Sūkta 48
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles triṣṭup (4, 6, 10, 11, 14); virāṭtrisṭup (3, 7-9); pādanicṛttriṣṭup (1, 2, 13); paṅktiḥ (12, 15); virāṭjagatī (5)
2nd set of styles triṣṭubh (1-4, 6-15); jagatī (5)
-
Ṛk 1
स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य ।
विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वंतो॑ अ॒भि सं॒चरं॑ति ॥स्वादोर् अभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य |
विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ||svādórabhakṣi váyasaḥ sumedhā́ḥ svādhyó varivovíttarasya ǀ
víśve yám devā́ utá mártyāso mádhu bruvánto abhí saṃcáranti ǁsvādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya |
viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti ||स्वा॒दोः । अ॒भ॒क्षि॒ । वय॑सः । सु॒ऽमे॒धाः । सु॒ऽआ॒ध्यः॑ । व॒रि॒वो॒वित्ऽत॑रस्य ।
विश्वे॑ । यम् । दे॒वाः । उ॒त । मर्त्या॑सः । मधु॑ । ब्रु॒वन्तः॑ । अ॒भि । स॒म्ऽचर॑न्ति ॥स्वादोः । अभक्षि । वयसः । सुऽमेधाः । सुऽआध्यः । वरिवोवित्ऽतरस्य ।
विश्वे । यम् । देवाः । उत । मर्त्यासः । मधु । ब्रुवन्तः । अभि । सम्ऽचरन्ति ॥svādóḥ ǀ abhakṣi ǀ váyasaḥ ǀ su-medhā́ḥ ǀ su-ādhyáḥ ǀ varivovít-tarasya ǀ
víśve ǀ yám ǀ devā́ḥ ǀ utá ǀ mártyāsaḥ ǀ mádhu ǀ bruvántaḥ ǀ abhí ǀ sam-cáranti ǁsvādoḥ ǀ abhakṣi ǀ vayasaḥ ǀ su-medhāḥ ǀ su-ādhyaḥ ǀ varivovit-tarasya ǀ
viśve ǀ yam ǀ devāḥ ǀ uta ǀ martyāsaḥ ǀ madhu ǀ bruvantaḥ ǀ abhi ǀ sam-caranti ǁ8.48.1 Aṣṭaka 6.4.11.1Anuvāka 8.6.157
-
Ṛk 2
अं॒तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य ।
इंद॒विंद्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥अन्तश् च प्रागा अदितिर् भवास्य् अवयाता हरसो दैव्यस्य |
इन्दव् इन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरम् अनु राय ऋध्याः ||antáśca prā́gā áditirbhavāsyavayātā́ háraso dáivyasya ǀ
índavíndrasya sakhyám juṣāṇáḥ śráuṣṭīva dhúramánu rāyá ṛdhyāḥ ǁantaś ca prāgā aditir bhavāsy avayātā haraso daivyasya |
indav indrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ ||अ॒न्तरिति॑ । च॒ । प्र । अगाः॑ । अदि॑तिः । भ॒वा॒सि॒ । अ॒व॒ऽया॒ता । हर॑सः । दैव्य॑स्य ।
इन्दो॒ इति॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । श्रौष्टी॑ऽइव । धुर॑म् । अनु॑ । रा॒ये । ऋ॒ध्याः॒ ॥अन्तरिति । च । प्र । अगाः । अदितिः । भवासि । अवऽयाता । हरसः । दैव्यस्य ।
इन्दो इति । इन्द्रस्य । सख्यम् । जुषाणः । श्रौष्टीऽइव । धुरम् । अनु । राये । ऋध्याः ॥antáríti ǀ ca ǀ prá ǀ ágāḥ ǀ áditiḥ ǀ bhavāsi ǀ ava-yātā́ ǀ hárasaḥ ǀ dáivyasya ǀ
índo íti ǀ índrasya ǀ sakhyám ǀ juṣāṇáḥ ǀ śráuṣṭī-iva ǀ dhúram ǀ ánu ǀ rāyé ǀ ṛdhyāḥ ǁantariti ǀ ca ǀ pra ǀ agāḥ ǀ aditiḥ ǀ bhavāsi ǀ ava-yātā ǀ harasaḥ ǀ daivyasya ǀ
indo iti ǀ indrasya ǀ sakhyam ǀ juṣāṇaḥ ǀ śrauṣṭī-iva ǀ dhuram ǀ anu ǀ rāye ǀ ṛdhyāḥ ǁ8.48.2 Aṣṭaka 6.4.11.2Anuvāka 8.6.158
-
Ṛk 3
अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।
किं नू॒नम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् |
किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ||ápāma sómamamṛ́tā abhūmā́ganma jyótirávidāma devā́n ǀ
kím nūnámasmā́nkṛṇavadárātiḥ kímu dhūrtíramṛta mártyasya ǁapāma somam amṛtā abhūmāganma jyotir avidāma devān |
kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya ||अपा॑म । सोम॑म् । अ॒मृताः॑ । अ॒भू॒म॒ । अग॑न्म । ज्योतिः॑ । अवि॑दाम । दे॒वान् ।
किम् । नू॒नम् । अ॒स्मान् । कृ॒ण॒व॒त् । अरा॑तिः । किम् । ऊं॒ इति॑ । धू॒र्तिः । अ॒मृ॒त॒ । मर्त्य॑स्य ॥अपाम । सोमम् । अमृताः । अभूम । अगन्म । ज्योतिः । अविदाम । देवान् ।
किम् । नूनम् । अस्मान् । कृणवत् । अरातिः । किम् । ऊं इति । धूर्तिः । अमृत । मर्त्यस्य ॥ápāma ǀ sómam ǀ amṛ́tāḥ ǀ abhūma ǀ áganma ǀ jyótiḥ ǀ ávidāma ǀ devā́n ǀ
kím ǀ nūnám ǀ asmā́n ǀ kṛṇavat ǀ árātiḥ ǀ kím ǀ ūṃ íti ǀ dhūrtíḥ ǀ amṛta ǀ mártyasya ǁapāma ǀ somam ǀ amṛtāḥ ǀ abhūma ǀ aganma ǀ jyotiḥ ǀ avidāma ǀ devān ǀ
kim ǀ nūnam ǀ asmān ǀ kṛṇavat ǀ arātiḥ ǀ kim ǀ ūṃ iti ǀ dhūrtiḥ ǀ amṛta ǀ martyasya ǁ8.48.3 Aṣṭaka 6.4.11.3Anuvāka 8.6.159
-
Ṛk 4
शं नो॑ भव हृ॒द आ पी॒त इं॑दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ ।
सखे॑व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः |
सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः ||śám no bhava hṛdá ā́ pītá indo pitéva soma sūnáve suśévaḥ ǀ
sákheva sákhya uruśaṃsa dhī́raḥ prá ṇa ā́yurjīváse soma tārīḥ ǁśaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ |
sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ ||शम् । नः॒ । भ॒व॒ । हृ॒दे । आ । पी॒तः । इ॒न्दो॒ इति॑ । पि॒ताऽइ॑व । सो॒म॒ । सू॒नवे॑ । सु॒ऽशेवः॑ ।
सखा॑ऽइव । सख्ये॑ । उ॒रु॒ऽशं॒स॒ । धीरः॑ । प्र । नः॒ । आयुः॑ । जी॒वसे॑ । सो॒म॒ । ता॒रीः॒ ॥शम् । नः । भव । हृदे । आ । पीतः । इन्दो इति । पिताऽइव । सोम । सूनवे । सुऽशेवः ।
सखाऽइव । सख्ये । उरुऽशंस । धीरः । प्र । नः । आयुः । जीवसे । सोम । तारीः ॥śám ǀ naḥ ǀ bhava ǀ hṛdé ǀ ā́ ǀ pītáḥ ǀ indo íti ǀ pitā́-iva ǀ soma ǀ sūnáve ǀ su-śévaḥ ǀ
sákhā-iva ǀ sákhye ǀ uru-śaṃsa ǀ dhī́raḥ ǀ prá ǀ naḥ ǀ ā́yuḥ ǀ jīváse ǀ soma ǀ tārīḥ ǁśam ǀ naḥ ǀ bhava ǀ hṛde ǀ ā ǀ pītaḥ ǀ indo iti ǀ pitā-iva ǀ soma ǀ sūnave ǀ su-śevaḥ ǀ
sakhā-iva ǀ sakhye ǀ uru-śaṃsa ǀ dhīraḥ ǀ pra ǀ naḥ ǀ āyuḥ ǀ jīvase ǀ soma ǀ tārīḥ ǁ8.48.4 Aṣṭaka 6.4.11.4Anuvāka 8.6.160
-
Ṛk 5
इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गावः॒ सम॑नाह॒ पर्व॑सु ।
ते मा॑ रक्षंतु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवयं॒त्विंद॑वः ॥इमे मा पीता यशस उरुष्यवो रथं न गावः सम् अनाह पर्वसु |
ते मा रक्षन्तु विस्रसश् चरित्राद् उत मा स्रामाद् यवयन्त्व् इन्दवः ||imé mā pītā́ yaśása uruṣyávo rátham ná gā́vaḥ sámanāha párvasu ǀ
té mā rakṣantu visrásaścarítrādutá mā srā́mādyavayantvíndavaḥ ǁime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ sam anāha parvasu |
te mā rakṣantu visrasaś caritrād uta mā srāmād yavayantv indavaḥ ||इ॒मे । मा॒ । पी॒ताः । य॒शसः॑ । उ॒रु॒ष्यवः॑ । रथ॑म् । न । गावः॑ । सम् । अ॒ना॒ह॒ । पर्व॑ऽसु ।
ते । मा॒ । र॒क्ष॒न्तु॒ । वि॒ऽस्रसः॑ । च॒रित्रा॑त् । उ॒त । मा॒ । स्रामा॑त् । य॒व॒य॒न्तु॒ । इन्द॑वः ॥इमे । मा । पीताः । यशसः । उरुष्यवः । रथम् । न । गावः । सम् । अनाह । पर्वऽसु ।
ते । मा । रक्षन्तु । विऽस्रसः । चरित्रात् । उत । मा । स्रामात् । यवयन्तु । इन्दवः ॥imé ǀ mā ǀ pītā́ḥ ǀ yaśásaḥ ǀ uruṣyávaḥ ǀ rátham ǀ ná ǀ gā́vaḥ ǀ sám ǀ anāha ǀ párva-su ǀ
té ǀ mā ǀ rakṣantu ǀ vi-srásaḥ ǀ carítrāt ǀ utá ǀ mā ǀ srā́māt ǀ yavayantu ǀ índavaḥ ǁime ǀ mā ǀ pītāḥ ǀ yaśasaḥ ǀ uruṣyavaḥ ǀ ratham ǀ na ǀ gāvaḥ ǀ sam ǀ anāha ǀ parva-su ǀ
te ǀ mā ǀ rakṣantu ǀ vi-srasaḥ ǀ caritrāt ǀ uta ǀ mā ǀ srāmāt ǀ yavayantu ǀ indavaḥ ǁ8.48.5 Aṣṭaka 6.4.11.5Anuvāka 8.6.161
-
Ṛk 6
अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः ।
अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः |
अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिम् अच्छ ||agním ná mā mathitám sám didīpaḥ prá cakṣaya kṛṇuhí vásyaso naḥ ǀ
áthā hí te máda ā́ soma mánye revā́m̐ iva prá carā puṣṭímáccha ǁagniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ |
athā hi te mada ā soma manye revāṃ iva pra carā puṣṭim accha ||अ॒ग्निम् । न । मा॒ । म॒थि॒तम् । सम् । दि॒दी॒पः॒ । प्र । च॒क्ष॒य॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ ।
अथ॑ । हि । ते॒ । मदे॑ । आ । सो॒म॒ । मन्ये॑ । रे॒वान्ऽइ॑व । प्र । च॒र॒ । पु॒ष्टिम् । अच्छ॑ ॥अग्निम् । न । मा । मथितम् । सम् । दिदीपः । प्र । चक्षय । कृणुहि । वस्यसः । नः ।
अथ । हि । ते । मदे । आ । सोम । मन्ये । रेवान्ऽइव । प्र । चर । पुष्टिम् । अच्छ ॥agním ǀ ná ǀ mā ǀ mathitám ǀ sám ǀ didīpaḥ ǀ prá ǀ cakṣaya ǀ kṛṇuhí ǀ vásyasaḥ ǀ naḥ ǀ
átha ǀ hí ǀ te ǀ máde ǀ ā́ ǀ soma ǀ mánye ǀ revā́n-iva ǀ prá ǀ cara ǀ puṣṭím ǀ áccha ǁagnim ǀ na ǀ mā ǀ mathitam ǀ sam ǀ didīpaḥ ǀ pra ǀ cakṣaya ǀ kṛṇuhi ǀ vasyasaḥ ǀ naḥ ǀ
atha ǀ hi ǀ te ǀ made ǀ ā ǀ soma ǀ manye ǀ revān-iva ǀ pra ǀ cara ǀ puṣṭim ǀ accha ǁ8.48.6 Aṣṭaka 6.4.12.1Anuvāka 8.6.162
-
Ṛk 7
इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः ।
सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः |
सोम राजन् प्र ण आयूंषि तारीर् अहानीव सूर्यो वासराणि ||iṣiréṇa te mánasā sutásya bhakṣīmáhi pítryasyeva rāyáḥ ǀ
sóma rājanprá ṇa ā́yūṃṣi tārīráhānīva sū́ryo vāsarā́ṇi ǁiṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ |
soma rājan pra ṇa āyūṃṣi tārīr ahānīva sūryo vāsarāṇi ||इ॒षि॒रेण॑ । ते॒ । मन॑सा । सु॒तस्य॑ । भ॒क्षी॒महि॑ । पित्र्य॑स्यऽइव । रा॒यः ।
सोम॑ । रा॒ज॒न् । प्र । नः॒ । आयूं॑षि । ता॒रीः॒ । अहा॑निऽइव । सूर्यः॑ । वा॒स॒राणि॑ ॥इषिरेण । ते । मनसा । सुतस्य । भक्षीमहि । पित्र्यस्यऽइव । रायः ।
सोम । राजन् । प्र । नः । आयूंषि । तारीः । अहानिऽइव । सूर्यः । वासराणि ॥iṣiréṇa ǀ te ǀ mánasā ǀ sutásya ǀ bhakṣīmáhi ǀ pítryasya-iva ǀ rāyáḥ ǀ
sóma ǀ rājan ǀ prá ǀ naḥ ǀ ā́yūṃṣi ǀ tārīḥ ǀ áhāni-iva ǀ sū́ryaḥ ǀ vāsarā́ṇi ǁiṣireṇa ǀ te ǀ manasā ǀ sutasya ǀ bhakṣīmahi ǀ pitryasya-iva ǀ rāyaḥ ǀ
soma ǀ rājan ǀ pra ǀ naḥ ǀ āyūṃṣi ǀ tārīḥ ǀ ahāni-iva ǀ sūryaḥ ǀ vāsarāṇi ǁ8.48.7 Aṣṭaka 6.4.12.2Anuvāka 8.6.163
-
Ṛk 8
सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि ।
अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरिं॑दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥सोम राजन् मृऌअया नः स्वस्ति तव स्मसि व्रत्यास् तस्य विद्धि |
अलर्ति दक्ष उत मन्युर् इन्दो मा नो अर्यो अनुकामम् परा दाः ||sóma rājanmṛḷáyā naḥ svastí táva smasi vratyā́stásya viddhi ǀ
álarti dákṣa utá manyúrindo mā́ no aryó anukāmám párā dāḥ ǁsoma rājan mṛḷayā naḥ svasti tava smasi vratyās tasya viddhi |
alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ ||सोम॑ । रा॒ज॒न् । मृ॒ळय॑ । नः॒ । स्व॒स्ति । तव॑ । स्म॒सि॒ । व्र॒त्याः॑ । तस्य॑ । वि॒द्धि॒ ।
अल॑र्ति । दक्षः॑ । उ॒त । म॒न्युः । इ॒न्दो॒ इति॑ । मा । नः॒ । अ॒र्यः । अ॒नु॒ऽका॒मम् । परा॑ । दाः॒ ॥सोम । राजन् । मृळय । नः । स्वस्ति । तव । स्मसि । व्रत्याः । तस्य । विद्धि ।
अलर्ति । दक्षः । उत । मन्युः । इन्दो इति । मा । नः । अर्यः । अनुऽकामम् । परा । दाः ॥sóma ǀ rājan ǀ mṛḷáya ǀ naḥ ǀ svastí ǀ táva ǀ smasi ǀ vratyā́ḥ ǀ tásya ǀ viddhi ǀ
álarti ǀ dákṣaḥ ǀ utá ǀ manyúḥ ǀ indo íti ǀ mā́ ǀ naḥ ǀ aryáḥ ǀ anu-kāmám ǀ párā ǀ dāḥ ǁsoma ǀ rājan ǀ mṛḷaya ǀ naḥ ǀ svasti ǀ tava ǀ smasi ǀ vratyāḥ ǀ tasya ǀ viddhi ǀ
alarti ǀ dakṣaḥ ǀ uta ǀ manyuḥ ǀ indo iti ǀ mā ǀ naḥ ǀ aryaḥ ǀ anu-kāmam ǀ parā ǀ dāḥ ǁ8.48.8 Aṣṭaka 6.4.12.3Anuvāka 8.6.164
-
Ṛk 9
त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षाः॑ ।
यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्यः॑ ॥त्वं हि नस् तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नृचक्षाः |
यत् ते वयम् प्रमिनाम व्रतानि स नो मृऌअ सुषखा देव वस्यः ||tvám hí nastanváḥ soma gopā́ gā́tregātre niṣasátthā nṛcákṣāḥ ǀ
yátte vayám praminā́ma vratā́ni sá no mṛḷa suṣakhā́ deva vásyaḥ ǁtvaṃ hi nas tanvaḥ soma gopā gātre-gātre niṣasatthā nṛcakṣāḥ |
yat te vayam pramināma vratāni sa no mṛḷa suṣakhā deva vasyaḥ ||त्वम् । हि । नः॒ । त॒न्वः॑ । सो॒म॒ । गो॒पाः । गात्रे॑ऽगात्रे । नि॒ऽस॒सत्थ॑ । नृ॒ऽचक्षाः॑ ।
यत् । ते॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । सः । नः॒ । मृ॒ळ॒ । सु॒ऽस॒खा । दे॒व॒ । वस्यः॑ ॥त्वम् । हि । नः । तन्वः । सोम । गोपाः । गात्रेऽगात्रे । निऽससत्थ । नृऽचक्षाः ।
यत् । ते । वयम् । प्रऽमिनाम । व्रतानि । सः । नः । मृळ । सुऽसखा । देव । वस्यः ॥tvám ǀ hí ǀ naḥ ǀ tanváḥ ǀ soma ǀ gopā́ḥ ǀ gā́tre-gātre ǀ ni-sasáttha ǀ nṛ-cákṣāḥ ǀ
yát ǀ te ǀ vayám ǀ pra-minā́ma ǀ vratā́ni ǀ sáḥ ǀ naḥ ǀ mṛḷa ǀ su-sakhā́ ǀ deva ǀ vásyaḥ ǁtvam ǀ hi ǀ naḥ ǀ tanvaḥ ǀ soma ǀ gopāḥ ǀ gātre-gātre ǀ ni-sasattha ǀ nṛ-cakṣāḥ ǀ
yat ǀ te ǀ vayam ǀ pra-mināma ǀ vratāni ǀ saḥ ǀ naḥ ǀ mṛḷa ǀ su-sakhā ǀ deva ǀ vasyaḥ ǁ8.48.9 Aṣṭaka 6.4.12.4Anuvāka 8.6.165
-
Ṛk 10
ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः ।
अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इंद्रं॑ प्र॒तिर॑मे॒म्यायुः॑ ॥ऋदूदरेण सख्या सचेय यो मा न रिष्येद् धर्यश्व पीतः |
अयं यः सोमो न्य् अधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् आयुः ||ṛdūdáreṇa sákhyā saceya yó mā ná ríṣyeddharyaśva pītáḥ ǀ
ayám yáḥ sómo nyádhāyyasmé tásmā índram pratíramemyā́yuḥ ǁṛdūdareṇa sakhyā saceya yo mā na riṣyed dharyaśva pītaḥ |
ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ ||ऋ॒दू॒दरे॑ण । सख्या॑ । स॒चे॒य॒ । यः । मा॒ । न । रिष्ये॑त् । ह॒रि॒ऽअ॒श्व॒ । पी॒तः ।
अ॒यम् । यः । सोमः॑ । नि । अधा॑यि । अ॒स्मे इति॑ । तस्मै॑ । इन्द्र॑म् । प्र॒ऽतिर॑म् । ए॒मि॒ । आयुः॑ ॥ऋदूदरेण । सख्या । सचेय । यः । मा । न । रिष्येत् । हरिऽअश्व । पीतः ।
अयम् । यः । सोमः । नि । अधायि । अस्मे इति । तस्मै । इन्द्रम् । प्रऽतिरम् । एमि । आयुः ॥ṛdūdáreṇa ǀ sákhyā ǀ saceya ǀ yáḥ ǀ mā ǀ ná ǀ ríṣyet ǀ hari-aśva ǀ pītáḥ ǀ
ayám ǀ yáḥ ǀ sómaḥ ǀ ní ǀ ádhāyi ǀ asmé íti ǀ tásmai ǀ índram ǀ pra-tíram ǀ emi ǀ ā́yuḥ ǁṛdūdareṇa ǀ sakhyā ǀ saceya ǀ yaḥ ǀ mā ǀ na ǀ riṣyet ǀ hari-aśva ǀ pītaḥ ǀ
ayam ǀ yaḥ ǀ somaḥ ǀ ni ǀ adhāyi ǀ asme iti ǀ tasmai ǀ indram ǀ pra-tiram ǀ emi ǀ āyuḥ ǁ8.48.10 Aṣṭaka 6.4.12.5Anuvāka 8.6.166
-
Ṛk 11
अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रसं॒तमि॑षीची॒रभै॑षुः ।
आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रंत॒ आयुः॑ ॥अप त्या अस्थुर् अनिरा अमीवा निर् अत्रसन् तमिषीचीर् अभैषुः |
आ सोमो अस्मां अरुहद् विहाया अगन्म यत्र प्रतिरन्त आयुः ||ápa tyā́ asthuránirā ámīvā níratrasantámiṣīcīrábhaiṣuḥ ǀ
ā́ sómo asmā́m̐ aruhadvíhāyā áganma yátra pratiránta ā́yuḥ ǁapa tyā asthur anirā amīvā nir atrasan tamiṣīcīr abhaiṣuḥ |
ā somo asmāṃ aruhad vihāyā aganma yatra pratiranta āyuḥ ||अप॑ । त्याः । अ॒स्थुः॒ । अनि॑राः । अमी॑वाः । निः । अ॒त्र॒स॒न् । तमि॑षीचीः । अभै॑षुः ।
आ । सोमः॑ । अ॒स्मान् । अ॒रु॒ह॒त् । विऽहा॑याः । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥अप । त्याः । अस्थुः । अनिराः । अमीवाः । निः । अत्रसन् । तमिषीचीः । अभैषुः ।
आ । सोमः । अस्मान् । अरुहत् । विऽहायाः । अगन्म । यत्र । प्रऽतिरन्ते । आयुः ॥ápa ǀ tyā́ḥ ǀ asthuḥ ǀ ánirāḥ ǀ ámīvāḥ ǀ níḥ ǀ atrasan ǀ támiṣīcīḥ ǀ ábhaiṣuḥ ǀ
ā́ ǀ sómaḥ ǀ asmā́n ǀ aruhat ǀ ví-hāyāḥ ǀ áganma ǀ yátra ǀ pra-tiránte ǀ ā́yuḥ ǁapa ǀ tyāḥ ǀ asthuḥ ǀ anirāḥ ǀ amīvāḥ ǀ niḥ ǀ atrasan ǀ tamiṣīcīḥ ǀ abhaiṣuḥ ǀ
ā ǀ somaḥ ǀ asmān ǀ aruhat ǀ vi-hāyāḥ ǀ aganma ǀ yatra ǀ pra-tirante ǀ āyuḥ ǁ8.48.11 Aṣṭaka 6.4.13.1Anuvāka 8.6.167
-
Ṛk 12
यो न॒ इंदुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।
तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥यो न इन्दुः पितरो हृत्सु पीतो ऽमर्त्यो मर्त्यां आविवेश |
तस्मै सोमाय हविषा विधेम मृऌईके अस्य सुमतौ स्याम ||yó na índuḥ pitaro hṛtsú pītó’martyo mártyām̐ āvivéśa ǀ
tásmai sómāya havíṣā vidhema mṛḷīké asya sumatáu syāma ǁyo na induḥ pitaro hṛtsu pīto 'martyo martyāṃ āviveśa |
tasmai somāya haviṣā vidhema mṛḷīke asya sumatau syāma ||यः । नः॒ । इन्दुः॑ । पि॒त॒रः॒ । हृ॒त्ऽसु । पी॒तः । अम॑र्त्यः । मर्त्या॑न् । आ॒ऽवि॒वेश॑ ।
तस्मै॑ । सोमा॑य । ह॒विषा॑ । वि॒धे॒म॒ । मृ॒ळी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥यः । नः । इन्दुः । पितरः । हृत्ऽसु । पीतः । अमर्त्यः । मर्त्यान् । आऽविवेश ।
तस्मै । सोमाय । हविषा । विधेम । मृळीके । अस्य । सुऽमतौ । स्याम ॥yáḥ ǀ naḥ ǀ índuḥ ǀ pitaraḥ ǀ hṛt-sú ǀ pītáḥ ǀ ámartyaḥ ǀ mártyān ǀ ā-vivéśa ǀ
tásmai ǀ sómāya ǀ havíṣā ǀ vidhema ǀ mṛḷīké ǀ asya ǀ su-matáu ǀ syāma ǁyaḥ ǀ naḥ ǀ induḥ ǀ pitaraḥ ǀ hṛt-su ǀ pītaḥ ǀ amartyaḥ ǀ martyān ǀ ā-viveśa ǀ
tasmai ǀ somāya ǀ haviṣā ǀ vidhema ǀ mṛḷīke ǀ asya ǀ su-matau ǀ syāma ǁ8.48.12 Aṣṭaka 6.4.13.2Anuvāka 8.6.168
-
Ṛk 13
त्वं सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तंथ ।
तस्मै॑ त इंदो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥त्वं सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आ ततन्थ |
तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ||tvám soma pitṛ́bhiḥ saṃvidānó’nu dyā́vāpṛthivī́ ā́ tatantha ǀ
tásmai ta indo havíṣā vidhema vayám syāma pátayo rayīṇā́m ǁtvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha |
tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām ||त्वम् । सो॒म॒ । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । अनु॑ । द्यावा॑पृथि॒वी इति॑ । आ । त॒त॒न्थ॒ ।
तस्मै॑ । ते॒ । इ॒न्दो॒ इति॑ । ह॒विषा॑ । वि॒धे॒म॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥त्वम् । सोम । पितृऽभिः । सम्ऽविदानः । अनु । द्यावापृथिवी इति । आ । ततन्थ ।
तस्मै । ते । इन्दो इति । हविषा । विधेम । वयम् । स्याम । पतयः । रयीणाम् ॥tvám ǀ soma ǀ pitṛ́-bhiḥ ǀ sam-vidānáḥ ǀ ánu ǀ dyā́vāpṛthivī́ íti ǀ ā́ ǀ tatantha ǀ
tásmai ǀ te ǀ indo íti ǀ havíṣā ǀ vidhema ǀ vayám ǀ syāma ǀ pátayaḥ ǀ rayīṇā́m ǁtvam ǀ soma ǀ pitṛ-bhiḥ ǀ sam-vidānaḥ ǀ anu ǀ dyāvāpṛthivī iti ǀ ā ǀ tatantha ǀ
tasmai ǀ te ǀ indo iti ǀ haviṣā ǀ vidhema ǀ vayam ǀ syāma ǀ patayaḥ ǀ rayīṇām ǁ8.48.13 Aṣṭaka 6.4.13.3Anuvāka 8.6.169
-
Ṛk 14
त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पिः॑ ।
व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः |
वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ||trā́tāro devā ádhi vocatā no mā́ no nidrā́ īśata mótá jálpiḥ ǀ
vayám sómasya viśváha priyā́saḥ suvī́rāso vidáthamā́ vadema ǁtrātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ |
vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidatham ā vadema ||त्राता॑रः । दे॒वाः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । मा । नः॒ । नि॒ऽद्रा । ई॒श॒त॒ । मा । उ॒त । जल्पिः॑ ।
व॒यम् । सोम॑स्य । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥त्रातारः । देवाः । अधि । वोचत । नः । मा । नः । निऽद्रा । ईशत । मा । उत । जल्पिः ।
वयम् । सोमस्य । विश्वह । प्रियासः । सुऽवीरासः । विदथम् । आ । वदेम ॥trā́tāraḥ ǀ devāḥ ǀ ádhi ǀ vocata ǀ naḥ ǀ mā́ ǀ naḥ ǀ ni-drā́ ǀ īśata ǀ mā́ ǀ utá ǀ jálpiḥ ǀ
vayám ǀ sómasya ǀ viśváha ǀ priyā́saḥ ǀ su-vī́rāsaḥ ǀ vidátham ǀ ā́ ǀ vadema ǁtrātāraḥ ǀ devāḥ ǀ adhi ǀ vocata ǀ naḥ ǀ mā ǀ naḥ ǀ ni-drā ǀ īśata ǀ mā ǀ uta ǀ jalpiḥ ǀ
vayam ǀ somasya ǀ viśvaha ǀ priyāsaḥ ǀ su-vīrāsaḥ ǀ vidatham ǀ ā ǀ vadema ǁ8.48.14 Aṣṭaka 6.4.13.4Anuvāka 8.6.170
-
Ṛk 15
त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः॑ ।
त्वं न॑ इंद ऊ॒तिभिः॑ स॒जोषाः॑ पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥त्वं नः सोम विश्वतो वयोधास् त्वं स्वर्विद् आ विशा नृचक्षाः |
त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चाताद् उत वा पुरस्तात् ||tvám naḥ soma viśváto vayodhā́stvám svarvídā́ viśā nṛcákṣāḥ ǀ
tvám na inda ūtíbhiḥ sajóṣāḥ pāhí paścā́tādutá vā purástāt ǁtvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ |
tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt ||त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । व॒यः॒ऽधाः । त्वम् । स्वः॒ऽवित् । आ । वि॒श॒ । नृ॒ऽचक्षाः॑ ।
त्वम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । पा॒हि । प॒श्चाता॑त् । उ॒त । वा॒ । पु॒रस्ता॑त् ॥त्वम् । नः । सोम । विश्वतः । वयःऽधाः । त्वम् । स्वःऽवित् । आ । विश । नृऽचक्षाः ।
त्वम् । नः । इन्दो इति । ऊतिऽभिः । सऽजोषाः । पाहि । पश्चातात् । उत । वा । पुरस्तात् ॥tvám ǀ naḥ ǀ soma ǀ viśvátaḥ ǀ vayaḥ-dhā́ḥ ǀ tvám ǀ svaḥ-vít ǀ ā́ ǀ viśa ǀ nṛ-cákṣāḥ ǀ
tvám ǀ naḥ ǀ indo íti ǀ ūtí-bhiḥ ǀ sa-jóṣāḥ ǀ pāhí ǀ paścā́tāt ǀ utá ǀ vā ǀ purástāt ǁtvam ǀ naḥ ǀ soma ǀ viśvataḥ ǀ vayaḥ-dhāḥ ǀ tvam ǀ svaḥ-vit ǀ ā ǀ viśa ǀ nṛ-cakṣāḥ ǀ
tvam ǀ naḥ ǀ indo iti ǀ ūti-bhiḥ ǀ sa-joṣāḥ ǀ pāhi ǀ paścātāt ǀ uta ǀ vā ǀ purastāt ǁ8.48.15 Aṣṭaka 6.4.13.5Anuvāka 8.6.171
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.