Sūkta 82
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kusīdin Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (2, 5, 6, 8); nicṛdgāyatrī (1, 7, 9); virāḍgāyatrī (3, 4)
2nd set of styles gāyatrī
-
Ṛk 1
आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।
मध्वः॒ प्रति॒ प्रभ॑र्मणि ॥आ प्र द्रव परावतो ऽर्वावतश् च वृत्रहन् |
मध्वः प्रति प्रभर्मणि ||ā́ prá drava parāváto’rvāvátaśca vṛtrahan ǀ
mádhvaḥ práti prábharmaṇi ǁā pra drava parāvato 'rvāvataś ca vṛtrahan |
madhvaḥ prati prabharmaṇi ||आ । प्र । द्र॒व॒ । प॒रा॒ऽवतः॑ । अ॒र्वा॒ऽवतः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।
मध्वः॑ । प्रति॑ । प्रऽभ॑र्मणि ॥आ । प्र । द्रव । पराऽवतः । अर्वाऽवतः । च । वृत्रऽहन् ।
मध्वः । प्रति । प्रऽभर्मणि ॥ā́ ǀ prá ǀ drava ǀ parā-vátaḥ ǀ arvā-vátaḥ ǀ ca ǀ vṛtra-han ǀ
mádhvaḥ ǀ práti ǀ prá-bharmaṇi ǁā ǀ pra ǀ drava ǀ parā-vataḥ ǀ arvā-vataḥ ǀ ca ǀ vṛtra-han ǀ
madhvaḥ ǀ prati ǀ pra-bharmaṇi ǁ8.82.1 Aṣṭaka 6.6.1.1Anuvāka 8.9.10
-
Ṛk 2
ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णवः॑ ।
पिबा॑ द॒धृग्यथो॑चि॒षे ॥तीव्राः सोमास आ गहि सुतासो मादयिष्णवः |
पिबा दधृग् यथोचिषे ||tīvrā́ḥ sómāsa ā́ gahi sutā́so mādayiṣṇávaḥ ǀ
píbā dadhṛ́gyáthociṣé ǁtīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ |
pibā dadhṛg yathociṣe ||ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । सु॒तासः॑ । मा॒द॒यि॒ष्णवः॑ ।
पिब॑ । द॒धृक् । यथा॑ । ओ॒चि॒षे ॥तीव्राः । सोमासः । आ । गहि । सुतासः । मादयिष्णवः ।
पिब । दधृक् । यथा । ओचिषे ॥tīvrā́ḥ ǀ sómāsaḥ ǀ ā́ ǀ gahi ǀ sutā́saḥ ǀ mādayiṣṇávaḥ ǀ
píba ǀ dadhṛ́k ǀ yáthā ǀ ociṣé ǁtīvrāḥ ǀ somāsaḥ ǀ ā ǀ gahi ǀ sutāsaḥ ǀ mādayiṣṇavaḥ ǀ
piba ǀ dadhṛk ǀ yathā ǀ ociṣe ǁ8.82.2 Aṣṭaka 6.6.1.2Anuvāka 8.9.11
-
Ṛk 3
इ॒षा मं॑द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।
भुव॑त्त इंद्र॒ शं हृ॒दे ॥इषा मन्दस्वाद् उ ते ऽरं वराय मन्यवे |
भुवत् त इन्द्र शं हृदे ||iṣā́ mandasvā́du té’ram várāya manyáve ǀ
bhúvatta indra śám hṛdé ǁiṣā mandasvād u te 'raṃ varāya manyave |
bhuvat ta indra śaṃ hṛde ||इ॒षा । म॒न्द॒स्व॒ । आत् । ऊं॒ इति॑ । ते॒ । अर॑म् । वरा॑य । म॒न्यवे॑ ।
भुव॑त् । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे ॥इषा । मन्दस्व । आत् । ऊं इति । ते । अरम् । वराय । मन्यवे ।
भुवत् । ते । इन्द्र । शम् । हृदे ॥iṣā́ ǀ mandasva ǀ ā́t ǀ ūṃ íti ǀ te ǀ áram ǀ várāya ǀ manyáve ǀ
bhúvat ǀ te ǀ indra ǀ śám ǀ hṛdé ǁiṣā ǀ mandasva ǀ āt ǀ ūṃ iti ǀ te ǀ aram ǀ varāya ǀ manyave ǀ
bhuvat ǀ te ǀ indra ǀ śam ǀ hṛde ǁ8.82.3 Aṣṭaka 6.6.1.3Anuvāka 8.9.12
-
Ṛk 4
आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे ।
उ॒प॒मे रो॑च॒ने दि॒वः ॥आ त्व् अशत्रव् आ गहि न्य् उक्थानि च हूयसे |
उपमे रोचने दिवः ||ā́ tváśatravā́ gahi nyúkthā́ni ca hūyase ǀ
upamé rocané diváḥ ǁā tv aśatrav ā gahi ny ukthāni ca hūyase |
upame rocane divaḥ ||आ । तु । अ॒श॒त्रो॒ इति॑ । आ । ग॒हि॒ । नि । उ॒क्थानि॑ । च॒ । हू॒य॒से॒ ।
उ॒प॒ऽमे । रो॒च॒ने । दि॒वः ॥आ । तु । अशत्रो इति । आ । गहि । नि । उक्थानि । च । हूयसे ।
उपऽमे । रोचने । दिवः ॥ā́ ǀ tú ǀ aśatro íti ǀ ā́ ǀ gahi ǀ ní ǀ ukthā́ni ǀ ca ǀ hūyase ǀ
upa-mé ǀ rocané ǀ diváḥ ǁā ǀ tu ǀ aśatro iti ǀ ā ǀ gahi ǀ ni ǀ ukthāni ǀ ca ǀ hūyase ǀ
upa-me ǀ rocane ǀ divaḥ ǁ8.82.4 Aṣṭaka 6.6.1.4Anuvāka 8.9.13
-
Ṛk 5
तुभ्या॒यमद्रि॑भिः सु॒तो गोभिः॑ श्री॒तो मदा॑य॒ कं ।
प्र सोम॑ इंद्र हूयते ॥तुभ्यायम् अद्रिभिः सुतो गोभिः श्रीतो मदाय कम् |
प्र सोम इन्द्र हूयते ||túbhyāyámádribhiḥ sutó góbhiḥ śrītó mádāya kám ǀ
prá sóma indra hūyate ǁtubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam |
pra soma indra hūyate ||तुभ्य॑ । अ॒यम् । अद्रि॑ऽभिः । सु॒तः । गोभिः॑ । श्री॒तः । मदा॑य । कम् ।
प्र । सोमः॑ । इ॒न्द्र॒ । हू॒य॒ते॒ ॥तुभ्य । अयम् । अद्रिऽभिः । सुतः । गोभिः । श्रीतः । मदाय । कम् ।
प्र । सोमः । इन्द्र । हूयते ॥túbhya ǀ ayám ǀ ádri-bhiḥ ǀ sutáḥ ǀ góbhiḥ ǀ śrītáḥ ǀ mádāya ǀ kám ǀ
prá ǀ sómaḥ ǀ indra ǀ hūyate ǁtubhya ǀ ayam ǀ adri-bhiḥ ǀ sutaḥ ǀ gobhiḥ ǀ śrītaḥ ǀ madāya ǀ kam ǀ
pra ǀ somaḥ ǀ indra ǀ hūyate ǁ8.82.5 Aṣṭaka 6.6.1.5Anuvāka 8.9.14
-
Ṛk 6
इंद्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।
वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥इन्द्र श्रुधि सु मे हवम् अस्मे सुतस्य गोमतः |
वि पीतिं तृप्तिम् अश्नुहि ||índra śrudhí sú me hávamasmé sutásya gómataḥ ǀ
ví pītím tṛptímaśnuhi ǁindra śrudhi su me havam asme sutasya gomataḥ |
vi pītiṃ tṛptim aśnuhi ||इन्द्र॑ । श्रु॒धि । सु । मे॒ । हव॑म् । अ॒स्मे इति॑ । सु॒तस्य॑ । गोऽम॑तः ।
वि । पी॒तिम् । तृ॒प्तिम् । अ॒श्नु॒हि॒ ॥इन्द्र । श्रुधि । सु । मे । हवम् । अस्मे इति । सुतस्य । गोऽमतः ।
वि । पीतिम् । तृप्तिम् । अश्नुहि ॥índra ǀ śrudhí ǀ sú ǀ me ǀ hávam ǀ asmé íti ǀ sutásya ǀ gó-mataḥ ǀ
ví ǀ pītím ǀ tṛptím ǀ aśnuhi ǁindra ǀ śrudhi ǀ su ǀ me ǀ havam ǀ asme iti ǀ sutasya ǀ go-mataḥ ǀ
vi ǀ pītim ǀ tṛptim ǀ aśnuhi ǁ8.82.6 Aṣṭaka 6.6.2.1Anuvāka 8.9.15
-
Ṛk 7
य इं॑द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥य इन्द्र चमसेष्व् आ सोमश् चमूषु ते सुतः |
पिबेद् अस्य त्वम् ईशिषे ||yá indra camaséṣvā́ sómaścamū́ṣu te sutáḥ ǀ
píbédasya tvámīśiṣe ǁya indra camaseṣv ā somaś camūṣu te sutaḥ |
pibed asya tvam īśiṣe ||यः । इ॒न्द्र॒ । च॒म॒सेषु॑ । आ । सोमः॑ । च॒मूषु॑ । ते॒ । सु॒तः ।
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥यः । इन्द्र । चमसेषु । आ । सोमः । चमूषु । ते । सुतः ।
पिब । इत् । अस्य । त्वम् । ईशिषे ॥yáḥ ǀ indra ǀ camaséṣu ǀ ā́ ǀ sómaḥ ǀ camū́ṣu ǀ te ǀ sutáḥ ǀ
píba ǀ ít ǀ asya ǀ tvám ǀ īśiṣe ǁyaḥ ǀ indra ǀ camaseṣu ǀ ā ǀ somaḥ ǀ camūṣu ǀ te ǀ sutaḥ ǀ
piba ǀ it ǀ asya ǀ tvam ǀ īśiṣe ǁ8.82.7 Aṣṭaka 6.6.2.2Anuvāka 8.9.16
-
Ṛk 8
यो अ॒प्सु चं॒द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥यो अप्सु चन्द्रमा इव सोमश् चमूषु ददृशे |
पिबेद् अस्य त्वम् ईशिषे ||yó apsú candrámā iva sómaścamū́ṣu dádṛśe ǀ
píbédasya tvámīśiṣe ǁyo apsu candramā iva somaś camūṣu dadṛśe |
pibed asya tvam īśiṣe ||यः । अ॒प्ऽसु । च॒न्द्रमाः॑ऽइव । सोमः॑ । च॒मूषु॑ । ददृ॑शे ।
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥यः । अप्ऽसु । चन्द्रमाःऽइव । सोमः । चमूषु । ददृशे ।
पिब । इत् । अस्य । त्वम् । ईशिषे ॥yáḥ ǀ ap-sú ǀ candrámāḥ-iva ǀ sómaḥ ǀ camū́ṣu ǀ dádṛśe ǀ
píba ǀ ít ǀ asya ǀ tvám ǀ īśiṣe ǁyaḥ ǀ ap-su ǀ candramāḥ-iva ǀ somaḥ ǀ camūṣu ǀ dadṛśe ǀ
piba ǀ it ǀ asya ǀ tvam ǀ īśiṣe ǁ8.82.8 Aṣṭaka 6.6.2.3Anuvāka 8.9.17
-
Ṛk 9
यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तं ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥यं ते श्येनः पदाभरत् तिरो रजांस्य् अस्पृतम् |
पिबेद् अस्य त्वम् ईशिषे ||yám te śyenáḥ padā́bharattiró rájāṃsyáspṛtam ǀ
píbédasya tvámīśiṣe ǁyaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam |
pibed asya tvam īśiṣe ||यम् । ते॒ । श्ये॒नः । प॒दा । आ । अभ॑रत् । ति॒रः । रजां॑सि । अस्पृ॑तम् ।
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥यम् । ते । श्येनः । पदा । आ । अभरत् । तिरः । रजांसि । अस्पृतम् ।
पिब । इत् । अस्य । त्वम् । ईशिषे ॥yám ǀ te ǀ śyenáḥ ǀ padā́ ǀ ā́ ǀ ábharat ǀ tiráḥ ǀ rájāṃsi ǀ áspṛtam ǀ
píba ǀ ít ǀ asya ǀ tvám ǀ īśiṣe ǁyam ǀ te ǀ śyenaḥ ǀ padā ǀ ā ǀ abharat ǀ tiraḥ ǀ rajāṃsi ǀ aspṛtam ǀ
piba ǀ it ǀ asya ǀ tvam ǀ īśiṣe ǁ8.82.9 Aṣṭaka 6.6.2.4Anuvāka 8.9.18
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.