Ṛk 8.48.12
Saṃhitā
यो न॒ इंदुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।
तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥
यो न इन्दुः पितरो हृत्सु पीतो ऽमर्त्यो मर्त्यां आविवेश |
तस्मै सोमाय हविषा विधेम मृऌईके अस्य सुमतौ स्याम ||
yó na índuḥ pitaro hṛtsú pītó’martyo mártyām̐ āvivéśa ǀ
tásmai sómāya havíṣā vidhema mṛḷīké asya sumatáu syāma ǁ
yo na induḥ pitaro hṛtsu pīto 'martyo martyāṃ āviveśa |
tasmai somāya haviṣā vidhema mṛḷīke asya sumatau syāma ||
Padapāṭha
यः । नः॒ । इन्दुः॑ । पि॒त॒रः॒ । हृ॒त्ऽसु । पी॒तः । अम॑र्त्यः । मर्त्या॑न् । आ॒ऽवि॒वेश॑ ।
तस्मै॑ । सोमा॑य । ह॒विषा॑ । वि॒धे॒म॒ । मृ॒ळी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥
यः । नः । इन्दुः । पितरः । हृत्ऽसु । पीतः । अमर्त्यः । मर्त्यान् । आऽविवेश ।
तस्मै । सोमाय । हविषा । विधेम । मृळीके । अस्य । सुऽमतौ । स्याम ॥
yáḥ ǀ naḥ ǀ índuḥ ǀ pitaraḥ ǀ hṛt-sú ǀ pītáḥ ǀ ámartyaḥ ǀ mártyān ǀ ā-vivéśa ǀ
tásmai ǀ sómāya ǀ havíṣā ǀ vidhema ǀ mṛḷīké ǀ asya ǀ su-matáu ǀ syāma ǁ
yaḥ ǀ naḥ ǀ induḥ ǀ pitaraḥ ǀ hṛt-su ǀ pītaḥ ǀ amartyaḥ ǀ martyān ǀ ā-viveśa ǀ
tasmai ǀ somāya ǀ haviṣā ǀ vidhema ǀ mṛḷīke ǀ asya ǀ su-matau ǀ syāma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.048.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.13.02
- Maṇḍala · Anuvāka · Ṛk
- 08.06.168
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.