀ vṛtra-tūrye ǀ yena ǀ samat-su ǀ sasahaḥ ǀ
ava ǀ sthirā ǀ tanuhi ǀ bhūri ǀ śardhatām ǀ vanema ǀ te ǀ abhiṣṭi-bhiḥ ǁ8.19.20 Aṣṭaka 6.1.32.5Anuvāka 8.3.130
-
Ṛk 21
ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे ।
यजि॑ष्ठं हव्य॒वाह॑नं ॥ईळे गिरा मनुर्हितं यं देवा दूतम् अरतिं न्येरिरे |
यजिष्ठं हव्यवाहनम् ||ī́ḷe girā́ mánurhitam yám devā́ dūtámaratím nyeriré ǀ
yájiṣṭham havyavā́hanam ǁīḷe girā manurhitaṃ yaṃ devā dūtam aratiṃ nyerire |
yajiṣṭhaṃ havyavāhanam ||ईळे॑ । गि॒रा । मनुः॑ऽहितम् । यम् । दे॒वाः । दू॒तम् । अ॒र॒तिम् । नि॒ऽए॒रि॒रे ।
यजि॑ष्ठम् । ह॒व्य॒ऽवाह॑नम् ॥ईळे । गिरा । मनुःऽहितम् । यम् । देवाः । दूतम् । अरतिम् । निऽएरिरे ।
यजिष्ठम् । हव्यऽवाहनम् ॥ī́ḷe ǀ girā́ ǀ mánuḥ-hitam ǀ yám ǀ devā́ḥ ǀ dūtám ǀ aratím ǀ ni-eriré ǀ
yájiṣṭham ǀ havya-vā́hanam ǁīḷe ǀ girā ǀ manuḥ-hitam ǀ yam ǀ devāḥ ǀ dūtam ǀ aratim ǀ ni-erire ǀ
yajiṣṭham ǀ havya-vāhanam ǁ8.19.21 Aṣṭaka 6.1.33.1Anuvāka 8.3.131
-
Ṛk 22
ति॒ग्मजं॑भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ ।
यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥तिग्मजम्भाय तरुणाय राजते प्रयो गायस्य् अग्नये |
यः पिंशते सूनृताभिः सुवीर्यम् अग्निर् घृतेभिर् आहुतः ||tigmájambhāya táruṇāya rā́jate práyo gāyasyagnáye ǀ
yáḥ piṃśáte sūnṛ́tābhiḥ suvī́ryamagnírghṛtébhirā́hutaḥ ǁtigmajambhāya taruṇāya rājate prayo gāyasy agnaye |
yaḥ piṃśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ ||ति॒ग्मऽज॑म्भाय । तरु॑णाय । राज॑ते । प्रयः॑ । गा॒य॒सि॒ । अ॒ग्नये॑ ।
यः । पिं॒शते॑ । सू॒नृता॑भिः । सु॒ऽवीर्य॑म् । अ॒ग्निः । घृ॒तेभिः॑ । आऽहु॑तः ॥तिग्मऽजम्भाय । तरुणाय । राजते । प्रयः । गायसि । अग्नये ।
यः । पिंशते । सूनृताभिः । सुऽवीर्यम् । अग्निः । घृतेभिः । आऽहुतः ॥tigmá-jambhāya ǀ táruṇāya ǀ rā́jate ǀ práyaḥ ǀ gāyasi ǀ agnáye ǀ
yáḥ ǀ piṃśáte ǀ sūnṛ́tābhiḥ ǀ su-vī́ryam ǀ agníḥ ǀ ghṛtébhiḥ ǀ ā́-hutaḥ ǁtigma-jambhāya ǀ taruṇāya ǀ rājate ǀ prayaḥ ǀ gāyasi ǀ agnaye ǀ
yaḥ ǀ piṃśate ǀ sūnṛtābhiḥ ǀ su-vīryam ǀ agniḥ ǀ ghṛtebhiḥ ǀ ā-hutaḥ ǁ8.19.22 Aṣṭaka 6.1.33.2Anuvāka 8.3.132
-
Ṛk 23
यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च ।
असु॑र इव नि॒र्णिजं॑ ॥यदी घृतेभिर् आहुतो वाशीम् अग्निर् भरत उच् चाव च |
असुर इव निर्णिजम् ||yádī ghṛtébhirā́huto vā́śīmagnírbhárata úccā́va ca ǀ
ásura iva nirṇíjam ǁyadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca |
asura iva nirṇijam ||यदि॑ । घृ॒तेभिः॑ । आऽहु॑तः । वाशी॑म् । अ॒ग्निः । भर॑ते । उत् । च॒ । अव॑ । च॒ ।
असु॑रःऽइव । निः॒ऽनिज॑म् ॥यदि । घृतेभिः । आऽहुतः । वाशीम् । अग्निः । भरते । उत् । च । अव । च ।
असुरःऽइव । निःऽनिजम् ॥yádi ǀ ghṛtébhiḥ ǀ ā́-hutaḥ ǀ vā́śīm ǀ agníḥ ǀ bhárate ǀ út ǀ ca ǀ áva ǀ ca ǀ
ásuraḥ-iva ǀ niḥ-níjam ǁyadi ǀ ghṛtebhiḥ ǀ ā-hutaḥ ǀ vāśīm ǀ agniḥ ǀ bharate ǀ ut ǀ ca ǀ ava ǀ ca ǀ
asuraḥ-iva ǀ niḥ-nijam ǁ8.19.23 Aṣṭaka 6.1.33.3Anuvāka 8.3.133
-
Ṛk 24
यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑गं॒धिना॑ ।
विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥यो हव्यान्य् ऐरयता मनुर्हितो देव आसा सुगन्धिना |
विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ||yó havyā́nyáirayatā mánurhito devá āsā́ sugandhínā ǀ
vívāsate vā́ryāṇi svadhvaró hótā devó ámartyaḥ ǁyo havyāny airayatā manurhito deva āsā sugandhinā |
vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ ||यः । ह॒व्यानि॑ । ऐर॑यत । मनुः॑ऽहितः । दे॒वः । आ॒सा । सु॒ऽग॒न्धिना॑ ।
विवा॑सते । वार्या॑णि । सु॒ऽअ॒ध्व॒रः । होता॑ । दे॒वः । अम॑र्त्यः ॥यः । हव्यानि । ऐरयत । मनुःऽहितः । देवः । आसा । सुऽगन्धिना ।
विवासते । वार्याणि । सुऽअध्वरः । होता । देवः । अमर्त्यः ॥yáḥ ǀ havyā́ni ǀ áirayata ǀ mánuḥ-hitaḥ ǀ deváḥ ǀ āsā́ ǀ su-gandhínā ǀ
vívāsate ǀ vā́ryāṇi ǀ su-adhvaráḥ ǀ hótā ǀ deváḥ ǀ ámartyaḥ ǁyaḥ ǀ havyāni ǀ airayata ǀ manuḥ-hitaḥ ǀ devaḥ ǀ āsā ǀ su-gandhinā ǀ
vivāsate ǀ vāryāṇi ǀ su-adhvaraḥ ǀ hotā ǀ devaḥ ǀ amartyaḥ ǁ8.19.24 Aṣṭaka 6.1.33.4Anuvāka 8.3.134
-
Ṛk 25
यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः ।
सह॑सः सूनवाहुत ॥यद् अग्ने मर्त्यस् त्वं स्याम् अहम् मित्रमहो अमर्त्यः |
सहसः सूनव् आहुत ||yádagne mártyastvám syā́mahám mitramaho ámartyaḥ ǀ
sáhasaḥ sūnavāhuta ǁyad agne martyas tvaṃ syām aham mitramaho amartyaḥ |
sahasaḥ sūnav āhuta ||यत् । अ॒ग्ने॒ । मर्त्यः॑ । त्वम् । स्याम् । अ॒हम् । मि॒त्र॒ऽम॒हः॒ । अम॑र्त्यः ।
सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ॥यत् । अग्ने । मर्त्यः । त्वम् । स्याम् । अहम् । मित्रऽमहः । अमर्त्यः ।
सहसः । सूनो इति । आऽहुत ॥yát ǀ agne ǀ mártyaḥ ǀ tvám ǀ syā́m ǀ ahám ǀ mitra-mahaḥ ǀ ámartyaḥ ǀ
sáhasaḥ ǀ sūno íti ǀ ā-huta ǁyat ǀ agne ǀ martyaḥ ǀ tvam ǀ syām ǀ aham ǀ mitra-mahaḥ ǀ amartyaḥ ǀ
sahasaḥ ǀ sūno iti ǀ ā-huta ǁ8.19.25 Aṣṭaka 6.1.33.5Anuvāka 8.3.135
-
Ṛk 26
न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ संत्य ।
न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑तः॒ स्याद॑ग्ने॒ न पा॒पया॑ ॥न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य |
न मे स्तोतामतीवा न दुर्हितः स्याद् अग्ने न पापया ||ná tvā rāsīyābhíśastaye vaso ná pāpatvā́ya santya ǀ
ná me stotā́matīvā́ ná dúrhitaḥ syā́dagne ná pāpáyā ǁna tvā rāsīyābhiśastaye vaso na pāpatvāya santya |
na me stotāmatīvā na durhitaḥ syād agne na pāpayā ||न । त्वा॒ । रा॒सी॒य॒ । अ॒भिऽश॑स्तये । व॒सो॒ इति॑ । न । पा॒प॒ऽत्वाय॑ । स॒न्त्य॒ ।
न । मे॒ । स्तो॒ता । अ॒म॒ति॒ऽवा । न । दुःऽहि॑तः । स्यात् । अ॒ग्ने॒ । न । पा॒पया॑ ॥न । त्वा । रासीय । अभिऽशस्तये । वसो इति । न । पापऽत्वाय । सन्त्य ।
न । मे । स्तोता । अमतिऽवा । न । दुःऽहितः । स्यात् । अग्ने । न । पापया ॥ná ǀ tvā ǀ rāsīya ǀ abhí-śastaye ǀ vaso íti ǀ ná ǀ pāpa-tvā́ya ǀ santya ǀ
ná ǀ me ǀ stotā́ ǀ amati-vā́ ǀ ná ǀ dúḥ-hitaḥ ǀ syā́t ǀ agne ǀ ná ǀ pāpáyā ǁna ǀ tvā ǀ rāsīya ǀ abhi-śastaye ǀ vaso iti ǀ na ǀ pāpa-tvāya ǀ santya ǀ
na ǀ me ǀ stotā ǀ amati-vā ǀ na ǀ duḥ-hitaḥ ǀ syāt ǀ agne ǀ na ǀ pāpayā ǁ8.19.26 Aṣṭaka 6.1.34.1Anuvāka 8.3.136
-
Ṛk 27
पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥
पितुर् न पुत्रः सुभृतो दुरोण आ देवां एतु प्र णो हविः ||
pitúrná putráḥ súbhṛto duroṇá ā́ devā́m̐ etu prá ṇo havíḥ ǁ
pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ ||
पि॒तुः । न । पु॒त्रः । सुऽभृ॑तः । दु॒रो॒णे । आ । दे॒वान् । ए॒तु॒ । प्र । नः॒ । ह॒विः ॥
पितुः । न । पुत्रः । सुऽभृतः । दुरोणे । आ । देवान् । एतु । प्र । नः । हविः ॥
pitúḥ ǀ ná ǀ putráḥ ǀ sú-bhṛtaḥ ǀ duroṇé ǀ ā́ ǀ devā́n ǀ etu ǀ prá ǀ naḥ ǀ havíḥ ǁ
pituḥ ǀ na ǀ putraḥ ǀ su-bhṛtaḥ ǀ duroṇe ǀ ā ǀ devān ǀ etu ǀ pra ǀ naḥ ǀ haviḥ ǁ
8.19.27 Aṣṭaka 6.1.34.2Anuvāka 8.3.137
-
Ṛk 28
तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो ।
सदा॑ दे॒वस्य॒ मर्त्यः॑ ॥तवाहम् अग्न ऊतिभिर् नेदिष्ठाभिः सचेय जोषम् आ वसो |
सदा देवस्य मर्त्यः ||távāhámagna ūtíbhirnédiṣṭhābhiḥ saceya jóṣamā́ vaso ǀ
sádā devásya mártyaḥ ǁtavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso |
sadā devasya martyaḥ ||तव॑ । अ॒हम् । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । नेदि॑ष्ठाभिः । स॒चे॒य॒ । जोष॑म् । आ । व॒सो॒ इति॑ ।
सदा॑ । दे॒वस्य॑ । मर्त्यः॑ ॥तव । अहम् । अग्ने । ऊतिऽभिः । नेदिष्ठाभिः । सचेय । जोषम् । आ । वसो इति ।
सदा । देवस्य । मर्त्यः ॥táva ǀ ahám ǀ agne ǀ ūtí-bhiḥ ǀ nédiṣṭhābhiḥ ǀ saceya ǀ jóṣam ǀ ā́ ǀ vaso íti ǀ
sádā ǀ devásya ǀ mártyaḥ ǁtava ǀ aham ǀ agne ǀ ūti-bhiḥ ǀ nediṣṭhābhiḥ ǀ saceya ǀ joṣam ǀ ā ǀ vaso iti ǀ
sadā ǀ devasya ǀ martyaḥ ǁ8.19.28 Aṣṭaka 6.1.34.3Anuvāka 8.3.138
-
Ṛk 29
तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः ।
त्वामिदा॑हुः॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥तव क्रत्वा सनेयं तव रातिभिर् अग्ने तव प्रशस्तिभिः |
त्वाम् इद् आहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ||táva krátvā saneyam táva rātíbhirágne táva práśastibhiḥ ǀ
tvā́mídāhuḥ prámatim vaso mámā́gne hárṣasva dā́tave ǁtava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ |
tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave ||तव॑ । क्रत्वा॑ । स॒ने॒य॒म् । तव॑ । रा॒तिऽभिः॑ । अग्ने॑ । तव॑ । प्रश॑स्तिऽभिः ।
त्वाम् । इत् । आ॒हुः॒ । प्रऽम॑तिम् । व॒सो॒ इति॑ । मम॑ । अ॒ग्ने॒ । हर्ष॑स्व । दात॑वे ॥तव । क्रत्वा । सनेयम् । तव । रातिऽभिः । अग्ने । तव । प्रशस्तिऽभिः ।
त्वाम् । इत् । आहुः । प्रऽमतिम् । वसो इति । मम । अग्ने । हर्षस्व । दातवे ॥táva ǀ krátvā ǀ saneyam ǀ táva ǀ rātí-bhiḥ ǀ ágne ǀ táva ǀ práśasti-bhiḥ ǀ
tvā́m ǀ ít ǀ āhuḥ ǀ prá-matim ǀ vaso íti ǀ máma ǀ agne ǀ hárṣasva ǀ dā́tave ǁtava ǀ kratvā ǀ saneyam ǀ tava ǀ rāti-bhiḥ ǀ agne ǀ tava ǀ praśasti-bhiḥ ǀ
tvām ǀ it ǀ āhuḥ ǀ pra-matim ǀ vaso iti ǀ mama ǀ agne ǀ harṣasva ǀ dātave ǁ8.19.29 Aṣṭaka 6.1.34.4Anuvāka 8.3.139
-
Ṛk 30
प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः ।
यस्य॒ त्वं स॒ख्यमा॒वरः॑ ॥प्र सो अग्ने तवोतिभिः सुवीराभिस् तिरते वाजभर्मभिः |
यस्य त्वं सख्यम् आवरः ||prá só agne távotíbhiḥ suvī́rābhistirate vā́jabharmabhiḥ ǀ
yásya tvám sakhyámāváraḥ ǁpra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ |
yasya tvaṃ sakhyam āvaraḥ ||प्र । सः । अ॒ग्ने॒ । तव॑ । ऊ॒तिऽभिः॑ । सु॒ऽवीरा॑भिः । ति॒र॒ते॒ । वाज॑भर्मऽभिः ।
यस्य॑ । त्वम् । स॒ख्यम् । आ॒ऽवरः॑ ॥प्र । सः । अग्ने । तव । ऊतिऽभिः । सुऽवीराभिः । तिरते । वाजभर्मऽभिः ।
यस्य । त्वम् । सख्यम् । आऽवरः ॥prá ǀ sáḥ ǀ agne ǀ táva ǀ ūtí-bhiḥ ǀ su-vī́rābhiḥ ǀ tirate ǀ vā́jabharma-bhiḥ ǀ
yásya ǀ tvám ǀ sakhyám ǀ ā-váraḥ ǁpra ǀ saḥ ǀ agne ǀ tava ǀ ūti-bhiḥ ǀ su-vīrābhiḥ ǀ tirate ǀ vājabharma-bhiḥ ǀ
yasya ǀ tvam ǀ sakhyam ǀ ā-varaḥ ǁ8.19.30 Aṣṭaka 6.1.34.5Anuvāka 8.3.140
-
Ṛk 31
तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इंधा॑नः सिष्ण॒वा द॑दे ।
त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥तव द्रप्सो नीलवान् वाश ऋत्विय इन्धानः सिष्णव् आ ददे |
त्वम् महीनाम् उषसाम् असि प्रियः क्षपो वस्तुषु राजसि ||táva drapsó nī́lavānvāśá ṛtvíya índhānaḥ siṣṇavā́ dade ǀ
tvám mahīnā́muṣásāmasi priyáḥ kṣapó vástuṣu rājasi ǁtava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade |
tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi ||तव॑ । द्र॒प्सः । नील॑ऽवान् । वा॒शः । ऋ॒त्वियः॑ । इन्धा॑नः । सि॒ष्णो॒ इति॑ । आ । द॒दे॒ ।
त्वम् । म॒ही॒नाम् । उ॒षसा॑म् । अ॒सि॒ । प्रि॒यः । क्ष॒पः । वस्तु॑षु । रा॒ज॒सि॒ ॥तव । द्रप्सः । नीलऽवान् । वाशः । ऋत्वियः । इन्धानः । सिष्णो इति । आ । ददे ।
त्वम् । महीनाम् । उषसाम् । असि । प्रियः । क्षपः । वस्तुषु । राजसि ॥táva ǀ drapsáḥ ǀ nī́la-vān ǀ vāśáḥ ǀ ṛtvíyaḥ ǀ índhānaḥ ǀ siṣṇo íti ǀ ā́ ǀ dade ǀ
tvám ǀ mahīnā́m ǀ uṣásām ǀ asi ǀ priyáḥ ǀ kṣapáḥ ǀ vástuṣu ǀ rājasi ǁtava ǀ drapsaḥ ǀ nīla-vān ǀ vāśaḥ ǀ ṛtviyaḥ ǀ indhānaḥ ǀ siṣṇo iti ǀ ā ǀ dade ǀ
tvam ǀ mahīnām ǀ uṣasām ǀ asi ǀ priyaḥ ǀ kṣapaḥ ǀ vastuṣu ǀ rājasi ǁ8.19.31 Aṣṭaka 6.1.35.1Anuvāka 8.3.141
-
Ṛk 32
तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से ।
स॒म्राजं॒ त्रास॑दस्यवं ॥तम् आगन्म सोभरयः सहस्रमुष्कं स्वभिष्टिम् अवसे |
सम्राजं त्रासदस्यवम् ||támā́ganma sóbharayaḥ sahásramuṣkam svabhiṣṭímávase ǀ
samrā́jam trā́sadasyavam ǁtam āganma sobharayaḥ sahasramuṣkaṃ svabhiṣṭim avase |
samrājaṃ trāsadasyavam ||तम् । आ । अ॒ग॒न्म॒ । सोभ॑रयः । स॒हस्र॑ऽमुष्कम् । सु॒ऽअ॒भि॒ष्टिम् । अव॑से ।
स॒म्ऽराज॑म् । त्रास॑दस्यवम् ॥तम् । आ । अगन्म । सोभरयः । सहस्रऽमुष्कम् । सुऽअभिष्टिम् । अवसे ।
सम्ऽराजम् । त्रासदस्यवम् ॥tám ǀ ā́ ǀ aganma ǀ sóbharayaḥ ǀ sahásra-muṣkam ǀ su-abhiṣṭím ǀ ávase ǀ
sam-rā́jam ǀ trā́sadasyavam ǁtam ǀ ā ǀ aganma ǀ sobharayaḥ ǀ sahasra-muṣkam ǀ su-abhiṣṭim ǀ avase ǀ
sam-rājam ǀ trāsadasyavam ǁ8.19.32 Aṣṭaka 6.1.35.2Anuvāka 8.3.142
-
Ṛk 33
यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व ।
विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव |
विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ||yásya te agne anyé agnáya upakṣíto vayā́ iva ǀ
vípo ná dyumnā́ ní yuve jánānām táva kṣatrā́ṇi vardháyan ǁyasya te agne anye agnaya upakṣito vayā iva |
vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan ||यस्य॑ । ते॒ । अ॒ग्ने॒ । अ॒न्ये । अ॒ग्नयः॑ । उ॒प॒ऽक्षितः॑ । व॒याःऽइ॑व ।
विपः॑ । न । द्यु॒म्ना । नि । यु॒वे॒ । जना॑नाम् । तव॑ । क्ष॒त्राणि॑ । व॒र्धय॑न् ॥यस्य । ते । अग्ने । अन्ये । अग्नयः । उपऽक्षितः । वयाःऽइव ।
विपः । न । द्युम्ना । नि । युवे । जनानाम् । तव । क्षत्राणि । वर्धयन् ॥yásya ǀ te ǀ agne ǀ anyé ǀ agnáyaḥ ǀ upa-kṣítaḥ ǀ vayā́ḥ-iva ǀ
vípaḥ ǀ ná ǀ dyumnā́ ǀ ní ǀ yuve ǀ jánānām ǀ táva ǀ kṣatrā́ṇi ǀ vardháyan ǁyasya ǀ te ǀ agne ǀ anye ǀ agnayaḥ ǀ upa-kṣitaḥ ǀ vayāḥ-iva ǀ
vipaḥ ǀ na ǀ dyumnā ǀ ni ǀ yuve ǀ janānām ǀ tava ǀ kṣatrāṇi ǀ vardhayan ǁ8.19.33 Aṣṭaka 6.1.35.3Anuvāka 8.3.143
-
Ṛk 34
यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्यं॑ ।
म॒घोनां॒ विश्वे॑षां सुदानवः ॥यम् आदित्यासो अद्रुहः पारं नयथ मर्त्यम् |
मघोनां विश्वेषां सुदानवः ||yámādityāso adruhaḥ pārám náyatha mártyam ǀ
maghónām víśveṣām sudānavaḥ ǁyam ādityāso adruhaḥ pāraṃ nayatha martyam |
maghonāṃ viśveṣāṃ sudānavaḥ ||यम् । आ॒दि॒त्या॒सः॒ । अ॒द्रु॒हः॒ । पा॒रम् । नय॑थ । मर्त्य॑म् ।
म॒घोना॑म् । विश्वे॑षाम् । सु॒ऽदा॒न॒वः॒ ॥यम् । आदित्यासः । अद्रुहः । पारम् । नयथ । मर्त्यम् ।
मघोनाम् । विश्वेषाम् । सुऽदानवः ॥yám ǀ ādityāsaḥ ǀ adruhaḥ ǀ pārám ǀ náyatha ǀ mártyam ǀ
maghónām ǀ víśveṣām ǀ su-dānavaḥ ǁyam ǀ ādityāsaḥ ǀ adruhaḥ ǀ pāram ǀ nayatha ǀ martyam ǀ
maghonām ǀ viśveṣām ǀ su-dānavaḥ ǁ8.19.34 Aṣṭaka 6.1.35.4Anuvāka 8.3.144
-
Ṛk 35
यू॒यं रा॑जानः॒ कं चि॑च्चर्षणीसहः॒ क्षयं॑तं॒ मानु॑षाँ॒ अनु॑ ।
व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ॥यूयं राजानः कं चिच् चर्षणीसहः क्षयन्तम् मानुषां अनु |
वयं ते वो वरुण मित्रार्यमन् स्यामेद् ऋतस्य रथ्यः ||yūyám rājānaḥ kám ciccarṣaṇīsahaḥ kṣáyantam mā́nuṣām̐ ánu ǀ
vayám té vo váruṇa mítrā́ryamantsyā́médṛtásya rathyáḥ ǁyūyaṃ rājānaḥ kaṃ cic carṣaṇīsahaḥ kṣayantam mānuṣāṃ anu |
vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ ||यू॒यम् । रा॒जा॒नः॒ । कम् । चि॒त् । च॒र्ष॒णि॒ऽस॒हः॒ । क्षय॑न्तम् । मानु॑षान् । अनु॑ ।
व॒यम् । ते । वः॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । स्याम॑ । इत् । ऋ॒तस्य॑ । र॒थ्यः॑ ॥यूयम् । राजानः । कम् । चित् । चर्षणिऽसहः । क्षयन्तम् । मानुषान् । अनु ।
वयम् । ते । वः । वरुण । मित्र । अर्यमन् । स्याम । इत् । ऋतस्य । रथ्यः ॥yūyám ǀ rājānaḥ ǀ kám ǀ cit ǀ carṣaṇi-sahaḥ ǀ kṣáyantam ǀ mā́nuṣān ǀ ánu ǀ
vayám ǀ té ǀ vaḥ ǀ váruṇa ǀ mítra ǀ áryaman ǀ syā́ma ǀ ít ǀ ṛtásya ǀ rathyáḥ ǁyūyam ǀ rājānaḥ ǀ kam ǀ cit ǀ carṣaṇi-sahaḥ ǀ kṣayantam ǀ mānuṣān ǀ anu ǀ
vayam ǀ te ǀ vaḥ ǀ varuṇa ǀ mitra ǀ aryaman ǀ syāma ǀ it ǀ ṛtasya ǀ rathyaḥ ǁ8.19.35 Aṣṭaka 6.1.35.5Anuvāka 8.3.145
-
Ṛk 36
अदा॑न्मे पौरुकु॒त्स्यः पं॑चा॒शतं॑ त्र॒सद॑स्युर्व॒धूनां॑ ।
मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥अदान् मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर् वधूनाम् |
मंहिष्ठो अर्यः सत्पतिः ||ádānme paurukutsyáḥ pañcāśátam trasádasyurvadhū́nām ǀ
máṃhiṣṭho aryáḥ sátpatiḥ ǁadān me paurukutsyaḥ pañcāśataṃ trasadasyur vadhūnām |
maṃhiṣṭho aryaḥ satpatiḥ ||अदा॑त् । मे॒ । पौ॒रु॒ऽकु॒त्स्यः । प॒ञ्चा॒शत॑म् । त्र॒सद॑स्युः । व॒धूना॑म् ।
मंहि॑ष्ठः । अ॒र्यः । सत्ऽप॑तिः ॥अदात् । मे । पौरुऽकुत्स्यः । पञ्चाशतम् । त्रसदस्युः । वधूनाम् ।
मंहिष्ठः । अर्यः । सत्ऽपतिः ॥ádāt ǀ me ǀ pauru-kutsyáḥ ǀ pañcāśátam ǀ trasádasyuḥ ǀ vadhū́nām ǀ
máṃhiṣṭhaḥ ǀ aryáḥ ǀ sát-patiḥ ǁadāt ǀ me ǀ pauru-kutsyaḥ ǀ pañcāśatam ǀ trasadasyuḥ ǀ vadhūnām ǀ
maṃhiṣṭhaḥ ǀ aryaḥ ǀ sat-patiḥ ǁ8.19.36 Aṣṭaka 6.1.35.6Anuvāka 8.3.146
-
Ṛk 37
उ॒त मे॑ प्र॒यियो॑र्व॒यियोः॑ सु॒वास्त्वा॒ अधि॒ तुग्व॑नि ।
ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पतिः॑ ॥उत मे प्रयियोर् वयियोः सुवास्त्वा अधि तुग्वनि |
तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद् वसुर् दियानाम् पतिः ||utá me prayíyorvayíyoḥ suvā́stvā ádhi túgvani ǀ
tisṝṇā́m saptatīnā́m śyāváḥ praṇetā́ bhuvadvásurdíyānām pátiḥ ǁuta me prayiyor vayiyoḥ suvāstvā adhi tugvani |
tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ ||उ॒त । मे॒ । प्र॒यियोः॑ । व॒यियोः॑ । सु॒ऽवास्त्वाः॑ । अधि॑ । तुग्व॑नि ।
ति॒सॄ॒णाम् । स॒प्त॒ती॒नाम् । श्या॒वः । प्र॒ऽने॒ता । भु॒व॒त् । वसुः॑ । दिया॑नाम् । पतिः॑ ॥उत । मे । प्रयियोः । वयियोः । सुऽवास्त्वाः । अधि । तुग्वनि ।
तिसॄणाम् । सप्ततीनाम् । श्यावः । प्रऽनेता । भुवत् । वसुः । दियानाम् । पतिः ॥utá ǀ me ǀ prayíyoḥ ǀ vayíyoḥ ǀ su-vā́stvāḥ ǀ ádhi ǀ túgvani ǀ
tisṝṇā́m ǀ saptatīnā́m ǀ śyāváḥ ǀ pra-netā́ ǀ bhuvat ǀ vásuḥ ǀ díyānām ǀ pátiḥ ǁuta ǀ me ǀ prayiyoḥ ǀ vayiyoḥ ǀ su-vāstvāḥ ǀ adhi ǀ tugvani ǀ
tisṝṇām ǀ saptatīnām ǀ śyāvaḥ ǀ pra-netā ǀ bhuvat ǀ vasuḥ ǀ diyānām ǀ patiḥ ǁ8.19.37 Aṣṭaka 6.1.35.7Anuvāka 8.3.147
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.