Sūkta 43
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Virūpa Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (2-8, 13, 15-21, 23-25, 27, 31, 32); nicṛdgāyatrī (1, 9-12, 22, 26, 28, 29, 33); kakummatīgāyatrī (14); gāyatrī (pādanicṛdgāyatrī) (30)
2nd set of styles gāyatrī
-
Ṛk 1
इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः ।
गिरः॒ स्तोमा॑स ईरते ॥इमे विप्रस्य वेधसो ऽग्नेर् अस्तृतयज्वनः |
गिर स्तोमास ईरते ||imé víprasya vedháso’gnérástṛtayajvanaḥ ǀ
gíraḥ stómāsa īrate ǁime viprasya vedhaso 'gner astṛtayajvanaḥ |
gira stomāsa īrate ||इ॒मे । विप्र॑स्य । वे॒धसः॑ । अ॒ग्नेः । अस्तृ॑तऽयज्वनः ।
गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ॥इमे । विप्रस्य । वेधसः । अग्नेः । अस्तृतऽयज्वनः ।
गिरः । स्तोमासः । ईरते ॥imé ǀ víprasya ǀ vedhásaḥ ǀ agnéḥ ǀ ástṛta-yajvanaḥ ǀ
gíraḥ ǀ stómāsaḥ ǀ īrate ǁime ǀ viprasya ǀ vedhasaḥ ǀ agneḥ ǀ astṛta-yajvanaḥ ǀ
giraḥ ǀ stomāsaḥ ǀ īrate ǁ8.43.1 Aṣṭaka 6.3.29.1Anuvāka 8.6.1
-
Ṛk 2
अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।
अग्ने॒ जना॑मि सुष्टु॒तिं ॥अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे |
अग्ने जनामि सुष्टुतिम् ||ásmai te pratiháryate jā́tavedo vícarṣaṇe ǀ
ágne jánāmi suṣṭutím ǁasmai te pratiharyate jātavedo vicarṣaṇe |
agne janāmi suṣṭutim ||अस्मै॑ । ते॒ । प्र॒ति॒ऽहर्य॑ते । जात॑ऽवेदः । विऽच॑र्षणे ।
अग्ने॑ । जना॑मि । सु॒ऽस्तु॒तिम् ॥अस्मै । ते । प्रतिऽहर्यते । जातऽवेदः । विऽचर्षणे ।
अग्ने । जनामि । सुऽस्तुतिम् ॥ásmai ǀ te ǀ prati-háryate ǀ jā́ta-vedaḥ ǀ ví-carṣaṇe ǀ
ágne ǀ jánāmi ǀ su-stutím ǁasmai ǀ te ǀ prati-haryate ǀ jāta-vedaḥ ǀ vi-carṣaṇe ǀ
agne ǀ janāmi ǀ su-stutim ǁ8.43.2 Aṣṭaka 6.3.29.2Anuvāka 8.6.2
-
Ṛk 3
आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ ।
द॒द्भिर्वना॑नि बप्सति ॥आरोका इव घेद् अह तिग्मा अग्ने तव त्विषः |
दद्भिर् वनानि बप्सति ||ārokā́ iva ghédáha tigmā́ agne táva tvíṣaḥ ǀ
dadbhírvánāni bapsati ǁārokā iva ghed aha tigmā agne tava tviṣaḥ |
dadbhir vanāni bapsati ||आ॒रो॒काःऽइ॑व । घ॒ । इत् । अह॑ । ति॒ग्माः । अ॒ग्ने॒ । तव॑ । त्विषः॑ ।
द॒त्ऽभिः । वना॑नि । ब॒प्स॒ति॒ ॥आरोकाःऽइव । घ । इत् । अह । तिग्माः । अग्ने । तव । त्विषः ।
दत्ऽभिः । वनानि । बप्सति ॥ārokā́ḥ-iva ǀ gha ǀ ít ǀ áha ǀ tigmā́ḥ ǀ agne ǀ táva ǀ tvíṣaḥ ǀ
dat-bhíḥ ǀ vánāni ǀ bapsati ǁārokāḥ-iva ǀ gha ǀ it ǀ aha ǀ tigmāḥ ǀ agne ǀ tava ǀ tviṣaḥ ǀ
dat-bhiḥ ǀ vanāni ǀ bapsati ǁ8.43.3 Aṣṭaka 6.3.29.3Anuvāka 8.6.3
-
Ṛk 4
हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ ।
यतं॑ते॒ वृथ॑ग॒ग्नयः॑ ॥हरयो धूमकेतवो वातजूता उप द्यवि |
यतन्ते वृथग् अग्नयः ||hárayo dhūmáketavo vā́tajūtā úpa dyávi ǀ
yátante vṛ́thagagnáyaḥ ǁharayo dhūmaketavo vātajūtā upa dyavi |
yatante vṛthag agnayaḥ ||हर॑यः । धू॒मऽके॑तवः । वात॑ऽजूताः । उप॑ । द्यवि॑ ।
यत॑न्ते । वृथ॑क् । अ॒ग्नयः॑ ॥हरयः । धूमऽकेतवः । वातऽजूताः । उप । द्यवि ।
यतन्ते । वृथक् । अग्नयः ॥hárayaḥ ǀ dhūmá-ketavaḥ ǀ vā́ta-jūtāḥ ǀ úpa ǀ dyávi ǀ
yátante ǀ vṛ́thak ǀ agnáyaḥ ǁharayaḥ ǀ dhūma-ketavaḥ ǀ vāta-jūtāḥ ǀ upa ǀ dyavi ǀ
yatante ǀ vṛthak ǀ agnayaḥ ǁ8.43.4 Aṣṭaka 6.3.29.4Anuvāka 8.6.4
-
Ṛk 5
ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत ।
उ॒षसा॑मिव के॒तवः॑ ॥एते त्ये वृथग् अग्नय इद्धासः सम् अदृक्षत |
उषसाम् इव केतवः ||eté tyé vṛ́thagagnáya iddhā́saḥ sámadṛkṣata ǀ
uṣásāmiva ketávaḥ ǁete tye vṛthag agnaya iddhāsaḥ sam adṛkṣata |
uṣasām iva ketavaḥ ||ए॒ते । त्ये । वृथ॑क् । अ॒ग्नयः॑ । इ॒द्धासः॑ । सम् । अ॒दृ॒क्ष॒त॒ ।
उ॒षसा॑म्ऽइव । के॒तवः॑ ॥एते । त्ये । वृथक् । अग्नयः । इद्धासः । सम् । अदृक्षत ।
उषसाम्ऽइव । केतवः ॥eté ǀ tyé ǀ vṛ́thak ǀ agnáyaḥ ǀ iddhā́saḥ ǀ sám ǀ adṛkṣata ǀ
uṣásām-iva ǀ ketávaḥ ǁete ǀ tye ǀ vṛthak ǀ agnayaḥ ǀ iddhāsaḥ ǀ sam ǀ adṛkṣata ǀ
uṣasām-iva ǀ ketavaḥ ǁ8.43.5 Aṣṭaka 6.3.29.5Anuvāka 8.6.5
-
Ṛk 6
कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः ।
अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः |
अग्निर् यद् रोधति क्षमि ||kṛṣṇā́ rájāṃsi patsutáḥ prayā́ṇe jātávedasaḥ ǀ
agníryádródhati kṣámi ǁkṛṣṇā rajāṃsi patsutaḥ prayāṇe jātavedasaḥ |
agnir yad rodhati kṣami ||कृ॒ष्णा । रजां॑सि । प॒त्सु॒तः । प्र॒ऽयाने॑ । जा॒तऽवे॑दसः ।
अ॒ग्निः । यत् । रोध॑ति । क्षमि॑ ॥कृष्णा । रजांसि । पत्सुतः । प्रऽयाने । जातऽवेदसः ।
अग्निः । यत् । रोधति । क्षमि ॥kṛṣṇā́ ǀ rájāṃsi ǀ patsutáḥ ǀ pra-yā́ne ǀ jātá-vedasaḥ ǀ
agníḥ ǀ yát ǀ ródhati ǀ kṣámi ǁkṛṣṇā ǀ rajāṃsi ǀ patsutaḥ ǀ pra-yāne ǀ jāta-vedasaḥ ǀ
agniḥ ǀ yat ǀ rodhati ǀ kṣami ǁ8.43.6 Aṣṭaka 6.3.30.1Anuvāka 8.6.6
-
Ṛk 7
धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति ।
पुन॒र्यंतरु॑णी॒रपि॑ ॥धासिं कृण्वान ओषधीर् बप्सद् अग्निर् न वायति |
पुनर् यन् तरुणीर् अपि ||dhāsím kṛṇvāná óṣadhīrbápsadagnírná vāyati ǀ
púnaryántáruṇīrápi ǁdhāsiṃ kṛṇvāna oṣadhīr bapsad agnir na vāyati |
punar yan taruṇīr api ||धा॒सिम् । कृ॒ण्वा॒नः । ओष॑धीः । बप्स॑त् । अ॒ग्निः । न । वा॒य॒ति॒ ।
पुनः॑ । यन् । तरु॑णीः । अपि॑ ॥धासिम् । कृण्वानः । ओषधीः । बप्सत् । अग्निः । न । वायति ।
पुनः । यन् । तरुणीः । अपि ॥dhāsím ǀ kṛṇvānáḥ ǀ óṣadhīḥ ǀ bápsat ǀ agníḥ ǀ ná ǀ vāyati ǀ
púnaḥ ǀ yán ǀ táruṇīḥ ǀ ápi ǁdhāsim ǀ kṛṇvānaḥ ǀ oṣadhīḥ ǀ bapsat ǀ agniḥ ǀ na ǀ vāyati ǀ
punaḥ ǀ yan ǀ taruṇīḥ ǀ api ǁ8.43.7 Aṣṭaka 6.3.30.2Anuvāka 8.6.7
-
Ṛk 8
जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जंजणा॒भव॑न् ।
अ॒ग्निर्वने॑षु रोचते ॥जिह्वाभिर् अह नन्नमद् अर्चिषा जञ्जणाभवन् |
अग्निर् वनेषु रोचते ||jihvā́bhiráha nánnamadarcíṣā jañjaṇābhávan ǀ
agnírváneṣu rocate ǁjihvābhir aha nannamad arciṣā jañjaṇābhavan |
agnir vaneṣu rocate ||जि॒ह्वाभिः॑ । अह॑ । नन्न॑मत् । अ॒र्चिषा॑ । ज॒ञ्ज॒णा॒ऽभव॑न् ।
अ॒ग्निः । वने॑षु । रो॒च॒ते॒ ॥जिह्वाभिः । अह । नन्नमत् । अर्चिषा । जञ्जणाऽभवन् ।
अग्निः । वनेषु । रोचते ॥jihvā́bhiḥ ǀ áha ǀ nánnamat ǀ arcíṣā ǀ jañjaṇā-bhávan ǀ
agníḥ ǀ váneṣu ǀ rocate ǁjihvābhiḥ ǀ aha ǀ nannamat ǀ arciṣā ǀ jañjaṇā-bhavan ǀ
agniḥ ǀ vaneṣu ǀ rocate ǁ8.43.8 Aṣṭaka 6.3.30.3Anuvāka 8.6.8
-
Ṛk 9
अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।
गर्भे॒ संजा॑यसे॒ पुनः॑ ॥अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे |
गर्भे सञ् जायसे पुनः ||apsvágne sádhiṣṭáva sáuṣadhīránu rudhyase ǀ
gárbhe sáñjāyase púnaḥ ǁapsv agne sadhiṣ ṭava sauṣadhīr anu rudhyase |
garbhe sañ jāyase punaḥ ||अ॒प्ऽसु । अ॒ग्ने॒ । सधिः॑ । तव॑ । सः । ओष॑धीः । अनु॑ । रु॒ध्य॒से॒ ।
गर्भे॑ । सन् । जा॒य॒से॒ । पुन॒रिति॑ ॥अप्ऽसु । अग्ने । सधिः । तव । सः । ओषधीः । अनु । रुध्यसे ।
गर्भे । सन् । जायसे । पुनरिति ॥ap-sú ǀ agne ǀ sádhiḥ ǀ táva ǀ sáḥ ǀ óṣadhīḥ ǀ ánu ǀ rudhyase ǀ
gárbhe ǀ sán ǀ jāyase ǀ púnaríti ǁap-su ǀ agne ǀ sadhiḥ ǀ tava ǀ saḥ ǀ oṣadhīḥ ǀ anu ǀ rudhyase ǀ
garbhe ǀ san ǀ jāyase ǀ punariti ǁ8.43.9 Aṣṭaka 6.3.30.4Anuvāka 8.6.9
-
Ṛk 10
उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तं ।
निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥उद् अग्ने तव तद् घृताद् अर्ची रोचत आहुतम् |
निंसानं जुह्वो मुखे ||údagne táva tádghṛtā́darcī́ rocata ā́hutam ǀ
níṃsānam juhvó múkhe ǁud agne tava tad ghṛtād arcī rocata āhutam |
niṃsānaṃ juhvo mukhe ||उत् । अ॒ग्ने॒ । तव॑ । तत् । घृ॒तात् । अ॒र्चिः । रो॒च॒ते॒ । आऽहु॑तम् ।
निंसा॑नम् । जु॒ह्वः॑ । मुखे॑ ॥उत् । अग्ने । तव । तत् । घृतात् । अर्चिः । रोचते । आऽहुतम् ।
निंसानम् । जुह्वः । मुखे ॥út ǀ agne ǀ táva ǀ tát ǀ ghṛtā́t ǀ arcíḥ ǀ rocate ǀ ā́-hutam ǀ
níṃsānam ǀ juhváḥ ǀ múkhe ǁut ǀ agne ǀ tava ǀ tat ǀ ghṛtāt ǀ arciḥ ǀ rocate ǀ ā-hutam ǀ
niṃsānam ǀ juhvaḥ ǀ mukhe ǁ8.43.10 Aṣṭaka 6.3.30.5Anuvāka 8.6.10
-
Ṛk 11
उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ ।
स्तोमै॑र्विधेमा॒ग्नये॑ ॥उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे |
स्तोमैर् विधेमाग्नये ||ukṣā́nnāya vaśā́nnāya sómapṛṣṭhāya vedháse ǀ
stómairvidhemāgnáye ǁukṣānnāya vaśānnāya somapṛṣṭhāya vedhase |
stomair vidhemāgnaye ||उ॒क्षऽअ॑न्नाय । व॒शाऽअ॑न्नाय । सोम॑ऽपृष्ठाय । वे॒धसे॑ ।
स्तोमैः॑ । वि॒धे॒म॒ । अ॒ग्नये॑ ॥उक्षऽअन्नाय । वशाऽअन्नाय । सोमऽपृष्ठाय । वेधसे ।
स्तोमैः । विधेम । अग्नये ॥ukṣá-annāya ǀ vaśā́-annāya ǀ sóma-pṛṣṭhāya ǀ vedháse ǀ
stómaiḥ ǀ vidhema ǀ agnáye ǁukṣa-annāya ǀ vaśā-annāya ǀ soma-pṛṣṭhāya ǀ vedhase ǀ
stomaiḥ ǀ vidhema ǀ agnaye ǁ8.43.11 Aṣṭaka 6.3.31.1Anuvāka 8.6.11
-
Ṛk 12
उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो ।
अग्ने॑ स॒मिद्भि॑रीमहे ॥उत त्वा नमसा वयं होतर् वरेण्यक्रतो |
अग्ने समिद्भिर् ईमहे ||utá tvā námasā vayám hótarváreṇyakrato ǀ
ágne samídbhirīmahe ǁuta tvā namasā vayaṃ hotar vareṇyakrato |
agne samidbhir īmahe ||उ॒त । त्वा॒ । नम॑सा । व॒यम् । होतः॑ । वरे॑ण्यक्रतो॒ इति॒ वरे॑ण्यऽक्रतो ।
अग्ने॑ । स॒मित्ऽभिः॑ । ई॒म॒हे॒ ॥उत । त्वा । नमसा । वयम् । होतः । वरेण्यक्रतो इति वरेण्यऽक्रतो ।
अग्ने । समित्ऽभिः । ईमहे ॥utá ǀ tvā ǀ námasā ǀ vayám ǀ hótaḥ ǀ váreṇyakrato íti váreṇya-krato ǀ
ágne ǀ samít-bhiḥ ǀ īmahe ǁuta ǀ tvā ǀ namasā ǀ vayam ǀ hotaḥ ǀ vareṇyakrato iti vareṇya-krato ǀ
agne ǀ samit-bhiḥ ǀ īmahe ǁ8.43.12 Aṣṭaka 6.3.31.2Anuvāka 8.6.12
-
Ṛk 13
उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत ।
अं॒गि॒र॒स्वद्ध॑वामहे ॥उत त्वा भृगुवच् छुचे मनुष्वद् अग्न आहुत |
अङ्गिरस्वद् धवामहे ||utá tvā bhṛguvácchuce manuṣvádagna āhuta ǀ
aṅgirasváddhavāmahe ǁuta tvā bhṛguvac chuce manuṣvad agna āhuta |
aṅgirasvad dhavāmahe ||उ॒त । त्वा॒ । भृ॒गु॒ऽवत् । शु॒चे॒ । म॒नु॒ष्वत् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ ।
अ॒ङ्गि॒र॒स्वत् । ह॒वा॒म॒हे॒ ॥उत । त्वा । भृगुऽवत् । शुचे । मनुष्वत् । अग्ने । आऽहुत ।
अङ्गिरस्वत् । हवामहे ॥utá ǀ tvā ǀ bhṛgu-vát ǀ śuce ǀ manuṣvát ǀ agne ǀ ā-huta ǀ
aṅgirasvát ǀ havāmahe ǁuta ǀ tvā ǀ bhṛgu-vat ǀ śuce ǀ manuṣvat ǀ agne ǀ ā-huta ǀ
aṅgirasvat ǀ havāmahe ǁ8.43.13 Aṣṭaka 6.3.31.3Anuvāka 8.6.13
-
Ṛk 14
त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता ।
सखा॒ सख्या॑ समि॒ध्यसे॑ ॥त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता |
सखा सख्या समिध्यसे ||tvám hyágne agnínā vípro vípreṇa sántsatā́ ǀ
sákhā sákhyā samidhyáse ǁtvaṃ hy agne agninā vipro vipreṇa san satā |
sakhā sakhyā samidhyase ||त्वम् । हि । अ॒ग्ने॒ । अ॒ग्निना॑ । विप्रः॑ । विप्रे॑ण । सन् । स॒ता ।
सखा॑ । सख्या॑ । स॒म्ऽइ॒ध्यसे॑ ॥त्वम् । हि । अग्ने । अग्निना । विप्रः । विप्रेण । सन् । सता ।
सखा । सख्या । सम्ऽइध्यसे ॥tvám ǀ hí ǀ agne ǀ agnínā ǀ vípraḥ ǀ vípreṇa ǀ sán ǀ satā́ ǀ
sákhā ǀ sákhyā ǀ sam-idhyáse ǁtvam ǀ hi ǀ agne ǀ agninā ǀ vipraḥ ǀ vipreṇa ǀ san ǀ satā ǀ
sakhā ǀ sakhyā ǀ sam-idhyase ǁ8.43.14 Aṣṭaka 6.3.31.4Anuvāka 8.6.14
-
Ṛk 15
स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिणं॑ ।
अग्ने॑ वी॒रव॑ती॒मिषं॑ ॥स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् |
अग्ने वीरवतीम् इषम् ||sá tvám víprāya dāśúṣe rayím dehi sahasríṇam ǀ
ágne vīrávatīmíṣam ǁsa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam |
agne vīravatīm iṣam ||सः । त्वम् । विप्रा॑य । दा॒शुषे॑ । र॒यिम् । दे॒हि॒ । स॒ह॒स्रिण॑म् ।
अग्ने॑ । वी॒रऽव॑तीम् । इष॑म् ॥सः । त्वम् । विप्राय । दाशुषे । रयिम् । देहि । सहस्रिणम् ।
अग्ने । वीरऽवतीम् । इषम् ॥sáḥ ǀ tvám ǀ víprāya ǀ dāśúṣe ǀ rayím ǀ dehi ǀ sahasríṇam ǀ
ágne ǀ vīrá-vatīm ǀ íṣam ǁsaḥ ǀ tvam ǀ viprāya ǀ dāśuṣe ǀ rayim ǀ dehi ǀ sahasriṇam ǀ
agne ǀ vīra-vatīm ǀ iṣam ǁ8.43.15 Aṣṭaka 6.3.31.5Anuvāka 8.6.15
-
Ṛk 16
अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत ।
इ॒मं स्तोमं॑ जुषस्व मे ॥अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत |
इमं स्तोमं जुषस्व मे ||ágne bhrā́taḥ sáhaskṛta róhidaśva śúcivrata ǀ
imám stómam juṣasva me ǁagne bhrātaḥ sahaskṛta rohidaśva śucivrata |
imaṃ stomaṃ juṣasva me ||अग्ने॑ । भ्रात॒रिति॑ । सहः॑ऽकृत । रोहि॑त्ऽअश्व । शुचि॑ऽव्रत ।
इ॒मम् । स्तोम॑म् । जु॒ष॒स्व॒ । मे॒ ॥अग्ने । भ्रातरिति । सहःऽकृत । रोहित्ऽअश्व । शुचिऽव्रत ।
इमम् । स्तोमम् । जुषस्व । मे ॥ágne ǀ bhrā́taríti ǀ sáhaḥ-kṛta ǀ róhit-aśva ǀ śúci-vrata ǀ
imám ǀ stómam ǀ juṣasva ǀ me ǁagne ǀ bhrātariti ǀ sahaḥ-kṛta ǀ rohit-aśva ǀ śuci-vrata ǀ
imam ǀ stomam ǀ juṣasva ǀ me ǁ8.43.16 Aṣṭaka 6.3.32.1Anuvāka 8.6.16
-
Ṛk 17
उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते ।
गो॒ष्ठं गाव॑ इवाशत ॥उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते |
गोष्ठं गाव इवाशत ||utá tvāgne máma stúto vāśrā́ya pratiháryate ǀ
goṣṭhám gā́va ivāśata ǁuta tvāgne mama stuto vāśrāya pratiharyate |
goṣṭhaṃ gāva ivāśata ||उ॒त । त्वा॒ । अ॒ग्ने॒ । मम॑ । स्तुतः॑ । वा॒श्राय॑ । प्र॒ति॒ऽहर्य॑ते ।
गो॒ऽस्थम् । गावः॑ऽइव । आ॒श॒त॒ ॥उत । त्वा । अग्ने । मम । स्तुतः । वाश्राय । प्रतिऽहर्यते ।
गोऽस्थम् । गावःऽइव । आशत ॥utá ǀ tvā ǀ agne ǀ máma ǀ stútaḥ ǀ vāśrā́ya ǀ prati-háryate ǀ
go-sthám ǀ gā́vaḥ-iva ǀ āśata ǁuta ǀ tvā ǀ agne ǀ mama ǀ stutaḥ ǀ vāśrāya ǀ prati-haryate ǀ
go-stham ǀ gāvaḥ-iva ǀ āśata ǁ8.43.17 Aṣṭaka 6.3.32.2Anuvāka 8.6.17
-
Ṛk 18
तुभ्यं॒ ता अं॑गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।
अग्ने॒ कामा॑य येमिरे ॥तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् |
अग्ने कामाय येमिरे ||túbhyam tā́ aṅgirastama víśvāḥ sukṣitáyaḥ pṛ́thak ǀ
ágne kā́māya yemire ǁtubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak |
agne kāmāya yemire ||तुभ्य॑म् । ताः । अ॒ङ्गि॒रः॒ऽत॒म॒ । विश्वाः॑ । सु॒ऽक्षि॒तयः॑ । पृथ॑क् ।
अग्ने॑ । कामा॑य । ये॒मि॒रे॒ ॥तुभ्यम् । ताः । अङ्गिरःऽतम । विश्वाः । सुऽक्षितयः । पृथक् ।
अग्ने । कामाय । येमिरे ॥túbhyam ǀ tā́ḥ ǀ aṅgiraḥ-tama ǀ víśvāḥ ǀ su-kṣitáyaḥ ǀ pṛ́thak ǀ
ágne ǀ kā́māya ǀ yemire ǁtubhyam ǀ tāḥ ǀ aṅgiraḥ-tama ǀ viśvāḥ ǀ su-kṣitayaḥ ǀ pṛthak ǀ
agne ǀ kāmāya ǀ yemire ǁ8.43.18 Aṣṭaka 6.3.32.3Anuvāka 8.6.18
-
Ṛk 19
अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ ।
अ॒द्म॒सद्या॑य हिन्विरे ॥अग्निं धीभिर् मनीषिणो मेधिरासो विपश्चितः |
अद्मसद्याय हिन्विरे ||agním dhībhírmanīṣíṇo médhirāso vipaścítaḥ ǀ
admasádyāya hinvire ǁagniṃ dhībhir manīṣiṇo medhirāso vipaścitaḥ |
admasadyāya hinvire ||अ॒ग्निम् । धी॒भिः । म॒नी॒षिणः॑ । मेधि॑रासः । वि॒पः॒ऽचितः॑ ।
अ॒द्म॒ऽसद्या॑य । हि॒न्वि॒रे॒ ॥अग्निम् । धीभिः । मनीषिणः । मेधिरासः । विपःऽचितः ।
अद्मऽसद्याय । हिन्विरे ॥agním ǀ dhībhíḥ ǀ manīṣíṇaḥ ǀ médhirāsaḥ ǀ vipaḥ-cítaḥ ǀ
adma-sádyāya ǀ hinvire ǁagnim ǀ dhībhiḥ ǀ manīṣiṇaḥ ǀ medhirāsaḥ ǀ vipaḥ-citaḥ ǀ
adma-sadyāya ǀ hinvire ǁ8.43.19 Aṣṭaka 6.3.32.4Anuvāka 8.6.19
-
Ṛk 20
तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रं ।
वह्निं॒ होता॑रमीळते ॥तं त्वाम् अज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् |
वह्निं होतारम् ईऌअते ||tám tvā́májmeṣu vājínam tanvānā́ agne adhvarám ǀ
váhnim hótāramīḷate ǁtaṃ tvām ajmeṣu vājinaṃ tanvānā agne adhvaram |
vahniṃ hotāram īḷate ||तम् । त्वाम् । अज्मे॑षु । वा॒जिन॑म् । त॒न्वा॒नाः । अ॒ग्ने॒ । अ॒ध्व॒रम् ।
वह्नि॑म् । होता॑रम् । ई॒ळ॒ते॒ ॥तम् । त्वाम् । अज्मेषु । वाजिनम् । तन्वानाः । अग्ने । अध्वरम् ।
वह्निम् । होतारम् । ईळते ॥tám ǀ tvā́m ǀ ájmeṣu ǀ vājínam ǀ tanvānā́ḥ ǀ agne ǀ adhvarám ǀ
váhnim ǀ hótāram ǀ īḷate ǁtam ǀ tvām ǀ ajmeṣu ǀ vājinam ǀ tanvānāḥ ǀ agne ǀ adhvaram ǀ
vahnim ǀ hotāram ǀ īḷate ǁ8.43.20 Aṣṭaka 6.3.32.5Anuvāka 8.6.20
-
Ṛk 21
पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
स॒मत्सु॑ त्वा हवामहे ॥पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः |
समत्सु त्वा हवामहे ||purutrā́ hí sadṛ́ṅṅási víśo víśvā ánu prabhúḥ ǀ
samátsu tvā havāmahe ǁpurutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ |
samatsu tvā havāmahe ||पु॒रु॒ऽत्रा । हि । स॒ऽदृङ् । असि॑ । विशः॑ । विश्वाः॑ । अनु॑ । प्र॒ऽभुः ।
स॒मत्ऽसु॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥पुरुऽत्रा । हि । सऽदृङ् । असि । विशः । विश्वाः । अनु । प्रऽभुः ।
समत्ऽसु । त्वा । हवामहे ॥puru-trā́ ǀ hí ǀ sa-dṛ́ṅ ǀ ási ǀ víśaḥ ǀ víśvāḥ ǀ ánu ǀ pra-bhúḥ ǀ
samát-su ǀ tvā ǀ havāmahe ǁpuru-trā ǀ hi ǀ sa-dṛṅ ǀ asi ǀ viśaḥ ǀ viśvāḥ ǀ anu ǀ pra-bhuḥ ǀ
samat-su ǀ tvā ǀ havāmahe ǁ8.43.21 Aṣṭaka 6.3.33.1Anuvāka 8.6.21
-
Ṛk 22
तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः ।
इ॒मं नः॑ शृणव॒द्धवं॑ ॥तम् ईऌइष्व य आहुतो ऽग्निर् विभ्राजते घृतैः |
इमं नः शृणवद् धवम् ||támīḷiṣva yá ā́huto’gnírvibhrā́jate ghṛtáiḥ ǀ
imám naḥ śṛṇavaddhávam ǁtam īḷiṣva ya āhuto 'gnir vibhrājate ghṛtaiḥ |
imaṃ naḥ śṛṇavad dhavam ||तम् । ई॒ळि॒ष्व॒ । यः । आऽहु॑तः । अ॒ग्निः । वि॒ऽभ्राज॑ते । घृ॒तैः ।
इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥तम् । ईळिष्व । यः । आऽहुतः । अग्निः । विऽभ्राजते । घृतैः ।
इमम् । नः । शृणवत् । हवम् ॥tám ǀ īḷiṣva ǀ yáḥ ǀ ā́-hutaḥ ǀ agníḥ ǀ vi-bhrā́jate ǀ ghṛtáiḥ ǀ
imám ǀ naḥ ǀ śṛṇavat ǀ hávam ǁtam ǀ īḷiṣva ǀ yaḥ ǀ ā-hutaḥ ǀ agniḥ ǀ vi-bhrājate ǀ ghṛtaiḥ ǀ
imam ǀ naḥ ǀ śṛṇavat ǀ havam ǁ8.43.22 Aṣṭaka 6.3.33.2Anuvāka 8.6.22
-
Ṛk 23
तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वंतं॑ जा॒तवे॑दसं ।
अग्ने॒ घ्नंत॒मप॒ द्विषः॑ ॥तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् |
अग्ने घ्नन्तम् अप द्विषः ||tám tvā vayám havāmahe śṛṇvántam jātávedasam ǀ
ágne ghnántamápa dvíṣaḥ ǁtaṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam |
agne ghnantam apa dviṣaḥ ||तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ । शृ॒ण्वन्त॑म् । जा॒तऽवे॑दसम् ।
अग्ने॑ । घ्नन्त॑म् । अप॑ । द्विषः॑ ॥तम् । त्वा । वयम् । हवामहे । शृण्वन्तम् । जातऽवेदसम् ।
अग्ने । घ्नन्तम् । अप । द्विषः ॥tám ǀ tvā ǀ vayám ǀ havāmahe ǀ śṛṇvántam ǀ jātá-vedasam ǀ
ágne ǀ ghnántam ǀ ápa ǀ dvíṣaḥ ǁtam ǀ tvā ǀ vayam ǀ havāmahe ǀ śṛṇvantam ǀ jāta-vedasam ǀ
agne ǀ ghnantam ǀ apa ǀ dviṣaḥ ǁ8.43.23 Aṣṭaka 6.3.33.3Anuvāka 8.6.23
-
Ṛk 24
वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मं ।
अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥विशां राजानम् अद्भुतम् अध्यक्षं धर्मणाम् इमम् |
अग्निम् ईळे स उ श्रवत् ||viśā́m rā́jānamádbhutamádhyakṣam dhármaṇāmimám ǀ
agnímīḷe sá u śravat ǁviśāṃ rājānam adbhutam adhyakṣaṃ dharmaṇām imam |
agnim īḷe sa u śravat ||वि॒शाम् । राजा॑नम् । अद्भु॑तम् । अधि॑ऽअक्षम् । धर्म॑णाम् । इ॒मम् ।
अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति॑ । श्र॒व॒त् ॥विशाम् । राजानम् । अद्भुतम् । अधिऽअक्षम् । धर्मणाम् । इमम् ।
अग्निम् । ईळे । सः । ऊं इति । श्रवत् ॥viśā́m ǀ rā́jānam ǀ ádbhutam ǀ ádhi-akṣam ǀ dhármaṇām ǀ imám ǀ
agním ǀ īḷe ǀ sáḥ ǀ ūṃ íti ǀ śravat ǁviśām ǀ rājānam ǀ adbhutam ǀ adhi-akṣam ǀ dharmaṇām ǀ imam ǀ
agnim ǀ īḷe ǀ saḥ ǀ ūṃ iti ǀ śravat ǁ8.43.24 Aṣṭaka 6.3.33.4Anuvāka 8.6.24
-
Ṛk 25
अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तं ।
सप्तिं॒ न वा॑जयामसि ॥अग्निं विश्वायुवेपसम् मर्यं न वाजिनं हितम् |
सप्तिं न वाजयामसि ||agním viśvā́yuvepasam máryam ná vājínam hitám ǀ
sáptim ná vājayāmasi ǁagniṃ viśvāyuvepasam maryaṃ na vājinaṃ hitam |
saptiṃ na vājayāmasi ||अ॒ग्निम् । वि॒श्वायु॑ऽवेपसम् । मर्य॑म् । न । वा॒जिन॑म् । हि॒तम् ।
सप्ति॑म् । न । वा॒ज॒या॒म॒सि॒ ॥अग्निम् । विश्वायुऽवेपसम् । मर्यम् । न । वाजिनम् । हितम् ।
सप्तिम् । न । वाजयामसि ॥agním ǀ viśvā́yu-vepasam ǀ máryam ǀ ná ǀ vājínam ǀ hitám ǀ
sáptim ǀ ná ǀ vājayāmasi ǁagnim ǀ viśvāyu-vepasam ǀ maryam ǀ na ǀ vājinam ǀ hitam ǀ
saptim ǀ na ǀ vājayāmasi ǁ8.43.25 Aṣṭaka 6.3.33.5Anuvāka 8.6.25
-
Ṛk 26
घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ ।
अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥घ्नन् मृध्राण्य् अप द्विषो दहन् रक्षांसि विश्वहा |
अग्ने तिग्मेन दीदिहि ||ghnánmṛdhrā́ṇyápa dvíṣo dáhanrákṣāṃsi viśváhā ǀ
ágne tigména dīdihi ǁghnan mṛdhrāṇy apa dviṣo dahan rakṣāṃsi viśvahā |
agne tigmena dīdihi ||घ्नन् । मृ॒ध्राणि॑ । अप॑ । द्विषः॑ । दह॑न् । रक्षां॑सि । वि॒श्वहा॑ ।
अग्ने॑ । ति॒ग्मेन॑ । दी॒दि॒हि॒ ॥घ्नन् । मृध्राणि । अप । द्विषः । दहन् । रक्षांसि । विश्वहा ।
अग्ने । तिग्मेन । दीदिहि ॥ghnán ǀ mṛdhrā́ṇi ǀ ápa ǀ dvíṣaḥ ǀ dáhan ǀ rákṣāṃsi ǀ viśváhā ǀ
ágne ǀ tigména ǀ dīdihi ǁghnan ǀ mṛdhrāṇi ǀ apa ǀ dviṣaḥ ǀ dahan ǀ rakṣāṃsi ǀ viśvahā ǀ
agne ǀ tigmena ǀ dīdihi ǁ8.43.26 Aṣṭaka 6.3.34.1Anuvāka 8.6.26
-
Ṛk 27
यं त्वा॒ जना॑स इंध॒ते म॑नु॒ष्वदं॑गिरस्तम ।
अग्ने॒ स बो॑धि मे॒ वचः॑ ॥यं त्वा जनास इन्धते मनुष्वद् अङ्गिरस्तम |
अग्ने स बोधि मे वचः ||yám tvā jánāsa indhaté manuṣvádaṅgirastama ǀ
ágne sá bodhi me vácaḥ ǁyaṃ tvā janāsa indhate manuṣvad aṅgirastama |
agne sa bodhi me vacaḥ ||यम् । त्वा॒ । जना॑सः । इ॒न्ध॒ते । म॒नु॒ष्वत् । अ॒ङ्गि॒रः॒ऽत॒म॒ ।
अग्ने॑ । सः । बो॒धि॒ । मे॒ । वचः॑ ॥यम् । त्वा । जनासः । इन्धते । मनुष्वत् । अङ्गिरःऽतम ।
अग्ने । सः । बोधि । मे । वचः ॥yám ǀ tvā ǀ jánāsaḥ ǀ indhaté ǀ manuṣvát ǀ aṅgiraḥ-tama ǀ
ágne ǀ sáḥ ǀ bodhi ǀ me ǀ vácaḥ ǁyam ǀ tvā ǀ janāsaḥ ǀ indhate ǀ manuṣvat ǀ aṅgiraḥ-tama ǀ
agne ǀ saḥ ǀ bodhi ǀ me ǀ vacaḥ ǁ8.43.27 Aṣṭaka 6.3.34.2Anuvāka 8.6.27
-
Ṛk 28
यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत ।
तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥यद् अग्ने दिविजा अस्य् अप्सुजा वा सहस्कृत |
तं त्वा गीर्भिर् हवामहे ||yádagne divijā́ ásyapsujā́ vā sahaskṛta ǀ
tám tvā gīrbhírhavāmahe ǁyad agne divijā asy apsujā vā sahaskṛta |
taṃ tvā gīrbhir havāmahe ||यत् । अ॒ग्ने॒ । दि॒वि॒ऽजाः । असि॑ । अ॒प्सु॒ऽजाः । वा॒ । स॒हः॒ऽकृ॒त॒ ।
तम् । त्वा॒ । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥यत् । अग्ने । दिविऽजाः । असि । अप्सुऽजाः । वा । सहःऽकृत ।
तम् । त्वा । गीःऽभिः । हवामहे ॥yát ǀ agne ǀ divi-jā́ḥ ǀ ási ǀ apsu-jā́ḥ ǀ vā ǀ sahaḥ-kṛta ǀ
tám ǀ tvā ǀ gīḥ-bhíḥ ǀ havāmahe ǁyat ǀ agne ǀ divi-jāḥ ǀ asi ǀ apsu-jāḥ ǀ vā ǀ sahaḥ-kṛta ǀ
tam ǀ tvā ǀ gīḥ-bhiḥ ǀ havāmahe ǁ8.43.28 Aṣṭaka 6.3.34.3Anuvāka 8.6.28
-
Ṛk 29
तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।
धा॒सिं हि॑न्वं॒त्यत्त॑वे ॥तुभ्यं घेत् ते जना इमे विश्वाः सुक्षितयः पृथक् |
धासिं हिन्वन्त्य् अत्तवे ||túbhyam ghétté jánā imé víśvāḥ sukṣitáyaḥ pṛ́thak ǀ
dhāsím hinvantyáttave ǁtubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak |
dhāsiṃ hinvanty attave ||तुभ्य॑म् । घ॒ । इत् । ते । जनाः॑ । इ॒मे । विश्वाः॑ । सु॒ऽक्षि॒तयः॑ । पृथ॑क् ।
धा॒सिम् । हि॒न्व॒न्ति॒ । अत्त॑वे ॥तुभ्यम् । घ । इत् । ते । जनाः । इमे । विश्वाः । सुऽक्षितयः । पृथक् ।
धासिम् । हिन्वन्ति । अत्तवे ॥túbhyam ǀ gha ǀ ít ǀ té ǀ jánāḥ ǀ imé ǀ víśvāḥ ǀ su-kṣitáyaḥ ǀ pṛ́thak ǀ
dhāsím ǀ hinvanti ǀ áttave ǁtubhyam ǀ gha ǀ it ǀ te ǀ janāḥ ǀ ime ǀ viśvāḥ ǀ su-kṣitayaḥ ǀ pṛthak ǀ
dhāsim ǀ hinvanti ǀ attave ǁ8.43.29 Aṣṭaka 6.3.34.4Anuvāka 8.6.29
-
Ṛk 30
ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः ।
तरं॑तः स्याम दु॒र्गहा॑ ॥ते घेद् अग्ने स्वाध्यो ऽहा विश्वा नृचक्षसः |
तरन्तः स्याम दुर्गहा ||té ghédagne svādhyó’hā víśvā nṛcákṣasaḥ ǀ
tárantaḥ syāma durgáhā ǁte ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ |
tarantaḥ syāma durgahā ||ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः॑ । अहा॑ । विश्वा॑ । नृ॒ऽचक्ष॑सः ।
तर॑न्तः । स्या॒म॒ । दुः॒ऽगहा॑ ॥ते । घ । इत् । अग्ने । सुऽआध्यः । अहा । विश्वा । नृऽचक्षसः ।
तरन्तः । स्याम । दुःऽगहा ॥té ǀ gha ǀ ít ǀ agne ǀ su-ādhyáḥ ǀ áhā ǀ víśvā ǀ nṛ-cákṣasaḥ ǀ
tárantaḥ ǀ syāma ǀ duḥ-gáhā ǁte ǀ gha ǀ it ǀ agne ǀ su-ādhyaḥ ǀ ahā ǀ viśvā ǀ nṛ-cakṣasaḥ ǀ
tarantaḥ ǀ syāma ǀ duḥ-gahā ǁ8.43.30 Aṣṭaka 6.3.34.5Anuvāka 8.6.30
-
Ṛk 31
अ॒ग्निं मं॒द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषं ।
हृ॒द्भिर्मं॒द्रेभि॑रीमहे ॥अग्निम् मन्द्रम् पुरुप्रियं शीरम् पावकशोचिषम् |
हृद्भिर् मन्द्रेभिर् ईमहे ||agním mandrám purupriyám śīrám pāvakáśociṣam ǀ
hṛdbhírmandrébhirīmahe ǁagnim mandram purupriyaṃ śīram pāvakaśociṣam |
hṛdbhir mandrebhir īmahe ||अ॒ग्निम् । म॒न्द्रम् । पु॒रु॒ऽप्रि॒यम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् ।
हृ॒त्ऽभिः । म॒न्द्रेभिः॑ । ई॒म॒हे॒ ॥अग्निम् । मन्द्रम् । पुरुऽप्रियम् । शीरम् । पावकऽशोचिषम् ।
हृत्ऽभिः । मन्द्रेभिः । ईमहे ॥agním ǀ mandrám ǀ puru-priyám ǀ śīrám ǀ pāvaká-śociṣam ǀ
hṛt-bhíḥ ǀ mandrébhiḥ ǀ īmahe ǁagnim ǀ mandram ǀ puru-priyam ǀ śīram ǀ pāvaka-śociṣam ǀ
hṛt-bhiḥ ǀ mandrebhiḥ ǀ īmahe ǁ8.43.31 Aṣṭaka 6.3.35.1Anuvāka 8.6.31
-
Ṛk 32
स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभिः॑ ।
शर्धं॒तमां॑सि जिघ्नसे ॥स त्वम् अग्ने विभावसुः सृजन् सूर्यो न रश्मिभिः |
शर्धन् तमांसि जिघ्नसे ||sá tvámagne vibhā́vasuḥ sṛjántsū́ryo ná raśmíbhiḥ ǀ
śárdhantámāṃsi jighnase ǁsa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ |
śardhan tamāṃsi jighnase ||सः । त्वम् । अ॒ग्ने॒ । वि॒भाऽव॑सुः । सृ॒जन् । सूर्यः॑ । न । र॒श्मिऽभिः॑ ।
शर्ध॑न् । तमां॑सि । जि॒घ्न॒से॒ ॥सः । त्वम् । अग्ने । विभाऽवसुः । सृजन् । सूर्यः । न । रश्मिऽभिः ।
शर्धन् । तमांसि । जिघ्नसे ॥sáḥ ǀ tvám ǀ agne ǀ vibhā́-vasuḥ ǀ sṛján ǀ sū́ryaḥ ǀ ná ǀ raśmí-bhiḥ ǀ
śárdhan ǀ támāṃsi ǀ jighnase ǁsaḥ ǀ tvam ǀ agne ǀ vibhā-vasuḥ ǀ sṛjan ǀ sūryaḥ ǀ na ǀ raśmi-bhiḥ ǀ
śardhan ǀ tamāṃsi ǀ jighnase ǁ8.43.32 Aṣṭaka 6.3.35.2Anuvāka 8.6.32
-
Ṛk 33
तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति ।
त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥तत् ते सहस्व ईमहे दात्रं यन् नोपदस्यति |
त्वद् अग्ने वार्यं वसु ||tátte sahasva īmahe dātrám yánnópadásyati ǀ
tvádagne vā́ryam vásu ǁtat te sahasva īmahe dātraṃ yan nopadasyati |
tvad agne vāryaṃ vasu ||तत् । ते॒ । स॒ह॒स्वः॒ । ई॒म॒हे॒ । दा॒त्रम् । यत् । न । उ॒प॒ऽदस्य॑ति ।
त्वत् । अ॒ग्ने॒ । वार्य॑म् । वसु॑ ॥तत् । ते । सहस्वः । ईमहे । दात्रम् । यत् । न । उपऽदस्यति ।
त्वत् । अग्ने । वार्यम् । वसु ॥tát ǀ te ǀ sahasvaḥ ǀ īmahe ǀ dātrám ǀ yát ǀ ná ǀ upa-dásyati ǀ
tvát ǀ agne ǀ vā́ryam ǀ vásu ǁtat ǀ te ǀ sahasvaḥ ǀ īmahe ǀ dātram ǀ yat ǀ na ǀ upa-dasyati ǀ
tvat ǀ agne ǀ vāryam ǀ vasu ǁ8.43.33 Aṣṭaka 6.3.35.3Anuvāka 8.6.33
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.